महाभारतMahābhārata

MBh, 1, 113

113 of 1995 · 227 verses

Select a line for its word-by-word analysis.

1.1१.१

वैशंपायन उवाच । (१।१)

vaiśaṃpāyana uvāca

1.2१.२

एवम् उक्तस्तया राजा तां देवीं पुनर् अब्रवीत् । (१।२)

evam uktastayā rājā tāṃ devīṃ punar abravīt |

1.3१.३

धर्मविद् धर्मसंयुक्तम् इदं वचनम् उत्तमम् ॥ (१।३)

dharmavid dharmasaṃyuktam idaṃ vacanam uttamam ||

2.1२.१

एवम् एतत् पुरा कुन्ति व्युषिताश्वश्चकार ह । (२।१)

evam etat purā kunti vyuṣitāśvaścakāra ha |

2.2२.२

यथा त्वयोक्तं कल्याणि स ह्यासीद् अमरोपमः ॥ (२।२)

yathā tvayoktaṃ kalyāṇi sa hyāsīd amaropamaḥ ||

3.1३.१

अथ त्विमं प्रवक्ष्यामि धर्मं त्वेतं निबोध मे । (३।१)

atha tvimaṃ pravakṣyāmi dharmaṃ tvetaṃ nibodha me |

3.2३.२

पुराणम् ऋषिभिर् दृष्टं धर्मविद्भिर् महात्मभिः ॥ (३।२)

purāṇam ṛṣibhir dṛṣṭaṃ dharmavidbhir mahātmabhiḥ ||

4.1४.१

अनावृताः किल पुरा स्त्रिय आसन् वरानने । (४।१)

anāvṛtāḥ kila purā striya āsan varānane |

4.2४.२

कामचारविहारिण्यः स्वतन्त्राश्चारुलोचने ॥ (४।२)

kāmacāravihāriṇyaḥ svatantrāścārulocane ||

5.1५.१

तासां व्युच्चरमाणानां कौमारात् सुभगे पतीन् । (५।१)

tāsāṃ vyuccaramāṇānāṃ kaumārāt subhage patīn |

5.2५.२

नाधर्मो ऽभूद् वरारोहे स हि धर्मः पुराभवत् ॥ (५।२)

nādharmo 'bhūd varārohe sa hi dharmaḥ purābhavat ||

6.1६.१

तं चैव धर्मं पौराणं तिर्यग्योनिगताः प्रजाः । (६।१)

taṃ caiva dharmaṃ paurāṇaṃ tiryagyonigatāḥ prajāḥ |

6.2६.२

अद्याप्यनुविधीयन्ते कामद्वेषविवर्जिताः । (६।२)

adyāpyanuvidhīyante kāmadveṣavivarjitāḥ |

6.3६.३

पुराणदृष्टो धर्मो ऽयं पूज्यते च महर्षिभिः ॥ (६।३)

purāṇadṛṣṭo dharmo 'yaṃ pūjyate ca maharṣibhiḥ ||

7.1७.१

उत्तरेषु च रम्भोरु कुरुष्वद्यापि वर्तते । (७।१)

uttareṣu ca rambhoru kuruṣvadyāpi vartate |

7.2७.२

स्त्रीणाम् अनुग्रहकरः स हि धर्मः सनातनः । (७।२)

strīṇām anugrahakaraḥ sa hi dharmaḥ sanātanaḥ |

7.3७.३

नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः । (७।३)

nāgnistṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ |

7.4७.४

नान्तकः सर्वभूतानां न पुंसां वामलोचनाः । (७।४)

nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanāḥ |

7.5७.५

एवं तृष्णा तु नारीणां पुरुषं पुरुषं प्रति । (७।५)

evaṃ tṛṣṇā tu nārīṇāṃ puruṣaṃ puruṣaṃ prati |

7.6७.६

अगम्यागमनं स्त्रीणां नास्ति नित्यं शुचिस्मिते । (७।६)

agamyāgamanaṃ strīṇāṃ nāsti nityaṃ śucismite |

7.7७.७

पुत्रं वा किल पौत्रं वा कासांचिद् भ्रातरं तथा । (७।७)

putraṃ vā kila pautraṃ vā kāsāṃcid bhrātaraṃ tathā |

7.8७.८

रहसीह नरं दृष्ट्वा योनिर् उत्क्लिद्यते ततः । (७।८)

rahasīha naraṃ dṛṣṭvā yonir utklidyate tataḥ |

7.9७.९

एतत् स्वाभाविकं स्त्रीणां न निमित्तकृतं शुभे ॥ (७।९)

etat svābhāvikaṃ strīṇāṃ na nimittakṛtaṃ śubhe ||

8.1८.१

अस्मिंस्तु लोके नचिरान् मर्यादेयं शुचिस्मिते । (८।१)

asmiṃstu loke nacirān maryādeyaṃ śucismite |

8.2८.२

स्थापिता येन यस्माच्च तन् मे विस्तरतः शृणु ॥ (८।२)

sthāpitā yena yasmācca tan me vistarataḥ śṛṇu ||

9.1९.१

बभूवोद्दालको नाम महर्षिर् इति नः श्रुतम् । (९।१)

babhūvoddālako nāma maharṣir iti naḥ śrutam |

9.2९.२

श्वेतकेतुर् इति ख्यातः पुत्रस्तस्याभवन् मुनिः ॥ (९।२)

śvetaketur iti khyātaḥ putrastasyābhavan muniḥ ||

10.1१०.१

मर्यादेयं कृता तेन मानुषेष्विति नः श्रुतम् । (१०।१)

maryādeyaṃ kṛtā tena mānuṣeṣviti naḥ śrutam |

10.2१०.२

कोपात् कमलपत्राक्षि यदर्थं तन् निबोध मे । (१०।२)

kopāt kamalapatrākṣi yadarthaṃ tan nibodha me |

10.3१०.३

उद्दालकः । (१०।३)

uddālakaḥ |

10.4१०.४

ब्राह्मणः । (१०।४)

brāhmaṇaḥ |

10.5१०.५

पाण्डुः । (१०।५)

pāṇḍuḥ |

10.6१०.६

श्वेतकेतोः पिता देवि तप उग्रं समास्थितः । (१०।६)

śvetaketoḥ pitā devi tapa ugraṃ samāsthitaḥ |

10.7१०.७

ग्रीष्मे पञ्चतपा भूत्वा वर्षास्वाकाशगो ऽभवत् । (१०।७)

grīṣme pañcatapā bhūtvā varṣāsvākāśago 'bhavat |

10.8१०.८

शिशिरे सलिलस्थायी सह पत्न्या महातपाः । (१०।८)

śiśire salilasthāyī saha patnyā mahātapāḥ |

10.9१०.९

उद्दालकं तपस्यन्तं नियमेन समाहितम् । (१०।९)

uddālakaṃ tapasyantaṃ niyamena samāhitam |

10.10१०.१०

तस्य पुत्रः श्वेतकेतुः परिचर्यां चकार ह । (१०।१०)

tasya putraḥ śvetaketuḥ paricaryāṃ cakāra ha |

10.11१०.११

अभ्यागच्छद् द्विजः कश्चिद् वलीपलितसंततः । (१०।११)

abhyāgacchad dvijaḥ kaścid valīpalitasaṃtataḥ |

10.12१०.१२

तं दृष्ट्वैव मुनिः प्रीतः पूजयामास शास्त्रतः । (१०।१२)

taṃ dṛṣṭvaiva muniḥ prītaḥ pūjayāmāsa śāstrataḥ |

10.13१०.१३

स्वागतेन च पाद्येन मृदुवाक्यैश्च भारत । (१०।१३)

svāgatena ca pādyena mṛduvākyaiśca bhārata |

10.14१०.१४

शाकमूलफलाद्यैश्च वन्यैर् अन्यैर् अपूजयत् । (१०।१४)

śākamūlaphalādyaiśca vanyair anyair apūjayat |

10.15१०.१५

क्षुत्पिपासाश्रमैर् आर्तः पूजितस्तु महर्षिणा । (१०।१५)

kṣutpipāsāśramair ārtaḥ pūjitastu maharṣiṇā |

10.16१०.१६

विश्रान्तो मुनिम् आसाद्य पर्यपृच्छद् द्विजस्तदा । (१०।१६)

viśrānto munim āsādya paryapṛcchad dvijastadā |

10.17१०.१७

उद्दालक महर्षे त्वं सत्यं मे ब्रूहि मानृतम् । (१०।१७)

uddālaka maharṣe tvaṃ satyaṃ me brūhi mānṛtam |

10.18१०.१८

ऋषिपुत्रः कुमारो ऽयं दर्शनीयो विशेषतः । (१०।१८)

ṛṣiputraḥ kumāro 'yaṃ darśanīyo viśeṣataḥ |

10.19१०.१९

तव पुत्रम् इमं मन्ये कृतकृत्यो ऽसि तद् वद । (१०।१९)

tava putram imaṃ manye kṛtakṛtyo 'si tad vada |

10.20१०.२०

मम पत्नी महाप्राज्ञ कुशिकस्य सुता मता । (१०।२०)

mama patnī mahāprājña kuśikasya sutā matā |

10.21१०.२१

माम् एवानुगता पत्नी मम नित्यम् अनुव्रता । (१०।२१)

mām evānugatā patnī mama nityam anuvratā |

10.22१०.२२

अरुन्धतीव पत्नीनां तपसा कर्शितस्तनी । (१०।२२)

arundhatīva patnīnāṃ tapasā karśitastanī |

10.23१०.२३

तस्यां जातः श्वेतकेतुर् मम पुत्रो महातपाः । (१०।२३)

tasyāṃ jātaḥ śvetaketur mama putro mahātapāḥ |

10.24१०.२४

वेदवेदाङ्गविद् विप्र मच्छासनपरायणः । (१०।२४)

vedavedāṅgavid vipra macchāsanaparāyaṇaḥ |

10.25१०.२५

लोकज्ञः सर्वलोकेषु विश्रुतः सत्यवाग् घृणी । (१०।२५)

lokajñaḥ sarvalokeṣu viśrutaḥ satyavāg ghṛṇī |

10.26१०.२६

अपूर्वी भार्यया चार्थी वृद्धो ऽहं मन्दचाक्षुषः । (१०।२६)

apūrvī bhāryayā cārthī vṛddho 'haṃ mandacākṣuṣaḥ |

10.27१०.२७

पित्र्याद् ऋणाद् अनिर्मुक्तः पूर्वम् एवाकृतस्त्रियः । (१०।२७)

pitryād ṛṇād anirmuktaḥ pūrvam evākṛtastriyaḥ |

10.28१०.२८

प्रजारणी तु पत्नी ते कुलशीलसमाधिनी । (१०।२८)

prajāraṇī tu patnī te kulaśīlasamādhinī |

10.29१०.२९

सदृशी मम गोत्रेण वहाम्येनां क्षमस्व वै । (१०।२९)

sadṛśī mama gotreṇa vahāmyenāṃ kṣamasva vai |

10.30१०.३०

इत्युक्त्वा मृगशावाक्षीं चीरकृष्णाजिनाम्बराम् । (१०।३०)

ityuktvā mṛgaśāvākṣīṃ cīrakṛṣṇājināmbarām |

10.31१०.३१

यष्ट्याधारः स्रस्तगात्रो मन्दचक्षुर् अबुद्धिमान् । (१०।३१)

yaṣṭyādhāraḥ srastagātro mandacakṣur abuddhimān |

10.32१०.३२

स्वव्यापाराम् अक्षमां ताम् अचित्ताम् आत्मनि द्विजः ॥ (१०।३२)

svavyāpārām akṣamāṃ tām acittām ātmani dvijaḥ ||

11.1११.१

श्वेतकेतोः किल पुरा समक्षं मातरं पितुः । (११।१)

śvetaketoḥ kila purā samakṣaṃ mātaraṃ pituḥ |

11.2११.२

जग्राह ब्राह्मणः पाणौ गच्छाव इति चाब्रवीत् ॥ (११।२)

jagrāha brāhmaṇaḥ pāṇau gacchāva iti cābravīt ||

12.1१२.१

ऋषिपुत्रस्ततः कोपं चकारामर्षितस्तदा । (१२।१)

ṛṣiputrastataḥ kopaṃ cakārāmarṣitastadā |

12.2१२.२

मातरं तां तथा दृष्ट्वा नीयमानां बलाद् इव । (१२।२)

mātaraṃ tāṃ tathā dṛṣṭvā nīyamānāṃ balād iva |

12.3१२.३

तपसा दीप्तवीर्यो हि श्वेतकेतुर् न चक्षमे । (१२।३)

tapasā dīptavīryo hi śvetaketur na cakṣame |

12.4१२.४

संगृह्य मातरं हस्ते श्वेतकेतुर् अभाषत । (१२।४)

saṃgṛhya mātaraṃ haste śvetaketur abhāṣata |

12.5१२.५

दुर्ब्राह्मण विमुञ्च त्वं मातरं मे पतिव्रताम् । (१२।५)

durbrāhmaṇa vimuñca tvaṃ mātaraṃ me pativratām |

12.6१२.६

अयं पिता मे ब्रह्मर्षिः क्षमावान् ब्रह्मवित्तमः । (१२।६)

ayaṃ pitā me brahmarṣiḥ kṣamāvān brahmavittamaḥ |

12.7१२.७

शापानुग्रहयोः शक्तस्तूष्णींभूतो महाव्रतः । (१२।७)

śāpānugrahayoḥ śaktastūṣṇīṃbhūto mahāvrataḥ |

12.8१२.८

तस्य पत्नी दमोपेता मम माता विशेषतः । (१२।८)

tasya patnī damopetā mama mātā viśeṣataḥ |

12.9१२.९

पतिव्रतां तपोवृद्धां साध्वाचारैर् अलंकृताम् । (१२।९)

pativratāṃ tapovṛddhāṃ sādhvācārair alaṃkṛtām |

12.10१२.१०

अप्रदानेन ते ब्रह्मन् मातृभूतां विमुञ्च मे । (१२।१०)

apradānena te brahman mātṛbhūtāṃ vimuñca me |

12.11१२.११

एवम् उक्त्वा तु याचन्तं विमुञ्चेति मुहुर् मुहुः । (१२।११)

evam uktvā tu yācantaṃ vimuñceti muhur muhuḥ |

12.12१२.१२

प्रत्यवोचद् द्विजो राजन्न् अप्रगल्भम् इदं वचः । (१२।१२)

pratyavocad dvijo rājann apragalbham idaṃ vacaḥ |

12.13१२.१३

अपत्यार्थी श्वेतकेतो वृद्धो ऽहं मन्दचाक्षुषः । (१२।१३)

apatyārthī śvetaketo vṛddho 'haṃ mandacākṣuṣaḥ |

12.14१२.१४

पिता ते ऋणनिर्मुक्तस्त्वया पुत्रेण काश्यप । (१२।१४)

pitā te ṛṇanirmuktastvayā putreṇa kāśyapa |

12.15१२.१५

ऋणाद् अहम् अनिर्मुक्तो वृद्धो ऽहं विगतस्पृहः । (१२।१५)

ṛṇād aham anirmukto vṛddho 'haṃ vigataspṛhaḥ |

12.16१२.१६

मम को दास्यति सुतां कन्यां सम्प्राप्तयौवनाम् । (१२।१६)

mama ko dāsyati sutāṃ kanyāṃ samprāptayauvanām |

12.17१२.१७

प्रजारणीम् इमां पत्नीं विमुञ्च त्वं महातपः । (१२।१७)

prajāraṇīm imāṃ patnīṃ vimuñca tvaṃ mahātapaḥ |

12.18१२.१८

एकया प्रजया पित्रोर् मातरं ते ददाम्यहम् । (१२।१८)

ekayā prajayā pitror mātaraṃ te dadāmyaham |

12.19१२.१९

एवम् उक्तः श्वेतकेतुर् लज्जया क्रोधम् एयिवान् ॥ (१२।१९)

evam uktaḥ śvetaketur lajjayā krodham eyivān ||

13.1१३.१

क्रुद्धं तं तु पिता दृष्ट्वा श्वेतकेतुम् उवाच ह । (१३।१)

kruddhaṃ taṃ tu pitā dṛṣṭvā śvetaketum uvāca ha |

13.2१३.२

संगृह्य मातरं हस्ते । (१३।२)

saṃgṛhya mātaraṃ haste |

13.3१३.३

मा तात कोपं कार्षीस्त्वम् एष धर्मः सनातनः ॥ (१३।३)

mā tāta kopaṃ kārṣīstvam eṣa dharmaḥ sanātanaḥ ||

14.1१४.१

अनावृता हि सर्वेषां वर्णानाम् अङ्गना भुवि । (१४।१)

anāvṛtā hi sarveṣāṃ varṇānām aṅganā bhuvi |

14.2१४.२

यथा गावः स्थितास्तात स्वे स्वे वर्णे तथा प्रजाः । (१४।२)

yathā gāvaḥ sthitāstāta sve sve varṇe tathā prajāḥ |

14.3१४.३

तथैव च कुटुम्बेषु न प्रमाद्यन्ति कर्हिचित् । (१४।३)

tathaiva ca kuṭumbeṣu na pramādyanti karhicit |

14.4१४.४

ऋतुकाले तु सम्प्राप्ते भर्तारं न जहुस्तदा ॥ (१४।४)

ṛtukāle tu samprāpte bhartāraṃ na jahustadā ||

15.1१५.१

ऋषिपुत्रो ऽथ तं धर्मं श्वेतकेतुर् न चक्षमे । (१५।१)

ṛṣiputro 'tha taṃ dharmaṃ śvetaketur na cakṣame |

15.2१५.२

चकार चैव मर्यादाम् इमां स्त्रीपुंसयोर् भुवि ॥ (१५।२)

cakāra caiva maryādām imāṃ strīpuṃsayor bhuvi ||

16.1१६.१

मानुषेषु महाभागे न त्वेवान्येषु जन्तुषु । (१६।१)

mānuṣeṣu mahābhāge na tvevānyeṣu jantuṣu |

16.2१६.२

तदा प्रभृति मर्यादा स्थितेयम् इति नः श्रुतम् ॥ (१६।२)

tadā prabhṛti maryādā sthiteyam iti naḥ śrutam ||

17.1१७.१

व्युच्चरन्त्याः पतिं नार्या अद्य प्रभृति पातकम् । (१७।१)

vyuccarantyāḥ patiṃ nāryā adya prabhṛti pātakam |

17.2१७.२

भ्रूणहत्याकृतं पापं भविष्यत्यसुखावहम् । (१७।२)

bhrūṇahatyākṛtaṃ pāpaṃ bhaviṣyatyasukhāvaham |

17.3१७.३

अद्याप्यनुविधीयन्ते कामद्वेषविवर्जिताः । (१७।३)

adyāpyanuvidhīyante kāmadveṣavivarjitāḥ |

17.4१७.४

उत्तरेषु महाभागे कुरुष्वेवं यशस्विनी ॥ (१७।४)

uttareṣu mahābhāge kuruṣvevaṃ yaśasvinī ||

18.1१८.१

भार्यां तथा व्युच्चरतः कौमारीं ब्रह्मचारिणीम् । (१८।१)

bhāryāṃ tathā vyuccarataḥ kaumārīṃ brahmacāriṇīm |

18.2१८.२

पतिव्रताम् एतद् एव भविता पातकं भुवि ॥ (१८।२)

pativratām etad eva bhavitā pātakaṃ bhuvi ||

19.1१९.१

पत्या नियुक्ता या चैव पत्न्यपत्यार्थम् एव च । (१९।१)

patyā niyuktā yā caiva patnyapatyārtham eva ca |

19.2१९.२

न करिष्यति तस्याश्च भविष्यत्येतद् एव हि ॥ (१९।२)

na kariṣyati tasyāśca bhaviṣyatyetad eva hi ||

20.1२०.१

इति तेन पुरा भीरु मर्यादा स्थापिता बलात् । (२०।१)

iti tena purā bhīru maryādā sthāpitā balāt |

20.2२०.२

उद्दालकस्य पुत्रेण धर्म्या वै श्वेतकेतुना । (२०।२)

uddālakasya putreṇa dharmyā vai śvetaketunā |

20.3२०.३

तेन भूयस्ततो दृष्टं यस्मिन्न् अर्थे निबोध तत् । (२०।३)

tena bhūyastato dṛṣṭaṃ yasminn arthe nibodha tat |

20.4२०.४

नियुक्ता पतिना भार्या यद्यपत्यस्य कारणात् । (२०।४)

niyuktā patinā bhāryā yadyapatyasya kāraṇāt |

20.5२०.५

न कुर्यात् तत् तदा भीरु सैनः सुमहद् आप्नुयात् ॥ (२०।५)

na kuryāt tat tadā bhīru sainaḥ sumahad āpnuyāt ||

21.1२१.१

सौदासेन च रम्भोरु नियुक्तापत्यजन्मनि । (२१।१)

saudāsena ca rambhoru niyuktāpatyajanmani |

21.2२१.२

मदयन्ती जगामर्षिं वसिष्ठम् इति नः श्रुतम् ॥ (२१।२)

madayantī jagāmarṣiṃ vasiṣṭham iti naḥ śrutam ||

22.1२२.१

तस्माल्लेभे च सा पुत्रम् अश्मकं नाम भामिनी । (२२।१)

tasmāllebhe ca sā putram aśmakaṃ nāma bhāminī |

22.2२२.२

भार्या कल्माषपादस्य भर्तुः प्रियचिकीर्षया ॥ (२२।२)

bhāryā kalmāṣapādasya bhartuḥ priyacikīrṣayā ||

23.1२३.१

अस्माकम् अपि ते जन्म विदितं कमलेक्षणे । (२३।१)

asmākam api te janma viditaṃ kamalekṣaṇe |

23.2२३.२

कृष्णद्वैपायनाद् भीरु कुरूणां वंशवृद्धये ॥ (२३।२)

kṛṣṇadvaipāyanād bhīru kurūṇāṃ vaṃśavṛddhaye ||

24.1२४.१

अत एतानि सर्वाणि कारणानि समीक्ष्य वै । (२४।१)

ata etāni sarvāṇi kāraṇāni samīkṣya vai |

24.2२४.२

ममैतद् वचनं धर्म्यं कर्तुम् अर्हस्यनिन्दिते ॥ (२४।२)

mamaitad vacanaṃ dharmyaṃ kartum arhasyanindite ||

25.1२५.१

ऋतावृतौ राजपुत्रि स्त्रिया भर्ता यतव्रते । (२५।१)

ṛtāvṛtau rājaputri striyā bhartā yatavrate |

25.2२५.२

नातिवर्तव्य इत्येवं धर्मं धर्मविदो विदुः ॥ (२५।२)

nātivartavya ityevaṃ dharmaṃ dharmavido viduḥ ||

26.1२६.१

शेषेष्वन्येषु कालेषु स्वातन्त्र्यं स्त्री किलार्हति । (२६।१)

śeṣeṣvanyeṣu kāleṣu svātantryaṃ strī kilārhati |

26.2२६.२

धर्मम् एतं जनाः सन्तः पुराणं परिचक्षते ॥ (२६।२)

dharmam etaṃ janāḥ santaḥ purāṇaṃ paricakṣate ||

27.1२७.१

भर्ता भार्यां राजपुत्रि धर्म्यं वाधर्म्यम् एव वा । (२७।१)

bhartā bhāryāṃ rājaputri dharmyaṃ vādharmyam eva vā |

27.2२७.२

यद् ब्रूयात् तत् तथा कार्यम् इति धर्मविदो विदुः ॥ (२७।२)

yad brūyāt tat tathā kāryam iti dharmavido viduḥ ||

28.1२८.१

विशेषतः पुत्रगृद्धी हीनः प्रजननात् स्वयम् । (२८।१)

viśeṣataḥ putragṛddhī hīnaḥ prajananāt svayam |

28.2२८.२

यथाहम् अनवद्याङ्गि पुत्रदर्शनलालसः ॥ (२८।२)

yathāham anavadyāṅgi putradarśanalālasaḥ ||

29.1२९.१

तथा रक्ताङ्गुलितलः पद्मपत्रनिभः शुभे । (२९।१)

tathā raktāṅgulitalaḥ padmapatranibhaḥ śubhe |

29.2२९.२

प्रसादार्थं मया ते ऽयं शिरस्यभ्युद्यतो ऽञ्जलिः ॥ (२९।२)

prasādārthaṃ mayā te 'yaṃ śirasyabhyudyato 'ñjaliḥ ||

30.1३०.१

मन्नियोगात् सुकेशान्ते द्विजातेस्तपसाधिकात् । (३०।१)

manniyogāt sukeśānte dvijātestapasādhikāt |

30.2३०.२

पुत्रान् गुणसमायुक्तान् उत्पादयितुम् अर्हसि । (३०।२)

putrān guṇasamāyuktān utpādayitum arhasi |

30.3३०.३

त्वत्कृते ऽहं पृथुश्रोणि गच्छेयं पुत्रिणां गतिम् । (३०।३)

tvatkṛte 'haṃ pṛthuśroṇi gaccheyaṃ putriṇāṃ gatim |

30.4३०.४

तत् कुरुष्व महाभागे वचनं धर्मसंमतम् ॥ (३०।४)

tat kuruṣva mahābhāge vacanaṃ dharmasaṃmatam ||

31.1३१.१

एवम् उक्ता ततः कुन्ती पाण्डुं परपुरंजयम् । (३१।१)

evam uktā tataḥ kuntī pāṇḍuṃ parapuraṃjayam |

31.2३१.२

प्रत्युवाच वरारोहा भर्तुः प्रियहिते रता । (३१।२)

pratyuvāca varārohā bhartuḥ priyahite ratā |

31.3३१.३

अधर्मः सुमहान् एष स्त्रीणां भरतसत्तम । (३१।३)

adharmaḥ sumahān eṣa strīṇāṃ bharatasattama |

31.4३१.४

यत् प्रसादयते भर्ता प्रसाद्यः क्षत्रियर्षभ । (३१।४)

yat prasādayate bhartā prasādyaḥ kṣatriyarṣabha |

31.5३१.५

शृणु चेदं महाबाहो मम प्रीतिकरं वचः ॥ (३१।५)

śṛṇu cedaṃ mahābāho mama prītikaraṃ vacaḥ ||

32.1३२.१

पितृवेश्मन्यहं बाला नियुक्तातिथिपूजने । (३२।१)

pitṛveśmanyahaṃ bālā niyuktātithipūjane |

32.2३२.२

उग्रं पर्यचरं तत्र ब्राह्मणं संशितव्रतम् ॥ (३२।२)

ugraṃ paryacaraṃ tatra brāhmaṇaṃ saṃśitavratam ||

33.1३३.१

निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः । (३३।१)

nigūḍhaniścayaṃ dharme yaṃ taṃ durvāsasaṃ viduḥ |

33.2३३.२

तम् अहं संशितात्मानं सर्वयत्नैर् अतोषयम् ॥ (३३।२)

tam ahaṃ saṃśitātmānaṃ sarvayatnair atoṣayam ||

34.1३४.१

स मे ऽभिचारसंयुक्तम् आचष्ट भगवान् वरम् । (३४।१)

sa me 'bhicārasaṃyuktam ācaṣṭa bhagavān varam |

34.2३४.२

मन्त्रग्रामं च मे प्रादाद् अब्रवीच्चैव माम् इदम् ॥ (३४।२)

mantragrāmaṃ ca me prādād abravīccaiva mām idam ||

35.1३५.१

यं यं देवं त्वम् एतेन मन्त्रेणावाहयिष्यसि । (३५।१)

yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi |

35.2३५.२

अकामो वा सकामो वा स ते वशम् उपैष्यति । (३५।२)

akāmo vā sakāmo vā sa te vaśam upaiṣyati |

35.3३५.३

तस्य तस्य प्रसादात् ते राज्ञि पुत्रो भविष्यति ॥ (३५।३)

tasya tasya prasādāt te rājñi putro bhaviṣyati ||

36.1३६.१

इत्युक्ताहं तदा तेन पितृवेश्मनि भारत । (३६।१)

ityuktāhaṃ tadā tena pitṛveśmani bhārata |

36.2३६.२

ब्राह्मणेन वचस्तथ्यं तस्य कालो ऽयम् आगतः ॥ (३६।२)

brāhmaṇena vacastathyaṃ tasya kālo 'yam āgataḥ ||

37.1३७.१

अनुज्ञाता त्वया देवम् आह्वयेयम् अहं नृप । (३७।१)

anujñātā tvayā devam āhvayeyam ahaṃ nṛpa |

37.2३७.२

तेन मन्त्रेण राजर्षे यथा स्यान् नौ प्रजा विभो । (३७।२)

tena mantreṇa rājarṣe yathā syān nau prajā vibho |

37.3३७.३

कुन्ती । (३७।३)

kuntī |

37.4३७.४

यां मे विद्यां महाराज अददात् स महायशाः । (३७।४)

yāṃ me vidyāṃ mahārāja adadāt sa mahāyaśāḥ |

37.5३७.५

तयाहूतः सुरः पुत्रं प्रदास्यति सुरोपमम् । (३७।५)

tayāhūtaḥ suraḥ putraṃ pradāsyati suropamam |

37.6३७.६

अनपत्यकृतं यस्ते शोकं वीर विनेष्यति । (३७।६)

anapatyakṛtaṃ yaste śokaṃ vīra vineṣyati |

37.7३७.७

अपत्यकाम एवं स्यान् ममापत्यं भवेद् इति । (३७।७)

apatyakāma evaṃ syān mamāpatyaṃ bhaved iti |

37.8३७.८

विप्रं वा गुणसम्पन्नं सर्वभूतहिते रतम् । (३७।८)

vipraṃ vā guṇasampannaṃ sarvabhūtahite ratam |

37.9३७.९

अनुजानीहि भद्रं ते दैवतं हि पतिः स्त्रियः । (३७।९)

anujānīhi bhadraṃ te daivataṃ hi patiḥ striyaḥ |

37.10३७.१०

यं त्वं वक्ष्यसि धर्मज्ञ देवं ब्राह्मणम् एव च । (३७।१०)

yaṃ tvaṃ vakṣyasi dharmajña devaṃ brāhmaṇam eva ca |

37.11३७.११

यथोद्दिष्टं त्वया वीर तत् कर्तास्मि महाभुज । (३७।११)

yathoddiṣṭaṃ tvayā vīra tat kartāsmi mahābhuja |

37.12३७.१२

देवात् पुत्रफलं सद्यो विप्रात् कालान्तरे भवेत् ॥ (३७।१२)

devāt putraphalaṃ sadyo viprāt kālāntare bhavet ||

38.1३८.१

आवाहयामि कं देवं ब्रूहि तत्त्वविदां वर । (३८।१)

āvāhayāmi kaṃ devaṃ brūhi tattvavidāṃ vara |

38.2३८.२

त्वत्तो ऽनुज्ञाप्रतीक्षां मां विद्ध्यस्मिन् कर्मणि स्थिताम् । (३८।२)

tvatto 'nujñāpratīkṣāṃ māṃ viddhyasmin karmaṇi sthitām |

38.3३८.३

पाण्डुः । (३८।३)

pāṇḍuḥ |

38.4३८.४

वैशंपायनः । (३८।४)

vaiśaṃpāyanaḥ |

38.5३८.५

धन्यो ऽस्म्यनुगृहीतो ऽस्मि त्वं नो धात्री कुलस्य हि । (३८।५)

dhanyo 'smyanugṛhīto 'smi tvaṃ no dhātrī kulasya hi |

38.6३८.६

नमो महर्षये तस्मै येन दत्तो वरस्तव । (३८।६)

namo maharṣaye tasmai yena datto varastava |

38.7३८.७

न चाधर्मेण धर्मज्ञे शक्याः पालयितुं प्रजाः । (३८।७)

na cādharmeṇa dharmajñe śakyāḥ pālayituṃ prajāḥ |

38.8३८.८

तस्मात् त्वं पुत्रलाभाय संतानाय ममैव च । (३८।८)

tasmāt tvaṃ putralābhāya saṃtānāya mamaiva ca |

38.9३८.९

प्रवरं सर्वदेवानां धर्मम् आवाहयाबले । (३८।९)

pravaraṃ sarvadevānāṃ dharmam āvāhayābale |

38.10३८.१०

पाण्डुना समनुज्ञाता भारतेन यशस्विना । (३८।१०)

pāṇḍunā samanujñātā bhāratena yaśasvinā |

38.11३८.११

मतिं चक्रे महाराज धर्मस्यावाहने तदा ॥ (३८।११)

matiṃ cakre mahārāja dharmasyāvāhane tadā ||

39.1३९.१

पाण्डुर् उवाच । (३९।१)

pāṇḍur uvāca

39.2३९.२

अद्यैव त्वं वरारोहे प्रयतस्व यथाविधि । (३९।२)

adyaiva tvaṃ varārohe prayatasva yathāvidhi |

39.3३९.३

धर्मम् आवाहय शुभे स हि देवेषु पुण्यभाक् ॥ (३९।३)

dharmam āvāhaya śubhe sa hi deveṣu puṇyabhāk ||

40.1४०.१

अधर्मेण न नो धर्मः संयुज्येत कथंचन । (४०।१)

adharmeṇa na no dharmaḥ saṃyujyeta kathaṃcana |

40.2४०.२

भीष्म उवाच । (४०।२)

bhīṣma uvāca

40.3४०.३

यथासौ नीयते दण्डः सततं पापकारिषु । (४०।३)

yathāsau nīyate daṇḍaḥ satataṃ pāpakāriṣu |

40.4४०.४

दण्डस्य नयनात् सा हि दण्डनीतिर् इहोच्यते । (४०।४)

daṇḍasya nayanāt sā hi daṇḍanītir ihocyate |

40.5४०.५

भूयं स भगवान् ध्यात्वा चिरं शूलधरः प्रभुः । (४०।५)

bhūyaṃ sa bhagavān dhyātvā ciraṃ śūladharaḥ prabhuḥ |

40.6४०.६

असृजत् सर्वशास्त्राणि महादेवो महेश्वरः । (४०।६)

asṛjat sarvaśāstrāṇi mahādevo maheśvaraḥ |

40.7४०.७

दण्डनीतेः प्रयोगार्थं प्रमाणानि च सर्वशः । (४०।७)

daṇḍanīteḥ prayogārthaṃ pramāṇāni ca sarvaśaḥ |

40.8४०.८

विद्याश्चतस्रः कूटस्थास्तासां भेदविकल्पना । (४०।८)

vidyāścatasraḥ kūṭasthāstāsāṃ bhedavikalpanā |

40.9४०.९

अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । (४०।९)

aṅgāni vedāścatvāro mīmāṃsā nyāyavistaraḥ |

40.10४०.१०

पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश । (४०।१०)

purāṇaṃ dharmaśāstraṃ ca vidyā hyetāścaturdaśa |

40.11४०.११

आयुर्वेदो धनुर्वेदो गान्धर्वश्चेति निश्चयः । (४०।११)

āyurvedo dhanurvedo gāndharvaśceti niścayaḥ |

40.12४०.१२

अर्थशास्त्रं चतुर्थं तु विद्या ह्यष्टादशैव तु । (४०।१२)

arthaśāstraṃ caturthaṃ tu vidyā hyaṣṭādaśaiva tu |

40.13४०.१३

दश चाष्टौ च विख्याता एता धर्मस्य संहिताः । (४०।१३)

daśa cāṣṭau ca vikhyātā etā dharmasya saṃhitāḥ |

40.14४०.१४

एतासाम् एव विद्यानां व्यासम् आह महेश्वरः । (४०।१४)

etāsām eva vidyānāṃ vyāsam āha maheśvaraḥ |

40.15४०.१५

शतानि त्रीणि शास्त्राणाम् आह तन्त्राणि सप्ततिः । (४०।१५)

śatāni trīṇi śāstrāṇām āha tantrāṇi saptatiḥ |

40.16४०.१६

व्यास एव तु विद्यानां महादेवेन कीर्तितः । (४०।१६)

vyāsa eva tu vidyānāṃ mahādevena kīrtitaḥ |

40.17४०.१७

तन्त्रं पाशुपतं नाम पाञ्चरात्रं च विश्रुतम् । (४०।१७)

tantraṃ pāśupataṃ nāma pāñcarātraṃ ca viśrutam |

40.18४०.१८

योगशास्त्रं च सांख्यं च तन्त्रं लोकायतं तथा । (४०।१८)

yogaśāstraṃ ca sāṃkhyaṃ ca tantraṃ lokāyataṃ tathā |

40.19४०.१९

तन्त्रं ब्रह्मलुला नाम तर्कविद्या दिवौकसाम् । (४०।१९)

tantraṃ brahmalulā nāma tarkavidyā divaukasām |

40.20४०.२०

सुखदुःखार्थजिज्ञासाकारकश्चेति विश्रुतम् । (४०।२०)

sukhaduḥkhārthajijñāsākārakaśceti viśrutam |

40.21४०.२१

तर्कविद्यास्तथा चाष्टौ सश्लोको नव विस्तरः । (४०।२१)

tarkavidyāstathā cāṣṭau saśloko nava vistaraḥ |

40.22४०.२२

दश चाष्टौ च विज्ञेयाः पौराणां यज्ञसंहिताः । (४०।२२)

daśa cāṣṭau ca vijñeyāḥ paurāṇāṃ yajñasaṃhitāḥ |

40.23४०.२३

पुराणस्य प्रणीताश्च तावद् एवेह संहिता । (४०।२३)

purāṇasya praṇītāśca tāvad eveha saṃhitā |

40.24४०.२४

धर्मशास्त्राणि तद्वाचः एकार्था नीति नान्यथा । (४०।२४)

dharmaśāstrāṇi tadvācaḥ ekārthā nīti nānyathā |

40.25४०.२५

एकार्थानि पुराणानि वेदाश्चैकार्थसंहिताः । (४०।२५)

ekārthāni purāṇāni vedāścaikārthasaṃhitāḥ |

40.26४०.२६

नानार्थानि च सर्वाणि ततः शास्त्राणि शंकरः । (४०।२६)

nānārthāni ca sarvāṇi tataḥ śāstrāṇi śaṃkaraḥ |

40.27४०.२७

प्रोवाच भगवान् देवः कालज्ञानानि यानि च । (४०।२७)

provāca bhagavān devaḥ kālajñānāni yāni ca |

40.28४०.२८

चतुःषष्टिप्रमाणानाम् आयुर्वेदं च सोत्तरम् । (४०।२८)

catuḥṣaṣṭipramāṇānām āyurvedaṃ ca sottaram |

40.29४०.२९

अष्टादशविकल्पान्तां दण्डनीतिं च शाश्वतीम् । (४०।२९)

aṣṭādaśavikalpāntāṃ daṇḍanītiṃ ca śāśvatīm |

40.30४०.३०

गान्धर्वम् इतिहासं च नानाविस्तरम् उक्तवान् । (४०।३०)

gāndharvam itihāsaṃ ca nānāvistaram uktavān |

40.31४०.३१

इत्येताः शांकरप्रोक्ता विद्याः शब्दार्थसंहिताः । (४०।३१)

ityetāḥ śāṃkaraproktā vidyāḥ śabdārthasaṃhitāḥ |

40.32४०.३२

पुनर् भेदसहस्रं च तासाम् एव तु विस्तरः । (४०।३२)

punar bhedasahasraṃ ca tāsām eva tu vistaraḥ |

40.33४०.३३

ऋषिभिर् देवगन्धर्वैः सविकल्पः सविस्तरः । (४०।३३)

ṛṣibhir devagandharvaiḥ savikalpaḥ savistaraḥ |

40.34४०.३४

शश्वद् अभ्यस्यते लोके वेद एव च सर्वशः । (४०।३४)

śaśvad abhyasyate loke veda eva ca sarvaśaḥ |

40.35४०.३५

विद्याश्चतस्रः संक्षिप्ताः वेदवादाश्च ते स्मृताः । (४०।३५)

vidyāścatasraḥ saṃkṣiptāḥ vedavādāśca te smṛtāḥ |

40.36४०.३६

एतासां पारगो यश्च स चोक्तो वेदपारगः । (४०।३६)

etāsāṃ pārago yaśca sa cokto vedapāragaḥ |

40.37४०.३७

विदानां पारगो रुद्रो विष्णुर् इन्द्रो बृहस्पतिः । (४०।३७)

vidānāṃ pārago rudro viṣṇur indro bṛhaspatiḥ |

40.38४०.३८

शक्रः स्वायंभुवश्चैव मनुः परमधर्मवित् । (४०।३८)

śakraḥ svāyaṃbhuvaścaiva manuḥ paramadharmavit |

40.39४०.३९

ब्रह्मा च परमो देवः सदा सर्वैः सुरासुरैः । (४०।३९)

brahmā ca paramo devaḥ sadā sarvaiḥ surāsuraiḥ |

40.40४०.४०

सर्वस्यानुग्रहश्चैव व्यासो वै वेदपारगः । (४०।४०)

sarvasyānugrahaścaiva vyāso vai vedapāragaḥ |

40.41४०.४१

अहं शांतनवो भीष्मः प्रसादान् माधवस्य च । (४०।४१)

ahaṃ śāṃtanavo bhīṣmaḥ prasādān mādhavasya ca |

40.42४०.४२

शंकरस्य प्रसादाच्च ब्रह्मणश्च कुरूद्वह । (४०।४२)

śaṃkarasya prasādācca brahmaṇaśca kurūdvaha |

40.43४०.४३

वेदपारग इत्युक्तो याज्ञवल्क्यश्च सर्वशः । (४०।४३)

vedapāraga ityukto yājñavalkyaśca sarvaśaḥ |

40.44४०.४४

कल्पे कल्पे महाभागैर् ऋषिभिस्तत्त्वदर्शिभिः । (४०।४४)

kalpe kalpe mahābhāgair ṛṣibhistattvadarśibhiḥ |

40.45४०.४५

ऋषिपुत्रैर् ऋषिगणैर् भिद्यते आश्रमिकैर् अपि । (४०।४५)

ṛṣiputrair ṛṣigaṇair bhidyate āśramikair api |

40.46४०.४६

शिवेन ब्रह्मणा चैव विष्णुना च विकल्पिताः । (४०।४६)

śivena brahmaṇā caiva viṣṇunā ca vikalpitāḥ |

40.47४०.४७

आदिकल्पे पुनश्चैव भिद्यन्ते साधुभिः पुनः । (४०।४७)

ādikalpe punaścaiva bhidyante sādhubhiḥ punaḥ |

40.48४०.४८

इदानीम् अपि विद्वद्भिः भिद्यन्ते च विकल्पकैः । (४०।४८)

idānīm api vidvadbhiḥ bhidyante ca vikalpakaiḥ |

40.49४०.४९

पूर्वजन्मानुसारेण बहुधेयं सरस्वती । (४०।४९)

pūrvajanmānusāreṇa bahudheyaṃ sarasvatī |

40.50४०.५०

लोकश्चायं वरारोहे धर्मो ऽयम् इति मंस्यते ॥ (४०।५०)

lokaścāyaṃ varārohe dharmo 'yam iti maṃsyate ||

41.1४१.१

धार्मिकश्च कुरूणां स भविष्यति न संशयः । (४१।१)

dhārmikaśca kurūṇāṃ sa bhaviṣyati na saṃśayaḥ |

41.2४१.२

दत्तस्यापि च धर्मेण नाधर्मे रंस्यते मनः । (४१।२)

dattasyāpi ca dharmeṇa nādharme raṃsyate manaḥ |

41.3४१.३

धर्मादिकं हि धर्मज्ञे धर्मान्तं धर्ममध्यमम् । (४१।३)

dharmādikaṃ hi dharmajñe dharmāntaṃ dharmamadhyamam |

41.4४१.४

अपत्यम् इष्टं लोकेषु यशःकीर्तिविवर्धनम् ॥ (४१।४)

apatyam iṣṭaṃ lokeṣu yaśaḥkīrtivivardhanam ||

42.1४२.१

तस्माद् धर्मं पुरस्कृत्य नियता त्वं शुचिस्मिते । (४२।१)

tasmād dharmaṃ puraskṛtya niyatā tvaṃ śucismite |

42.2४२.२

उपचाराभिचाराभ्यां धर्मम् आराधयस्व वै ॥ (४२।२)

upacārābhicārābhyāṃ dharmam ārādhayasva vai ||

43.1४३.१

वैशंपायन उवाच । (४३।१)

vaiśaṃpāyana uvāca

43.2४३.२

सा तथोक्ता तथेत्युक्त्वा तेन भर्त्रा वराङ्गना । (४३।२)

sā tathoktā tathetyuktvā tena bhartrā varāṅganā |

43.3४३.३

अभिवाद्याभ्यनुज्ञाता प्रदक्षिणम् अवर्तत ॥ (४३।३)

abhivādyābhyanujñātā pradakṣiṇam avartata ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 1, 113

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit