महाभारतMahābhārata

MBh, 13, 8

1689 of 1995 · 60 verses

Select a line for its word-by-word analysis.

1.1१.१

युधिष्ठिर उवाच । (१।१)

yudhiṣṭhira uvāca

1.2१.२

के पूज्याः के नमस्कार्याः कान्नमस्यसि भारत । (१।२)

ke pūjyāḥ ke namaskāryāḥ kānnamasyasi bhārata |

1.3१.३

एतन्मे सर्वम् आचक्ष्व येषां स्पृहयसे नृप ॥ (१।३)

etanme sarvam ācakṣva yeṣāṃ spṛhayase nṛpa ||

2.1२.१

उत्तमापद्गतस्यापि यत्र ते वर्तते मनः । (२।१)

uttamāpadgatasyāpi yatra te vartate manaḥ |

2.2२.२

मनुष्यलोके सर्वस्मिन् यद् अमुत्रेह चाप्युत ॥ (२।२)

manuṣyaloke sarvasmin yad amutreha cāpyuta ||

3.1३.१

भीष्म उवाच । (३।१)

bhīṣma uvāca

3.2३.२

स्पृहयामि द्विजातीनां येषां ब्रह्म परं धनम् । (३।२)

spṛhayāmi dvijātīnāṃ yeṣāṃ brahma paraṃ dhanam |

3.3३.३

येषां स्वप्रत्ययः स्वर्गस्तपःस्वाध्यायसाधनः ॥ (३।३)

yeṣāṃ svapratyayaḥ svargastapaḥsvādhyāyasādhanaḥ ||

4.1४.१

येषां वृद्धाश्च बालाश्च पितृपैतामहीं धुरम् । (४।१)

yeṣāṃ vṛddhāśca bālāśca pitṛpaitāmahīṃ dhuram |

4.2४.२

उद्वहन्ति न सीदन्ति तेषां वै स्पृहयाम्यहम् ॥ (४।२)

udvahanti na sīdanti teṣāṃ vai spṛhayāmyaham ||

5.1५.१

विद्यास्वभिविनीतानां दान्तानां मृदुभाषिणाम् । (५।१)

vidyāsvabhivinītānāṃ dāntānāṃ mṛdubhāṣiṇām |

5.2५.२

श्रुतवृत्तोपपन्नानां सदाक्षरविदां सताम् ॥ (५।२)

śrutavṛttopapannānāṃ sadākṣaravidāṃ satām ||

6.1६.१

संसत्सु वदतां येषां हंसानाम् इव संघशः । (६।१)

saṃsatsu vadatāṃ yeṣāṃ haṃsānām iva saṃghaśaḥ |

6.2६.२

मङ्गल्यरूपा रुचिरा दिव्यजीमूतनिःस्वनाः ॥ (६।२)

maṅgalyarūpā rucirā divyajīmūtaniḥsvanāḥ ||

7.1७.१

सम्यग् उच्चारिता वाचः श्रूयन्ते हि युधिष्ठिर । (७।१)

samyag uccāritā vācaḥ śrūyante hi yudhiṣṭhira |

7.2७.२

शुश्रूषमाणे नृपतौ प्रेत्य चेह सुखावहाः ॥ (७।२)

śuśrūṣamāṇe nṛpatau pretya ceha sukhāvahāḥ ||

8.1८.१

ये चापि तेषां श्रोतारः सदा सदसि संमताः । (८।१)

ye cāpi teṣāṃ śrotāraḥ sadā sadasi saṃmatāḥ |

8.2८.२

विज्ञानगुणसम्पन्नास्तेषां च स्पृहयाम्यहम् ॥ (८।२)

vijñānaguṇasampannāsteṣāṃ ca spṛhayāmyaham ||

9.1९.१

सुसंस्कृतानि प्रयताः शुचीनि गुणवन्ति च । (९।१)

susaṃskṛtāni prayatāḥ śucīni guṇavanti ca |

9.2९.२

ददत्यन्नानि तृप्त्यर्थं ब्राह्मणेभ्यो युधिष्ठिर । (९।२)

dadatyannāni tṛptyarthaṃ brāhmaṇebhyo yudhiṣṭhira |

9.3९.३

ये चापि सततं राजंस्तेषां च स्पृहयाम्यहम् ॥ (९।३)

ye cāpi satataṃ rājaṃsteṣāṃ ca spṛhayāmyaham ||

10.1१०.१

शक्यं ह्येवाहवे योद्धुं न दातुम् अनसूयितम् । (१०।१)

śakyaṃ hyevāhave yoddhuṃ na dātum anasūyitam |

10.2१०.२

शूरा वीराश्च शतशः सन्ति लोके युधिष्ठिर । (१०।२)

śūrā vīrāśca śataśaḥ santi loke yudhiṣṭhira |

10.3१०.३

तेषां संख्यायमानानां दानशूरो विशिष्यते ॥ (१०।३)

teṣāṃ saṃkhyāyamānānāṃ dānaśūro viśiṣyate ||

11.1११.१

धन्यः स्यां यद्यहं भूयः सौम्य ब्राह्मणको ऽपि वा । (११।१)

dhanyaḥ syāṃ yadyahaṃ bhūyaḥ saumya brāhmaṇako 'pi vā |

11.2११.२

कुले जातो धर्मगतिस्तपोविद्यापरायणः ॥ (११।२)

kule jāto dharmagatistapovidyāparāyaṇaḥ ||

12.1१२.१

न मे त्वत्तः प्रियतरो लोके ऽस्मिन् पाण्डुनन्दन । (१२।१)

na me tvattaḥ priyataro loke 'smin pāṇḍunandana |

12.2१२.२

त्वत्तश्च मे प्रियतरा ब्राह्मणा भरतर्षभ ॥ (१२।२)

tvattaśca me priyatarā brāhmaṇā bharatarṣabha ||

13.1१३.१

यथा मम प्रियतरास्त्वत्तो विप्राः कुरूद्वह । (१३।१)

yathā mama priyatarāstvatto viprāḥ kurūdvaha |

13.2१३.२

तेन सत्येन गच्छेयं लोकान् यत्र स शंतनुः ॥ (१३।२)

tena satyena gaccheyaṃ lokān yatra sa śaṃtanuḥ ||

14.1१४.१

न मे पिता प्रियतरो ब्राह्मणेभ्यस्तथाभवत् । (१४।१)

na me pitā priyataro brāhmaṇebhyastathābhavat |

14.2१४.२

न मे पितुः पिता वापि ये चान्ये ऽपि सुहृज्जनाः ॥ (१४।२)

na me pituḥ pitā vāpi ye cānye 'pi suhṛjjanāḥ ||

15.1१५.१

न हि मे वृजिनं किंचिद् विद्यते ब्राह्मणेष्विह । (१५।१)

na hi me vṛjinaṃ kiṃcid vidyate brāhmaṇeṣviha |

15.2१५.२

अणु वा यदि वा स्थूलं विदितं साधुकर्मभिः ॥ (१५।२)

aṇu vā yadi vā sthūlaṃ viditaṃ sādhukarmabhiḥ ||

16.1१६.१

कर्मणा मनसा वापि वाचा वापि परंतप । (१६।१)

karmaṇā manasā vāpi vācā vāpi paraṃtapa |

16.2१६.२

यन्मे कृतं ब्राह्मणेषु तेनाद्य न तपाम्यहम् ॥ (१६।२)

yanme kṛtaṃ brāhmaṇeṣu tenādya na tapāmyaham ||

17.1१७.१

ब्रह्मण्य इति माम् आहुस्तया वाचास्मि तोषितः । (१७।१)

brahmaṇya iti mām āhustayā vācāsmi toṣitaḥ |

17.2१७.२

एतद् एव पवित्रेभ्यः सर्वेभ्यः परमं स्मृतम् ॥ (१७।२)

etad eva pavitrebhyaḥ sarvebhyaḥ paramaṃ smṛtam ||

18.1१८.१

पश्यामि लोकान् अमलाञ्छुचीन् ब्राह्मणयायिनः । (१८।१)

paśyāmi lokān amalāñchucīn brāhmaṇayāyinaḥ |

18.2१८.२

तेषु मे तात गन्तव्यम् अह्नाय च चिराय च ॥ (१८।२)

teṣu me tāta gantavyam ahnāya ca cirāya ca ||

19.1१९.१

यथा पत्याश्रयो धर्मः स्त्रीणां लोके युधिष्ठिर । (१९।१)

yathā patyāśrayo dharmaḥ strīṇāṃ loke yudhiṣṭhira |

19.2१९.२

स देवः सा गतिर् नान्या क्षत्रियस्य तथा द्विजाः ॥ (१९।२)

sa devaḥ sā gatir nānyā kṣatriyasya tathā dvijāḥ ||

20.1२०.१

क्षत्रियः शतवर्षी च दशवर्षी च ब्राह्मणः । (२०।१)

kṣatriyaḥ śatavarṣī ca daśavarṣī ca brāhmaṇaḥ |

20.2२०.२

पितापुत्रौ च विज्ञेयौ तयोर् हि ब्राह्मणः पिता ॥ (२०।२)

pitāputrau ca vijñeyau tayor hi brāhmaṇaḥ pitā ||

21.1२१.१

नारी तु पत्यभावे वै देवरं कुरुते पतिम् । (२१।१)

nārī tu patyabhāve vai devaraṃ kurute patim |

21.2२१.२

पृथिवी ब्राह्मणालाभे क्षत्रियं कुरुते पतिम् ॥ (२१।२)

pṛthivī brāhmaṇālābhe kṣatriyaṃ kurute patim ||

22.1२२.१

पुत्रवच्च ततो रक्ष्या उपास्या गुरुवच्च ते । (२२।१)

putravacca tato rakṣyā upāsyā guruvacca te |

22.2२२.२

अग्निवच्चोपचर्या वै ब्राह्मणाः कुरुसत्तम ॥ (२२।२)

agnivaccopacaryā vai brāhmaṇāḥ kurusattama ||

23.1२३.१

ऋजून् सतः सत्यशीलान् सर्वभूतहिते रतान् । (२३।१)

ṛjūn sataḥ satyaśīlān sarvabhūtahite ratān |

23.2२३.२

आशीविषान् इव क्रुद्धान् द्विजान् उपचरेत् सदा ॥ (२३।२)

āśīviṣān iva kruddhān dvijān upacaret sadā ||

24.1२४.१

तेजसस्तपसश्चैव नित्यं बिभ्येद् युधिष्ठिर । (२४।१)

tejasastapasaścaiva nityaṃ bibhyed yudhiṣṭhira |

24.2२४.२

उभे चैते परित्याज्ये तेजश्चैव तपस्तथा ॥ (२४।२)

ubhe caite parityājye tejaścaiva tapastathā ||

25.1२५.१

व्यवसायस्तयोः शीघ्रम् उभयोर् एव विद्यते । (२५।१)

vyavasāyastayoḥ śīghram ubhayor eva vidyate |

25.2२५.२

हन्युः क्रुद्धा महाराज ब्राह्मणा ये तपस्विनः ॥ (२५।२)

hanyuḥ kruddhā mahārāja brāhmaṇā ye tapasvinaḥ ||

26.1२६.१

भूयः स्याद् उभयं दत्तं ब्राह्मणाद् यद् अकोपनात् । (२६।१)

bhūyaḥ syād ubhayaṃ dattaṃ brāhmaṇād yad akopanāt |

26.2२६.२

कुर्याद् उभयतःशेषं दत्तशेषं न शेषयेत् ॥ (२६।२)

kuryād ubhayataḥśeṣaṃ dattaśeṣaṃ na śeṣayet ||

27.1२७.१

दण्डपाणिर् यथा गोषु पालो नित्यं स्थिरो भवेत् । (२७।१)

daṇḍapāṇir yathā goṣu pālo nityaṃ sthiro bhavet |

27.2२७.२

ब्राह्मणान् ब्रह्म च तथा क्षत्रियः परिपालयेत् ॥ (२७।२)

brāhmaṇān brahma ca tathā kṣatriyaḥ paripālayet ||

28.1२८.१

पितेव पुत्रान् रक्षेथा ब्राह्मणान् ब्रह्मतेजसः । (२८।१)

piteva putrān rakṣethā brāhmaṇān brahmatejasaḥ |

28.2२८.२

गृहे चैषाम् अवेक्षेथाः कच्चिद् अस्तीह जीवनम् ॥ (२८।२)

gṛhe caiṣām avekṣethāḥ kaccid astīha jīvanam ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 13, 8

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit