MBh, 2, 48
Select a line for its word-by-word analysis.
यज्ञार्थं राजभिर् दत्तं महान्तं धनसंचयम् ॥ (१।३)
yajñārthaṃ rājabhir dattaṃ mahāntaṃ dhanasaṃcayam ||
जातरूपं द्रोणमेयम् अहार्षुः पुञ्जशो नृपाः ॥ (४।२)
jātarūpaṃ droṇameyam ahārṣuḥ puñjaśo nṛpāḥ ||
कृष्णांल् ललामांश्चमराञ् शुक्लांश्चान्याञ् शशिप्रभान् । (५।१)
kṛṣṇāṃl lalāmāṃścamarāñ śuklāṃścānyāñ śaśiprabhān |
हिमवत्पुष्पजं चैव स्वादु क्षौद्रं तथा बहु ॥ (५।२)
himavatpuṣpajaṃ caiva svādu kṣaudraṃ tathā bahu ||
उत्तरेभ्यः कुरुभ्यश्चाप्यपोढं माल्यम् अम्बुभिः । (६।१)
uttarebhyaḥ kurubhyaścāpyapoḍhaṃ mālyam ambubhiḥ |
पार्वतीया बलिं चान्यम् आहृत्य प्रणताः स्थिताः । (७।१)
pārvatīyā baliṃ cānyam āhṛtya praṇatāḥ sthitāḥ |
अजातशत्रोर् नृपतेर् द्वारि तिष्ठन्ति वारिताः ॥ (७।२)
ajātaśatror nṛpater dvāri tiṣṭhanti vāritāḥ ||
निचितं पर्वतेभ्यश्च हिरण्यं भूरिवर्चसम् । (११।१)
nicitaṃ parvatebhyaśca hiraṇyaṃ bhūrivarcasam |
बलिं च कृत्स्नम् आदाय द्वारि तिष्ठन्ति वारिताः ॥ (११।२)
baliṃ ca kṛtsnam ādāya dvāri tiṣṭhanti vāritāḥ ||
औदुम्बरा दुर्विभागाः पारदा बाह्लिकैः सह ॥ (१२।२)
audumbarā durvibhāgāḥ pāradā bāhlikaiḥ saha ||
अम्बष्ठाः कौकुरास्तार्क्ष्या वस्त्रपाः पह्लवैः सह । (१४।१)
ambaṣṭhāḥ kaukurāstārkṣyā vastrapāḥ pahlavaiḥ saha |
शौण्डिकाः कुक्कुराश्चैव शकाश्चैव विशां पते । (१५।१)
śauṇḍikāḥ kukkurāścaiva śakāścaiva viśāṃ pate |
अङ्गा वङ्गाश्च पुण्ड्राश्च शानवत्या गयास्तथा ॥ (१५।२)
aṅgā vaṅgāśca puṇḍrāśca śānavatyā gayāstathā ||
सुजातयः श्रेणिमन्तः श्रेयांसः शस्त्रपाणयः । (१६।१)
sujātayaḥ śreṇimantaḥ śreyāṃsaḥ śastrapāṇayaḥ |
आहार्षुः क्षत्रिया वित्तं शतशो ऽजातशत्रवे ॥ (१६।२)
āhārṣuḥ kṣatriyā vittaṃ śataśo 'jātaśatrave ||
वङ्गाः कलिङ्गपतयस्ताम्रलिप्ताः सपुण्ड्रकाः । (१७।१)
vaṅgāḥ kaliṅgapatayastāmraliptāḥ sapuṇḍrakāḥ |
दुकूलं कौशिकं चैव पत्रोर्णं प्रावरान् अपि ॥ (१७।२)
dukūlaṃ kauśikaṃ caiva patrorṇaṃ prāvarān api ||
तत्र स्म द्वारपालैस्ते प्रोच्यन्ते राजशासनात् । (१८।१)
tatra sma dvārapālaiste procyante rājaśāsanāt |
ईषादन्तान् हेमकक्षान् पद्मवर्णान् कुथावृतान् । (१९।१)
īṣādantān hemakakṣān padmavarṇān kuthāvṛtān |
शैलाभान्नित्यमत्तांश्च अभितः काम्यकं सरः ॥ (१९।२)
śailābhānnityamattāṃśca abhitaḥ kāmyakaṃ saraḥ ||
दत्त्वैकैको दशशतान् कुञ्जरान् कवचावृतान् । (२०।१)
dattvaikaiko daśaśatān kuñjarān kavacāvṛtān |
क्षमावतः कुलीनांश्च द्वारेण प्राविशंस्ततः ॥ (२०।२)
kṣamāvataḥ kulīnāṃśca dvāreṇa prāviśaṃstataḥ ||
एते चान्ये च बहवो गणा दिग्भ्यः समागताः । (२१।१)
ete cānye ca bahavo gaṇā digbhyaḥ samāgatāḥ |
अन्यैश्चोपाहृतान्यत्र रत्नानीह महात्मभिः ॥ (२१।२)
anyaiścopāhṛtānyatra ratnānīha mahātmabhiḥ ||
तुम्बुरुस्तु प्रमुदितो गन्धर्वो वाजिनां शतम् । (२३।१)
tumburustu pramudito gandharvo vājināṃ śatam |
विराटेन तु मत्स्येन बल्यर्थं हेममालिनाम् । (२५।१)
virāṭena tu matsyena balyarthaṃ hemamālinām |
कुञ्जराणां सहस्रे द्वे मत्तानां समुपाहृते ॥ (२५।२)
kuñjarāṇāṃ sahasre dve mattānāṃ samupāhṛte ||
पांशुराष्ट्राद् वसुदानो राजा षड्विंशतिं गजान् । (२६।१)
pāṃśurāṣṭrād vasudāno rājā ṣaḍviṃśatiṃ gajān |
अश्वानां च सहस्रे द्वे राजन् काञ्चनमालिनाम् ॥ (२६।२)
aśvānāṃ ca sahasre dve rājan kāñcanamālinām ||
बलिं च कृत्स्नम् आदाय पाण्डवेभ्यो न्यवेदयत् ॥ (२७।२)
baliṃ ca kṛtsnam ādāya pāṇḍavebhyo nyavedayat ||
राज्यं च कृत्स्नं पार्थेभ्यो यज्ञार्थं वै निवेदितम् ॥ (२९।२)
rājyaṃ ca kṛtsnaṃ pārthebhyo yajñārthaṃ vai niveditam ||
समुद्रसारं वैडूर्यं मुक्ताः शङ्खांस्तथैव च । (३०।१)
samudrasāraṃ vaiḍūryaṃ muktāḥ śaṅkhāṃstathaiva ca |
संवृता मणिचीरैस्तु श्यामास्ताम्रान्तलोचनाः । (३१।१)
saṃvṛtā maṇicīraistu śyāmāstāmrāntalocanāḥ |
तान् गृहीत्वा नरास्तत्र द्वारि तिष्ठन्ति वारिताः ॥ (३१।२)
tān gṛhītvā narāstatra dvāri tiṣṭhanti vāritāḥ ||
प्रीत्यर्थं ब्राह्मणाश्चैव क्षत्रियाश्च विनिर्जिताः । (३२।१)
prītyarthaṃ brāhmaṇāścaiva kṣatriyāśca vinirjitāḥ |
उपाजह्रुर् विशश्चैव शूद्राः शुश्रूषवो ऽपि च । (३२।२)
upājahrur viśaścaiva śūdrāḥ śuśrūṣavo 'pi ca |
प्रीत्या च बहुमानाच्च अभ्यगच्छन् युधिष्ठिरम् ॥ (३२।३)
prītyā ca bahumānācca abhyagacchan yudhiṣṭhiram ||
सर्वे म्लेच्छाः सर्ववर्णा आदिमध्यान्तजास्तथा । (३३।१)
sarve mlecchāḥ sarvavarṇā ādimadhyāntajāstathā |
उच्चावचान् उपग्राहान् राजभिः प्रहितान् बहून् । (३४।१)
uccāvacān upagrāhān rājabhiḥ prahitān bahūn |
शत्रूणां पश्यतो दुःखान्मुमूर्षा मे ऽद्य जायते ॥ (३४।२)
śatrūṇāṃ paśyato duḥkhānmumūrṣā me 'dya jāyate ||
भृत्यास्तु ये पाण्डवानां तांस्ते वक्ष्यामि भारत । (३५।१)
bhṛtyāstu ye pāṇḍavānāṃ tāṃste vakṣyāmi bhārata |
येषाम् आमं च पक्वं च संविधत्ते युधिष्ठिरः ॥ (३५।२)
yeṣām āmaṃ ca pakvaṃ ca saṃvidhatte yudhiṣṭhiraḥ ||
नाभुक्तवन्तं नाहृष्टं नासुभिक्षं कथंचन । (३८।१)
nābhuktavantaṃ nāhṛṣṭaṃ nāsubhikṣaṃ kathaṃcana |
त्रिंशद्दासीक एकैको यान् बिभर्ति युधिष्ठिरः । (३९।२)
triṃśaddāsīka ekaiko yān bibharti yudhiṣṭhiraḥ |
सुप्रीताः परितुष्टाश्च ते ऽप्याशंसन्त्यरिक्षयम् ॥ (३९।३)
suprītāḥ parituṣṭāśca te 'pyāśaṃsantyarikṣayam ||
दशान्यानि सहस्राणि यतीनाम् ऊर्ध्वरेतसाम् । (४०।१)
daśānyāni sahasrāṇi yatīnām ūrdhvaretasām |
भुक्ताभुक्तं कृताकृतं सर्वम् आकुब्जवामनम् । (४१।१)
bhuktābhuktaṃ kṛtākṛtaṃ sarvam ākubjavāmanam |
अभुञ्जाना याज्ञसेनी प्रत्यवैक्षद् विशां पते ॥ (४१।२)
abhuñjānā yājñasenī pratyavaikṣad viśāṃ pate ||
द्वौ करं न प्रयच्छेतां कुन्तीपुत्राय भारत । (४२।१)
dvau karaṃ na prayacchetāṃ kuntīputrāya bhārata |
वैवाहिकेन पाञ्चालाः सख्येनान्धकवृष्णयः ॥ (४२।२)
vaivāhikena pāñcālāḥ sakhyenāndhakavṛṣṇayaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.