महाभारतMahābhārata

MBh, 1, 212

212 of 1995 · 543 verses

Select a line for its word-by-word analysis.

1.1१.१

वैशंपायन उवाच । (१।१)

vaiśaṃpāyana uvāca

1.2१.२

ततः संवादिते तस्मिन्न् अनुज्ञातो धनंजयः । (१।२)

tataḥ saṃvādite tasminn anujñāto dhanaṃjayaḥ |

1.3१.३

गतां रैवतके कन्यां विदित्वा जनमेजय । (१।३)

gatāṃ raivatake kanyāṃ viditvā janamejaya |

1.4१.४

वैशंपायनः । (१।४)

vaiśaṃpāyanaḥ |

1.5१.५

श्रीभगवान् । (१।५)

śrībhagavān |

1.6१.६

वैशंपायनः । (१।६)

vaiśaṃpāyanaḥ |

1.7१.७

वासुदेवः । (१।७)

vāsudevaḥ |

1.8१.८

बलदेवः । (१।८)

baladevaḥ |

1.9१.९

वैशंपायनः । (१।९)

vaiśaṃpāyanaḥ |

1.10१.१०

चिन्तयानस्ततो भद्राम् उपविष्टः शिलातले । (१।१०)

cintayānastato bhadrām upaviṣṭaḥ śilātale |

1.11१.११

रमणीये वनोद्देशे बहुपादपसंवृते । (१।११)

ramaṇīye vanoddeśe bahupādapasaṃvṛte |

1.12१.१२

सालतालाश्वकर्णैश्च बकुलैर् अर्जुनैस्तथा । (१।१२)

sālatālāśvakarṇaiśca bakulair arjunaistathā |

1.13१.१३

चम्पकाशोकपुंनागैः केतकैः पाटलैस्तथा । (१।१३)

campakāśokapuṃnāgaiḥ ketakaiḥ pāṭalaistathā |

1.14१.१४

कर्णिकारैर् अशोकैश्च अङ्कोलैर् अतिमुक्तकैः । (१।१४)

karṇikārair aśokaiśca aṅkolair atimuktakaiḥ |

1.15१.१५

एवमादिभिर् अन्यैश्च संवृते स शिलातले । (१।१५)

evamādibhir anyaiśca saṃvṛte sa śilātale |

1.16१.१६

पुनः पुनश्चिन्तयानः सुभद्रां भद्रभाषिणीम् । (१।१६)

punaḥ punaścintayānaḥ subhadrāṃ bhadrabhāṣiṇīm |

1.17१.१७

यदृच्छया चोपपन्नान् वृष्णिवीरान् ददर्श ह । (१।१७)

yadṛcchayā copapannān vṛṣṇivīrān dadarśa ha |

1.18१.१८

बलदेवं च हार्दिक्यं साम्बं सारणम् एव च । (१।१८)

baladevaṃ ca hārdikyaṃ sāmbaṃ sāraṇam eva ca |

1.19१.१९

प्रद्युम्नं च गदं चैव चारुदेष्णं विदूरथम् । (१।१९)

pradyumnaṃ ca gadaṃ caiva cārudeṣṇaṃ vidūratham |

1.20१.२०

भानुं च निशठं चैव पृथुं विपृथुम् एव च । (१।२०)

bhānuṃ ca niśaṭhaṃ caiva pṛthuṃ vipṛthum eva ca |

1.21१.२१

तथान्यांश्च बहून् पश्यन् हृदि शोकम् अधारयत् । (१।२१)

tathānyāṃśca bahūn paśyan hṛdi śokam adhārayat |

1.22१.२२

ततस्ते सहिताः सर्वे यतिं दृष्ट्वा समुत्सुकाः । (१।२२)

tataste sahitāḥ sarve yatiṃ dṛṣṭvā samutsukāḥ |

1.23१.२३

वृष्णयो विनयोपेताः परिवार्योपतस्थिरे । (१।२३)

vṛṣṇayo vinayopetāḥ parivāryopatasthire |

1.24१.२४

ततो ऽर्जुनः प्रीतमनाः स्वागतं व्याजहार सः । (१।२४)

tato 'rjunaḥ prītamanāḥ svāgataṃ vyājahāra saḥ |

1.25१.२५

आस्यताम् आस्यतां सर्वै रमणीये शिलातले । (१।२५)

āsyatām āsyatāṃ sarvai ramaṇīye śilātale |

1.26१.२६

इत्येवम् उक्ता यतिना प्रीतास्ते यादवर्षभाः । (१।२६)

ityevam uktā yatinā prītāste yādavarṣabhāḥ |

1.27१.२७

उपोपविविशुः सर्वे सुस्वागतम् इति ब्रुवन् । (१।२७)

upopaviviśuḥ sarve susvāgatam iti bruvan |

1.28१.२८

ततस्तेषु निविष्टेषु वृष्णिवीरेषु पाण्डवः । (१।२८)

tatasteṣu niviṣṭeṣu vṛṣṇivīreṣu pāṇḍavaḥ |

1.29१.२९

आकारं गूहमानस्तु कुशलप्रश्नम् अब्रवीत् । (१।२९)

ākāraṃ gūhamānastu kuśalapraśnam abravīt |

1.30१.३०

सर्वत्र कुशलं चोक्त्वा बलदेवो ऽब्रवीद् इदम् । (१।३०)

sarvatra kuśalaṃ coktvā baladevo 'bravīd idam |

1.31१.३१

प्रसादं कुरु मे विप्र कुतस्त्वं चागतो ह्यसि । (१।३१)

prasādaṃ kuru me vipra kutastvaṃ cāgato hyasi |

1.32१.३२

त्वया दृष्टानि पुण्यानि वदस्व वदतां वर । (१।३२)

tvayā dṛṣṭāni puṇyāni vadasva vadatāṃ vara |

1.33१.३३

पर्वतांश्चैव तीर्थानि वनान्यायतनानि च । (१।३३)

parvatāṃścaiva tīrthāni vanānyāyatanāni ca |

1.34१.३४

तीर्थानां दर्शनं चैव पर्वतानां च भारत । (१।३४)

tīrthānāṃ darśanaṃ caiva parvatānāṃ ca bhārata |

1.35१.३५

आपगानां वनानां च कथयामास यादवे । (१।३५)

āpagānāṃ vanānāṃ ca kathayāmāsa yādave |

1.36१.३६

ताः कथाः कथयन्न् एव कथान्ते जनमेजय । (१।३६)

tāḥ kathāḥ kathayann eva kathānte janamejaya |

1.37१.३७

कथां धर्मसमायुक्तां वृष्णिवीरे न्यवेदयत् । (१।३७)

kathāṃ dharmasamāyuktāṃ vṛṣṇivīre nyavedayat |

1.38१.३८

श्रुत्वा धर्मकथां पुण्यां वृष्णिवीरो ऽभ्यपूजयत् । (१।३८)

śrutvā dharmakathāṃ puṇyāṃ vṛṣṇivīro 'bhyapūjayat |

1.39१.३९

ततस्तु यादवाः सर्वे मन्त्रयन्ति स्म भारत । (१।३९)

tatastu yādavāḥ sarve mantrayanti sma bhārata |

1.40१.४०

अयं देशातिथिः श्रीमान् यतिलिङ्गधरो द्विजः । (१।४०)

ayaṃ deśātithiḥ śrīmān yatiliṅgadharo dvijaḥ |

1.41१.४१

आवासं कम् उपाश्रित्य वसेत निरुपद्रवः । (१।४१)

āvāsaṃ kam upāśritya vaseta nirupadravaḥ |

1.42१.४२

इत्येवम् अब्रुवंस्ते वै रौहिणेयं तु यादवाः । (१।४२)

ityevam abruvaṃste vai rauhiṇeyaṃ tu yādavāḥ |

1.43१.४३

ददृशुः कृष्णम् आयान्तं सर्वे यादवनन्दनम् । (१।४३)

dadṛśuḥ kṛṣṇam āyāntaṃ sarve yādavanandanam |

1.44१.४४

एहि केशव तातेति रौहिणेयो ऽब्रवीद् वचः । (१।४४)

ehi keśava tāteti rauhiṇeyo 'bravīd vacaḥ |

1.45१.४५

यतिलिङ्गधरो विद्वान् देशातिथिर् अयं द्विजः । (१।४५)

yatiliṅgadharo vidvān deśātithir ayaṃ dvijaḥ |

1.46१.४६

वर्षरात्रनिवासार्थम् आगतो नः पुरं प्रति । (१।४६)

varṣarātranivāsārtham āgato naḥ puraṃ prati |

1.47१.४७

स्थाने यस्मिन् निवसति तन् मे ब्रूहि जनार्दन । (१।४७)

sthāne yasmin nivasati tan me brūhi janārdana |

1.48१.४८

त्वयि स्थिते महाभाग परवान् अस्मि धर्मतः । (१।४८)

tvayi sthite mahābhāga paravān asmi dharmataḥ |

1.49१.४९

स्वयं तु रुचिरे स्थाने वसताम् इति मां वद । (१।४९)

svayaṃ tu rucire sthāne vasatām iti māṃ vada |

1.50१.५०

सुप्रीतस्तेन वाक्येन परिष्वज्य जनार्दनम् । (१।५०)

suprītastena vākyena pariṣvajya janārdanam |

1.51१.५१

बलदेवो ऽब्रवीद् वाक्यं चिन्तयित्वा महाबलः । (१।५१)

baladevo 'bravīd vākyaṃ cintayitvā mahābalaḥ |

1.52१.५२

आरामे तु वसेद् धीमांश्चतुरो वर्षमासकान् । (१।५२)

ārāme tu vased dhīmāṃścaturo varṣamāsakān |

1.53१.५३

कन्यापुरे सुभद्राया भुक्त्वा भोजनम् इष्टतः । (१।५३)

kanyāpure subhadrāyā bhuktvā bhojanam iṣṭataḥ |

1.54१.५४

लतागृहेषु वसताम् इति मे धीयते मतिः । (१।५४)

latāgṛheṣu vasatām iti me dhīyate matiḥ |

1.55१.५५

लब्धानुज्ञास्त्वया तत्र मन्यन्ते सर्वयादवाः । (१।५५)

labdhānujñāstvayā tatra manyante sarvayādavāḥ |

1.56१.५६

बलवान् दर्शनीयश्च वाग्विच्छ्रीमान् बहुश्रुतः । (१।५६)

balavān darśanīyaśca vāgvicchrīmān bahuśrutaḥ |

1.57१.५७

कन्यापुरसमीपे तु न युक्तम् इति मे मतिः । (१।५७)

kanyāpurasamīpe tu na yuktam iti me matiḥ |

1.58१.५८

गुरुः शास्ता च नेता च शास्त्रज्ञो धर्मवित्तमः । (१।५८)

guruḥ śāstā ca netā ca śāstrajño dharmavittamaḥ |

1.59१.५९

त्वयोक्तं न विरुध्ये ऽहं करिष्यामि वचस्तव । (१।५९)

tvayoktaṃ na virudhye 'haṃ kariṣyāmi vacastava |

1.60१.६०

शुभाशुभस्य विज्ञाने नान्यो ऽस्ति भुवि कश्चन । (१।६०)

śubhāśubhasya vijñāne nānyo 'sti bhuvi kaścana |

1.61१.६१

अयं देशातिथिः श्रीमान् सर्वधर्मविशारदः । (१।६१)

ayaṃ deśātithiḥ śrīmān sarvadharmaviśāradaḥ |

1.62१.६२

धृतिमान् विनयोपेतः सत्यवाग् विजितेन्द्रियः । (१।६२)

dhṛtimān vinayopetaḥ satyavāg vijitendriyaḥ |

1.63१.६३

यतिलिङ्गधरो ह्येष को विजानाति मानसम् । (१।६३)

yatiliṅgadharo hyeṣa ko vijānāti mānasam |

1.64१.६४

त्वम् इमं पुण्डरीकाक्ष नीत्वा कन्यापुरं शुभम् । (१।६४)

tvam imaṃ puṇḍarīkākṣa nītvā kanyāpuraṃ śubham |

1.65१.६५

निवेदय सुभद्रायै मद्वाक्यपरिचोदितः । (१।६५)

nivedaya subhadrāyai madvākyaparicoditaḥ |

1.66१.६६

भक्ष्यैर् भोज्यैश्च पानैश्च अन्यैर् इष्टैश्च पूजय । (१।६६)

bhakṣyair bhojyaiśca pānaiśca anyair iṣṭaiśca pūjaya |

1.67१.६७

स तथेति प्रतिज्ञाय सहितो यतिना हरिः । (१।६७)

sa tatheti pratijñāya sahito yatinā hariḥ |

1.68१.६८

कृत्वा तु संविदं तेन प्रहृष्टः केशवो ऽभवत् । (१।६८)

kṛtvā tu saṃvidaṃ tena prahṛṣṭaḥ keśavo 'bhavat |

1.69१.६९

पर्वते तौ विहृत्यैव यथेष्टं कृष्णपाण्डवौ । (१।६९)

parvate tau vihṛtyaiva yatheṣṭaṃ kṛṣṇapāṇḍavau |

1.70१.७०

तां पुरीं प्रविवेशाथ गृह्य हस्ते च पाण्डवम् । (१।७०)

tāṃ purīṃ praviveśātha gṛhya haste ca pāṇḍavam |

1.71१.७१

प्रविश्य च गृहं रम्यं सर्वभोगसमन्वितम् । (१।७१)

praviśya ca gṛhaṃ ramyaṃ sarvabhogasamanvitam |

1.72१.७२

पार्थम् आवेदयामास रुक्मिणीसत्यभामयोः । (१।७२)

pārtham āvedayāmāsa rukmiṇīsatyabhāmayoḥ |

1.73१.७३

हृषीकेशवचः श्रुत्वा ते उभे ऊचतुर् भृशम् । (१।७३)

hṛṣīkeśavacaḥ śrutvā te ubhe ūcatur bhṛśam |

1.74१.७४

मनोरथो महान् एष हृदि नः परिवर्तते । (१।७४)

manoratho mahān eṣa hṛdi naḥ parivartate |

1.75१.७५

कदा द्रक्ष्याम बीभत्सुं पाण्डवं गृहम् आगतम् । (१।७५)

kadā drakṣyāma bībhatsuṃ pāṇḍavaṃ gṛham āgatam |

1.76१.७६

इति चिन्तयमानानां पार्थो दुःखम् अपानुदत् । (१।७६)

iti cintayamānānāṃ pārtho duḥkham apānudat |

1.77१.७७

प्राप्तम् अज्ञातपूजाभिर् उत्तमाभिर् अपूजयत् । (१।७७)

prāptam ajñātapūjābhir uttamābhir apūjayat |

1.78१.७८

स तं प्रियातिथिश्रेष्ठं समीक्ष्य यतिम् आगतम् । (१।७८)

sa taṃ priyātithiśreṣṭhaṃ samīkṣya yatim āgatam |

1.79१.७९

सोदर्यां भगिनीं कृष्णः सुभद्राम् इदम् अब्रवीत् । (१।७९)

sodaryāṃ bhaginīṃ kṛṣṇaḥ subhadrām idam abravīt |

1.80१.८०

अयं देशातिथिर् भद्रे संयतो व्रतवान् ऋषिः । (१।८०)

ayaṃ deśātithir bhadre saṃyato vratavān ṛṣiḥ |

1.81१.८१

प्राप्नोतु सततं पूजां तव कन्यापुरे वसन् । (१।८१)

prāpnotu satataṃ pūjāṃ tava kanyāpure vasan |

1.82१.८२

आर्येण च परिज्ञातः पूजनीयो यतिः सदा । (१।८२)

āryeṇa ca parijñātaḥ pūjanīyo yatiḥ sadā |

1.83१.८३

तस्माद् भरस्व वार्ष्णेयि भक्ष्यैर् भोज्यैर् यतिं सदा । (१।८३)

tasmād bharasva vārṣṇeyi bhakṣyair bhojyair yatiṃ sadā |

1.84१.८४

एष यद् यद् ऋषिर् ब्रूयात् कार्यम् एव न संशयः । (१।८४)

eṣa yad yad ṛṣir brūyāt kāryam eva na saṃśayaḥ |

1.85१.८५

सखीभिः सहिता भद्रे भवास्य वशवर्तिनी । (१।८५)

sakhībhiḥ sahitā bhadre bhavāsya vaśavartinī |

1.86१.८६

पुरापि यतयो भद्रे ये भैक्षार्थम् अनुव्रताः । (१।८६)

purāpi yatayo bhadre ye bhaikṣārtham anuvratāḥ |

1.87१.८७

ते बभूवुर् दशार्हाणां कन्यापुरनिवासिनः । (१।८७)

te babhūvur daśārhāṇāṃ kanyāpuranivāsinaḥ |

1.88१.८८

तेभ्यो भोज्यानि भक्ष्याणि यथाकालम् अतन्द्रिताः । (१।८८)

tebhyo bhojyāni bhakṣyāṇi yathākālam atandritāḥ |

1.89१.८९

कन्यापुरगताः कन्याः प्रयच्छन्ति यशस्विनि । (१।८९)

kanyāpuragatāḥ kanyāḥ prayacchanti yaśasvini |

1.90१.९०

सा तथेत्यब्रवीत् कृष्णं करिष्यामि यथात्थ माम् । (१।९०)

sā tathetyabravīt kṛṣṇaṃ kariṣyāmi yathāttha mām |

1.91१.९१

तोषयिष्यामि वृत्तेन कर्मणा च द्विजर्षभम् । (१।९१)

toṣayiṣyāmi vṛttena karmaṇā ca dvijarṣabham |

1.92१.९२

एवम् एतेन रूपेण कंचित् कालं धनंजयः । (१।९२)

evam etena rūpeṇa kaṃcit kālaṃ dhanaṃjayaḥ |

1.93१.९३

उवास भक्ष्यैर् भोज्यैश्च भद्रया परमार्चितः । (१।९३)

uvāsa bhakṣyair bhojyaiśca bhadrayā paramārcitaḥ |

1.94१.९४

तस्य सर्वगुणोपेतां वासुदेवसहोदराम् । (१।९४)

tasya sarvaguṇopetāṃ vāsudevasahodarām |

1.95१.९५

पश्यतः सततं भद्रां प्रादुरासीन् मनोभवः । (१।९५)

paśyataḥ satataṃ bhadrāṃ prādurāsīn manobhavaḥ |

1.96१.९६

गूहयन्न् इव चाकारम् आलोक्य वरवर्णिनीम् । (१।९६)

gūhayann iva cākāram ālokya varavarṇinīm |

1.97१.९७

दीर्घम् उष्णं निशश्वास पार्थः कामवशं गतः । (१।९७)

dīrgham uṣṇaṃ niśaśvāsa pārthaḥ kāmavaśaṃ gataḥ |

1.98१.९८

न कृष्णां रूपतो मेने वासुदेवसहोदराम् । (१।९८)

na kṛṣṇāṃ rūpato mene vāsudevasahodarām |

1.99१.९९

प्राप्तां हृदीन्द्रसेनां वा साक्षाद् वा वरुणात्मजाम् । (१।९९)

prāptāṃ hṛdīndrasenāṃ vā sākṣād vā varuṇātmajām |

1.100१.१००

अतीतसमये काले सोदर्याणां धनंजयः । (१।१००)

atītasamaye kāle sodaryāṇāṃ dhanaṃjayaḥ |

1.101१.१०१

न सस्मार सुभद्रायाः कामाङ्कुशनिवारितः । (१।१०१)

na sasmāra subhadrāyāḥ kāmāṅkuśanivāritaḥ |

1.102१.१०२

क्रीडारतिपरां भद्रां सखीजनशतैर् वृताम् । (१।१०२)

krīḍāratiparāṃ bhadrāṃ sakhījanaśatair vṛtām |

1.103१.१०३

प्रीयते स्मार्जुनः पश्यन् स्वाहाम् इव हुताशनः । (१।१०३)

prīyate smārjunaḥ paśyan svāhām iva hutāśanaḥ |

1.104१.१०४

पाण्डवस्य सुभद्रायाः सकाशे तु यशस्विनः । (१।१०४)

pāṇḍavasya subhadrāyāḥ sakāśe tu yaśasvinaḥ |

1.105१.१०५

समुत्पत्तिः प्रभावश्च गदेन कथितः पुरा । (१।१०५)

samutpattiḥ prabhāvaśca gadena kathitaḥ purā |

1.106१.१०६

श्रुत्वा चाशनिनिर्घोषं केशवेनापि धीमता । (१।१०६)

śrutvā cāśaninirghoṣaṃ keśavenāpi dhīmatā |

1.107१.१०७

उपमाम् अर्जुनं कृत्वा विस्तरः कथितः पुरा । (१।१०७)

upamām arjunaṃ kṛtvā vistaraḥ kathitaḥ purā |

1.108१.१०८

क्रुद्धमत्तप्रलापश्च वृष्णीनाम् अर्जुनं प्रति । (१।१०८)

kruddhamattapralāpaśca vṛṣṇīnām arjunaṃ prati |

1.109१.१०९

पौरुषाण्युपमां कृत्वा प्रावर्धन्त धनुष्मताम् । (१।१०९)

pauruṣāṇyupamāṃ kṛtvā prāvardhanta dhanuṣmatām |

1.110१.११०

अन्योन्यकलहे चापि विवादे चापि वृष्णयः । (१।११०)

anyonyakalahe cāpi vivāde cāpi vṛṣṇayaḥ |

1.111१.१११

अर्जुनो ऽपि न मे तुल्यः कुतस्त्वम् इति ते ऽब्रुवन् । (१।१११)

arjuno 'pi na me tulyaḥ kutastvam iti te 'bruvan |

1.112१.११२

जातांश्च पुत्रान् गृह्णन्त आशिषो वृष्णयो ऽब्रुवन् । (१।११२)

jātāṃśca putrān gṛhṇanta āśiṣo vṛṣṇayo 'bruvan |

1.113१.११३

अर्जुनस्य समो वीर्ये भव तात धनुर्धरः । (१।११३)

arjunasya samo vīrye bhava tāta dhanurdharaḥ |

1.114१.११४

तस्मात् सुभद्रा चकमे पौरुषाद् भरतर्षभम् । (१।११४)

tasmāt subhadrā cakame pauruṣād bharatarṣabham |

1.115१.११५

सत्यसंधस्य रूपेण चातुर्येण च मोहिता । (१।११५)

satyasaṃdhasya rūpeṇa cāturyeṇa ca mohitā |

1.116१.११६

चारणातिथिसंघानां गदस्य च निशम्य सा । (१।११६)

cāraṇātithisaṃghānāṃ gadasya ca niśamya sā |

1.117१.११७

अदृष्टे कृतभावाभूत् सुभद्रा भरतर्षभे । (१।११७)

adṛṣṭe kṛtabhāvābhūt subhadrā bharatarṣabhe |

1.118१.११८

कीर्तयन् ददृशे यो यः कथंचित् कुरुजाङ्गलम् । (१।११८)

kīrtayan dadṛśe yo yaḥ kathaṃcit kurujāṅgalam |

1.119१.११९

तं तम् एव सदा भद्रा बीभत्सुं स्माभिपृच्छति । (१।११९)

taṃ tam eva sadā bhadrā bībhatsuṃ smābhipṛcchati |

1.120१.१२०

अभीक्ष्णशः परिप्रश्नाद् अभीक्ष्णश्रवणात् तथा । (१।१२०)

abhīkṣṇaśaḥ paripraśnād abhīkṣṇaśravaṇāt tathā |

1.121१.१२१

प्रत्यक्ष इव भद्रायाः पाण्डवः समपद्यत । (१।१२१)

pratyakṣa iva bhadrāyāḥ pāṇḍavaḥ samapadyata |

1.122१.१२२

भुजौ भुजगसंकाशौ ज्याघातेन किणीकृतौ । (१।१२२)

bhujau bhujagasaṃkāśau jyāghātena kiṇīkṛtau |

1.123१.१२३

पार्थो ऽयम् इति पश्यन्त्या निःसंशयम् अजायत । (१।१२३)

pārtho 'yam iti paśyantyā niḥsaṃśayam ajāyata |

1.124१.१२४

यथारूपं हि शुश्राव सुभद्रा भरतर्षभम् । (१।१२४)

yathārūpaṃ hi śuśrāva subhadrā bharatarṣabham |

1.125१.१२५

तथारूपम् अवेक्ष्यैनं परां प्रीतिम् अवाप सा । (१।१२५)

tathārūpam avekṣyainaṃ parāṃ prītim avāpa sā |

1.126१.१२६

सा कदाचिद् उपासीनं पप्रच्छ कुरुनन्दनम् । (१।१२६)

sā kadācid upāsīnaṃ papraccha kurunandanam |

1.127१.१२७

कथं देशाः कथं शैला नानाजनपदाः कथम् । (१।१२७)

kathaṃ deśāḥ kathaṃ śailā nānājanapadāḥ katham |

1.128१.१२८

सरांसि सरितश्चैव वनानि च कथं यते । (१।१२८)

sarāṃsi saritaścaiva vanāni ca kathaṃ yate |

1.129१.१२९

दिशः काश्च कथं प्राप्ताश्चरता भवता सदा । (१।१२९)

diśaḥ kāśca kathaṃ prāptāścaratā bhavatā sadā |

1.130१.१३०

स तथोक्तस्तदा भद्रां बहुनर्मानृतं ब्रुवन् । (१।१३०)

sa tathoktastadā bhadrāṃ bahunarmānṛtaṃ bruvan |

1.131१.१३१

उवाच परमप्रीतस्तस्या बहु तथा कथाः । (१।१३१)

uvāca paramaprītastasyā bahu tathā kathāḥ |

1.132१.१३२

निशम्य विविधं तस्य लोके चरितम् आत्मनः । (१।१३२)

niśamya vividhaṃ tasya loke caritam ātmanaḥ |

1.133१.१३३

कथापरिगतो भावः कन्यायाः समपद्यत । (१।१३३)

kathāparigato bhāvaḥ kanyāyāḥ samapadyata |

1.134१.१३४

पर्वसंधौ च कस्मिंश्चित् सुभद्रा भरतर्षभम् । (१।१३४)

parvasaṃdhau ca kasmiṃścit subhadrā bharatarṣabham |

1.135१.१३५

रहस्येकान्तम् आसाद्य हृष्यमाणाभ्यभाषत । (१।१३५)

rahasyekāntam āsādya hṛṣyamāṇābhyabhāṣata |

1.136१.१३६

यतिना चरता लोकान् खाण्डवप्रस्थवासिनी । (१।१३६)

yatinā caratā lokān khāṇḍavaprasthavāsinī |

1.137१.१३७

कच्चिद् भगवता दृष्टा पृथास्माकं पितृष्वसा । (१।१३७)

kaccid bhagavatā dṛṣṭā pṛthāsmākaṃ pitṛṣvasā |

1.138१.१३८

भ्रातृभिः प्रयतैः सर्वैः कच्चिद् आर्यो युधिष्ठिरः । (१।१३८)

bhrātṛbhiḥ prayataiḥ sarvaiḥ kaccid āryo yudhiṣṭhiraḥ |

1.139१.१३९

कच्चिद् धर्मपरो भीमो धर्मराजस्य धीमतः । (१।१३९)

kaccid dharmaparo bhīmo dharmarājasya dhīmataḥ |

1.140१.१४०

निवृत्तसमयः कच्चिद् अपराधाद् धनंजयः । (१।१४०)

nivṛttasamayaḥ kaccid aparādhād dhanaṃjayaḥ |

1.141१.१४१

नियमे कामभोगानां वर्तमानः प्रियेतरे । (१।१४१)

niyame kāmabhogānāṃ vartamānaḥ priyetare |

1.142१.१४२

क्व नु पार्थश्चरत्यद्य बह्वीर् दुर्वसतीर् वसन् । (१।१४२)

kva nu pārthaścaratyadya bahvīr durvasatīr vasan |

1.143१.१४३

सुखोचितो ह्यदुःखार्हो दीर्घबाहुर् अरिंदमः । (१।१४३)

sukhocito hyaduḥkhārho dīrghabāhur ariṃdamaḥ |

1.144१.१४४

कच्चिच्छ्रुतो वा दृष्टो वा पार्थो भगवतार्जुनः । (१।१४४)

kaccicchruto vā dṛṣṭo vā pārtho bhagavatārjunaḥ |

1.145१.१४५

निशम्य वचनं तस्यास्ताम् उवाच हसन्न् इव । (१।१४५)

niśamya vacanaṃ tasyāstām uvāca hasann iva |

1.146१.१४६

आर्ये पृथा च कुशला सपुत्रा च सहस्नुषा । (१।१४६)

ārye pṛthā ca kuśalā saputrā ca sahasnuṣā |

1.147१.१४७

प्रीयते पश्यती पुत्रान् कुरुक्षेत्रं च पश्यती । (१।१४७)

prīyate paśyatī putrān kurukṣetraṃ ca paśyatī |

1.148१.१४८

अनुज्ञातस्तु मात्रा च सोदर्यैस्तु धनंजयः । (१।१४८)

anujñātastu mātrā ca sodaryaistu dhanaṃjayaḥ |

1.149१.१४९

द्वारकाम् आवसत्येको यतिलिङ्गेन पाण्डवः । (१।१४९)

dvārakām āvasatyeko yatiliṅgena pāṇḍavaḥ |

1.150१.१५०

पश्यन्ती सततं कस्मान् नाभिजानासि माधवि । (१।१५०)

paśyantī satataṃ kasmān nābhijānāsi mādhavi |

1.151१.१५१

निशम्य वचनं तस्य वासुदेवसहोदरा । (१।१५१)

niśamya vacanaṃ tasya vāsudevasahodarā |

1.152१.१५२

निःश्वासबहुला तस्थौ क्षितिं विलिखती तदा । (१।१५२)

niḥśvāsabahulā tasthau kṣitiṃ vilikhatī tadā |

1.153१.१५३

ततः परमसंहृष्टः सर्वशस्त्रभृतां वरः । (१।१५३)

tataḥ paramasaṃhṛṣṭaḥ sarvaśastrabhṛtāṃ varaḥ |

1.154१.१५४

अर्जुनो ऽहम् इति प्रीतस्ताम् उवाच धनंजयः । (१।१५४)

arjuno 'ham iti prītastām uvāca dhanaṃjayaḥ |

1.155१.१५५

यथा तव गतो भावः श्रवणान् मयि भामिनि । (१।१५५)

yathā tava gato bhāvaḥ śravaṇān mayi bhāmini |

1.156१.१५६

त्वद्गतः सततं भावस्तथा शतगुणो मम । (१।१५६)

tvadgataḥ satataṃ bhāvastathā śataguṇo mama |

1.157१.१५७

प्रशस्ते ऽहनि धर्मेण भद्रे स्वयम् अहं वृतः । (१।१५७)

praśaste 'hani dharmeṇa bhadre svayam ahaṃ vṛtaḥ |

1.158१.१५८

सत्यवान् इव सावित्र्या भविष्यामि पतिस्तव । (१।१५८)

satyavān iva sāvitryā bhaviṣyāmi patistava |

1.159१.१५९

एवम् उक्त्वा ततः पार्थः प्रविवेश लतागृहम् । (१।१५९)

evam uktvā tataḥ pārthaḥ praviveśa latāgṛham |

1.160१.१६०

ततः सुभद्रा ललिता लज्जाभावसमन्विता । (१।१६०)

tataḥ subhadrā lalitā lajjābhāvasamanvitā |

1.161१.१६१

मुमोह शयने दिव्ये शयाना नतथोचिता । (१।१६१)

mumoha śayane divye śayānā natathocitā |

1.162१.१६२

कन्यापुरे च संवृत्तं ज्ञात्वा दिव्येन चक्षुषा । (१।१६२)

kanyāpure ca saṃvṛttaṃ jñātvā divyena cakṣuṣā |

1.163१.१६३

शशास रुक्मिणीं कृष्णो भोजनादिकम् अर्जुने । (१।१६३)

śaśāsa rukmiṇīṃ kṛṣṇo bhojanādikam arjune |

1.164१.१६४

तदा प्रभृति तां भद्रां चिन्तयन् वै धनंजयः । (१।१६४)

tadā prabhṛti tāṃ bhadrāṃ cintayan vai dhanaṃjayaḥ |

1.165१.१६५

आस्ते स्म स तदारामे कार्येणैव सहाभिभूः । (१।१६५)

āste sma sa tadārāme kāryeṇaiva sahābhibhūḥ |

1.166१.१६६

सुभद्रापि न च स्वस्था पार्थं प्रति बभूव सा । (१।१६६)

subhadrāpi na ca svasthā pārthaṃ prati babhūva sā |

1.167१.१६७

कृशा विवर्णवदना चिन्ताशोकपरायणा । (१।१६७)

kṛśā vivarṇavadanā cintāśokaparāyaṇā |

1.168१.१६८

निःश्वासपरमा भद्रा मानसेन मनस्विनी । (१।१६८)

niḥśvāsaparamā bhadrā mānasena manasvinī |

1.169१.१६९

न शय्यासनभोगेषु रतिं विन्दति केनचित् । (१।१६९)

na śayyāsanabhogeṣu ratiṃ vindati kenacit |

1.170१.१७०

न नक्तं न दिवा शेते बभूवोन्मत्तदर्शना । (१।१७०)

na naktaṃ na divā śete babhūvonmattadarśanā |

1.171१.१७१

एवं शोकपरां भद्रां देवकी वाक्यम् अब्रवीत् । (१।१७१)

evaṃ śokaparāṃ bhadrāṃ devakī vākyam abravīt |

1.172१.१७२

मा शोकं कुरु वार्ष्णेयि धृतिम् आलम्ब शोभने । (१।१७२)

mā śokaṃ kuru vārṣṇeyi dhṛtim ālamba śobhane |

1.173१.१७३

निवेदयिष्ये त्वां रामे कृष्णे चैव नरर्षभे । (१।१७३)

nivedayiṣye tvāṃ rāme kṛṣṇe caiva nararṣabhe |

1.174१.१७४

पश्चाज्जानामि ते वार्त्तां मा शोकं कुरु माधवि । (१।१७४)

paścājjānāmi te vārttāṃ mā śokaṃ kuru mādhavi |

1.175१.१७५

एवम् उक्त्वा च सा माता भद्रायाः प्रियकामिनी । (१।१७५)

evam uktvā ca sā mātā bhadrāyāḥ priyakāminī |

1.176१.१७६

निवेदयामास तदा भद्राम् आनकदुन्दुभेः । (१।१७६)

nivedayāmāsa tadā bhadrām ānakadundubheḥ |

1.177१.१७७

रहस्येकासना तत्र भद्रास्वस्थेति चाब्रवीत् । (१।१७७)

rahasyekāsanā tatra bhadrāsvastheti cābravīt |

1.178१.१७८

आरामे तु यतिः श्रीमान् अर्जुनः सो ऽथ नः श्रुतः । (१।१७८)

ārāme tu yatiḥ śrīmān arjunaḥ so 'tha naḥ śrutaḥ |

1.179१.१७९

अक्रूराय च कृष्णाय आहुकाय च सात्यके । (१।१७९)

akrūrāya ca kṛṣṇāya āhukāya ca sātyake |

1.180१.१८०

निवेद्यतां महाप्राज्ञ श्रोतव्यं यदि बान्धवैः । (१।१८०)

nivedyatāṃ mahāprājña śrotavyaṃ yadi bāndhavaiḥ |

1.181१.१८१

वसुदेवस्तु तच्छ्रुत्वा अक्रूराहुकयोस्तदा । (१।१८१)

vasudevastu tacchrutvā akrūrāhukayostadā |

1.182१.१८२

निवेदयित्वा कृष्णाय मन्त्रयामास नैकधा । (१।१८२)

nivedayitvā kṛṣṇāya mantrayāmāsa naikadhā |

1.183१.१८३

इदं कार्यम् इदं कृत्यम् इदम् एवं विनिश्चितम् । (१।१८३)

idaṃ kāryam idaṃ kṛtyam idam evaṃ viniścitam |

1.184१.१८४

अक्रूरश्चोग्रसेनश्च सत्यकश्च गदेन च । (१।१८४)

akrūraścograsenaśca satyakaśca gadena ca |

1.185१.१८५

पृथुश्रवाश्च कृष्णश्च सहिताः शिनिना सह । (१।१८५)

pṛthuśravāśca kṛṣṇaśca sahitāḥ śininā saha |

1.186१.१८६

रुक्मिणी सत्यभामा च देवकी रोहिणी तथा । (१।१८६)

rukmiṇī satyabhāmā ca devakī rohiṇī tathā |

1.187१.१८७

वासुदेवेन सहिताः पुरोहितमते स्थिताः । (१।१८७)

vāsudevena sahitāḥ purohitamate sthitāḥ |

1.188१.१८८

विवाहं मन्त्रयामासुर् द्वादशे ऽहनि भारत । (१।१८८)

vivāhaṃ mantrayāmāsur dvādaśe 'hani bhārata |

1.189१.१८९

अज्ञातं रौहिणेयस्य उद्धवस्य च भारत । (१।१८९)

ajñātaṃ rauhiṇeyasya uddhavasya ca bhārata |

1.190१.१९०

विवाहं तु सुभद्रायाः कर्तुकामो गदाग्रजः । (१।१९०)

vivāhaṃ tu subhadrāyāḥ kartukāmo gadāgrajaḥ |

1.191१.१९१

महादेवस्य पूजार्थं महोत्सवम् इति ब्रुवन् । (१।१९१)

mahādevasya pūjārthaṃ mahotsavam iti bruvan |

1.192१.१९२

चतुस्त्रिंशदहोरात्रं सुभद्रार्तिप्रशान्तये । (१।१९२)

catustriṃśadahorātraṃ subhadrārtipraśāntaye |

1.193१.१९३

नगरे घोषयामास हितार्थं सव्यसाचिनः । (१।१९३)

nagare ghoṣayāmāsa hitārthaṃ savyasācinaḥ |

1.194१.१९४

इतश्चतुर्थे त्वहनि अन्तर्द्वीपं तु गम्यताम् । (१।१९४)

itaścaturthe tvahani antardvīpaṃ tu gamyatām |

1.195१.१९५

सदारैः सानुयात्रैश्च सपुत्रैश्च सबान्धवैः । (१।१९५)

sadāraiḥ sānuyātraiśca saputraiśca sabāndhavaiḥ |

1.196१.१९६

गन्तव्यं सर्ववर्णैश्च गन्तव्यं सर्वयादवैः । (१।१९६)

gantavyaṃ sarvavarṇaiśca gantavyaṃ sarvayādavaiḥ |

1.197१.१९७

एवम् उक्तास्तु ते सर्वे तथा चक्रुश्च सर्वशः । (१।१९७)

evam uktāstu te sarve tathā cakruśca sarvaśaḥ |

1.198१.१९८

ततः सर्वदशार्हाणाम् अन्तर्द्वीपे तु भारत । (१।१९८)

tataḥ sarvadaśārhāṇām antardvīpe tu bhārata |

1.199१.१९९

चतुस्त्रिंशदहोरात्रं बभूव परमोत्सवः । (१।१९९)

catustriṃśadahorātraṃ babhūva paramotsavaḥ |

1.200१.२००

कृष्णरामाहुकाक्रूरप्रद्युम्नशिनिसत्यकाः । (१।२००)

kṛṣṇarāmāhukākrūrapradyumnaśinisatyakāḥ |

1.201१.२०१

समुद्रं प्रययुर् हृष्टाः कुकुरान्धकवृष्णयः । (१।२०१)

samudraṃ prayayur hṛṣṭāḥ kukurāndhakavṛṣṇayaḥ |

1.202१.२०२

युक्तयन्त्रपताकाभिर् वृष्णयो ब्राह्मणैः सह । (१।२०२)

yuktayantrapatākābhir vṛṣṇayo brāhmaṇaiḥ saha |

1.203१.२०३

समुद्रं प्रययुर् नौभिः सर्वे पुरनिवासिनः । (१।२०३)

samudraṃ prayayur naubhiḥ sarve puranivāsinaḥ |

1.204१.२०४

ततस्त्वरितम् आगम्य दाशार्हगणपूजितम् । (१।२०४)

tatastvaritam āgamya dāśārhagaṇapūjitam |

1.205१.२०५

सुभद्रा पुण्डरीकाक्षम् अब्रवीद् यतिशासनात् । (१।२०५)

subhadrā puṇḍarīkākṣam abravīd yatiśāsanāt |

1.206१.२०६

कृत्यवान् द्वादशाहानि स्थाता स भगवान् इह । (१।२०६)

kṛtyavān dvādaśāhāni sthātā sa bhagavān iha |

1.207१.२०७

तिष्ठतस्तस्य कः कुर्याद् उपस्थानविधिं प्रति । (१।२०७)

tiṣṭhatastasya kaḥ kuryād upasthānavidhiṃ prati |

1.208१.२०८

ताम् उवाच हृषीकेशः कस्त्वद् अन्यो विशेषतः । (१।२०८)

tām uvāca hṛṣīkeśaḥ kastvad anyo viśeṣataḥ |

1.209१.२०९

तम् ऋषिं प्रत्युपस्थातुम् इतो नार्हति मानवः । (१।२०९)

tam ṛṣiṃ pratyupasthātum ito nārhati mānavaḥ |

1.210१.२१०

त्वम् एवास्मन्मतेनास्य महर्षेर् वशवर्तिनी । (१।२१०)

tvam evāsmanmatenāsya maharṣer vaśavartinī |

1.211१.२११

कुरु सर्वाणि कार्याणि कीर्तिं धर्मम् अवेक्ष्य च । (१।२११)

kuru sarvāṇi kāryāṇi kīrtiṃ dharmam avekṣya ca |

1.212१.२१२

तस्य चातिथिमुख्यस्य सर्वेषां च तपस्विनाम् । (१।२१२)

tasya cātithimukhyasya sarveṣāṃ ca tapasvinām |

1.213१.२१३

संविधानपरा भद्रे भव त्वं वशवर्तिनी । (१।२१३)

saṃvidhānaparā bhadre bhava tvaṃ vaśavartinī |

1.214१.२१४

एवम् आदिश्य भद्रां च रक्षां च मधुसूदनः । (१।२१४)

evam ādiśya bhadrāṃ ca rakṣāṃ ca madhusūdanaḥ |

1.215१.२१५

ययौ शङ्खप्रणादेन भेरीणां च महास्वनैः । (१।२१५)

yayau śaṅkhapraṇādena bherīṇāṃ ca mahāsvanaiḥ |

1.216१.२१६

ततस्तद् द्वीपम् आसाद्य दानधर्मपरायणाः । (१।२१६)

tatastad dvīpam āsādya dānadharmaparāyaṇāḥ |

1.217१.२१७

उग्रसेनमुखाः सर्वे विजह्रुः कुकुरान्धकाः । (१।२१७)

ugrasenamukhāḥ sarve vijahruḥ kukurāndhakāḥ |

1.218१.२१८

सप्तयोजनविस्तार आयतो दशयोजनम् । (१।२१८)

saptayojanavistāra āyato daśayojanam |

1.219१.२१९

बभूव स महाद्वीपः सपर्वतमहावनः । (१।२१९)

babhūva sa mahādvīpaḥ saparvatamahāvanaḥ |

1.220१.२२०

सेतुपुष्करिणीजालैर् आक्रीडः सर्वसात्वताम् । (१।२२०)

setupuṣkariṇījālair ākrīḍaḥ sarvasātvatām |

1.221१.२२१

वापीपल्वलसंघैश्च काननैश्च मनोरमैः । (१।२२१)

vāpīpalvalasaṃghaiśca kānanaiśca manoramaiḥ |

1.222१.२२२

वासुदेवसमैर् द्वीपः स सर्वैः कुकुरान्धकैः । (१।२२२)

vāsudevasamair dvīpaḥ sa sarvaiḥ kukurāndhakaiḥ |

1.223१.२२३

बभूव परमोपेतस्त्रिविष्टप इवामरैः । (१।२२३)

babhūva paramopetastriviṣṭapa ivāmaraiḥ |

1.224१.२२४

चतुस्त्रिंशदहोरात्रं दानधर्मपरायणाः । (१।२२४)

catustriṃśadahorātraṃ dānadharmaparāyaṇāḥ |

1.225१.२२५

उग्रसेनमुखाः सर्वे विजह्रुः कुकुरान्धकाः । (१।२२५)

ugrasenamukhāḥ sarve vijahruḥ kukurāndhakāḥ |

1.226१.२२६

विचित्रमाल्याभरणाश्चित्ररूपानुलेपनाः । (१।२२६)

vicitramālyābharaṇāścitrarūpānulepanāḥ |

1.227१.२२७

विहाराभिमुखाः सर्वे यादवाः पानसंयुताः । (१।२२७)

vihārābhimukhāḥ sarve yādavāḥ pānasaṃyutāḥ |

1.228१.२२८

सुनृत्तगीतवादित्रै रममाणास्ततो ऽभवन् । (१।२२८)

sunṛttagītavāditrai ramamāṇāstato 'bhavan |

1.229१.२२९

तत्र याते दशार्हाणाम् ऋषभे शार्ङ्गधन्वनि । (१।२२९)

tatra yāte daśārhāṇām ṛṣabhe śārṅgadhanvani |

1.230१.२३०

सुभद्रोद्वाहनं पार्थः प्राप्तकालम् अमन्यत । (१।२३०)

subhadrodvāhanaṃ pārthaḥ prāptakālam amanyata |

1.231१.२३१

वृष्ण्यन्धकपुरात् तस्माद् अपयानं च पाण्डवः । (१।२३१)

vṛṣṇyandhakapurāt tasmād apayānaṃ ca pāṇḍavaḥ |

1.232१.२३२

विनिश्चित्य ततः पार्थः सुभद्राम् इदम् अब्रवीत् । (१।२३२)

viniścitya tataḥ pārthaḥ subhadrām idam abravīt |

1.233१.२३३

शृणु भद्रे यथाशास्त्रं यथार्थम् ऋषिभिः कृतम् । (१।२३३)

śṛṇu bhadre yathāśāstraṃ yathārtham ṛṣibhiḥ kṛtam |

1.234१.२३४

कन्यायास्तु पिता भ्राता माता मातुल एव च । (१।२३४)

kanyāyāstu pitā bhrātā mātā mātula eva ca |

1.235१.२३५

पितृभ्राता गुरुश्चापि दाने तु प्रभुतां गतः । (१।२३५)

pitṛbhrātā guruścāpi dāne tu prabhutāṃ gataḥ |

1.236१.२३६

महोत्सवं पशुपतेर् द्रष्टुकामः पिताहुकः । (१।२३६)

mahotsavaṃ paśupater draṣṭukāmaḥ pitāhukaḥ |

1.237१.२३७

अन्तर्द्वीपं गतो भद्रे पुत्रैः पौत्रैः सबान्धवैः । (१।२३७)

antardvīpaṃ gato bhadre putraiḥ pautraiḥ sabāndhavaiḥ |

1.238१.२३८

मम चैव विशालाक्षि विदेशस्थास्तु बान्धवाः । (१।२३८)

mama caiva viśālākṣi videśasthāstu bāndhavāḥ |

1.239१.२३९

तस्मात् सुभद्रे गान्धर्वो विवाहः पञ्चमो भवेत् । (१।२३९)

tasmāt subhadre gāndharvo vivāhaḥ pañcamo bhavet |

1.240१.२४०

समागमे तु कन्यायाः क्रियाः प्रोक्ताश्चतुर्विधाः । (१।२४०)

samāgame tu kanyāyāḥ kriyāḥ proktāścaturvidhāḥ |

1.241१.२४१

तेषां प्रवृत्तिं साधूनां शृणु माधवि तद् यथा । (१।२४१)

teṣāṃ pravṛttiṃ sādhūnāṃ śṛṇu mādhavi tad yathā |

1.242१.२४२

वरम् आहूय विधिना पितृदत्ता यथार्थिने । (१।२४२)

varam āhūya vidhinā pitṛdattā yathārthine |

1.243१.२४३

सा पत्नी तु बुधैर् उक्ता सा तु वश्या पतिव्रता । (१।२४३)

sā patnī tu budhair uktā sā tu vaśyā pativratā |

1.244१.२४४

भृत्यानां भरणार्थाय आत्मनः पोषणाय च । (१।२४४)

bhṛtyānāṃ bharaṇārthāya ātmanaḥ poṣaṇāya ca |

1.245१.२४५

दारे स्थिते गृहीता सा भार्या चेति बुधैर् मता । (१।२४५)

dāre sthite gṛhītā sā bhāryā ceti budhair matā |

1.246१.२४६

धर्मतो वरयित्वा तु आनीय स्वं निवेशनम् । (१।२४६)

dharmato varayitvā tu ānīya svaṃ niveśanam |

1.247१.२४७

न्यायेन दत्ता तारुण्ये दाराः पितृकृता भवेत् । (१।२४७)

nyāyena dattā tāruṇye dārāḥ pitṛkṛtā bhavet |

1.248१.२४८

जनयेद् या तु भर्तारं जाया इत्येव नामतः । (१।२४८)

janayed yā tu bhartāraṃ jāyā ityeva nāmataḥ |

1.249१.२४९

दाराः पत्नी च भार्या च जाया चेति चतुर्विधाः । (१।२४९)

dārāḥ patnī ca bhāryā ca jāyā ceti caturvidhāḥ |

1.250१.२५०

चतस्र एवाग्निसाक्ष्याः क्रियायुक्तास्तु धर्मतः । (१।२५०)

catasra evāgnisākṣyāḥ kriyāyuktāstu dharmataḥ |

1.251१.२५१

गान्धर्वेण विवाहेन रागात् पुत्रार्थकारणात् । (१।२५१)

gāndharveṇa vivāhena rāgāt putrārthakāraṇāt |

1.252१.२५२

आत्मनानुगृहीता या सा तु वश्या प्रजावती । (१।२५२)

ātmanānugṛhītā yā sā tu vaśyā prajāvatī |

1.253१.२५३

गान्धर्वस्तु क्रियाहीनो रागाद् एव प्रवर्तते । (१।२५३)

gāndharvastu kriyāhīno rāgād eva pravartate |

1.254१.२५४

सकामायाः सकामेन निर्मन्त्रो रहसि स्मृतः । (१।२५४)

sakāmāyāḥ sakāmena nirmantro rahasi smṛtaḥ |

1.255१.२५५

मयोक्तम् अक्रियं चापि कर्तव्यं माधवि त्वया । (१।२५५)

mayoktam akriyaṃ cāpi kartavyaṃ mādhavi tvayā |

1.256१.२५६

अयनं चैव मासश्च ऋक्षं पक्षस्तथा तिथिः । (१।२५६)

ayanaṃ caiva māsaśca ṛkṣaṃ pakṣastathā tithiḥ |

1.257१.२५७

करणं च मुहूर्तं च लग्नसंपद् यथाद्य वै । (१।२५७)

karaṇaṃ ca muhūrtaṃ ca lagnasaṃpad yathādya vai |

1.258१.२५८

विवाहस्य विशालाक्षि प्रशस्तं चोत्तरायणम् । (१।२५८)

vivāhasya viśālākṣi praśastaṃ cottarāyaṇam |

1.259१.२५९

वैशाखश्चैव मासानां पक्षाणां शुभ्र एव च । (१।२५९)

vaiśākhaścaiva māsānāṃ pakṣāṇāṃ śubhra eva ca |

1.260१.२६०

नक्षत्राणां तथा हस्तस्तृतीया च तिथिष्वपि । (१।२६०)

nakṣatrāṇāṃ tathā hastastṛtīyā ca tithiṣvapi |

1.261१.२६१

लग्नो हि मकरः श्रेष्ठः करणानां बवस्तथा । (१।२६१)

lagno hi makaraḥ śreṣṭhaḥ karaṇānāṃ bavastathā |

1.262१.२६२

मैत्रो मुहूर्तो वैवाह्य आवयोः शुभकर्मणि । (१।२६२)

maitro muhūrto vaivāhya āvayoḥ śubhakarmaṇi |

1.263१.२६३

सर्वसंपद् इयं भद्रे अद्य रात्रौ भविष्यति । (१।२६३)

sarvasaṃpad iyaṃ bhadre adya rātrau bhaviṣyati |

1.264१.२६४

भगवान् अस्तम् अभ्येति तपनस्तपतां वरः । (१।२६४)

bhagavān astam abhyeti tapanastapatāṃ varaḥ |

1.265१.२६५

नारायणो हि सर्वज्ञो नानुबुध्येत विश्वकृत् । (१।२६५)

nārāyaṇo hi sarvajño nānubudhyeta viśvakṛt |

1.266१.२६६

धर्मसंकटम् आपन्ने किं नु कृत्वा शुभं भवेत् । (१।२६६)

dharmasaṃkaṭam āpanne kiṃ nu kṛtvā śubhaṃ bhavet |

1.267१.२६७

मनोभवेन कामेन मोहितं मा प्रलापिनम् । (१।२६७)

manobhavena kāmena mohitaṃ mā pralāpinam |

1.268१.२६८

प्रतिवाक्यं तु मे देहि किं न वक्ष्यसि माधवि । (१।२६८)

prativākyaṃ tu me dehi kiṃ na vakṣyasi mādhavi |

1.269१.२६९

अर्जुनस्य वचः श्रुत्वा चिन्तयन्ती जनार्दनम् । (१।२६९)

arjunasya vacaḥ śrutvā cintayantī janārdanam |

1.270१.२७०

नोवाच किंचिद् वचनं बाष्पदूषितलोचना । (१।२७०)

novāca kiṃcid vacanaṃ bāṣpadūṣitalocanā |

1.271१.२७१

रागोन्मादप्रलापी स्याद् अर्जुनो जयतां वरः । (१।२७१)

rāgonmādapralāpī syād arjuno jayatāṃ varaḥ |

1.272१.२७२

चिन्तयामास पितरं प्रविश्य च लतागृहम् । (१।२७२)

cintayāmāsa pitaraṃ praviśya ca latāgṛham |

1.273१.२७३

चिन्तयानं तु कौन्तेयं ज्ञात्वा शच्या शचीपतिः । (१।२७३)

cintayānaṃ tu kaunteyaṃ jñātvā śacyā śacīpatiḥ |

1.274१.२७४

सहितो नारदाद्यैस्तु मुनिसिद्धाप्सरोगणैः । (१।२७४)

sahito nāradādyaistu munisiddhāpsarogaṇaiḥ |

1.275१.२७५

अरुन्धत्या वसिष्ठेन आजगाम कुशस्थलीम् । (१।२७५)

arundhatyā vasiṣṭhena ājagāma kuśasthalīm |

1.276१.२७६

चिन्तितं च सुभद्रायाश्चिन्तयित्वा जनार्दनः । (१।२७६)

cintitaṃ ca subhadrāyāścintayitvā janārdanaḥ |

1.277१.२७७

निद्रयापहृतज्ञानं रौहिणेयं विना तदा । (१।२७७)

nidrayāpahṛtajñānaṃ rauhiṇeyaṃ vinā tadā |

1.278१.२७८

सहाक्रूरेण शिनिना सत्यकेन गदेन च । (१।२७८)

sahākrūreṇa śininā satyakena gadena ca |

1.279१.२७९

वसुदेवेन देवक्या आहुकेन च धीमता । (१।२७९)

vasudevena devakyā āhukena ca dhīmatā |

1.280१.२८०

आजगाम पुरीं रात्रौ द्वारकां स्वजनैर् वृतः । (१।२८०)

ājagāma purīṃ rātrau dvārakāṃ svajanair vṛtaḥ |

1.281१.२८१

पूजयित्वा तु देवेशं नारदाद्यैर् महर्षिभिः । (१।२८१)

pūjayitvā tu deveśaṃ nāradādyair maharṣibhiḥ |

1.282१.२८२

कुशलप्रश्नम् उक्त्वा तु देवेन्द्रेणाभियाचितः । (१।२८२)

kuśalapraśnam uktvā tu devendreṇābhiyācitaḥ |

1.283१.२८३

वैवाहिकक्रियां कृष्णस्तथेत्येवम् उवाच ह । (१।२८३)

vaivāhikakriyāṃ kṛṣṇastathetyevam uvāca ha |

1.284१.२८४

आहुको वसुदेवश्च सहाक्रूरः ससात्यकिः । (१।२८४)

āhuko vasudevaśca sahākrūraḥ sasātyakiḥ |

1.285१.२८५

अभिप्रणम्य शिरसा पाकशासनम् अब्रुवन् । (१।२८५)

abhipraṇamya śirasā pākaśāsanam abruvan |

1.286१.२८६

देवदेव नमस्ते ऽस्तु लोकनाथ जगत्पते । (१।२८६)

devadeva namaste 'stu lokanātha jagatpate |

1.287१.२८७

वयं धन्याः स्म लोकेषु बान्धवैः सहिता विभो । (१।२८७)

vayaṃ dhanyāḥ sma lokeṣu bāndhavaiḥ sahitā vibho |

1.288१.२८८

कृतप्रसादास्तु वयं तव वाक्येन विश्वजित् । (१।२८८)

kṛtaprasādāstu vayaṃ tava vākyena viśvajit |

1.289१.२८९

एवम् उक्त्वा प्रसाद्यैनं पूजयित्वा प्रयत्नतः । (१।२८९)

evam uktvā prasādyainaṃ pūjayitvā prayatnataḥ |

1.290१.२९०

महेन्द्रशासनात् सर्वे सहिताश्च महर्षिभिः । (१।२९०)

mahendraśāsanāt sarve sahitāśca maharṣibhiḥ |

1.291१.२९१

विवाहं कारयामासुः शक्रपुत्रस्य शास्त्रतः । (१।२९१)

vivāhaṃ kārayāmāsuḥ śakraputrasya śāstrataḥ |

1.292१.२९२

अरुन्धती शची देवी रुक्मिणी देवकी तथा । (१।२९२)

arundhatī śacī devī rukmiṇī devakī tathā |

1.293१.२९३

दिव्यस्त्रीभिश्च सहिताः क्रियां भद्रां प्रयोजयन् । (१।२९३)

divyastrībhiśca sahitāḥ kriyāṃ bhadrāṃ prayojayan |

1.294१.२९४

महर्षिः काश्यपो होता सदस्या नारदादयः । (१।२९४)

maharṣiḥ kāśyapo hotā sadasyā nāradādayaḥ |

1.295१.२९५

पुण्याशिषः प्रयोक्तारः सर्वे ह्यासंस्तदार्जुने । (१।२९५)

puṇyāśiṣaḥ prayoktāraḥ sarve hyāsaṃstadārjune |

1.296१.२९६

अभिषेकं ततः कृत्वा महेन्द्रः पाकशासनिम् । (१।२९६)

abhiṣekaṃ tataḥ kṛtvā mahendraḥ pākaśāsanim |

1.297१.२९७

लोकपालैस्तु सहितः सर्वैर् देवैर् अभिष्टुतः । (१।२९७)

lokapālaistu sahitaḥ sarvair devair abhiṣṭutaḥ |

1.298१.२९८

किरीटाङ्गदहाराद्यैर् हस्ताभरणकुण्डलैः । (१।२९८)

kirīṭāṅgadahārādyair hastābharaṇakuṇḍalaiḥ |

1.299१.२९९

भूषयित्वा तु तं पार्थं द्वितीयम् इव वासवम् । (१।२९९)

bhūṣayitvā tu taṃ pārthaṃ dvitīyam iva vāsavam |

1.300१.३००

पुत्रं परिष्वज्य तदा प्रीतिम् आप पुरंदरः । (१।३००)

putraṃ pariṣvajya tadā prītim āpa puraṃdaraḥ |

1.301१.३०१

शची देवी तथा भद्राम् अरुन्धत्यादिभिस्तदा । (१।३०१)

śacī devī tathā bhadrām arundhatyādibhistadā |

1.302१.३०२

कारयामास वैवाह्यं मङ्गल्यं यादवस्त्रियः । (१।३०२)

kārayāmāsa vaivāhyaṃ maṅgalyaṃ yādavastriyaḥ |

1.303१.३०३

सहाप्सरोभिर् मुदिता भूषणैश्चाभ्यपूजयन् । (१।३०३)

sahāpsarobhir muditā bhūṣaṇaiścābhyapūjayan |

1.304१.३०४

पौलोमीम् इव मन्यन्ते सुभद्रां देवयोषितः । (१।३०४)

paulomīm iva manyante subhadrāṃ devayoṣitaḥ |

1.305१.३०५

ततो विवाहो ववृधे कृतः सर्वगुणान्वितः । (१।३०५)

tato vivāho vavṛdhe kṛtaḥ sarvaguṇānvitaḥ |

1.306१.३०६

तस्याः पाणिं गृहीत्वा तु मन्त्रहोमपुरस्कृतम् । (१।३०६)

tasyāḥ pāṇiṃ gṛhītvā tu mantrahomapuraskṛtam |

1.307१.३०७

यथा तस्यैव हि पिता शच्या इव शतक्रतुः । (१।३०७)

yathā tasyaiva hi pitā śacyā iva śatakratuḥ |

1.308१.३०८

सा जिष्णुम् अधिकं भेजे सुभद्रा चारुदर्शना । (१।३०८)

sā jiṣṇum adhikaṃ bheje subhadrā cārudarśanā |

1.309१.३०९

पार्थस्य सदृशी भद्रा रूपेण वयसा तथा । (१।३०९)

pārthasya sadṛśī bhadrā rūpeṇa vayasā tathā |

1.310१.३१०

सुभद्रायाश्च पार्थो ऽपि सदृशो रूपलक्षणैः । (१।३१०)

subhadrāyāśca pārtho 'pi sadṛśo rūpalakṣaṇaiḥ |

1.311१.३११

इत्यूचुश्च तदा देवाः प्रीताः सेन्द्रपुरोगमाः । (१।३११)

ityūcuśca tadā devāḥ prītāḥ sendrapurogamāḥ |

1.312१.३१२

एवं निवेश्य देवास्तु गन्धर्वैः साप्सरोगणैः । (१।३१२)

evaṃ niveśya devāstu gandharvaiḥ sāpsarogaṇaiḥ |

1.313१.३१३

आमन्त्र्य यादवान् सर्वे विप्रजग्मुर् यथागतम् । (१।३१३)

āmantrya yādavān sarve viprajagmur yathāgatam |

1.314१.३१४

यादवाः पार्थम् आमन्त्र्य अन्तर्द्वीपं गतास्तदा । (१।३१४)

yādavāḥ pārtham āmantrya antardvīpaṃ gatāstadā |

1.315१.३१५

वासुदेवस्तदा पार्थम् उवाच यदुनन्दनः । (१।३१५)

vāsudevastadā pārtham uvāca yadunandanaḥ |

1.316१.३१६

द्वाविंशद्दिवसान् पार्थ इहोष्य भरतर्षभ । (१।३१६)

dvāviṃśaddivasān pārtha ihoṣya bharatarṣabha |

1.317१.३१७

मामकं रथम् आरुह्य सैन्यसुग्रीवयोजितम् । (१।३१७)

māmakaṃ ratham āruhya sainyasugrīvayojitam |

1.318१.३१८

सुभद्रया सुखं पार्थ खाण्डवप्रस्थम् आविश । (१।३१८)

subhadrayā sukhaṃ pārtha khāṇḍavaprastham āviśa |

1.319१.३१९

यादवैः सहितः पश्चाद् आगमिष्यामि भारत । (१।३१९)

yādavaiḥ sahitaḥ paścād āgamiṣyāmi bhārata |

1.320१.३२०

यतिवेषेण निरतो वस त्वं रुक्मिणीगृहे । (१।३२०)

yativeṣeṇa nirato vasa tvaṃ rukmiṇīgṛhe |

1.321१.३२१

एवम् उक्त्वा प्रचक्राम अन्तर्द्वीपं जनार्दनः । (१।३२१)

evam uktvā pracakrāma antardvīpaṃ janārdanaḥ |

1.322१.३२२

कृतोद्वाहस्तदा पार्थः कृतकार्यो ऽभवत् तदा । (१।३२२)

kṛtodvāhastadā pārthaḥ kṛtakāryo 'bhavat tadā |

1.323१.३२३

तस्यां चोपगतो भावः पार्थस्य सहसागतः । (१।३२३)

tasyāṃ copagato bhāvaḥ pārthasya sahasāgataḥ |

1.324१.३२४

स तया युयुजे वीरो भद्रया भरतर्षभः । (१।३२४)

sa tayā yuyuje vīro bhadrayā bharatarṣabhaḥ |

1.325१.३२५

अभिनिष्पन्नया रामः सीतयेव समन्वितः । (१।३२५)

abhiniṣpannayā rāmaḥ sītayeva samanvitaḥ |

1.326१.३२६

स हि जिष्णुर् विजज्ञे तां ह्रीं श्रियं संनतिक्रियाम् । (१।३२६)

sa hi jiṣṇur vijajñe tāṃ hrīṃ śriyaṃ saṃnatikriyām |

1.327१.३२७

द्वादशानां वरस्त्रीणां रूपेणासदृशीं सतीम् । (१।३२७)

dvādaśānāṃ varastrīṇāṃ rūpeṇāsadṛśīṃ satīm |

1.328१.३२८

स प्रकृत्या श्रिया दीप्तः संदिदीपे तयाधिकम् । (१।३२८)

sa prakṛtyā śriyā dīptaḥ saṃdidīpe tayādhikam |

1.329१.३२९

उद्यत्सहस्रदीप्तांशुः शरदीव दिवाकरः । (१।३२९)

udyatsahasradīptāṃśuḥ śaradīva divākaraḥ |

1.330१.३३०

सा तु तं मनुजव्याघ्रम् अनुरक्ता मनस्विनी । (१।३३०)

sā tu taṃ manujavyāghram anuraktā manasvinī |

1.331१.३३१

कन्यापुरगता भूत्वा तत्परा समपद्यत । (१।३३१)

kanyāpuragatā bhūtvā tatparā samapadyata |

1.332१.३३२

वृष्ण्यन्धकपुरात् तत्र अपयानं धनंजयः । (१।३३२)

vṛṣṇyandhakapurāt tatra apayānaṃ dhanaṃjayaḥ |

1.333१.३३३

विनिश्चित्य तया पार्थः सुभद्राम् इदम् अब्रवीत् । (१।३३३)

viniścitya tayā pārthaḥ subhadrām idam abravīt |

1.334१.३३४

द्विजानां गणमुख्यानां यथार्हं प्रतिपादय । (१।३३४)

dvijānāṃ gaṇamukhyānāṃ yathārhaṃ pratipādaya |

1.335१.३३५

भक्ष्यैर् भोज्यैश्च कामैश्च प्रयच्छ प्रतियास्यताम् । (१।३३५)

bhakṣyair bhojyaiśca kāmaiśca prayaccha pratiyāsyatām |

1.336१.३३६

आत्मनश्च समुद्दिश्य महाव्रतसमापनम् । (१।३३६)

ātmanaśca samuddiśya mahāvratasamāpanam |

1.337१.३३७

गच्छ भद्रे स्वयं तूर्णं महाराजनिवेशनम् । (१।३३७)

gaccha bhadre svayaṃ tūrṇaṃ mahārājaniveśanam |

1.338१.३३८

तेजोबलजवोपेतै रत्नैर् हयवरोत्तमैः । (१।३३८)

tejobalajavopetai ratnair hayavarottamaiḥ |

1.339१.३३९

सैन्यसुग्रीवसंयुक्तं रथं तूर्णम् इहानय । (१।३३९)

sainyasugrīvasaṃyuktaṃ rathaṃ tūrṇam ihānaya |

1.340१.३४०

क्रीडार्थम् इति भाषित्वा सखीभिः सुभगे सह । (१।३४०)

krīḍārtham iti bhāṣitvā sakhībhiḥ subhage saha |

1.341१.३४१

क्षिप्रम् आदाय पर्येहि रथं सर्वायुधानि च । (१।३४१)

kṣipram ādāya paryehi rathaṃ sarvāyudhāni ca |

1.342१.३४२

अनुकर्षान् पताकाश्च तूणीरांश्च धनूंषि च । (१।३४२)

anukarṣān patākāśca tūṇīrāṃśca dhanūṃṣi ca |

1.343१.३४३

सर्वान् रथवरे कुर्याः सोत्सेधाश्च महागदाः । (१।३४३)

sarvān rathavare kuryāḥ sotsedhāśca mahāgadāḥ |

1.344१.३४४

अर्जुनेनैवम् उक्ता तु सुभद्रा भद्रभाषिणी । (१।३४४)

arjunenaivam uktā tu subhadrā bhadrabhāṣiṇī |

1.345१.३४५

जगाम नृपतेर् वेश्म सखीभिस्त्वरिता सह । (१।३४५)

jagāma nṛpater veśma sakhībhistvaritā saha |

1.346१.३४६

क्रीडार्थम् इव तत्रस्थान् रक्षिणो वाक्यम् अब्रवीत् । (१।३४६)

krīḍārtham iva tatrasthān rakṣiṇo vākyam abravīt |

1.347१.३४७

रथेनानेन यास्यामि महाव्रतसमापनम् । (१।३४७)

rathenānena yāsyāmi mahāvratasamāpanam |

1.348१.३४८

सैन्यसुग्रीवयुक्तेन सायुधेन च शार्ङ्गिणः । (१।३४८)

sainyasugrīvayuktena sāyudhena ca śārṅgiṇaḥ |

1.349१.३४९

सुभद्रयैवम् उक्ते तु जनाः प्राञ्जलयो ऽब्रुवन् । (१।३४९)

subhadrayaivam ukte tu janāḥ prāñjalayo 'bruvan |

1.350१.३५०

रथेनानेन भद्रे त्वं यथेष्टं क्रियताम् इति । (१।३५०)

rathenānena bhadre tvaṃ yatheṣṭaṃ kriyatām iti |

1.351१.३५१

योजयित्वा रथवरं कल्याणैर् अभिभाष्य ताम् । (१।३५१)

yojayitvā rathavaraṃ kalyāṇair abhibhāṣya tām |

1.352१.३५२

यथोक्तं सर्वम् आरोप्य सखीभिः सह भामिनी । (१।३५२)

yathoktaṃ sarvam āropya sakhībhiḥ saha bhāminī |

1.353१.३५३

क्षिप्रम् आदाय कल्याणी सुभद्रार्जुनम् अब्रवीत् । (१।३५३)

kṣipram ādāya kalyāṇī subhadrārjunam abravīt |

1.354१.३५४

रथो ऽयं रथिनां श्रेष्ठ आनीतस्तव शासनात् । (१।३५४)

ratho 'yaṃ rathināṃ śreṣṭha ānītastava śāsanāt |

1.355१.३५५

स्वस्ति याहि यथाकामं कुरून् कौरवनन्दन । (१।३५५)

svasti yāhi yathākāmaṃ kurūn kauravanandana |

1.356१.३५६

निवेद्य तं रथं भर्तुः सुभद्रा भद्रसंमता । (१।३५६)

nivedya taṃ rathaṃ bhartuḥ subhadrā bhadrasaṃmatā |

1.357१.३५७

ब्राह्मणेभ्यो ददौ हृष्टा तदा सा विविधं वसु । (१।३५७)

brāhmaṇebhyo dadau hṛṣṭā tadā sā vividhaṃ vasu |

1.358१.३५८

स्नेहवन्ति च भोज्यानि प्रददावीप्सितानि च । (१।३५८)

snehavanti ca bhojyāni pradadāvīpsitāni ca |

1.359१.३५९

यथाकामं यथाश्रद्धं वस्त्राणि विविधानि च । (१।३५९)

yathākāmaṃ yathāśraddhaṃ vastrāṇi vividhāni ca |

1.360१.३६०

तर्पिता विविधैर् भक्ष्यैस्तान्यवाप्य वसूनि च । (१।३६०)

tarpitā vividhair bhakṣyaistānyavāpya vasūni ca |

1.361१.३६१

ब्राह्मणाः स्वगृहं जग्मुः प्रयुज्य परमाशिषः । (१।३६१)

brāhmaṇāḥ svagṛhaṃ jagmuḥ prayujya paramāśiṣaḥ |

1.362१.३६२

सुभद्रया तु विज्ञप्तः पूर्वम् एव धनंजयः । (१।३६२)

subhadrayā tu vijñaptaḥ pūrvam eva dhanaṃjayaḥ |

1.363१.३६३

रश्मिप्रग्रहणे पार्थ न मे ऽस्ति सदृशो भुवि । (१।३६३)

raśmipragrahaṇe pārtha na me 'sti sadṛśo bhuvi |

1.364१.३६४

तस्मात् सा पूर्वम् आरुह्य रश्मीञ् जग्राह माधवी । (१।३६४)

tasmāt sā pūrvam āruhya raśmīñ jagrāha mādhavī |

1.365१.३६५

सोदरा वासुदेवस्य कृतस्वस्त्ययना हयान् । (१।३६५)

sodarā vāsudevasya kṛtasvastyayanā hayān |

1.366१.३६६

वर्जयित्वा तु तल्लिङ्गं समुच्छ्रितमहाधनुः । (१।३६६)

varjayitvā tu talliṅgaṃ samucchritamahādhanuḥ |

1.367१.३६७

आरुरोह रथश्रेष्ठं शुक्लवासा धनंजयः । (१।३६७)

āruroha rathaśreṣṭhaṃ śuklavāsā dhanaṃjayaḥ |

1.368१.३६८

महेन्द्रदत्तमुकुटं तथा ह्याभरणानि च । (१।३६८)

mahendradattamukuṭaṃ tathā hyābharaṇāni ca |

1.369१.३६९

अलंकृत्य तु कौन्तेयः प्रयातुम् उपचक्रमे । (१।३६९)

alaṃkṛtya tu kaunteyaḥ prayātum upacakrame |

1.370१.३७०

ततः कन्यापुरे घोषस्तुमुलः समपद्यत । (१।३७०)

tataḥ kanyāpure ghoṣastumulaḥ samapadyata |

1.371१.३७१

दृष्ट्वा रथगतं पार्थं खड्गपाणिं धनुर्धरम् । (१।३७१)

dṛṣṭvā rathagataṃ pārthaṃ khaḍgapāṇiṃ dhanurdharam |

1.372१.३७२

अभीशुहस्तां सुश्रोणीम् अर्जुनेन रथे स्थिताम् । (१।३७२)

abhīśuhastāṃ suśroṇīm arjunena rathe sthitām |

1.373१.३७३

ऊचुः कन्यापुरे कन्या वासुदेवसहोदराम् । (१।३७३)

ūcuḥ kanyāpure kanyā vāsudevasahodarām |

1.374१.३७४

सर्वे कामाः समृद्धास्ते सुभद्रे भद्रभाषिणि । (१।३७४)

sarve kāmāḥ samṛddhāste subhadre bhadrabhāṣiṇi |

1.375१.३७५

वासुदेवप्रियं लब्ध्वा भर्तारं वीरम् अर्जुनम् । (१।३७५)

vāsudevapriyaṃ labdhvā bhartāraṃ vīram arjunam |

1.376१.३७६

सर्वसीमन्तिनीनां त्वं श्रेष्ठा कृष्णसहोदरे । (१।३७६)

sarvasīmantinīnāṃ tvaṃ śreṣṭhā kṛṣṇasahodare |

1.377१.३७७

यस्मात् सर्वमनुष्याणां श्रेष्ठो भर्ता तवार्जुनः । (१।३७७)

yasmāt sarvamanuṣyāṇāṃ śreṣṭho bhartā tavārjunaḥ |

1.378१.३७८

उपपन्नस्त्वया वीरः सर्वलोकमहारथः । (१।३७८)

upapannastvayā vīraḥ sarvalokamahārathaḥ |

1.379१.३७९

स्वस्ति याहि गृहं भद्रे सुहृद्भिः संगमो ऽस्तु ते । (१।३७९)

svasti yāhi gṛhaṃ bhadre suhṛdbhiḥ saṃgamo 'stu te |

1.380१.३८०

एवम् उक्ता प्रहृष्टाभिः सखीभिः परिनन्दिता । (१।३८०)

evam uktā prahṛṣṭābhiḥ sakhībhiḥ parinanditā |

1.381१.३८१

भद्रा भद्रजवोपेतान् पुनर् अश्वान् अचोदयत् । (१।३८१)

bhadrā bhadrajavopetān punar aśvān acodayat |

1.382१.३८२

ततश्चामरहस्ता सा सखी कुब्जाङ्गनाभवत् । (१।३८२)

tataścāmarahastā sā sakhī kubjāṅganābhavat |

1.383१.३८३

ततः कन्यापुरद्वारात् सघोषम् अभिनिःसृतम् । (१।३८३)

tataḥ kanyāpuradvārāt saghoṣam abhiniḥsṛtam |

1.384१.३८४

ददृशुस्तं रथश्रेष्ठं जना जीमूतनिःस्वनम् । (१।३८४)

dadṛśustaṃ rathaśreṣṭhaṃ janā jīmūtaniḥsvanam |

1.385१.३८५

सुभद्रासंगृहीतस्य रथस्य महतो रवम् । (१।३८५)

subhadrāsaṃgṛhītasya rathasya mahato ravam |

1.386१.३८६

मेघस्वनम् इवाकाशे शुश्रुवुः पुरवासिनः । (१।३८६)

meghasvanam ivākāśe śuśruvuḥ puravāsinaḥ |

1.387१.३८७

सुभद्रया च सम्पन्ने तिष्ठन् रथवरे ऽर्जुनः । (१।३८७)

subhadrayā ca sampanne tiṣṭhan rathavare 'rjunaḥ |

1.388१.३८८

प्रबभौ परयोपेतः कैलास इव गङ्गया । (१।३८८)

prababhau parayopetaḥ kailāsa iva gaṅgayā |

1.389१.३८९

पार्थः सुभद्रासहितो विरराज महारथः । (१।३८९)

pārthaḥ subhadrāsahito virarāja mahārathaḥ |

1.390१.३९०

पार्थस्येव पिता शक्रो यथा शच्या समन्वितः । (१।३९०)

pārthasyeva pitā śakro yathā śacyā samanvitaḥ |

1.391१.३९१

सुभद्रां प्रेक्ष्य धर्मेण ह्रियमाणां यशस्विनीम् । (१।३९१)

subhadrāṃ prekṣya dharmeṇa hriyamāṇāṃ yaśasvinīm |

1.392१.३९२

चक्रुः किलकिलाशब्दम् आसाद्य बहवो जनाः । (१।३९२)

cakruḥ kilakilāśabdam āsādya bahavo janāḥ |

1.393१.३९३

दाशार्हाणां कुलस्य श्रीः सुभद्रा भद्रभाषिणी । (१।३९३)

dāśārhāṇāṃ kulasya śrīḥ subhadrā bhadrabhāṣiṇī |

1.394१.३९४

अभिकामा सकामेन पार्थेन सह गच्छति । (१।३९४)

abhikāmā sakāmena pārthena saha gacchati |

1.395१.३९५

अथापरे हि संक्रुद्धा गृह्णीत घ्नत माचिरम् । (१।३९५)

athāpare hi saṃkruddhā gṛhṇīta ghnata māciram |

1.396१.३९६

इति संवार्यमाणानां स नादः सुमहान् अभूत् । (१।३९६)

iti saṃvāryamāṇānāṃ sa nādaḥ sumahān abhūt |

1.397१.३९७

स तेन जनघोषेण वीरो गज इवार्दितः । (१।३९७)

sa tena janaghoṣeṇa vīro gaja ivārditaḥ |

1.398१.३९८

ववर्ष शरवर्षाणि न तु कंचन रोषयत् । (१।३९८)

vavarṣa śaravarṣāṇi na tu kaṃcana roṣayat |

1.399१.३९९

मुमोच निशितान् बाणान् दीप्यमानान् स्वतेजसा । (१।३९९)

mumoca niśitān bāṇān dīpyamānān svatejasā |

1.400१.४००

प्रासादवरसंघेषु हर्म्येषु भवनेषु च । (१।४००)

prāsādavarasaṃgheṣu harmyeṣu bhavaneṣu ca |

1.401१.४०१

प्रासादपङ्क्तिस्तम्भेषु वेदिकासु ध्वजेषु च । (१।४०१)

prāsādapaṅktistambheṣu vedikāsu dhvajeṣu ca |

1.402१.४०२

मुमोच निशितान् बाणान् न च कंचन रोषयत् । (१।४०२)

mumoca niśitān bāṇān na ca kaṃcana roṣayat |

1.403१.४०३

क्षोभयित्वा पुरश्रेष्ठं गरुत्मान् इव सागरम् । (१।४०३)

kṣobhayitvā puraśreṣṭhaṃ garutmān iva sāgaram |

1.404१.४०४

प्रेक्षन् रैवतकद्वारं निर्ययौ भरतर्षभः । (१।४०४)

prekṣan raivatakadvāraṃ niryayau bharatarṣabhaḥ |

1.405१.४०५

शासनात् पुरुषेन्द्रस्य बलेन महता बली । (१।४०५)

śāsanāt puruṣendrasya balena mahatā balī |

1.406१.४०६

गिरौ रैवतके नित्यं बभूव विपृथुश्रवाः । (१।४०६)

girau raivatake nityaṃ babhūva vipṛthuśravāḥ |

1.407१.४०७

प्रवासे वासुदेवस्य तस्मिन् हलधरोपमः । (१।४०७)

pravāse vāsudevasya tasmin haladharopamaḥ |

1.408१.४०८

संबभूव तदा गोप्ता पुरस्य पुरवर्धनः । (१।४०८)

saṃbabhūva tadā goptā purasya puravardhanaḥ |

1.409१.४०९

प्राप्य पाण्डवनिर्याणं निर्ययौ विपृथुश्रवाः । (१।४०९)

prāpya pāṇḍavaniryāṇaṃ niryayau vipṛthuśravāḥ |

1.410१.४१०

निशम्य पुरनिर्घोषं स्वम् अनीकम् अचोदयत् । (१।४१०)

niśamya puranirghoṣaṃ svam anīkam acodayat |

1.411१.४११

सो ऽभिपत्य तदाध्वानं ददर्श पुरुषर्षभम् । (१।४११)

so 'bhipatya tadādhvānaṃ dadarśa puruṣarṣabham |

1.412१.४१२

निःसृतं द्वारकाद्वाराद् अंशुमन्तम् इवाम्बुदात् । (१।४१२)

niḥsṛtaṃ dvārakādvārād aṃśumantam ivāmbudāt |

1.413१.४१३

सविद्युतम् इवाम्भोदं प्रेक्ष्य बाणधनुर्धरम् । (१।४१३)

savidyutam ivāmbhodaṃ prekṣya bāṇadhanurdharam |

1.414१.४१४

पार्थम् आसाद्य योधानां विस्मयः समपद्यत । (१।४१४)

pārtham āsādya yodhānāṃ vismayaḥ samapadyata |

1.415१.४१५

उदीर्णरथनागाश्वम् अनीकम् अभिवीक्ष्य तत् । (१।४१५)

udīrṇarathanāgāśvam anīkam abhivīkṣya tat |

1.416१.४१६

उवाच परमप्रीता सुभद्रा भद्रभाषिणी । (१।४१६)

uvāca paramaprītā subhadrā bhadrabhāṣiṇī |

1.417१.४१७

संग्रहीतुम् अभिप्रायो दीर्घकालकृतो मम । (१।४१७)

saṃgrahītum abhiprāyo dīrghakālakṛto mama |

1.418१.४१८

युध्यमानस्य संग्रामे रथं तव नरर्षभ । (१।४१८)

yudhyamānasya saṃgrāme rathaṃ tava nararṣabha |

1.419१.४१९

ओजस्तेजोद्युतिबलैर् आचितस्य महात्मनः । (१।४१९)

ojastejodyutibalair ācitasya mahātmanaḥ |

1.420१.४२०

पार्थस्य वै सारथित्वे भवेथा इत्यशिक्षयन् । (१।४२०)

pārthasya vai sārathitve bhavethā ityaśikṣayan |

1.421१.४२१

एवम् उक्तः प्रियां प्रीतः प्रत्युवाच नरर्षभः । (१।४२१)

evam uktaḥ priyāṃ prītaḥ pratyuvāca nararṣabhaḥ |

1.422१.४२२

चोदयाश्वान् असंसक्तान् विशन्तु विपृथोर् बलम् । (१।४२२)

codayāśvān asaṃsaktān viśantu vipṛthor balam |

1.423१.४२३

बहुभिर् युध्यमानस्य तावकानां जिघांसतः । (१।४२३)

bahubhir yudhyamānasya tāvakānāṃ jighāṃsataḥ |

1.424१.४२४

पश्य बाहुबलं भद्रे शरान् विक्षिपतो मम । (१।४२४)

paśya bāhubalaṃ bhadre śarān vikṣipato mama |

1.425१.४२५

एवम् उक्ता ततो भद्रा पार्थेन भरतर्षभ । (१।४२५)

evam uktā tato bhadrā pārthena bharatarṣabha |

1.426१.४२६

चुचोद चाश्वान् विश्रब्धा ततस्ते विविशुर् बलम् । (१।४२६)

cucoda cāśvān viśrabdhā tataste viviśur balam |

1.427१.४२७

तदाहतमहावाद्यं समुदग्रध्वजायुतम् । (१।४२७)

tadāhatamahāvādyaṃ samudagradhvajāyutam |

1.428१.४२८

अनीकं विपृथोर् हृष्टं पार्थम् एवान्ववर्तत । (१।४२८)

anīkaṃ vipṛthor hṛṣṭaṃ pārtham evānvavartata |

1.429१.४२९

रथैर् बहुविधैर् हृष्टाः सदश्वैश्च महाजवैः । (१।४२९)

rathair bahuvidhair hṛṣṭāḥ sadaśvaiśca mahājavaiḥ |

1.430१.४३०

किरन्तः शरवर्षाणि परिवव्रुर् धनंजयम् । (१।४३०)

kirantaḥ śaravarṣāṇi parivavrur dhanaṃjayam |

1.431१.४३१

तेषाम् अस्त्राणि संवार्य दिव्यैर् अस्त्रैर् महास्त्रवित् । (१।४३१)

teṣām astrāṇi saṃvārya divyair astrair mahāstravit |

1.432१.४३२

आवृणोन् महद् आकाशं शरैः परपुरंजयः । (१।४३२)

āvṛṇon mahad ākāśaṃ śaraiḥ parapuraṃjayaḥ |

1.433१.४३३

तेषां बाणान् महाबाहुर् मकुटान्यङ्गदान्यपि । (१।४३३)

teṣāṃ bāṇān mahābāhur makuṭānyaṅgadānyapi |

1.434१.४३४

चिछेद निशितैर् बाणैः शरांश्चैव धनूंषि च । (१।४३४)

cicheda niśitair bāṇaiḥ śarāṃścaiva dhanūṃṣi ca |

1.435१.४३५

युगानीषा वरूथानि यन्त्राणि विविधानि च । (१।४३५)

yugānīṣā varūthāni yantrāṇi vividhāni ca |

1.436१.४३६

अजिघांसन् परान् पार्थश्चिछेद निशितैः शरैः । (१।४३६)

ajighāṃsan parān pārthaścicheda niśitaiḥ śaraiḥ |

1.437१.४३७

निर्धनुष्कान् विकवचान् विरथांश्च महारथान् । (१।४३७)

nirdhanuṣkān vikavacān virathāṃśca mahārathān |

1.438१.४३८

कृत्वा पार्थः प्रियां प्रीतः प्रेक्ष्यताम् इत्यदर्शयत् । (१।४३८)

kṛtvā pārthaḥ priyāṃ prītaḥ prekṣyatām ityadarśayat |

1.439१.४३९

सा दृष्ट्वा महद् आश्चर्यं सुभद्रा पार्थम् अब्रवीत् । (१।४३९)

sā dṛṣṭvā mahad āścaryaṃ subhadrā pārtham abravīt |

1.440१.४४०

अवाप्तार्थास्मि भद्रं ते याहि पार्थ यथासुखम् । (१।४४०)

avāptārthāsmi bhadraṃ te yāhi pārtha yathāsukham |

1.441१.४४१

संसक्तं पाण्डुपुत्रेण समीक्ष्य विपृथुर् बलम् । (१।४४१)

saṃsaktaṃ pāṇḍuputreṇa samīkṣya vipṛthur balam |

1.442१.४४२

त्वरमाणो ऽभिसंक्रम्य स्थीयताम् इत्यभाषत । (१।४४२)

tvaramāṇo 'bhisaṃkramya sthīyatām ityabhāṣata |

1.443१.४४३

तत् तु सेनापतेर् वाक्यं नात्यवर्तन्त यादवाः । (१।४४३)

tat tu senāpater vākyaṃ nātyavartanta yādavāḥ |

1.444१.४४४

सागरे मारुतोद्धूता वेलाम् इव महोर्मयः । (१।४४४)

sāgare mārutoddhūtā velām iva mahormayaḥ |

1.445१.४४५

ततो रथवरात् तूर्णम् अवरुह्य नरर्षभः । (१।४४५)

tato rathavarāt tūrṇam avaruhya nararṣabhaḥ |

1.446१.४४६

अभिगम्य नरव्याघ्रं प्रहृष्टः परिषस्वजे । (१।४४६)

abhigamya naravyāghraṃ prahṛṣṭaḥ pariṣasvaje |

1.447१.४४७

सो ऽब्रवीत् पार्थम् आसाद्य दीर्घकालम् इदं तव । (१।४४७)

so 'bravīt pārtham āsādya dīrghakālam idaṃ tava |

1.448१.४४८

निवासम् अभिजानामि शङ्खचक्रगदाधरात् । (१।४४८)

nivāsam abhijānāmi śaṅkhacakragadādharāt |

1.449१.४४९

न मे ऽस्त्यविदितं किंचिद् यद् यद् आचरितं त्वया । (१।४४९)

na me 'styaviditaṃ kiṃcid yad yad ācaritaṃ tvayā |

1.450१.४५०

सुभद्रासंप्रयोगेन प्रीतस्तव जनार्दनः । (१।४५०)

subhadrāsaṃprayogena prītastava janārdanaḥ |

1.451१.४५१

प्राप्तस्य यतिलिङ्गेन द्वारकां तु धनंजय । (१।४५१)

prāptasya yatiliṅgena dvārakāṃ tu dhanaṃjaya |

1.452१.४५२

विसृष्टा सर्ववृष्णीनाम् ऋषभेण च सोदरा । (१।४५२)

visṛṣṭā sarvavṛṣṇīnām ṛṣabheṇa ca sodarā |

1.453१.४५३

त्वम् इमां वीर दाशार्हां शचीम् इव शचीपतिः । (१।४५३)

tvam imāṃ vīra dāśārhāṃ śacīm iva śacīpatiḥ |

1.454१.४५४

भक्तां गुणवतीं भद्रां सदा सत्कर्तुम् अर्हसि । (१।४५४)

bhaktāṃ guṇavatīṃ bhadrāṃ sadā satkartum arhasi |

1.455१.४५५

बन्धुर् भव सुभद्राया गतिश्च त्वं धनंजय । (१।४५५)

bandhur bhava subhadrāyā gatiśca tvaṃ dhanaṃjaya |

1.456१.४५६

बन्धुमान् असि रामेण महेन्द्रावरजेन च । (१।४५६)

bandhumān asi rāmeṇa mahendrāvarajena ca |

1.457१.४५७

माम् एव हि सदाकार्षीन् मन्त्रिणं मधुसूदनः । (१।४५७)

mām eva hi sadākārṣīn mantriṇaṃ madhusūdanaḥ |

1.458१.४५८

अन्तरेण सुभद्रां च त्वां च तात धनंजय । (१।४५८)

antareṇa subhadrāṃ ca tvāṃ ca tāta dhanaṃjaya |

1.459१.४५९

इमं रथवरं दिव्यं सर्वशस्त्रसमन्वितम् । (१।४५९)

imaṃ rathavaraṃ divyaṃ sarvaśastrasamanvitam |

1.460१.४६०

इदम् एवानुयात्रं च निर्दिश्य गदपूर्वजः । (१।४६०)

idam evānuyātraṃ ca nirdiśya gadapūrvajaḥ |

1.461१.४६१

अन्तर्द्वीपं तदा वीर यातो वृष्णिसुखावहः । (१।४६१)

antardvīpaṃ tadā vīra yāto vṛṣṇisukhāvahaḥ |

1.462१.४६२

दीर्घकालावरुद्धं त्वां सम्प्राप्तं प्रियया सह । (१।४६२)

dīrghakālāvaruddhaṃ tvāṃ samprāptaṃ priyayā saha |

1.463१.४६३

पश्यन्तु भ्रातरस्तत्र वज्रपाणिम् इवामराः । (१।४६३)

paśyantu bhrātarastatra vajrapāṇim ivāmarāḥ |

1.464१.४६४

आगते तु दशार्हाणाम् ऋषभे शार्ङ्गधन्वनि । (१।४६४)

āgate tu daśārhāṇām ṛṣabhe śārṅgadhanvani |

1.465१.४६५

भद्राम् अनुगमिष्यन्ति रत्नानि च वसूनि च । (१।४६५)

bhadrām anugamiṣyanti ratnāni ca vasūni ca |

1.466१.४६६

अरिष्टं गच्छ पन्थानं सुखी भव धनंजय । (१।४६६)

ariṣṭaṃ gaccha panthānaṃ sukhī bhava dhanaṃjaya |

1.467१.४६७

नष्टशोकैर् विशोकस्य सुहृद्भिः संगमो ऽस्तु ते । (१।४६७)

naṣṭaśokair viśokasya suhṛdbhiḥ saṃgamo 'stu te |

1.468१.४६८

ततो विपृथुम् आमन्त्र्य पार्थः प्रीतो ऽभिवाद्य च । (१।४६८)

tato vipṛthum āmantrya pārthaḥ prīto 'bhivādya ca |

1.469१.४६९

कृष्णस्य मतम् आस्थाय कृष्णस्य रथम् आस्थितः । (१।४६९)

kṛṣṇasya matam āsthāya kṛṣṇasya ratham āsthitaḥ |

1.470१.४७०

पूर्वम् एव तु पार्थाय कृष्णेन विनियोजितम् । (१।४७०)

pūrvam eva tu pārthāya kṛṣṇena viniyojitam |

1.471१.४७१

सर्वरत्नसुसम्पूर्णं सर्वभोगसमन्वितम् ॥ (१।४७१)

sarvaratnasusampūrṇaṃ sarvabhogasamanvitam ||

2.1२.१

वासुदेवाभ्यनुज्ञातः कथयित्वेतिकृत्यताम् । (२।१)

vāsudevābhyanujñātaḥ kathayitvetikṛtyatām |

2.2२.२

कृष्णस्य मतम् आज्ञाय प्रययौ भरतर्षभः । (२।२)

kṛṣṇasya matam ājñāya prayayau bharatarṣabhaḥ |

2.3२.३

वृत्तैः सहोत्सवैर् एवं वृष्णयो ऽप्यगमन् पुरीम् ॥ (२।३)

vṛttaiḥ sahotsavair evaṃ vṛṣṇayo 'pyagaman purīm ||

3.1३.१

रथेन काञ्चनाङ्गेन कल्पितेन यथाविधि । (३।१)

rathena kāñcanāṅgena kalpitena yathāvidhi |

3.2३.२

सैन्यसुग्रीवयुक्तेन किङ्किणीजालमालिना ॥ (३।२)

sainyasugrīvayuktena kiṅkiṇījālamālinā ||

4.1४.१

सर्वशस्त्रोपपन्नेन जीमूतरवनादिना । (४।१)

sarvaśastropapannena jīmūtaravanādinā |

4.2४.२

ज्वलिताग्निप्रकाशेन द्विषतां हर्षघातिना ॥ (४।२)

jvalitāgniprakāśena dviṣatāṃ harṣaghātinā ||

5.1५.१

संनद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान् । (५।१)

saṃnaddhaḥ kavacī khaḍgī baddhagodhāṅgulitravān |

5.2५.२

युक्तः सेनानुयात्रेण रथम् आरोप्य माधवीम् । (५।२)

yuktaḥ senānuyātreṇa ratham āropya mādhavīm |

5.3५.३

मृगयाव्यपदेशेन यौगपद्येन भारत ॥ (५।३)

mṛgayāvyapadeśena yaugapadyena bhārata ||

6.1६.१

सुभद्रा त्वथ शैलेन्द्रम् अभ्यर्च्य सह रैवतम् । (६।१)

subhadrā tvatha śailendram abhyarcya saha raivatam |

6.2६.२

दैवतानि च सर्वाणि ब्राह्मणान् स्वस्ति वाच्य च ॥ (६।२)

daivatāni ca sarvāṇi brāhmaṇān svasti vācya ca ||

7.1७.१

प्रदक्षिणं गिरिं कृत्वा प्रययौ द्वारकां प्रति । (७।१)

pradakṣiṇaṃ giriṃ kṛtvā prayayau dvārakāṃ prati |

7.2७.२

सुभद्रां कृष्णभगिनीं स्त्रीभिः परिवृतां तदा । (७।२)

subhadrāṃ kṛṣṇabhaginīṃ strībhiḥ parivṛtāṃ tadā |

7.3७.३

ताम् अभिद्रुत्य कौन्तेयः प्रसह्यारोपयद् रथम् । (७।३)

tām abhidrutya kaunteyaḥ prasahyāropayad ratham |

7.4७.४

सुभद्रां चारुसर्वाङ्गीं कामबाणप्रपीडितः ॥ (७।४)

subhadrāṃ cārusarvāṅgīṃ kāmabāṇaprapīḍitaḥ ||

8.1८.१

ततः स पुरुषव्याघ्रस्ताम् आदाय शुचिस्मिताम् । (८।१)

tataḥ sa puruṣavyāghrastām ādāya śucismitām |

8.2८.२

रथेनाकाशगेनैव प्रययौ स्वपुरं प्रति ॥ (८।२)

rathenākāśagenaiva prayayau svapuraṃ prati ||

9.1९.१

ह्रियमाणां तु तां दृष्ट्वा सुभद्रां सैनिको जनः । (९।१)

hriyamāṇāṃ tu tāṃ dṛṣṭvā subhadrāṃ sainiko janaḥ |

9.2९.२

विक्रोशन् प्राद्रवत् सर्वो द्वारकाम् अभितः पुरीम् ॥ (९।२)

vikrośan prādravat sarvo dvārakām abhitaḥ purīm ||

10.1१०.१

ते समासाद्य सहिताः सुधर्माम् अभितः सभाम् । (१०।१)

te samāsādya sahitāḥ sudharmām abhitaḥ sabhām |

10.2१०.२

सभापालस्य तत् सर्वम् आचख्युः पार्थविक्रमम् ॥ (१०।२)

sabhāpālasya tat sarvam ācakhyuḥ pārthavikramam ||

11.1११.१

तेषां श्रुत्वा सभापालो भेरीं सांनाहिकीं ततः । (११।१)

teṣāṃ śrutvā sabhāpālo bherīṃ sāṃnāhikīṃ tataḥ |

11.2११.२

समाजघ्ने महाघोषां जाम्बूनदपरिष्कृताम् ॥ (११।२)

samājaghne mahāghoṣāṃ jāmbūnadapariṣkṛtām ||

12.1१२.१

क्षुब्धास्तेनाथ शब्देन भोजवृष्ण्यन्धकास्तदा । (१२।१)

kṣubdhāstenātha śabdena bhojavṛṣṇyandhakāstadā |

12.2१२.२

अन्तर्द्वीपात् समुत्पेतुः सहसा सहितास्तदा । (१२।२)

antardvīpāt samutpetuḥ sahasā sahitāstadā |

12.3१२.३

अन्नपानम् अपास्याथ समापेतुः सभां ततः ॥ (१२।३)

annapānam apāsyātha samāpetuḥ sabhāṃ tataḥ ||

13.1१३.१

ततो जाम्बूनदाङ्गानि स्पर्ध्यास्तरणवन्ति च । (१३।१)

tato jāmbūnadāṅgāni spardhyāstaraṇavanti ca |

13.2१३.२

मणिविद्रुमचित्राणि ज्वलिताग्निप्रभाणि च ॥ (१३।२)

maṇividrumacitrāṇi jvalitāgniprabhāṇi ca ||

14.1१४.१

भेजिरे पुरुषव्याघ्रा वृष्ण्यन्धकमहारथाः । (१४।१)

bhejire puruṣavyāghrā vṛṣṇyandhakamahārathāḥ |

14.2१४.२

सिंहासनानि शतशो धिष्ण्यानीव हुताशनाः ॥ (१४।२)

siṃhāsanāni śataśo dhiṣṇyānīva hutāśanāḥ ||

15.1१५.१

तेषां समुपविष्टानां देवानाम् इव संनये । (१५।१)

teṣāṃ samupaviṣṭānāṃ devānām iva saṃnaye |

15.2१५.२

आचख्यौ चेष्टितं जिष्णोः सभापालः सहानुगः ॥ (१५।२)

ācakhyau ceṣṭitaṃ jiṣṇoḥ sabhāpālaḥ sahānugaḥ ||

16.1१६.१

तच्छ्रुत्वा वृष्णिवीरास्ते मदरक्तान्तलोचनाः । (१६।१)

tacchrutvā vṛṣṇivīrāste madaraktāntalocanāḥ |

16.2१६.२

अमृष्यमाणाः पार्थस्य समुत्पेतुर् अहंकृताः ॥ (१६।२)

amṛṣyamāṇāḥ pārthasya samutpetur ahaṃkṛtāḥ ||

17.1१७.१

योजयध्वं रथान् आशु प्रासान् आहरतेति च । (१७।१)

yojayadhvaṃ rathān āśu prāsān āharateti ca |

17.2१७.२

नागान् अश्वांस्तथैव च । (१७।२)

nāgān aśvāṃstathaiva ca |

17.3१७.३

कवचान् आहर क्षिप्रं । (१७।३)

kavacān āhara kṣipraṃ |

17.4१७.४

धनूंषि च महार्हाणि कवचानि बृहन्ति च ॥ (१७।४)

dhanūṃṣi ca mahārhāṇi kavacāni bṛhanti ca ||

18.1१८.१

सूतान् उच्चुक्रुशुः केचिद् रथान् योजयतेति च । (१८।१)

sūtān uccukruśuḥ kecid rathān yojayateti ca |

18.2१८.२

स्वयं च तुरगान् केचिन् निन्युर् हेमविभूषितान् ॥ (१८।२)

svayaṃ ca turagān kecin ninyur hemavibhūṣitān ||

19.1१९.१

रथेष्वानीयमानेषु कवचेषु ध्वजेषु च । (१९।१)

ratheṣvānīyamāneṣu kavaceṣu dhvajeṣu ca |

19.2१९.२

अभिक्रन्दे नृवीराणां तदासीत् संकुलं महत् ॥ (१९।२)

abhikrande nṛvīrāṇāṃ tadāsīt saṃkulaṃ mahat ||

20.1२०.१

वनमाली ततः क्षीबः कैलासशिखरोपमः । (२०।१)

vanamālī tataḥ kṣībaḥ kailāsaśikharopamaḥ |

20.2२०.२

नीलवासा मदोत्सिक्त इदं वचनम् अब्रवीत् ॥ (२०।२)

nīlavāsā madotsikta idaṃ vacanam abravīt ||

21.1२१.१

किम् इदं कुरुथाप्रज्ञास्तूष्णीं भूते जनार्दने । (२१।१)

kim idaṃ kuruthāprajñāstūṣṇīṃ bhūte janārdane |

21.2२१.२

अस्य भावम् अविज्ञाय संक्रुद्धा मोघगर्जिताः ॥ (२१।२)

asya bhāvam avijñāya saṃkruddhā moghagarjitāḥ ||

22.1२२.१

एष तावद् अभिप्रायम् आख्यातु स्वं महामतिः । (२२।१)

eṣa tāvad abhiprāyam ākhyātu svaṃ mahāmatiḥ |

22.2२२.२

यद् अस्य रुचितं कर्तुं तत् कुरुध्वम् अतन्द्रिताः ॥ (२२।२)

yad asya rucitaṃ kartuṃ tat kurudhvam atandritāḥ ||

23.1२३.१

ततस्ते तद् वचः श्रुत्वा ग्राह्यरूपं हलायुधात् । (२३।१)

tataste tad vacaḥ śrutvā grāhyarūpaṃ halāyudhāt |

23.2२३.२

तूष्णीं भूतास्ततः सर्वे साधु साध्विति चाब्रुवन् ॥ (२३।२)

tūṣṇīṃ bhūtāstataḥ sarve sādhu sādhviti cābruvan ||

24.1२४.१

समं वचो निशम्येति बलदेवस्य धीमतः । (२४।१)

samaṃ vaco niśamyeti baladevasya dhīmataḥ |

24.2२४.२

पुनर् एव सभामध्ये सर्वे तु समुपाविशन् ॥ (२४।२)

punar eva sabhāmadhye sarve tu samupāviśan ||

25.1२५.१

ततो ऽब्रवीत् कामपालो वासुदेवं परंतपम् । (२५।१)

tato 'bravīt kāmapālo vāsudevaṃ paraṃtapam |

25.2२५.२

त्रैलोक्यनाथ हे कृष्ण भूतभव्यभविष्यकृत् । (२५।२)

trailokyanātha he kṛṣṇa bhūtabhavyabhaviṣyakṛt |

25.3२५.३

किम् अवाग् उपविष्टो ऽसि प्रेक्षमाणो जनार्दन ॥ (२५।३)

kim avāg upaviṣṭo 'si prekṣamāṇo janārdana ||

26.1२६.१

सत्कृतस्त्वत्कृते पार्थः सर्वैर् अस्माभिर् अच्युत । (२६।१)

satkṛtastvatkṛte pārthaḥ sarvair asmābhir acyuta |

26.2२६.२

न च सो ऽर्हति तां पूजां दुर्बुद्धिः कुलपांसनः ॥ (२६।२)

na ca so 'rhati tāṃ pūjāṃ durbuddhiḥ kulapāṃsanaḥ ||

27.1२७.१

को हि तत्रैव भुक्त्वान्नं भाजनं भेत्तुम् अर्हति । (२७।१)

ko hi tatraiva bhuktvānnaṃ bhājanaṃ bhettum arhati |

27.2२७.२

मन्यमानः कुले जातम् आत्मानं पुरुषः क्वचित् ॥ (२७।२)

manyamānaḥ kule jātam ātmānaṃ puruṣaḥ kvacit ||

28.1२८.१

ईप्समानश्च संबन्धं कृतपूर्वं च मानयन् । (२८।१)

īpsamānaśca saṃbandhaṃ kṛtapūrvaṃ ca mānayan |

28.2२८.२

को हि नाम भवेनार्थी साहसेन समाचरेत् ॥ (२८।२)

ko hi nāma bhavenārthī sāhasena samācaret ||

29.1२९.१

सो ऽवमन्य च नामास्मान् अनादृत्य च केशवम् । (२९।१)

so 'vamanya ca nāmāsmān anādṛtya ca keśavam |

29.2२९.२

प्रसह्य हृतवान् अद्य सुभद्रां मृत्युम् आत्मनः ॥ (२९।२)

prasahya hṛtavān adya subhadrāṃ mṛtyum ātmanaḥ ||

30.1३०.१

कथं हि शिरसो मध्ये पदं तेन कृतं मम । (३०।१)

kathaṃ hi śiraso madhye padaṃ tena kṛtaṃ mama |

30.2३०.२

त्वया चेन् नाभ्यनुज्ञातो धर्षयिष्यति माधव । (३०।२)

tvayā cen nābhyanujñāto dharṣayiṣyati mādhava |

30.3३०.३

मर्षयिष्यामि गोविन्द पादस्पर्शम् इवोरगः ॥ (३०।३)

marṣayiṣyāmi govinda pādasparśam ivoragaḥ ||

31.1३१.१

अद्य निष्कौरवाम् एकः करिष्यामि वसुंधराम् । (३१।१)

adya niṣkauravām ekaḥ kariṣyāmi vasuṃdharām |

31.2३१.२

न हि मे मर्षणीयो ऽयम् अर्जुनस्य व्यतिक्रमः । (३१।२)

na hi me marṣaṇīyo 'yam arjunasya vyatikramaḥ |

31.3३१.३

तम् अहं भ्रातृभिः सार्धं निहन्मि कुलपांसनम् ॥ (३१।३)

tam ahaṃ bhrātṛbhiḥ sārdhaṃ nihanmi kulapāṃsanam ||

32.1३२.१

तं तथा गर्जमानं तु मेघदुन्दुभिनिःस्वनम् । (३२।१)

taṃ tathā garjamānaṃ tu meghadundubhiniḥsvanam |

32.2३२.२

अन्वपद्यन्त ते सर्वे भोजवृष्ण्यन्धकास्तदा ॥ (३२।२)

anvapadyanta te sarve bhojavṛṣṇyandhakāstadā ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 1, 212

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit