MBh, 3, 128
Select a line for its word-by-word analysis.
ब्रह्मन् यद् यद् यथा कार्यं तत् तत् कुरु तथा तथा । (१।२)
brahman yad yad yathā kāryaṃ tat tat kuru tathā tathā |
मातरस् तु बलात् पुत्रम् अपाकर्षुः कृपान्विताः ॥ (२।३)
mātaras tu balāt putram apākarṣuḥ kṛpānvitāḥ ||
हा हताः स्मेति वाशन्त्यस् तीव्रशोकसमन्विताः । (३।१)
hā hatāḥ smeti vāśantyas tīvraśokasamanvitāḥ |
तं मातरः प्रत्यकर्षन् गृहीत्वा दक्षिणे करे । (३।२)
taṃ mātaraḥ pratyakarṣan gṛhītvā dakṣiṇe kare |
सव्ये पाणौ गृहीत्वा तु याजको ऽपि स्म कर्षति ॥ (३।३)
savye pāṇau gṛhītvā tu yājako 'pi sma karṣati ||
सर्वाश् च गर्भान् अलभंस्ततस् ताः पार्थिवाङ्गनाः ॥ (५।३)
sarvāś ca garbhān alabhaṃstatas tāḥ pārthivāṅganāḥ ||
जज्ञे पुत्रशतं पूर्णं तासु सर्वासु भारत ॥ (६।२)
jajñe putraśataṃ pūrṇaṃ tāsu sarvāsu bhārata ||
जन्तुर् ज्येष्ठः समभवज्जनित्र्याम् एव भारत । (७।१)
jantur jyeṣṭhaḥ samabhavajjanitryām eva bhārata |
स तासाम् इष्ट एवासीन् न तथान्ये निजाः सुताः ॥ (७।२)
sa tāsām iṣṭa evāsīn na tathānye nijāḥ sutāḥ ||
तच्च लक्षणम् अस्यासीत् सौवर्णं पार्श्व उत्तरे । (८।१)
tacca lakṣaṇam asyāsīt sauvarṇaṃ pārśva uttare |
तस्मिन् पुत्रशते चाग्र्यः स बभूव गुणैर् युतः ॥ (८।२)
tasmin putraśate cāgryaḥ sa babhūva guṇair yutaḥ ||
अथ काले व्यतीते तु सोमको ऽप्य् अगमत् परम् ॥ (९।२)
atha kāle vyatīte tu somako 'py agamat param ||
तम् अपृच्छत् किमर्थं त्वं नरके पच्यसे द्विज ॥ (१०।२)
tam apṛcchat kimarthaṃ tvaṃ narake pacyase dvija ||
तम् अब्रवीद् गुरुः सो ऽथ पच्यमानो ऽग्निना भृशम् । (११।१)
tam abravīd guruḥ so 'tha pacyamāno 'gninā bhṛśam |
त्वं मया याजितो राजंस् तस्येदं कर्मणः फलम् ॥ (११।२)
tvaṃ mayā yājito rājaṃs tasyedaṃ karmaṇaḥ phalam ||
एतच्छ्रुत्वा स राजर्षिर् धर्मराजानम् अब्रवीत् । (१२।१)
etacchrutvā sa rājarṣir dharmarājānam abravīt |
अहम् अत्र प्रवेक्ष्यामि मुच्यतां मम याजकः । (१२।२)
aham atra pravekṣyāmi mucyatāṃ mama yājakaḥ |
नान्यः कर्तुः फलं राजन्न् उपभुङ्क्ते कदाचन । (१३।२)
nānyaḥ kartuḥ phalaṃ rājann upabhuṅkte kadācana |
पुण्यान् न कामये लोकान् ऋते ऽहं ब्रह्मवादिनम् । (१४।२)
puṇyān na kāmaye lokān ṛte 'haṃ brahmavādinam |
पुण्यापुण्यफलं देव समम् अस्त्वावयोर् इदम् ॥ (१५।२)
puṇyāpuṇyaphalaṃ deva samam astvāvayor idam ||
यद्येवम् ईप्सितं राजन् भुङ्क्ष्वास्य सहितः फलम् । (१६।२)
yadyevam īpsitaṃ rājan bhuṅkṣvāsya sahitaḥ phalam |
तुल्यकालं सहानेन पश्चात् प्राप्स्यसि सद्गतिम् ॥ (१६।३)
tulyakālaṃ sahānena paścāt prāpsyasi sadgatim ||
पुनश् च लेभे लोकान् स्वान् कर्मणा निर्जिताञ्शुभान् । (१७।३)
punaś ca lebhe lokān svān karmaṇā nirjitāñśubhān |
एष तस्याश्रमः पुण्यो य एषो ऽग्रे विराजते । (१८।१)
eṣa tasyāśramaḥ puṇyo ya eṣo 'gre virājate |
क्षान्त उष्यात्र षड्रात्रं प्राप्नोति सुगतिं नरः ॥ (१८।२)
kṣānta uṣyātra ṣaḍrātraṃ prāpnoti sugatiṃ naraḥ ||
एतस्मिन्न् अपि राजेन्द्र वत्स्यामो विगतज्वराः । (१९।१)
etasminn api rājendra vatsyāmo vigatajvarāḥ |
षड्रात्रं नियतात्मानः सज्जीभव कुरूद्वह ॥ (१९।२)
ṣaḍrātraṃ niyatātmānaḥ sajjībhava kurūdvaha ||
Data courtesy of The Digital Corpus of Sanskrit.