महाभारतMahābhārata

MBh, 1, 122

122 of 1995 · 243 verses

Select a line for its word-by-word analysis.

1.1१.१

वैशंपायन उवाच । (१।१)

vaiśaṃpāyana uvāca

1.2१.२

ततो द्रुपदम् आसाद्य भारद्वाजः प्रतापवान् । (१।२)

tato drupadam āsādya bhāradvājaḥ pratāpavān |

1.3१.३

अब्रवीत् पार्षतं राजन् सखायं विद्धि माम् इति । (१।३)

abravīt pārṣataṃ rājan sakhāyaṃ viddhi mām iti |

1.4१.४

इत्येवम् उक्तः सख्या स प्रीतिपूर्वं जनेश्वरः । (१।४)

ityevam uktaḥ sakhyā sa prītipūrvaṃ janeśvaraḥ |

1.5१.५

भारद्वाजेन पाञ्चाल्यो नामृष्यत वचो ऽस्य तत् । (१।५)

bhāradvājena pāñcālyo nāmṛṣyata vaco 'sya tat |

1.6१.६

स क्रोधामर्षजिह्मभ्रूः कषायीकृतलोचनः । (१।६)

sa krodhāmarṣajihmabhrūḥ kaṣāyīkṛtalocanaḥ |

1.7१.७

ऐश्वर्यमदसम्पन्नो द्रोणं राजाब्रवीद् इदम् ॥ (१।७)

aiśvaryamadasampanno droṇaṃ rājābravīd idam ||

2.1२.१

द्रुपद उवाच । (२।१)

drupada uvāca

2.2२.२

अकृतेयं तव प्रज्ञा ब्रह्मन् नातिसमञ्जसी । (२।२)

akṛteyaṃ tava prajñā brahman nātisamañjasī |

2.3२.३

यन् मां ब्रवीषि प्रसभं सखा ते ऽहम् इति द्विज ॥ (२।३)

yan māṃ bravīṣi prasabhaṃ sakhā te 'ham iti dvija ||

3.1३.१

न हि राज्ञाम् उदीर्णानाम् एवं भूतैर् नरैः क्वचित् । (३।१)

na hi rājñām udīrṇānām evaṃ bhūtair naraiḥ kvacit |

3.2३.२

सख्यं भवति मन्दात्मञ् श्रिया हीनैर् धनच्युतैः ॥ (३।२)

sakhyaṃ bhavati mandātmañ śriyā hīnair dhanacyutaiḥ ||

4.1४.१

सौहृदान्यपि जीर्यन्ते कालेन परिजीर्यताम् । (४।१)

sauhṛdānyapi jīryante kālena parijīryatām |

4.2४.२

सौहृदं मे त्वया ह्यासीत् पूर्वं सामर्थ्यबन्धनम् ॥ (४।२)

sauhṛdaṃ me tvayā hyāsīt pūrvaṃ sāmarthyabandhanam ||

5.1५.१

न सख्यम् अजरं लोके जातु दृश्येत कर्हिचित् । (५।१)

na sakhyam ajaraṃ loke jātu dṛśyeta karhicit |

5.2५.२

कामो वैनं विहरति क्रोधश्चैनं प्रवृश्चति । (५।२)

kāmo vainaṃ viharati krodhaścainaṃ pravṛścati |

5.3५.३

कालेन संविहरति कालेनैव प्रणश्यति ॥ (५।३)

kālena saṃviharati kālenaiva praṇaśyati ||

6.1६.१

मैवं जीर्णम् उपासिष्ठाः सख्यं नवम् उपाकुरु । (६।१)

maivaṃ jīrṇam upāsiṣṭhāḥ sakhyaṃ navam upākuru |

6.2६.२

आसीत् सख्यं द्विजश्रेष्ठ त्वया मे ऽर्थनिबन्धनम् ॥ (६।२)

āsīt sakhyaṃ dvijaśreṣṭha tvayā me 'rthanibandhanam ||

7.1७.१

न दरिद्रो वसुमतो नाविद्वान् विदुषः सखा । (७।१)

na daridro vasumato nāvidvān viduṣaḥ sakhā |

7.2७.२

शूरस्य न सखा क्लीबः सखिपूर्वं किम् इष्यते ॥ (७।२)

śūrasya na sakhā klībaḥ sakhipūrvaṃ kim iṣyate ||

8.1८.१

ययोर् एव समं वित्तं ययोर् एव समं कुलम् । (८।१)

yayor eva samaṃ vittaṃ yayor eva samaṃ kulam |

8.2८.२

तयोः सख्यं विवाहश्च न तु पुष्टविपुष्टयोः ॥ (८।२)

tayoḥ sakhyaṃ vivāhaśca na tu puṣṭavipuṣṭayoḥ ||

9.1९.१

नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा । (९।१)

nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā |

9.2९.२

नाराज्ञा संगतं राज्ञः सखिपूर्वं किम् इष्यते । (९।२)

nārājñā saṃgataṃ rājñaḥ sakhipūrvaṃ kim iṣyate |

9.3९.३

त्वद्विधैर् मद्विधानां हि विहीनार्थैर् न जातुचित् । (९।३)

tvadvidhair madvidhānāṃ hi vihīnārthair na jātucit |

9.4९.४

सख्यं भवति मन्दात्मन् सखिपूर्वं किम् इष्यते । (९।४)

sakhyaṃ bhavati mandātman sakhipūrvaṃ kim iṣyate |

9.5९.५

एवम् एव कृतप्रज्ञ न राज्ञा विप्र ते क्वचित् । (९।५)

evam eva kṛtaprajña na rājñā vipra te kvacit |

9.6९.६

नैव तीर्णम् उपातिष्ठ सख्यं नवम् उपाकृधि । (९।६)

naiva tīrṇam upātiṣṭha sakhyaṃ navam upākṛdhi |

9.7९.७

सखा राज्ञः कथं विप्र त्वद्विधश्च भविष्यति ॥ (९।७)

sakhā rājñaḥ kathaṃ vipra tvadvidhaśca bhaviṣyati ||

10.1१०.१

वैशंपायन उवाच । (१०।१)

vaiśaṃpāyana uvāca

10.2१०.२

द्रुपदेनैवम् उक्तस्तु भारद्वाजः प्रतापवान् । (१०।२)

drupadenaivam uktastu bhāradvājaḥ pratāpavān |

10.3१०.३

मुहूर्तं चिन्तयामास मन्युनाभिपरिप्लुतः ॥ (१०।३)

muhūrtaṃ cintayāmāsa manyunābhipariplutaḥ ||

11.1११.१

स विनिश्चित्य मनसा पाञ्चालं प्रति बुद्धिमान् । (११।१)

sa viniścitya manasā pāñcālaṃ prati buddhimān |

11.2११.२

तां प्रतिज्ञां प्रतिज्ञाय यां कर्ता नचिराद् अपि । (११।२)

tāṃ pratijñāṃ pratijñāya yāṃ kartā nacirād api |

11.3११.३

शिष्यैः परिवृतः श्रीमान् पुत्रेणानुगतस्तदा । (११।३)

śiṣyaiḥ parivṛtaḥ śrīmān putreṇānugatastadā |

11.4११.४

जगाम कुरुमुख्यानां नगरं नागसाह्वयम् । (११।४)

jagāma kurumukhyānāṃ nagaraṃ nāgasāhvayam |

11.5११.५

द्रोणः समुदितान् दृष्ट्वा कुरून् वृत्तिपरीप्सया । (११।५)

droṇaḥ samuditān dṛṣṭvā kurūn vṛttiparīpsayā |

11.6११.६

आजगाम महातेजा विप्रो नागपुरं प्रति । (११।६)

ājagāma mahātejā vipro nāgapuraṃ prati |

11.7११.७

स तथोक्तस्तदा तेन सदारः प्राद्रवत् कुरून् । (११।७)

sa tathoktastadā tena sadāraḥ prādravat kurūn |

11.8११.८

स्यालस्यैव गृहं द्रोणः सदारः प्रत्युपस्थितः । (११।८)

syālasyaiva gṛhaṃ droṇaḥ sadāraḥ pratyupasthitaḥ |

11.9११.९

अश्वत्थाम्ना च पुत्रेण महाबलवता सह । (११।९)

aśvatthāmnā ca putreṇa mahābalavatā saha |

11.10११.१०

स नागपुरम् आगम्य गौतमस्य निवेशने । (११।१०)

sa nāgapuram āgamya gautamasya niveśane |

11.11११.११

भारद्वाजो ऽवसत् तत्र प्रच्छन्नं द्विजसत्तमः । (११।११)

bhāradvājo 'vasat tatra pracchannaṃ dvijasattamaḥ |

11.12११.१२

ततो ऽस्य तनुजः पार्थान् कृपस्यानन्तरं प्रभुः । (११।१२)

tato 'sya tanujaḥ pārthān kṛpasyānantaraṃ prabhuḥ |

11.13११.१३

अस्त्राणि शिक्षयामास नाबुध्यन्त च तं जनाः । (११।१३)

astrāṇi śikṣayāmāsa nābudhyanta ca taṃ janāḥ |

11.14११.१४

एवं स तत्र गूढात्मा कंचित् कालम् उवास ह ॥ (११।१४)

evaṃ sa tatra gūḍhātmā kaṃcit kālam uvāsa ha ||

12.1१२.१

कुमारास्त्वथ निष्क्रम्य समेता गजसाह्वयात् । (१२।१)

kumārāstvatha niṣkramya sametā gajasāhvayāt |

12.2१२.२

क्रीडन्तो वीटया तत्र वीराः पर्यचरन् मुदा । (१२।२)

krīḍanto vīṭayā tatra vīrāḥ paryacaran mudā |

12.3१२.३

तेषां संक्रीडमानानाम् उदपाने ऽङ्गुलीयकम् ॥ (१२।३)

teṣāṃ saṃkrīḍamānānām udapāne 'ṅgulīyakam ||

13.1१३.१

पपात कूपे सा वीटा तेषां वै क्रीडतां तदा । (१३।१)

papāta kūpe sā vīṭā teṣāṃ vai krīḍatāṃ tadā |

13.2१३.२

ततस्ते यत्नम् आतिष्ठन् वीटाम् उद्धर्तुम् आदृताः । (१३।२)

tataste yatnam ātiṣṭhan vīṭām uddhartum ādṛtāḥ |

13.3१३.३

तत् त्वम्बुना प्रतिच्छन्नं तारारूपम् इवाम्बरे । (१३।३)

tat tvambunā praticchannaṃ tārārūpam ivāmbare |

13.4१३.४

दृष्ट्वा ते वै कुमाराश्च तं यत्नात् पर्यवारयन् । (१३।४)

dṛṣṭvā te vai kumārāśca taṃ yatnāt paryavārayan |

13.5१३.५

न च ते प्रत्यपद्यन्त कर्म वीटोपलब्धये । (१३।५)

na ca te pratyapadyanta karma vīṭopalabdhaye |

13.6१३.६

ततो ऽन्योन्यम् अवैक्षन्त व्रीडयावनताननाः । (१३।६)

tato 'nyonyam avaikṣanta vrīḍayāvanatānanāḥ |

13.7१३.७

तस्या योगम् अविन्दन्तो भृशं चोत्कण्ठिताभवन् । (१३।७)

tasyā yogam avindanto bhṛśaṃ cotkaṇṭhitābhavan |

13.8१३.८

ते ऽपश्यन् ब्राह्मणं श्यामम् आपन्नं पलितं कृशम् । (१३।८)

te 'paśyan brāhmaṇaṃ śyāmam āpannaṃ palitaṃ kṛśam |

13.9१३.९

कृत्यवन्तम् अदूरस्थम् अग्निहोत्रपुरस्कृतम् । (१३।९)

kṛtyavantam adūrastham agnihotrapuraskṛtam |

13.10१३.१०

ते तं दृष्ट्वा महात्मानम् उपगम्य कुमारकाः । (१३।१०)

te taṃ dṛṣṭvā mahātmānam upagamya kumārakāḥ |

13.11१३.११

भग्नोत्साहक्रियात्मानो ब्राह्मणं पर्यवारयन् ॥ (१३।११)

bhagnotsāhakriyātmāno brāhmaṇaṃ paryavārayan ||

14.1१४.१

अथ द्रोणः कुमारांस्तान् दृष्ट्वा कृत्यवतस्तदा । (१४।१)

atha droṇaḥ kumārāṃstān dṛṣṭvā kṛtyavatastadā |

14.2१४.२

प्रहस्य मन्दं पैशल्याद् अभ्यभाषत वीर्यवान् । (१४।२)

prahasya mandaṃ paiśalyād abhyabhāṣata vīryavān |

14.3१४.३

स तान् कृत्यवतो दृष्ट्वा कुमारांस्तु विचेतसः । (१४।३)

sa tān kṛtyavato dṛṣṭvā kumārāṃstu vicetasaḥ |

14.4१४.४

ब्राह्मणः प्रहसन् मन्दं कौशलेनाभ्यभाषत ॥ (१४।४)

brāhmaṇaḥ prahasan mandaṃ kauśalenābhyabhāṣata ||

15.1१५.१

अहो नु धिग् बलं क्षात्रं धिग् एतां वः कृतास्त्रताम् । (१५।१)

aho nu dhig balaṃ kṣātraṃ dhig etāṃ vaḥ kṛtāstratām |

15.2१५.२

भरतस्यान्वये जाता ये वीटां नाधिगच्छत । (१५।२)

bharatasyānvaye jātā ye vīṭāṃ nādhigacchata |

15.3१५.३

वीटां च मुद्रिकां चैव ह्यहम् एतद् अपि द्वयम् । (१५।३)

vīṭāṃ ca mudrikāṃ caiva hyaham etad api dvayam |

15.4१५.४

उद्धरेयम् इषीकाभिर् भोजनं मे प्रदीयताम् । (१५।४)

uddhareyam iṣīkābhir bhojanaṃ me pradīyatām |

15.5१५.५

एवम् उक्त्वा कुमारांस्तान् द्रोणः स्वाङ्गुलिवेष्टनम् । (१५।५)

evam uktvā kumārāṃstān droṇaḥ svāṅguliveṣṭanam |

15.6१५.६

कूपे निरुदके तस्मिन्न् अपातयद् अरिंदमः । (१५।६)

kūpe nirudake tasminn apātayad ariṃdamaḥ |

15.7१५.७

ततो ऽब्रवीत् तदा द्रोणं कुन्तीपुत्रो युधिष्ठिरः । (१५।७)

tato 'bravīt tadā droṇaṃ kuntīputro yudhiṣṭhiraḥ |

15.8१५.८

कृपस्यानुमते ब्रह्मन् भिक्षाम् आप्नुहि शाश्वतीम् । (१५।८)

kṛpasyānumate brahman bhikṣām āpnuhi śāśvatīm |

15.9१५.९

एवम् उक्तः प्रत्युवाच प्रहस्य भरतान् इदम् ॥ (१५।९)

evam uktaḥ pratyuvāca prahasya bharatān idam ||

16.1१६.१

एष मुष्टिर् इषीकाणां मयास्त्रेणाभिमन्त्रितः । (१६।१)

eṣa muṣṭir iṣīkāṇāṃ mayāstreṇābhimantritaḥ |

16.2१६.२

अस्य वीर्यं निरीक्षध्वं यद् अन्यस्य न विद्यते ॥ (१६।२)

asya vīryaṃ nirīkṣadhvaṃ yad anyasya na vidyate ||

17.1१७.१

वेत्स्यामीषीकया वीटां ताम् इषीकाम् अथान्यया । (१७।१)

vetsyāmīṣīkayā vīṭāṃ tām iṣīkām athānyayā |

17.2१७.२

ताम् अपीषीकया चैव अन्याम् अप्यन्यया पुनः । (१७।२)

tām apīṣīkayā caiva anyām apyanyayā punaḥ |

17.3१७.३

ताम् अन्यया समायोगो वीटाया ग्रहणे मम । (१७।३)

tām anyayā samāyogo vīṭāyā grahaṇe mama |

17.4१७.४

ततो यथोक्तं द्रोणेन तत् सर्वं कृतम् अञ्जसा ॥ (१७।४)

tato yathoktaṃ droṇena tat sarvaṃ kṛtam añjasā ||

18.1१८.१

तद् अपश्यन् कुमारास्ते विस्मयोत्फुल्ललोचनाः । (१८।१)

tad apaśyan kumārāste vismayotphullalocanāḥ |

18.2१८.२

अवेक्ष्य चोद्धृतां वीटां वीटावेद्धारम् अब्रुवन् । (१८।२)

avekṣya coddhṛtāṃ vīṭāṃ vīṭāveddhāram abruvan |

18.3१८.३

मुद्रिकाम् अपि विप्रर्षे शीघ्रम् एतां समुद्धर । (१८।३)

mudrikām api viprarṣe śīghram etāṃ samuddhara |

18.4१८.४

ततः स शरम् आदाय धनुर् द्रोणो महायशाः । (१८।४)

tataḥ sa śaram ādāya dhanur droṇo mahāyaśāḥ |

18.5१८.५

शरेण विद्ध्वा मुद्रां ताम् ऊर्ध्वम् आवाहयत् प्रभुः । (१८।५)

śareṇa viddhvā mudrāṃ tām ūrdhvam āvāhayat prabhuḥ |

18.6१८.६

स शरं समुपादाय कूपाद् अङ्गुलिवेष्टनम् । (१८।६)

sa śaraṃ samupādāya kūpād aṅguliveṣṭanam |

18.7१८.७

ददौ ततः कुमाराणां विस्मितानाम् अविस्मितः । (१८।७)

dadau tataḥ kumārāṇāṃ vismitānām avismitaḥ |

18.8१८.८

मुद्रिकाम् उद्धृतां दृष्ट्वा तम् आहुस्ते कुमारकाः ॥ (१८।८)

mudrikām uddhṛtāṃ dṛṣṭvā tam āhuste kumārakāḥ ||

19.1१९.१

अभिवादयामहे ब्रह्मन् नैतद् अन्येषु विद्यते । (१९।१)

abhivādayāmahe brahman naitad anyeṣu vidyate |

19.2१९.२

को ऽसि कं त्वाभिजानीमो वयं किं करवामहे । (१९।२)

ko 'si kaṃ tvābhijānīmo vayaṃ kiṃ karavāmahe |

19.3१९.३

एवम् उक्तस्ततो द्रोणः प्रत्युवाच कुमारकान् ॥ (१९।३)

evam uktastato droṇaḥ pratyuvāca kumārakān ||

20.1२०.१

द्रोण उवाच । (२०।१)

droṇa uvāca

20.2२०.२

आचक्षध्वं च भीष्माय रूपेण च गुणैश्च माम् । (२०।२)

ācakṣadhvaṃ ca bhīṣmāya rūpeṇa ca guṇaiśca mām |

20.3२०.३

स एव सुमहाबुद्धिः सांप्रतं प्रतिपत्स्यते ॥ (२०।३)

sa eva sumahābuddhiḥ sāṃprataṃ pratipatsyate ||

21.1२१.१

वैशंपायन उवाच । (२१।१)

vaiśaṃpāyana uvāca

21.2२१.२

तथेत्युक्त्वा तु ते सर्वे भीष्मम् ऊचुः पितामहम् । (२१।२)

tathetyuktvā tu te sarve bhīṣmam ūcuḥ pitāmaham |

21.3२१.३

ब्राह्मणस्य वचस्तथ्यं तच्च कर्मविशेषवत् ॥ (२१।३)

brāhmaṇasya vacastathyaṃ tacca karmaviśeṣavat ||

22.1२२.१

भीष्मः श्रुत्वा कुमाराणां द्रोणं तं प्रत्यजानत । (२२।१)

bhīṣmaḥ śrutvā kumārāṇāṃ droṇaṃ taṃ pratyajānata |

22.2२२.२

युक्तरूपः स हि गुरुर् इत्येवम् अनुचिन्त्य च ॥ (२२।२)

yuktarūpaḥ sa hi gurur ityevam anucintya ca ||

23.1२३.१

अथैनम् आनीय तदा स्वयम् एव सुसत्कृतम् । (२३।१)

athainam ānīya tadā svayam eva susatkṛtam |

23.2२३.२

अर्हणीयेन कामैश्च यथान्यायम् अपूजयत् । (२३।२)

arhaṇīyena kāmaiśca yathānyāyam apūjayat |

23.3२३.३

परिपप्रच्छ निपुणं भीष्मः शस्त्रभृतां वरः । (२३।३)

paripapraccha nipuṇaṃ bhīṣmaḥ śastrabhṛtāṃ varaḥ |

23.4२३.४

हेतुम् आगमने तस्य द्रोणः सर्वं न्यवेदयत् ॥ (२३।४)

hetum āgamane tasya droṇaḥ sarvaṃ nyavedayat ||

24.1२४.१

महर्षेर् अग्निवेश्यस्य सकाशम् अहम् अच्युत । (२४।१)

maharṣer agniveśyasya sakāśam aham acyuta |

24.2२४.२

अस्त्रार्थम् अगमं पूर्वं धनुर्वेदजिघृक्षया ॥ (२४।२)

astrārtham agamaṃ pūrvaṃ dhanurvedajighṛkṣayā ||

25.1२५.१

ब्रह्मचारी विनीतात्मा जटिलो बहुलाः समाः । (२५।१)

brahmacārī vinītātmā jaṭilo bahulāḥ samāḥ |

25.2२५.२

अवसं तत्र सुचिरं धनुर्वेदचिकीर्षया ॥ (२५।२)

avasaṃ tatra suciraṃ dhanurvedacikīrṣayā ||

26.1२६.१

पाञ्चालराजपुत्रस्तु यज्ञसेनो महाबलः । (२६।१)

pāñcālarājaputrastu yajñaseno mahābalaḥ |

26.2२६.२

मया सहाकरोद् विद्यां गुरोः श्राम्यन् समाहितः ॥ (२६।२)

mayā sahākarod vidyāṃ guroḥ śrāmyan samāhitaḥ ||

27.1२७.१

स मे तत्र सखा चासीद् उपकारी प्रियश्च मे । (२७।१)

sa me tatra sakhā cāsīd upakārī priyaśca me |

27.2२७.२

तेनाहं सह संगम्य रतवान् सुचिरं बत । (२७।२)

tenāhaṃ saha saṃgamya ratavān suciraṃ bata |

27.3२७.३

बाल्यात् प्रभृति कौरव्य सहाध्ययनम् एव च ॥ (२७।३)

bālyāt prabhṛti kauravya sahādhyayanam eva ca ||

28.1२८.१

स समासाद्य मां तत्र प्रियकारी प्रियंवदः । (२८।१)

sa samāsādya māṃ tatra priyakārī priyaṃvadaḥ |

28.2२८.२

अब्रवीद् इति मां भीष्म वचनं प्रीतिवर्धनम् ॥ (२८।२)

abravīd iti māṃ bhīṣma vacanaṃ prītivardhanam ||

29.1२९.१

अहं प्रियतमः पुत्रः पितुर् द्रोण महात्मनः । (२९।१)

ahaṃ priyatamaḥ putraḥ pitur droṇa mahātmanaḥ |

29.2२९.२

अभिषेक्ष्यति मां राज्ये स पाञ्चाल्यो यदा तदा । (२९।२)

abhiṣekṣyati māṃ rājye sa pāñcālyo yadā tadā |

29.3२९.३

भविष्यति च ते भोज्यं सख्युः सखि धनं यथा ॥ (२९।३)

bhaviṣyati ca te bhojyaṃ sakhyuḥ sakhi dhanaṃ yathā ||

30.1३०.१

त्वद्भोज्यं भविता राज्यं सखे सत्येन ते शपे । (३०।१)

tvadbhojyaṃ bhavitā rājyaṃ sakhe satyena te śape |

30.2३०.२

मम भोगाश्च वित्तं च त्वदधीनं सुखानि च । (३०।२)

mama bhogāśca vittaṃ ca tvadadhīnaṃ sukhāni ca |

30.3३०.३

मम राज्यं महाभाग त्वया भोक्तव्यम् इच्छता ॥ (३०।३)

mama rājyaṃ mahābhāga tvayā bhoktavyam icchatā ||

31.1३१.१

एवम् उक्तः प्रवव्राज कृतास्त्रो ऽहं धनेप्सया । (३१।१)

evam uktaḥ pravavrāja kṛtāstro 'haṃ dhanepsayā |

31.2३१.२

तच्च वाक्यम् अहं नित्यं मनसाधारयं तदा । (३१।२)

tacca vākyam ahaṃ nityaṃ manasādhārayaṃ tadā |

31.3३१.३

सो ऽहं पितृनियोगेन पुत्रलोभाद् यशस्विनीम् । (३१।३)

so 'haṃ pitṛniyogena putralobhād yaśasvinīm |

31.4३१.४

नातिकेशीं महाप्रज्ञाम् उपयेमे महाव्रताम् । (३१।४)

nātikeśīṃ mahāprajñām upayeme mahāvratām |

31.5३१.५

अग्निहोत्रे च सत्ये च दमे च सततं रताम् । (३१।५)

agnihotre ca satye ca dame ca satataṃ ratām |

31.6३१.६

अलभद् गौतमी पुत्रम् अश्वत्थामानम् औरसम् । (३१।६)

alabhad gautamī putram aśvatthāmānam aurasam |

31.7३१.७

भीमविक्रमकर्माणम् आदित्यसमतेजसम् । (३१।७)

bhīmavikramakarmāṇam ādityasamatejasam |

31.8३१.८

पुत्रेण तेन प्रीतो ऽहं भरद्वाजो यथा मया । (३१।८)

putreṇa tena prīto 'haṃ bharadvājo yathā mayā |

31.9३१.९

गोक्षीरं पिबतो दृष्ट्वा धनिनस्तत्र पुत्रकान् । (३१।९)

gokṣīraṃ pibato dṛṣṭvā dhaninastatra putrakān |

31.10३१.१०

अश्वत्थामारुदद् बालस्तन् मे संदेहयद् दिशः । (३१।१०)

aśvatthāmārudad bālastan me saṃdehayad diśaḥ |

31.11३१.११

न स्नातको ऽवसीदेत वर्तमानः स्वकर्मसु । (३१।११)

na snātako 'vasīdeta vartamānaḥ svakarmasu |

31.12३१.१२

इति संचिन्त्य मनसा तं देशं बहुशो भ्रमन् । (३१।१२)

iti saṃcintya manasā taṃ deśaṃ bahuśo bhraman |

31.13३१.१३

विशुद्धम् इच्छन् गाङ्गेय धर्मोपेतं प्रतिग्रहम् । (३१।१३)

viśuddham icchan gāṅgeya dharmopetaṃ pratigraham |

31.14३१.१४

अन्ताद् अन्तं परिक्रम्य नाध्यगच्छं पयस्विनीम् । (३१।१४)

antād antaṃ parikramya nādhyagacchaṃ payasvinīm |

31.15३१.१५

अथ पिष्टोदकेनैनं लोभयन्ति कुमारकाः । (३१।१५)

atha piṣṭodakenainaṃ lobhayanti kumārakāḥ |

31.16३१.१६

पीत्वा पिष्टरसं बालः क्षीरं पीतं मयापि च । (३१।१६)

pītvā piṣṭarasaṃ bālaḥ kṣīraṃ pītaṃ mayāpi ca |

31.17३१.१७

ननर्तोत्थाय कौरव्य हृष्टो बाल्याद् विमोहितः । (३१।१७)

nanartotthāya kauravya hṛṣṭo bālyād vimohitaḥ |

31.18३१.१८

तं दृष्ट्वा नृत्यमानं तु बालैः परिवृतं सुतम् । (३१।१८)

taṃ dṛṣṭvā nṛtyamānaṃ tu bālaiḥ parivṛtaṃ sutam |

31.19३१.१९

हास्यताम् उपसंप्राप्तं कश्मलं तत्र मे ऽभवत् । (३१।१९)

hāsyatām upasaṃprāptaṃ kaśmalaṃ tatra me 'bhavat |

31.20३१.२०

द्रोणं धिग् अस्त्वधनिनं यो धनं नाधिगच्छति । (३१।२०)

droṇaṃ dhig astvadhaninaṃ yo dhanaṃ nādhigacchati |

31.21३१.२१

पिष्टोदकं सुतो यस्य पीत्वा क्षीरस्य तृष्णया । (३१।२१)

piṣṭodakaṃ suto yasya pītvā kṣīrasya tṛṣṇayā |

31.22३१.२२

नृत्यति स्म मुदाविष्टः क्षीरं पीतं मयाप्युत । (३१।२२)

nṛtyati sma mudāviṣṭaḥ kṣīraṃ pītaṃ mayāpyuta |

31.23३१.२३

इति संभाषतां वाचं श्रुत्वा मे बुद्धिर् अच्यवत् । (३१।२३)

iti saṃbhāṣatāṃ vācaṃ śrutvā me buddhir acyavat |

31.24३१.२४

आत्मानं चात्मना गर्हन् मनसेदं व्यचिन्तयम् । (३१।२४)

ātmānaṃ cātmanā garhan manasedaṃ vyacintayam |

31.25३१.२५

अपि चाहं पुरा विप्रैर् वर्जितो गर्हितो भृशम् । (३१।२५)

api cāhaṃ purā viprair varjito garhito bhṛśam |

31.26३१.२६

परोपसेवां पापिष्ठां न च कुर्यां धनेप्सया । (३१।२६)

paropasevāṃ pāpiṣṭhāṃ na ca kuryāṃ dhanepsayā |

31.27३१.२७

इति मत्वा प्रियं पुत्रं भीष्मादाय ततो ह्यहम् । (३१।२७)

iti matvā priyaṃ putraṃ bhīṣmādāya tato hyaham |

31.28३१.२८

पूर्वस्नेहानुरागित्वात् सदारः सौमकिं गतः । (३१।२८)

pūrvasnehānurāgitvāt sadāraḥ saumakiṃ gataḥ |

31.29३१.२९

अभिषिक्तं च श्रुत्वैनं कृतार्थो ऽस्मीति चिन्तयन् ॥ (३१।२९)

abhiṣiktaṃ ca śrutvainaṃ kṛtārtho 'smīti cintayan ||

32.1३२.१

प्रियं सखायं सुप्रीतो राज्यस्थं पुनर् आव्रजम् । (३२।१)

priyaṃ sakhāyaṃ suprīto rājyasthaṃ punar āvrajam |

32.2३२.२

संस्मरन् संगमं चैव वचनं चैव तस्य तत् ॥ (३२।२)

saṃsmaran saṃgamaṃ caiva vacanaṃ caiva tasya tat ||

33.1३३.१

ततो द्रुपदम् आगम्य सखिपूर्वम् अहं प्रभो । (३३।१)

tato drupadam āgamya sakhipūrvam ahaṃ prabho |

33.2३३.२

अब्रुवं पुरुषव्याघ्र सखायं विद्धि माम् इति ॥ (३३।२)

abruvaṃ puruṣavyāghra sakhāyaṃ viddhi mām iti ||

34.1३४.१

उपस्थितं तु द्रुपदः सखिवच्चाभिसंगतम् । (३४।१)

upasthitaṃ tu drupadaḥ sakhivaccābhisaṃgatam |

34.2३४.२

स मां निराकारम् इव प्रहसन्न् इदम् अब्रवीत् ॥ (३४।२)

sa māṃ nirākāram iva prahasann idam abravīt ||

35.1३५.१

अकृतेयं तव प्रज्ञा ब्रह्मन् नातिसमञ्जसी । (३५।१)

akṛteyaṃ tava prajñā brahman nātisamañjasī |

35.2३५.२

यद् आत्थ मां त्वं प्रसभं सखा ते ऽहम् इति द्विज । (३५।२)

yad āttha māṃ tvaṃ prasabhaṃ sakhā te 'ham iti dvija |

35.3३५.३

संगतानीह जीर्यन्ति कालेन परिजीर्यतः । (३५।३)

saṃgatānīha jīryanti kālena parijīryataḥ |

35.4३५.४

सौहृदं मे त्वया ह्यासीत् पूर्वं सामर्थ्यबन्धनम् । (३५।४)

sauhṛdaṃ me tvayā hyāsīt pūrvaṃ sāmarthyabandhanam |

35.5३५.५

नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा । (३५।५)

nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā |

35.6३५.६

साम्याद्धि सख्यं भवति वैषम्यान् नोपपद्यते । (३५।६)

sāmyāddhi sakhyaṃ bhavati vaiṣamyān nopapadyate |

35.7३५.७

न सख्यम् अजरं लोके विद्यते जातु कस्यचित् । (३५।७)

na sakhyam ajaraṃ loke vidyate jātu kasyacit |

35.8३५.८

कालो वैनं विहरति क्रोधो वैनं हरत्युत । (३५।८)

kālo vainaṃ viharati krodho vainaṃ haratyuta |

35.9३५.९

मैवं जीर्णम् उपास्स्व त्वं सख्यं भवद् उपाकृधि । (३५।९)

maivaṃ jīrṇam upāssva tvaṃ sakhyaṃ bhavad upākṛdhi |

35.10३५.१०

आसीत् सख्यं द्विजश्रेष्ठ त्वया मे ऽर्थनिबन्धनम् । (३५।१०)

āsīt sakhyaṃ dvijaśreṣṭha tvayā me 'rthanibandhanam |

35.11३५.११

न ह्यनाढ्यः सखाढ्यस्य नाविद्वान् विदुषः सखा । (३५।११)

na hyanāḍhyaḥ sakhāḍhyasya nāvidvān viduṣaḥ sakhā |

35.12३५.१२

न शूरस्य सखा क्लीबः सखिपूर्वं किम् इष्यते । (३५।१२)

na śūrasya sakhā klībaḥ sakhipūrvaṃ kim iṣyate |

35.13३५.१३

नाराजा पार्थिवस्यापि सखिपूर्वं किम् इष्यते ॥ (३५।१३)

nārājā pārthivasyāpi sakhipūrvaṃ kim iṣyate ||

36.1३६.१

न हि राज्ञाम् उदीर्णानाम् एवंभूतैर् नरैः क्वचित् । (३६।१)

na hi rājñām udīrṇānām evaṃbhūtair naraiḥ kvacit |

36.2३६.२

सख्यं भवति मन्दात्मञ् श्रिया हीनैर् धनच्युतैः । (३६।२)

sakhyaṃ bhavati mandātmañ śriyā hīnair dhanacyutaiḥ |

36.3३६.३

अहं त्वया न जानामि राज्यार्थे संविदं कृताम् । (३६।३)

ahaṃ tvayā na jānāmi rājyārthe saṃvidaṃ kṛtām |

36.4३६.४

एकरात्रं तु ते ब्रह्मन् कामं दास्यामि भोजनम् । (३६।४)

ekarātraṃ tu te brahman kāmaṃ dāsyāmi bhojanam |

36.5३६.५

एवम् उक्तस्त्वहं तेन सदारः प्रस्थितस्तदा । (३६।५)

evam uktastvahaṃ tena sadāraḥ prasthitastadā |

36.6३६.६

तां प्रतिज्ञां प्रतिज्ञाय यां कर्तास्म्यचिराद् इव । (३६।६)

tāṃ pratijñāṃ pratijñāya yāṃ kartāsmyacirād iva |

36.7३६.७

आदत्स्वैनं द्विजश्रेष्ठ सौहार्दं ह्यर्थबन्धनम् ॥ (३६।७)

ādatsvainaṃ dvijaśreṣṭha sauhārdaṃ hyarthabandhanam ||

37.1३७.१

नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा । (३७।१)

nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā |

37.2३७.२

नाराजा पार्थिवस्यापि सखिपूर्वं किम् इष्यते ॥ (३७।२)

nārājā pārthivasyāpi sakhipūrvaṃ kim iṣyate ||

38.1३८.१

द्रुपदेनैवम् उक्तो ऽहं मन्युनाभिपरिप्लुतः । (३८।१)

drupadenaivam ukto 'haṃ manyunābhipariplutaḥ |

38.2३८.२

अभ्यागच्छं कुरून् भीष्म शिष्यैर् अर्थी गुणान्वितैः । (३८।२)

abhyāgacchaṃ kurūn bhīṣma śiṣyair arthī guṇānvitaiḥ |

38.3३८.३

वैशंपायन उवाच । (३८।३)

vaiśaṃpāyana uvāca

38.4३८.४

भीष्म उवाच । (३८।४)

bhīṣma uvāca

38.5३८.५

ततो ऽहं भवतः कामं संवर्धयितुम् आगतः । (३८।५)

tato 'haṃ bhavataḥ kāmaṃ saṃvardhayitum āgataḥ |

38.6३८.६

इदं नागपुरं रम्यं ब्रूहि किं करवाणि ते । (३८।६)

idaṃ nāgapuraṃ ramyaṃ brūhi kiṃ karavāṇi te |

38.7३८.७

एवम् उक्तस्तदा भीष्मो भारद्वाजम् अभाषत । (३८।७)

evam uktastadā bhīṣmo bhāradvājam abhāṣata |

38.8३८.८

अपज्यं क्रियतां चापं साध्वस्त्रं प्रतिपादय । (३८।८)

apajyaṃ kriyatāṃ cāpaṃ sādhvastraṃ pratipādaya |

38.9३८.९

भुङ्क्ष्व भोगान् भृशं प्रीतः पूज्यमानः कुरुक्षये । (३८।९)

bhuṅkṣva bhogān bhṛśaṃ prītaḥ pūjyamānaḥ kurukṣaye |

38.10३८.१०

कुरूणाम् अस्ति यद् वित्तं राज्यं चेदं सराष्ट्रकम् । (३८।१०)

kurūṇām asti yad vittaṃ rājyaṃ cedaṃ sarāṣṭrakam |

38.11३८.११

त्वम् एव परमो राजा सर्वे च कुरवस्तव । (३८।११)

tvam eva paramo rājā sarve ca kuravastava |

38.12३८.१२

यच्च ते प्रार्थितं ब्रह्मन् कृतं तद् इति चिन्त्यताम् । (३८।१२)

yacca te prārthitaṃ brahman kṛtaṃ tad iti cintyatām |

38.13३८.१३

दिष्ट्या प्राप्तो ऽसि विप्रर्षे महान् मे ऽनुग्रहः कृतः । (३८।१३)

diṣṭyā prāpto 'si viprarṣe mahān me 'nugrahaḥ kṛtaḥ |

38.14३८.१४

द्रोणस्तथोक्तो भीष्मेण पूजितो वसतिं नयन् । (३८।१४)

droṇastathokto bhīṣmeṇa pūjito vasatiṃ nayan |

38.15३८.१५

कुरूणां सफलं कर्म द्रोणप्राप्तौ तदाभवत् । (३८।१५)

kurūṇāṃ saphalaṃ karma droṇaprāptau tadābhavat |

38.16३८.१६

अस्त्रं चतुर्विधं कृत्स्नं कुमारान् प्रत्यपादयत् । (३८।१६)

astraṃ caturvidhaṃ kṛtsnaṃ kumārān pratyapādayat |

38.17३८.१७

तत्र क्षत्रस्य लोके ऽस्मिन् राजपुत्रा महाबलाः । (३८।१७)

tatra kṣatrasya loke 'smin rājaputrā mahābalāḥ |

38.18३८.१८

वैशंपायन उवाच । (३८।१८)

vaiśaṃpāyana uvāca

38.19३८.१९

ततः सम्पूजितो द्रोणो भीष्मेण द्विपदां वरः । (३८।१९)

tataḥ sampūjito droṇo bhīṣmeṇa dvipadāṃ varaḥ |

38.20३८.२०

विशश्राम महातेजाः पूजितः कुरुवेश्मनि । (३८।२०)

viśaśrāma mahātejāḥ pūjitaḥ kuruveśmani |

38.21३८.२१

विश्रान्ते ऽथ गुरौ तस्मिन् पौत्रान् आदाय कौरवान् । (३८।२१)

viśrānte 'tha gurau tasmin pautrān ādāya kauravān |

38.22३८.२२

शिष्यत्वेन ददौ भीष्मो वसूनि विविधानि च । (३८।२२)

śiṣyatvena dadau bhīṣmo vasūni vividhāni ca |

38.23३८.२३

गृहं च सुपरिच्छन्नं धनधान्यसमाकुलम् । (३८।२३)

gṛhaṃ ca suparicchannaṃ dhanadhānyasamākulam |

38.24३८.२४

भारद्वाजाय सुप्रीतः प्रत्यपादयत प्रभुः ॥ (३८।२४)

bhāradvājāya suprītaḥ pratyapādayata prabhuḥ ||

39.1३९.१

प्रतिजग्राह तं भीष्मो गुरुं पाण्डुसुतैः सह । (३९।१)

pratijagrāha taṃ bhīṣmo guruṃ pāṇḍusutaiḥ saha |

39.2३९.२

पौत्रान् आदाय तान् सर्वान् वसूनि विविधानि च ॥ (३९।२)

pautrān ādāya tān sarvān vasūni vividhāni ca ||

40.1४०.१

शिष्या इति ददौ राजन् द्रोणाय विधिपूर्वकम् । (४०।१)

śiṣyā iti dadau rājan droṇāya vidhipūrvakam |

40.2४०.२

स च शिष्यान् महेष्वासः प्रतिजग्राह कौरवान् । (४०।२)

sa ca śiṣyān maheṣvāsaḥ pratijagrāha kauravān |

40.3४०.३

पाण्डवान् धार्तराष्ट्रांश्च द्रोणो मुदितमानसः ॥ (४०।३)

pāṇḍavān dhārtarāṣṭrāṃśca droṇo muditamānasaḥ ||

41.1४१.१

प्रतिगृह्य च तान् सर्वान् द्रोणो वचनम् अब्रवीत् । (४१।१)

pratigṛhya ca tān sarvān droṇo vacanam abravīt |

41.2४१.२

रहस्येकः प्रतीतात्मा कृतोपसदनांस्तदा ॥ (४१।२)

rahasyekaḥ pratītātmā kṛtopasadanāṃstadā ||

42.1४२.१

कार्यं मे काङ्क्षितं किंचिद्धृदि सम्परिवर्तते । (४२।१)

kāryaṃ me kāṅkṣitaṃ kiṃciddhṛdi samparivartate |

42.2४२.२

कृतास्त्रैस्तत् प्रदेयं मे तद् ऋतं वदतानघाः ॥ (४२।२)

kṛtāstraistat pradeyaṃ me tad ṛtaṃ vadatānaghāḥ ||

43.1४३.१

तच्छ्रुत्वा कौरवेयास्ते तूष्णीम् आसन् विशां पते । (४३।१)

tacchrutvā kauraveyāste tūṣṇīm āsan viśāṃ pate |

43.2४३.२

अर्जुनस्तु ततः सर्वं प्रतिजज्ञे परंतपः ॥ (४३।२)

arjunastu tataḥ sarvaṃ pratijajñe paraṃtapaḥ ||

44.1४४.१

ततो ऽर्जुनं मूर्ध्नि तदा समाघ्राय पुनः पुनः । (४४।१)

tato 'rjunaṃ mūrdhni tadā samāghrāya punaḥ punaḥ |

44.2४४.२

प्रीतिपूर्वं परिष्वज्य प्ररुरोद मुदा तदा । (४४।२)

prītipūrvaṃ pariṣvajya praruroda mudā tadā |

44.3४४.३

अश्वत्थामानम् आहूय द्रोणो वचनम् अब्रवीत् । (४४।३)

aśvatthāmānam āhūya droṇo vacanam abravīt |

44.4४४.४

सखायं विद्धि ते पार्थं मया दत्तं प्रगृह्यताम् । (४४।४)

sakhāyaṃ viddhi te pārthaṃ mayā dattaṃ pragṛhyatām |

44.5४४.५

साधु साध्विति तं पार्थः परिष्वज्येदम् अब्रवीत् । (४४।५)

sādhu sādhviti taṃ pārthaḥ pariṣvajyedam abravīt |

44.6४४.६

अद्य प्रभृति विप्रेन्द्र परवान् अस्मि धर्मतः । (४४।६)

adya prabhṛti viprendra paravān asmi dharmataḥ |

44.7४४.७

शिष्यो ऽहं त्वत्प्रसादेन जीवामि द्विजसत्तम । (४४।७)

śiṣyo 'haṃ tvatprasādena jīvāmi dvijasattama |

44.8४४.८

इत्युक्त्वा तु तदा पार्थः पादौ जग्राह पाण्डवः ॥ (४४।८)

ityuktvā tu tadā pārthaḥ pādau jagrāha pāṇḍavaḥ ||

45.1४५.१

ततो द्रोणः पाण्डुपुत्रान् अस्त्राणि विविधानि च । (४५।१)

tato droṇaḥ pāṇḍuputrān astrāṇi vividhāni ca |

45.2४५.२

ग्राहयामास दिव्यानि मानुषाणि च वीर्यवान् ॥ (४५।२)

grāhayāmāsa divyāni mānuṣāṇi ca vīryavān ||

46.1४६.१

राजपुत्रास्तथैवान्ये समेत्य भरतर्षभ । (४६।१)

rājaputrāstathaivānye sametya bharatarṣabha |

46.2४६.२

अभिजग्मुस्ततो द्रोणम् अस्त्रार्थे द्विजसत्तमम् । (४६।२)

abhijagmustato droṇam astrārthe dvijasattamam |

46.3४६.३

वृष्णयश्चान्धकाश्चैव नानादेश्याश्च पार्थिवाः ॥ (४६।३)

vṛṣṇayaścāndhakāścaiva nānādeśyāśca pārthivāḥ ||

47.1४७.१

सूतपुत्रश्च राधेयो गुरुं द्रोणम् इयात् तदा । (४७।१)

sūtaputraśca rādheyo guruṃ droṇam iyāt tadā |

47.2४७.२

स्पर्धमानस्तु पार्थेन सूतपुत्रो ऽत्यमर्षणः । (४७।२)

spardhamānastu pārthena sūtaputro 'tyamarṣaṇaḥ |

47.3४७.३

दुर्योधनम् उपाश्रित्य पाण्डवान् अत्यमन्यत । (४७।३)

duryodhanam upāśritya pāṇḍavān atyamanyata |

47.4४७.४

अभ्ययात् स ततो द्रोणं धनुर्वेदचिकीर्षया । (४७।४)

abhyayāt sa tato droṇaṃ dhanurvedacikīrṣayā |

47.5४७.५

शिक्षाभुजबलोद्योगैस्तेषु सर्वेषु पाण्डवः । (४७।५)

śikṣābhujabalodyogaisteṣu sarveṣu pāṇḍavaḥ |

47.6४७.६

अस्त्रविद्यानुरागाच्च विशिष्टो ऽभवद् अर्जुनः । (४७।६)

astravidyānurāgācca viśiṣṭo 'bhavad arjunaḥ |

47.7४७.७

तुल्येष्वस्त्रप्रयोगेषु लाघवे सौष्ठवेषु च । (४७।७)

tulyeṣvastraprayogeṣu lāghave sauṣṭhaveṣu ca |

47.8४७.८

सर्वेषाम् एव शिष्याणां बभूवाभ्यधिको ऽर्जुनः । (४७।८)

sarveṣām eva śiṣyāṇāṃ babhūvābhyadhiko 'rjunaḥ |

47.9४७.९

ऐन्द्रिम् अप्रतिमं द्रोण उपदेशेष्वमन्यत । (४७।९)

aindrim apratimaṃ droṇa upadeśeṣvamanyata |

47.10४७.१०

एवं सर्वकुमाराणाम् इष्वस्त्रं प्रत्यपादयत् । (४७।१०)

evaṃ sarvakumārāṇām iṣvastraṃ pratyapādayat |

47.11४७.११

कमण्डलुं च सर्वेषां प्रायच्छच्चिरकारणात् । (४७।११)

kamaṇḍaluṃ ca sarveṣāṃ prāyacchaccirakāraṇāt |

47.12४७.१२

पुत्राय च ददौ कुम्भम् अविलम्बनकारणात् । (४७।१२)

putrāya ca dadau kumbham avilambanakāraṇāt |

47.13४७.१३

यावत् ते नोपगच्छन्ति तावद् अस्मै परां क्रियाम् । (४७।१३)

yāvat te nopagacchanti tāvad asmai parāṃ kriyām |

47.14४७.१४

द्रोण आचष्ट पुत्राय तत् कर्म जिष्णुर् औहत । (४७।१४)

droṇa ācaṣṭa putrāya tat karma jiṣṇur auhata |

47.15४७.१५

ततः स वारुणास्त्रेण पूरयित्वा कमण्डलुम् । (४७।१५)

tataḥ sa vāruṇāstreṇa pūrayitvā kamaṇḍalum |

47.16४७.१६

समम् आचार्यपुत्रेण गुरुम् अभ्येति फाल्गुनः । (४७।१६)

samam ācāryaputreṇa gurum abhyeti phālgunaḥ |

47.17४७.१७

आचार्यपुत्रात् तस्मात् तु विशेषोपचये पृथक् । (४७।१७)

ācāryaputrāt tasmāt tu viśeṣopacaye pṛthak |

47.18४७.१८

न व्यहीयत मेधावी पार्थो ऽस्त्रविदुषां वरः ॥ (४७।१८)

na vyahīyata medhāvī pārtho 'straviduṣāṃ varaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 1, 122

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit