महाभारतMahābhārata

MBh, 1, 177

177 of 1995 · 62 verses

Select a line for its word-by-word analysis.

1.1१.१

धृष्टद्युम्न उवाच । (१।१)

dhṛṣṭadyumna uvāca

1.2१.२

दुर्योधनो दुर्विषहो दुर्मुखो दुष्प्रधर्षणः । (१।२)

duryodhano durviṣaho durmukho duṣpradharṣaṇaḥ |

1.3१.३

विविंशतिर् विकर्णश्च सहो दुःशासनः समः ॥ (१।३)

viviṃśatir vikarṇaśca saho duḥśāsanaḥ samaḥ ||

2.1२.१

युयुत्सुर् वातवेगश्च भीमवेगधरस्तथा । (२।१)

yuyutsur vātavegaśca bhīmavegadharastathā |

2.2२.२

उग्रायुधो बलाकी च कनकायुर् विरोचनः ॥ (२।२)

ugrāyudho balākī ca kanakāyur virocanaḥ ||

3.1३.१

सुकुण्डलश्चित्रसेनः सुवर्चाः कनकध्वजः । (३।१)

sukuṇḍalaścitrasenaḥ suvarcāḥ kanakadhvajaḥ |

3.2३.२

नन्दको बाहुशाली च कुण्डजो विकटस्तथा । (३।२)

nandako bāhuśālī ca kuṇḍajo vikaṭastathā |

3.3३.३

विन्दश्चाप्यनुविन्दश्च सजीवी विकलः करी ॥ (३।३)

vindaścāpyanuvindaśca sajīvī vikalaḥ karī ||

4.1४.१

एते चान्ये च बहवो धार्तराष्ट्रा महाबलाः । (४।१)

ete cānye ca bahavo dhārtarāṣṭrā mahābalāḥ |

4.2४.२

कर्णेन सहिता वीरास्त्वदर्थं समुपागताः । (४।२)

karṇena sahitā vīrāstvadarthaṃ samupāgatāḥ |

4.3४.३

शतसंख्या महात्मानः प्रथिताः क्षत्रियर्षभाः ॥ (४।३)

śatasaṃkhyā mahātmānaḥ prathitāḥ kṣatriyarṣabhāḥ ||

5.1५.१

शकुनिश्च बलश्चैव वृषको ऽथ बृहद्बलः । (५।१)

śakuniśca balaścaiva vṛṣako 'tha bṛhadbalaḥ |

5.2५.२

एते गान्धारराजस्य सुताः सर्वे समागताः ॥ (५।२)

ete gāndhārarājasya sutāḥ sarve samāgatāḥ ||

6.1६.१

अश्वत्थामा च भोजश्च सर्वशस्त्रभृतां वरौ । (६।१)

aśvatthāmā ca bhojaśca sarvaśastrabhṛtāṃ varau |

6.2६.२

समवेतौ महात्मानौ त्वदर्थे समलंकृतौ ॥ (६।२)

samavetau mahātmānau tvadarthe samalaṃkṛtau ||

7.1७.१

बृहन्तो मणिमांश्चैव दण्डधारश्च वीर्यवान् । (७।१)

bṛhanto maṇimāṃścaiva daṇḍadhāraśca vīryavān |

7.2७.२

सहदेवो जयत्सेनो मेघसंधिश्च मागधः ॥ (७।२)

sahadevo jayatseno meghasaṃdhiśca māgadhaḥ ||

8.1८.१

विराटः सह पुत्राभ्यां शङ्खेनैवोत्तरेण च । (८।१)

virāṭaḥ saha putrābhyāṃ śaṅkhenaivottareṇa ca |

8.2८.२

वार्धक्षेमिः सुवर्चाश्च सेनाबिन्दुश्च पार्थिवः ॥ (८।२)

vārdhakṣemiḥ suvarcāśca senābinduśca pārthivaḥ ||

9.1९.१

अभिभूः सह पुत्रेण सुदाम्ना च सुवर्चसा । (९।१)

abhibhūḥ saha putreṇa sudāmnā ca suvarcasā |

9.2९.२

सुमित्रः सुकुमारश्च वृकः सत्यधृतिस्तथा ॥ (९।२)

sumitraḥ sukumāraśca vṛkaḥ satyadhṛtistathā ||

10.1१०.१

सूर्यध्वजो रोचमानो नीलश्चित्रायुधस्तथा । (१०।१)

sūryadhvajo rocamāno nīlaścitrāyudhastathā |

10.2१०.२

अंशुमांश्चेकितानश्च श्रेणिमांश्च महाबलः ॥ (१०।२)

aṃśumāṃścekitānaśca śreṇimāṃśca mahābalaḥ ||

11.1११.१

समुद्रसेनपुत्रश्च चन्द्रसेनः प्रतापवान् । (११।१)

samudrasenaputraśca candrasenaḥ pratāpavān |

11.2११.२

जलसंधः पितापुत्रौ सुदण्डो दण्ड एव च ॥ (११।२)

jalasaṃdhaḥ pitāputrau sudaṇḍo daṇḍa eva ca ||

12.1१२.१

पौण्ड्रको वासुदेवश्च भगदत्तश्च वीर्यवान् । (१२।१)

pauṇḍrako vāsudevaśca bhagadattaśca vīryavān |

12.2१२.२

कलिङ्गस्ताम्रलिप्तश्च पत्तनाधिपतिस्तथा ॥ (१२।२)

kaliṅgastāmraliptaśca pattanādhipatistathā ||

13.1१३.१

मद्रराजस्तथा शल्यः सहपुत्रो महारथः । (१३।१)

madrarājastathā śalyaḥ sahaputro mahārathaḥ |

13.2१३.२

रुक्माङ्गदेन वीरेण तथा रुक्मरथेन च ॥ (१३।२)

rukmāṅgadena vīreṇa tathā rukmarathena ca ||

14.1१४.१

कौरव्यः सोमदत्तश्च पुत्राश्चास्य महारथाः । (१४।१)

kauravyaḥ somadattaśca putrāścāsya mahārathāḥ |

14.2१४.२

समवेतास्त्रयः शूरा भूरिर् भूरिश्रवाः शलः ॥ (१४।२)

samavetāstrayaḥ śūrā bhūrir bhūriśravāḥ śalaḥ ||

15.1१५.१

सुदक्षिणश्च काम्बोजो दृढधन्वा च कौरवः । (१५।१)

sudakṣiṇaśca kāmbojo dṛḍhadhanvā ca kauravaḥ |

15.2१५.२

बृहद्बलः सुषेणश्च शिबिर् औशीनरस्तथा । (१५।२)

bṛhadbalaḥ suṣeṇaśca śibir auśīnarastathā |

15.3१५.३

पटच्चरनिहन्ता च कारूषाधिपतिस्तथा । (१५।३)

paṭaccaranihantā ca kārūṣādhipatistathā |

15.4१५.४

पाण्ड्यकेरलचोलेन्द्रास्त्रयस्त्रेताग्नयो यथा । (१५।४)

pāṇḍyakeralacolendrāstrayastretāgnayo yathā |

15.5१५.५

आसनेषु विराजन्ते आशाम् आगस्त्यम् आश्रिताः ॥ (१५।५)

āsaneṣu virājante āśām āgastyam āśritāḥ ||

16.1१६.१

संकर्षणो वासुदेवो रौक्मिणेयश्च वीर्यवान् । (१६।१)

saṃkarṣaṇo vāsudevo raukmiṇeyaśca vīryavān |

16.2१६.२

साम्बश्च चारुदेष्णश्च सारणो ऽथ गदस्तथा ॥ (१६।२)

sāmbaśca cārudeṣṇaśca sāraṇo 'tha gadastathā ||

17.1१७.१

अक्रूरः सात्यकिश्चैव उद्धवश्च महाबलः । (१७।१)

akrūraḥ sātyakiścaiva uddhavaśca mahābalaḥ |

17.2१७.२

कृतवर्मा च हार्दिक्यः पृथुर् विपृथुर् एव च ॥ (१७।२)

kṛtavarmā ca hārdikyaḥ pṛthur vipṛthur eva ca ||

18.1१८.१

विडूरथश्च कङ्कश्च समीकः सारमेजयः । (१८।१)

viḍūrathaśca kaṅkaśca samīkaḥ sāramejayaḥ |

18.2१८.२

ये चान्ये यादवास्तथा । (१८।२)

ye cānye yādavāstathā |

18.3१८.३

आगतास्तव हेतोश्च कृष्णे जानीहि सत्वरम् । (१८।३)

āgatāstava hetośca kṛṣṇe jānīhi satvaram |

18.4१८.४

कृतवर्मा च हार्दिक्यः । (१८।४)

kṛtavarmā ca hārdikyaḥ |

18.5१८.५

शङ्कुश्च सगवेषणः । (१८।५)

śaṅkuśca sagaveṣaṇaḥ |

18.6१८.६

आशावहो ऽनिरुद्धश्च । (१८।६)

āśāvaho 'niruddhaśca |

18.7१८.७

वीरो वातपतिश्चैव झिल्ली पिण्डारकस्तथा । (१८।७)

vīro vātapatiścaiva jhillī piṇḍārakastathā |

18.8१८.८

उशीनरश्च विक्रान्तो वृष्णयस्ते प्रकीर्तिताः ॥ (१८।८)

uśīnaraśca vikrānto vṛṣṇayaste prakīrtitāḥ ||

19.1१९.१

भगीरथो बृहत्क्षत्रः सैन्धवश्च जयद्रथः । (१९।१)

bhagīratho bṛhatkṣatraḥ saindhavaśca jayadrathaḥ |

19.2१९.२

बृहद्रथो बाह्लिकश्च श्रुतायुश्च महारथः ॥ (१९।२)

bṛhadratho bāhlikaśca śrutāyuśca mahārathaḥ ||

20.1२०.१

उलूकः कैतवो राजा चित्राङ्गदशुभाङ्गदौ । (२०।१)

ulūkaḥ kaitavo rājā citrāṅgadaśubhāṅgadau |

20.2२०.२

वत्सराजश्च धृतिमान् कोसलाधिपतिस्तथा । (२०।२)

vatsarājaśca dhṛtimān kosalādhipatistathā |

20.3२०.३

कर्णश्च सह पुत्रेण वृषसेनेन वीर्यवान् । (२०।३)

karṇaśca saha putreṇa vṛṣasenena vīryavān |

20.4२०.४

बृहद्बलश्च बलवान् राजा चैवाथ दुर्जयः । (२०।४)

bṛhadbalaśca balavān rājā caivātha durjayaḥ |

20.5२०.५

दमघोषात्मजश्चैव शिशुपालो महाबलः । (२०।५)

damaghoṣātmajaścaiva śiśupālo mahābalaḥ |

20.6२०.६

चेदीनाम् अधिपो वीरो बलवान् अन्तकोपमः । (२०।६)

cedīnām adhipo vīro balavān antakopamaḥ |

20.7२०.७

प्राच्योदीच्याः प्रतीच्याश्च दाक्षिणात्याः क्षितीश्वराः । (२०।७)

prācyodīcyāḥ pratīcyāśca dākṣiṇātyāḥ kṣitīśvarāḥ |

20.8२०.८

शिशुपालश्च विक्रान्तो जरासंधस्तथैव च ॥ (२०।८)

śiśupālaśca vikrānto jarāsaṃdhastathaiva ca ||

21.1२१.१

एते चान्ये च बहवो नानाजनपदेश्वराः । (२१।१)

ete cānye ca bahavo nānājanapadeśvarāḥ |

21.2२१.२

त्वदर्थम् आगता भद्रे क्षत्रियाः प्रथिता भुवि ॥ (२१।२)

tvadartham āgatā bhadre kṣatriyāḥ prathitā bhuvi ||

22.1२२.१

एते वेत्स्यन्ति विक्रान्तास्त्वदर्थं लक्ष्यम् उत्तमम् । (२२।१)

ete vetsyanti vikrāntāstvadarthaṃ lakṣyam uttamam |

22.2२२.२

विध्येत य इमं लक्ष्यं वरयेथाः शुभे ऽद्य तम् ॥ (२२।२)

vidhyeta ya imaṃ lakṣyaṃ varayethāḥ śubhe 'dya tam ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 1, 177

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit