महाभारतMahābhārata

MBh, 15, 11

1942 of 1995 · 41 verses

Select a line for its word-by-word analysis.

1.1१.१

धृतराष्ट्र उवाच । (१।१)

dhṛtarāṣṭra uvāca

1.2१.२

मण्डलानि च बुध्येथाः परेषाम् आत्मनस्तथा । (१।२)

maṇḍalāni ca budhyethāḥ pareṣām ātmanastathā |

1.3१.३

उदासीनगुणानां च मध्यमानां तथैव च ॥ (१।३)

udāsīnaguṇānāṃ ca madhyamānāṃ tathaiva ca ||

2.1२.१

चतुर्णां शत्रुजातानां सर्वेषाम् आततायिनाम् । (२।१)

caturṇāṃ śatrujātānāṃ sarveṣām ātatāyinām |

2.2२.२

मित्रं चामित्रमित्रं च बोद्धव्यं ते ऽरिकर्शन ॥ (२।२)

mitraṃ cāmitramitraṃ ca boddhavyaṃ te 'rikarśana ||

3.1३.१

तथामात्या जनपदा दुर्गाणि विषमाणि च । (३।१)

tathāmātyā janapadā durgāṇi viṣamāṇi ca |

3.2३.२

बलानि च कुरुश्रेष्ठ भवन्त्येषां यथेच्छकम् ॥ (३।२)

balāni ca kuruśreṣṭha bhavantyeṣāṃ yathecchakam ||

4.1४.१

ते च द्वादश कौन्तेय राज्ञां वै विविधात्मकाः । (४।१)

te ca dvādaśa kaunteya rājñāṃ vai vividhātmakāḥ |

4.2४.२

मन्त्रिप्रधानाश्च गुणाः षष्टिर् द्वादश च प्रभो ॥ (४।२)

mantripradhānāśca guṇāḥ ṣaṣṭir dvādaśa ca prabho ||

5.1५.१

एतन्मण्डलम् इत्याहुर् आचार्या नीतिकोविदाः । (५।१)

etanmaṇḍalam ityāhur ācāryā nītikovidāḥ |

5.2५.२

अत्र षाड्गुण्यम् आयत्तं युधिष्ठिर निबोध तत् ॥ (५।२)

atra ṣāḍguṇyam āyattaṃ yudhiṣṭhira nibodha tat ||

6.1६.१

वृद्धिक्षयौ च विज्ञेयौ स्थानं च कुरुनन्दन । (६।१)

vṛddhikṣayau ca vijñeyau sthānaṃ ca kurunandana |

6.2६.२

द्विसप्तत्या महाबाहो ततः षाड्गुण्यचारिणः ॥ (६।२)

dvisaptatyā mahābāho tataḥ ṣāḍguṇyacāriṇaḥ ||

7.1७.१

यदा स्वपक्षो बलवान् परपक्षस्तथाबलः । (७।१)

yadā svapakṣo balavān parapakṣastathābalaḥ |

7.2७.२

विगृह्य शत्रून् कौन्तेय यायात् क्षितिपतिस्तदा । (७।२)

vigṛhya śatrūn kaunteya yāyāt kṣitipatistadā |

7.3७.३

यदा स्वपक्षो ऽबलवांस्तदा संधिं समाश्रयेत् ॥ (७।३)

yadā svapakṣo 'balavāṃstadā saṃdhiṃ samāśrayet ||

8.1८.१

द्रव्याणां संचयश्चैव कर्तव्यः स्यान्महांस्तथा । (८।१)

dravyāṇāṃ saṃcayaścaiva kartavyaḥ syānmahāṃstathā |

8.2८.२

यदा समर्थो यानाय नचिरेणैव भारत ॥ (८।२)

yadā samartho yānāya nacireṇaiva bhārata ||

9.1९.१

तदा सर्वं विधेयं स्यात् स्थानं च न विभाजयेत् । (९।१)

tadā sarvaṃ vidheyaṃ syāt sthānaṃ ca na vibhājayet |

9.2९.२

भूमिर् अल्पफला देया विपरीतस्य भारत ॥ (९।२)

bhūmir alpaphalā deyā viparītasya bhārata ||

10.1१०.१

हिरण्यं कुप्यभूयिष्ठं मित्रं क्षीणम् अकोशवत् । (१०।१)

hiraṇyaṃ kupyabhūyiṣṭhaṃ mitraṃ kṣīṇam akośavat |

10.2१०.२

विपरीतान्न गृह्णीयात् स्वयं संधिविशारदः ॥ (१०।२)

viparītānna gṛhṇīyāt svayaṃ saṃdhiviśāradaḥ ||

11.1११.१

संध्यर्थं राजपुत्रं च लिप्सेथा भरतर्षभ । (११।१)

saṃdhyarthaṃ rājaputraṃ ca lipsethā bharatarṣabha |

11.2११.२

विपरीतस्तु ते ऽदेयः पुत्र कस्यांचिद् आपदि । (११।२)

viparītastu te 'deyaḥ putra kasyāṃcid āpadi |

11.3११.३

तस्य प्रमोक्षे यत्नं च कुर्याः सोपायमन्त्रवित् ॥ (११।३)

tasya pramokṣe yatnaṃ ca kuryāḥ sopāyamantravit ||

12.1१२.१

प्रकृतीनां च कौन्तेय राजा दीनां विभावयेत् । (१२।१)

prakṛtīnāṃ ca kaunteya rājā dīnāṃ vibhāvayet |

12.2१२.२

क्रमेण युगपद् द्वंद्वं व्यसनानां बलाबलम् ॥ (१२।२)

krameṇa yugapad dvaṃdvaṃ vyasanānāṃ balābalam ||

13.1१३.१

पीडनं स्तम्भनं चैव कोशभङ्गस्तथैव च । (१३।१)

pīḍanaṃ stambhanaṃ caiva kośabhaṅgastathaiva ca |

13.2१३.२

कार्यं यत्नेन शत्रूणां स्वराष्ट्रं रक्षता स्वयम् ॥ (१३।२)

kāryaṃ yatnena śatrūṇāṃ svarāṣṭraṃ rakṣatā svayam ||

14.1१४.१

न च हिंस्यो ऽभ्युपगतः सामन्तो वृद्धिम् इच्छता । (१४।१)

na ca hiṃsyo 'bhyupagataḥ sāmanto vṛddhim icchatā |

14.2१४.२

कौन्तेय तं न हिंसेत यो महीं विजिगीषते ॥ (१४।२)

kaunteya taṃ na hiṃseta yo mahīṃ vijigīṣate ||

15.1१५.१

गणानां भेदने योगं गच्छेथाः सह मन्त्रिभिः । (१५।१)

gaṇānāṃ bhedane yogaṃ gacchethāḥ saha mantribhiḥ |

15.2१५.२

साधुसंग्रहणाच्चैव पापनिग्रहणात् तथा ॥ (१५।२)

sādhusaṃgrahaṇāccaiva pāpanigrahaṇāt tathā ||

16.1१६.१

दुर्बलाश्चापि सततं नावष्टभ्या बलीयसा । (१६।१)

durbalāścāpi satataṃ nāvaṣṭabhyā balīyasā |

16.2१६.२

तिष्ठेथा राजशार्दूल वैतसीं वृत्तिम् आस्थितः ॥ (१६।२)

tiṣṭhethā rājaśārdūla vaitasīṃ vṛttim āsthitaḥ ||

17.1१७.१

यद्येवम् अभियायाच्च दुर्बलं बलवान्नृपः । (१७।१)

yadyevam abhiyāyācca durbalaṃ balavānnṛpaḥ |

17.2१७.२

सामादिभिर् उपायैस्तं क्रमेण विनिवर्तयेत् ॥ (१७।२)

sāmādibhir upāyaistaṃ krameṇa vinivartayet ||

18.1१८.१

अशक्नुवंस्तु युद्धाय निष्पतेत् सह मन्त्रिभिः । (१८।१)

aśaknuvaṃstu yuddhāya niṣpatet saha mantribhiḥ |

18.2१८.२

कोशेन पौरैर् दण्डेन ये चान्ये प्रियकारिणः ॥ (१८।२)

kośena paurair daṇḍena ye cānye priyakāriṇaḥ ||

19.1१९.१

असंभवे तु सर्वस्य यथामुख्येन निष्पतेत् । (१९।१)

asaṃbhave tu sarvasya yathāmukhyena niṣpatet |

19.2१९.२

क्रमेणानेन मोक्षः स्याच्छरीरम् अपि केवलम् ॥ (१९।२)

krameṇānena mokṣaḥ syāccharīram api kevalam ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 15, 11

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit