महाभारतMahābhārata

MBh, 1, 46

46 of 1995 · 123 verses

Select a line for its word-by-word analysis.

1.1१.१

मन्त्रिण ऊचुः । (१।१)

mantriṇa ūcuḥ |

1.2१.२

ततः स राजा राजेन्द्र स्कन्धे तस्य भुजंगमम् । (१।२)

tataḥ sa rājā rājendra skandhe tasya bhujaṃgamam |

1.3१.३

मुनेः क्षुत्क्षाम आसज्य स्वपुरं पुनर् आययौ ॥ (१।३)

muneḥ kṣutkṣāma āsajya svapuraṃ punar āyayau ||

2.1२.१

ऋषेस्तस्य तु पुत्रो ऽभूद् गवि जातो महायशाः । (२।१)

ṛṣestasya tu putro 'bhūd gavi jāto mahāyaśāḥ |

2.2२.२

शृङ्गी नाम महातेजास् तिग्मवीर्यो ऽतिकोपनः ॥ (२।२)

śṛṅgī nāma mahātejās tigmavīryo 'tikopanaḥ ||

3.1३.१

ब्रह्माणं सो ऽभ्युपागम्य मुनिः पूजां चकार ह । (३।१)

brahmāṇaṃ so 'bhyupāgamya muniḥ pūjāṃ cakāra ha |

3.2३.२

अनुज्ञातो गतस्तत्र शृङ्गी शुश्राव तं तदा । (३।२)

anujñāto gatastatra śṛṅgī śuśrāva taṃ tadā |

3.3३.३

सख्युः सकाशात् पितरं पित्रा ते धर्षितं तथा ॥ (३।३)

sakhyuḥ sakāśāt pitaraṃ pitrā te dharṣitaṃ tathā ||

4.1४.१

मृतं सर्पं समासक्तं पित्रा ते जनमेजय । (४।१)

mṛtaṃ sarpaṃ samāsaktaṃ pitrā te janamejaya |

4.2४.२

वहन्तं कुरुशार्दूल स्कन्धेनानपकारिणम् ॥ (४।२)

vahantaṃ kuruśārdūla skandhenānapakāriṇam ||

5.1५.१

तपस्विनम् अतीवाथ तं मुनिप्रवरं नृप । (५।१)

tapasvinam atīvātha taṃ munipravaraṃ nṛpa |

5.2५.२

जितेन्द्रियं विशुद्धं च स्थितं कर्मण्यथाद्भुते ॥ (५।२)

jitendriyaṃ viśuddhaṃ ca sthitaṃ karmaṇyathādbhute ||

6.1६.१

तपसा द्योतितात्मानं स्वेष्वङ्गेषु यतं तथा । (६।१)

tapasā dyotitātmānaṃ sveṣvaṅgeṣu yataṃ tathā |

6.2६.२

शुभाचारं शुभकथं सुस्थिरं तम् अलोलुपम् ॥ (६।२)

śubhācāraṃ śubhakathaṃ susthiraṃ tam alolupam ||

7.1७.१

अक्षुद्रम् अनसूयं च वृद्धं मौनव्रते स्थितम् । (७।१)

akṣudram anasūyaṃ ca vṛddhaṃ maunavrate sthitam |

7.2७.२

शरण्यं सर्वभूतानां पित्रा विप्रकृतं तव ॥ (७।२)

śaraṇyaṃ sarvabhūtānāṃ pitrā viprakṛtaṃ tava ||

8.1८.१

शशापाथ स तच्छ्रुत्वा पितरं ते रुषान्वितः । (८।१)

śaśāpātha sa tacchrutvā pitaraṃ te ruṣānvitaḥ |

8.2८.२

ऋषेः पुत्रो महातेजा बालो ऽपि स्थविरैर् वरः ॥ (८।२)

ṛṣeḥ putro mahātejā bālo 'pi sthavirair varaḥ ||

9.1९.१

स क्षिप्रम् उदकं स्पृष्ट्वा रोषाद् इदम् उवाच ह । (९।१)

sa kṣipram udakaṃ spṛṣṭvā roṣād idam uvāca ha |

9.2९.२

पितरं ते ऽभिसंधाय तेजसा प्रज्वलन्न् इव ॥ (९।२)

pitaraṃ te 'bhisaṃdhāya tejasā prajvalann iva ||

10.1१०.१

अनागसि गुरौ यो मे मृतं सर्पम् अवासृजत् । (१०।१)

anāgasi gurau yo me mṛtaṃ sarpam avāsṛjat |

10.2१०.२

तं नागस्तक्षकः क्रुद्धस्तेजसा सादयिष्यति । (१०।२)

taṃ nāgastakṣakaḥ kruddhastejasā sādayiṣyati |

10.3१०.३

आशीविषस्तिग्मतेजा मद्वाक्यबलचोदितः । (१०।३)

āśīviṣastigmatejā madvākyabalacoditaḥ |

10.4१०.४

सप्तरात्राद् इतः पापं पश्य मे तपसो बलम् ॥ (१०।४)

saptarātrād itaḥ pāpaṃ paśya me tapaso balam ||

11.1११.१

इत्युक्त्वा प्रययौ तत्र पिता यत्रास्य सो ऽभवत् । (११।१)

ityuktvā prayayau tatra pitā yatrāsya so 'bhavat |

11.2११.२

दृष्ट्वा च पितरं तस्मै शापं तं प्रत्यवेदयत् ॥ (११।२)

dṛṣṭvā ca pitaraṃ tasmai śāpaṃ taṃ pratyavedayat ||

12.1१२.१

स चापि मुनिशार्दूलः प्रेषयामास ते पितुः । (१२।१)

sa cāpi muniśārdūlaḥ preṣayāmāsa te pituḥ |

12.2१२.२

शिष्यं गौरमुखं नाम शीलवन्तं गुणान्वितम् । (१२।२)

śiṣyaṃ gauramukhaṃ nāma śīlavantaṃ guṇānvitam |

12.3१२.३

आचख्यौ स च विश्रान्तो राज्ञः सर्वम् अशेषतः । (१२।३)

ācakhyau sa ca viśrānto rājñaḥ sarvam aśeṣataḥ |

12.4१२.४

शप्तो ऽसि मम पुत्रेण यत्तो भव महीपते । (१२।४)

śapto 'si mama putreṇa yatto bhava mahīpate |

12.5१२.५

तक्षकस्त्वां महाराज तेजसा सादयिष्यति ॥ (१२।५)

takṣakastvāṃ mahārāja tejasā sādayiṣyati ||

13.1१३.१

श्रुत्वा तु तद् वचो घोरं पिता ते जनमेजय । (१३।१)

śrutvā tu tad vaco ghoraṃ pitā te janamejaya |

13.2१३.२

यत्तो ऽभवत् परित्रस्तस्तक्षकात् पन्नगोत्तमात् ॥ (१३।२)

yatto 'bhavat paritrastastakṣakāt pannagottamāt ||

14.1१४.१

ततस्तस्मिंस्तु दिवसे सप्तमे समुपस्थिते । (१४।१)

tatastasmiṃstu divase saptame samupasthite |

14.2१४.२

राज्ञः समीपं ब्रह्मर्षिः काश्यपो गन्तुम् ऐच्छत ॥ (१४।२)

rājñaḥ samīpaṃ brahmarṣiḥ kāśyapo gantum aicchata ||

15.1१५.१

तं ददर्शाथ नागेन्द्रः काश्यपं तक्षकस्तदा । (१५।१)

taṃ dadarśātha nāgendraḥ kāśyapaṃ takṣakastadā |

15.2१५.२

तम् अब्रवीत् पन्नगेन्द्रः काश्यपं त्वरितं व्रजन् । (१५।२)

tam abravīt pannagendraḥ kāśyapaṃ tvaritaṃ vrajan |

15.3१५.३

क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति ॥ (१५।३)

kva bhavāṃstvarito yāti kiṃ ca kāryaṃ cikīrṣati ||

16.1१६.१

काश्यप उवाच । (१६।१)

kāśyapa uvāca

16.2१६.२

यत्र राजा कुरुश्रेष्ठः परिक्षिन् नाम वै द्विज । (१६।२)

yatra rājā kuruśreṣṭhaḥ parikṣin nāma vai dvija |

16.3१६.३

तक्षकेण भुजंगेन धक्ष्यते किल तत्र वै ॥ (१६।३)

takṣakeṇa bhujaṃgena dhakṣyate kila tatra vai ||

17.1१७.१

गच्छाम्यहं तं त्वरितः सद्यः कर्तुम् अपज्वरम् । (१७।१)

gacchāmyahaṃ taṃ tvaritaḥ sadyaḥ kartum apajvaram |

17.2१७.२

मयाभिपन्नं तं चापि न सर्पो धर्षयिष्यति ॥ (१७।२)

mayābhipannaṃ taṃ cāpi na sarpo dharṣayiṣyati ||

18.1१८.१

तक्षक उवाच । (१८।१)

takṣaka uvāca

18.2१८.२

किमर्थं तं मया दष्टं संजीवयितुम् इच्छसि । (१८।२)

kimarthaṃ taṃ mayā daṣṭaṃ saṃjīvayitum icchasi |

18.3१८.३

अहं स तक्षको ब्रह्मन् पश्य मे वीर्यम् अद्भुतम् । (१८।३)

ahaṃ sa takṣako brahman paśya me vīryam adbhutam |

18.4१८.४

न शक्तस्त्वं मया दष्टं तं संजीवयितुं नृपम् । (१८।४)

na śaktastvaṃ mayā daṣṭaṃ taṃ saṃjīvayituṃ nṛpam |

18.5१८.५

इत्युक्त्वा तक्षकस्तत्र सो ऽदशद् वै वनस्पतिम् । (१८।५)

ityuktvā takṣakastatra so 'daśad vai vanaspatim |

18.6१८.६

स दष्टमात्रो नागेन भस्मीभूतो ऽभवन् नगः । (१८।६)

sa daṣṭamātro nāgena bhasmībhūto 'bhavan nagaḥ |

18.7१८.७

काश्यपश्च ततो राजन्न् अजीवयत तं नगम् । (१८।७)

kāśyapaśca tato rājann ajīvayata taṃ nagam |

18.8१८.८

ततस्तं लोभयामास कामं ब्रूहीति तक्षकः । (१८।८)

tatastaṃ lobhayāmāsa kāmaṃ brūhīti takṣakaḥ |

18.9१८.९

स एवम् उक्तस्तं प्राह काश्यपस्तक्षकं पुनः । (१८।९)

sa evam uktastaṃ prāha kāśyapastakṣakaṃ punaḥ |

18.10१८.१०

ब्रूहि कामम् अहं ते ऽद्य दद्मि स्वं वेश्म गम्यताम् ॥ (१८।१०)

brūhi kāmam ahaṃ te 'dya dadmi svaṃ veśma gamyatām ||

19.1१९.१

मन्त्रिण ऊचुः । (१९।१)

mantriṇa ūcuḥ |

19.2१९.२

धनलिप्सुर् अहं तत्र यामीत्युक्तश्च तेन सः । (१९।२)

dhanalipsur ahaṃ tatra yāmītyuktaśca tena saḥ |

19.3१९.३

तम् उवाच महात्मानं मानयञ्श्लक्ष्णया गिरा ॥ (१९।३)

tam uvāca mahātmānaṃ mānayañślakṣṇayā girā ||

20.1२०.१

यावद् धनं प्रार्थयसे तस्माद् राज्ञस्ततो ऽधिकम् । (२०।१)

yāvad dhanaṃ prārthayase tasmād rājñastato 'dhikam |

20.2२०.२

गृहाण मत्त एव त्वं संनिवर्तस्व चानघ ॥ (२०।२)

gṛhāṇa matta eva tvaṃ saṃnivartasva cānagha ||

21.1२१.१

स एवम् उक्तो नागेन काश्यपो द्विपदां वरः । (२१।१)

sa evam ukto nāgena kāśyapo dvipadāṃ varaḥ |

21.2२१.२

लब्ध्वा वित्तं निववृते तक्षकाद् यावद् ईप्सितम् ॥ (२१।२)

labdhvā vittaṃ nivavṛte takṣakād yāvad īpsitam ||

22.1२२.१

तस्मिन् प्रतिगते विप्रे छद्मनोपेत्य तक्षकः । (२२।१)

tasmin pratigate vipre chadmanopetya takṣakaḥ |

22.2२२.२

तं नृपं नृपतिश्रेष्ठ पितरं धार्मिकं तव ॥ (२२।२)

taṃ nṛpaṃ nṛpatiśreṣṭha pitaraṃ dhārmikaṃ tava ||

23.1२३.१

प्रासादस्थं यत्तम् अपि दग्धवान् विषवह्निना । (२३।१)

prāsādasthaṃ yattam api dagdhavān viṣavahninā |

23.2२३.२

ततस्त्वं पुरुषव्याघ्र विजयायाभिषेचितः ॥ (२३।२)

tatastvaṃ puruṣavyāghra vijayāyābhiṣecitaḥ ||

24.1२४.१

एतद् दृष्टं श्रुतं चापि यथावन् नृपसत्तम । (२४।१)

etad dṛṣṭaṃ śrutaṃ cāpi yathāvan nṛpasattama |

24.2२४.२

अस्माभिर् निखिलं सर्वं कथितं ते सुदारुणम् ॥ (२४।२)

asmābhir nikhilaṃ sarvaṃ kathitaṃ te sudāruṇam ||

25.1२५.१

श्रुत्वा चैतं नृपश्रेष्ठ पार्थिवस्य पराभवम् । (२५।१)

śrutvā caitaṃ nṛpaśreṣṭha pārthivasya parābhavam |

25.2२५.२

अस्य चर्षेर् उत्तङ्कस्य विधत्स्व यद् अनन्तरम् । (२५।२)

asya carṣer uttaṅkasya vidhatsva yad anantaram |

25.3२५.३

सौतिर् उवाच । (२५।३)

sautir uvāca

25.4२५.४

जनमेजय उवाच । (२५।४)

janamejaya uvāca

25.5२५.५

एतस्मिन्न् एव काले तु स राजा जनमेजयः । (२५।५)

etasminn eva kāle tu sa rājā janamejayaḥ |

25.6२५.६

उवाच मन्त्रिणः सर्वान् इदं वाक्यम् अरिंदमः । (२५।६)

uvāca mantriṇaḥ sarvān idaṃ vākyam ariṃdamaḥ |

25.7२५.७

अथ तत् कथितं केन यद् वृत्तं तद् वनस्पतौ । (२५।७)

atha tat kathitaṃ kena yad vṛttaṃ tad vanaspatau |

25.8२५.८

आश्चर्यभूतं लोकस्य भस्मराशीकृतं तदा । (२५।८)

āścaryabhūtaṃ lokasya bhasmarāśīkṛtaṃ tadā |

25.9२५.९

यद् वृक्षं जीवयामास काश्यपस्तक्षकेण वै । (२५।९)

yad vṛkṣaṃ jīvayāmāsa kāśyapastakṣakeṇa vai |

25.10२५.१०

नूनं मन्त्रैर् हतविषो न प्रणश्येत काश्यपात् । (२५।१०)

nūnaṃ mantrair hataviṣo na praṇaśyeta kāśyapāt |

25.11२५.११

चिन्तयामास पापात्मा मनसा पन्नगाधमः । (२५।११)

cintayāmāsa pāpātmā manasā pannagādhamaḥ |

25.12२५.१२

दष्टं यदि मया विप्रः पार्थिवं जीवयिष्यति । (२५।१२)

daṣṭaṃ yadi mayā vipraḥ pārthivaṃ jīvayiṣyati |

25.13२५.१३

तक्षकः संहतविषो लोके यास्यति हास्यताम् । (२५।१३)

takṣakaḥ saṃhataviṣo loke yāsyati hāsyatām |

25.14२५.१४

विचिन्त्यैवं कृता तेन ध्रुवं तुष्टिर् द्विजस्य वै । (२५।१४)

vicintyaivaṃ kṛtā tena dhruvaṃ tuṣṭir dvijasya vai |

25.15२५.१५

भविष्यति ह्युपायेन यस्य दास्यामि यातनाम् ॥ (२५।१५)

bhaviṣyati hyupāyena yasya dāsyāmi yātanām ||

26.1२६.१

जनमेजय उवाच । (२६।१)

janamejaya uvāca

26.2२६.२

एतत् तु श्रोतुम् इच्छामि अटव्यां निर्जने वने । (२६।२)

etat tu śrotum icchāmi aṭavyāṃ nirjane vane |

26.3२६.३

संवादं पन्नगेन्द्रस्य काश्यपस्य च यत् तदा ॥ (२६।३)

saṃvādaṃ pannagendrasya kāśyapasya ca yat tadā ||

27.1२७.१

केन दृष्टं श्रुतं चापि भवतां श्रोत्रम् आगतम् । (२७।१)

kena dṛṣṭaṃ śrutaṃ cāpi bhavatāṃ śrotram āgatam |

27.2२७.२

श्रुत्वा चाथ विधास्यामि पन्नगान्तकरीं मतिम् ॥ (२७।२)

śrutvā cātha vidhāsyāmi pannagāntakarīṃ matim ||

28.1२८.१

मन्त्रिण ऊचुः । (२८।१)

mantriṇa ūcuḥ |

28.2२८.२

शृणु राजन् यथास्माकं येनैतत् कथितं पुरा । (२८।२)

śṛṇu rājan yathāsmākaṃ yenaitat kathitaṃ purā |

28.3२८.३

समागमं द्विजेन्द्रस्य पन्नगेन्द्रस्य चाध्वनि ॥ (२८।३)

samāgamaṃ dvijendrasya pannagendrasya cādhvani ||

29.1२९.१

तस्मिन् वृक्षे नरः कश्चिद् इन्धनार्थाय पार्थिव । (२९।१)

tasmin vṛkṣe naraḥ kaścid indhanārthāya pārthiva |

29.2२९.२

विचिन्वन् पूर्वम् आरूढः शुष्कशाखं वनस्पतिम् । (२९।२)

vicinvan pūrvam ārūḍhaḥ śuṣkaśākhaṃ vanaspatim |

29.3२९.३

अबुध्यमानौ तं तत्र वृक्षस्थं पन्नगद्विजौ ॥ (२९।३)

abudhyamānau taṃ tatra vṛkṣasthaṃ pannagadvijau ||

30.1३०.१

स तु तेनैव वृक्षेण भस्मीभूतो ऽभवत् तदा । (३०।१)

sa tu tenaiva vṛkṣeṇa bhasmībhūto 'bhavat tadā |

30.2३०.२

द्विजप्रभावाद् राजेन्द्र जीवितः सवनस्पतिः ॥ (३०।२)

dvijaprabhāvād rājendra jīvitaḥ savanaspatiḥ ||

31.1३१.१

तेन गत्वा नृपश्रेष्ठ नगरे ऽस्मिन् निवेदितम् । (३१।१)

tena gatvā nṛpaśreṣṭha nagare 'smin niveditam |

31.2३१.२

यथावृत्तं तु तत् सर्वं तक्षकस्य द्विजस्य च ॥ (३१।२)

yathāvṛttaṃ tu tat sarvaṃ takṣakasya dvijasya ca ||

32.1३२.१

एतत् ते कथितं राजन् यथावृत्तं यथाश्रुतम् । (३२।१)

etat te kathitaṃ rājan yathāvṛttaṃ yathāśrutam |

32.2३२.२

श्रुत्वा तु नृपशार्दूल प्रकुरुष्व यथेप्सितम् ॥ (३२।२)

śrutvā tu nṛpaśārdūla prakuruṣva yathepsitam ||

33.1३३.१

सूत उवाच । (३३।१)

sūta uvāca

33.2३३.२

मन्त्रिणां तु वचः श्रुत्वा स राजा जनमेजयः । (३३।२)

mantriṇāṃ tu vacaḥ śrutvā sa rājā janamejayaḥ |

33.3३३.३

पर्यतप्यत दुःखार्तः प्रत्यपिंषत् करे करम् ॥ (३३।३)

paryatapyata duḥkhārtaḥ pratyapiṃṣat kare karam ||

34.1३४.१

निःश्वासम् उष्णम् असकृद् दीर्घं राजीवलोचनः । (३४।१)

niḥśvāsam uṣṇam asakṛd dīrghaṃ rājīvalocanaḥ |

34.2३४.२

मुमोचाश्रूणि च तदा नेत्राभ्यां प्रततं नृपः । (३४।२)

mumocāśrūṇi ca tadā netrābhyāṃ pratataṃ nṛpaḥ |

34.3३४.३

उवाच च महीपालो दुःखशोकसमन्वितः । (३४।३)

uvāca ca mahīpālo duḥkhaśokasamanvitaḥ |

34.4३४.४

दुर्धरं बाष्पम् उत्सृज्य स्पृष्ट्वा चापो यथाविधि । (३४।४)

durdharaṃ bāṣpam utsṛjya spṛṣṭvā cāpo yathāvidhi |

34.5३४.५

मुहूर्तम् इव च ध्यात्वा निश्चित्य मनसा नृपः । (३४।५)

muhūrtam iva ca dhyātvā niścitya manasā nṛpaḥ |

34.6३४.६

अमर्षी मन्त्रिणः सर्वान् इदं वचनम् अब्रवीत् ॥ (३४।६)

amarṣī mantriṇaḥ sarvān idaṃ vacanam abravīt ||

35.1३५.१

श्रुत्वैतद् भवतां वाक्यं पितुर् मे स्वर्गतिं प्रति । (३५।१)

śrutvaitad bhavatāṃ vākyaṃ pitur me svargatiṃ prati |

35.2३५.२

निश्चितेयं मम मतिर् या वै तां मे निबोधत ॥ (३५।२)

niściteyaṃ mama matir yā vai tāṃ me nibodhata ||

36.1३६.१

अनन्तरम् अहं मन्ये तक्षकाय दुरात्मने । (३६।१)

anantaram ahaṃ manye takṣakāya durātmane |

36.2३६.२

प्रतिकर्तव्यम् इत्येव येन मे हिंसितः पिता ॥ (३६।२)

pratikartavyam ityeva yena me hiṃsitaḥ pitā ||

37.1३७.१

ऋषेर् हि शृङ्गेर् वचनं कृत्वा दग्ध्वा च पार्थिवम् । (३७।१)

ṛṣer hi śṛṅger vacanaṃ kṛtvā dagdhvā ca pārthivam |

37.2३७.२

इयं दुरात्मता तस्य काश्यपं यो न्यवर्तयत् । (३७।२)

iyaṃ durātmatā tasya kāśyapaṃ yo nyavartayat |

37.3३७.३

यदि गच्छेद् असौ पापो ननु जीवेत् पिता मम ॥ (३७।३)

yadi gacched asau pāpo nanu jīvet pitā mama ||

38.1३८.१

परिहीयेत किं तस्य यदि जीवेत् स पार्थिवः । (३८।१)

parihīyeta kiṃ tasya yadi jīvet sa pārthivaḥ |

38.2३८.२

काश्यपस्य प्रसादेन मन्त्रिणां सुनयेन च ॥ (३८।२)

kāśyapasya prasādena mantriṇāṃ sunayena ca ||

39.1३९.१

स तु वारितवान् मोहात् काश्यपं द्विजसत्तमम् । (३९।१)

sa tu vāritavān mohāt kāśyapaṃ dvijasattamam |

39.2३९.२

संजिजीवयिषुं प्राप्तं राजानम् अपराजितम् ॥ (३९।२)

saṃjijīvayiṣuṃ prāptaṃ rājānam aparājitam ||

40.1४०.१

महान् अतिक्रमो ह्येष तक्षकस्य दुरात्मनः । (४०।१)

mahān atikramo hyeṣa takṣakasya durātmanaḥ |

40.2४०.२

द्विजस्य यो ऽददद् द्रव्यं मा नृपं जीवयेद् इति ॥ (४०।२)

dvijasya yo 'dadad dravyaṃ mā nṛpaṃ jīvayed iti ||

41.1४१.१

उत्तङ्कस्य प्रियं कुर्वन्न् आत्मनश्च महत् प्रियम् । (४१।१)

uttaṅkasya priyaṃ kurvann ātmanaśca mahat priyam |

41.2४१.२

भवतां चैव सर्वेषां यास्याम्यपचितिं पितुः । (४१।२)

bhavatāṃ caiva sarveṣāṃ yāsyāmyapacitiṃ pituḥ |

41.3४१.३

सर्पसत्रं विधास्यामि नागानां क्षयकारकम् ॥ (४१।३)

sarpasatraṃ vidhāsyāmi nāgānāṃ kṣayakārakam ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 1, 46

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit