महाभारतMahābhārata

MBh, 3, 210

508 of 1995 · 40 verses

Select a line for its word-by-word analysis.

1.1१.१

मार्कण्डेय उवाच । (१।१)

mārkaṇḍeya uvāca

1.2१.२

काश्यपो ह्यथ वासिष्ठः प्राणश् च प्राणपुत्रकः । (१।२)

kāśyapo hyatha vāsiṣṭhaḥ prāṇaś ca prāṇaputrakaḥ |

1.3१.३

अग्निर् आङ्गिरसश् चैव च्यवनस् त्रिषुवर्चकः ॥ (१।३)

agnir āṅgirasaś caiva cyavanas triṣuvarcakaḥ ||

2.1२.१

अचरन्त तपस् तीव्रं पुत्रार्थे बहुवार्षिकम् । (२।१)

acaranta tapas tīvraṃ putrārthe bahuvārṣikam |

2.2२.२

पुत्रं लभेम धर्मिष्ठं यशसा ब्रह्मणा समम् ॥ (२।२)

putraṃ labhema dharmiṣṭhaṃ yaśasā brahmaṇā samam ||

3.1३.१

महाव्याहृतिभिर् ध्यातः पञ्चभिस् तैस् तदा त्वथ । (३।१)

mahāvyāhṛtibhir dhyātaḥ pañcabhis tais tadā tvatha |

3.2३.२

जज्ञे तेजोमयो ऽर्चिष्मान् पञ्चवर्णः प्रभावनः ॥ (३।२)

jajñe tejomayo 'rciṣmān pañcavarṇaḥ prabhāvanaḥ ||

4.1४.१

समिद्धो ऽग्निः शिरस् तस्य बाहू सूर्यनिभौ तथा । (४।१)

samiddho 'gniḥ śiras tasya bāhū sūryanibhau tathā |

4.2४.२

त्वङ् नेत्रे च सुवर्णाभे कृष्णे जङ्घे च भारत ॥ (४।२)

tvaṅ netre ca suvarṇābhe kṛṣṇe jaṅghe ca bhārata ||

5.1५.१

पञ्चवर्णः स तपसा कृतस् तैः पञ्चभिर् जनैः । (५।१)

pañcavarṇaḥ sa tapasā kṛtas taiḥ pañcabhir janaiḥ |

5.2५.२

पाञ्चजन्यः श्रुतो वेदे पञ्चवंशकरस् तु सः ॥ (५।२)

pāñcajanyaḥ śruto vede pañcavaṃśakaras tu saḥ ||

6.1६.१

दश वर्षसहस्राणि तपस् तप्त्वा महातपाः । (६।१)

daśa varṣasahasrāṇi tapas taptvā mahātapāḥ |

6.2६.२

जनयत् पावकं घोरं पितॄणां स प्रजाः सृजन् ॥ (६।२)

janayat pāvakaṃ ghoraṃ pitṝṇāṃ sa prajāḥ sṛjan ||

7.1७.१

बृहद्रथंतरं मूर्ध्नो वक्त्राच्च तरसाहरौ । (७।१)

bṛhadrathaṃtaraṃ mūrdhno vaktrācca tarasāharau |

7.2७.२

शिवं नाभ्यां बलाद् इन्द्रं वाय्वग्नी प्राणतो ऽसृजत् ॥ (७।२)

śivaṃ nābhyāṃ balād indraṃ vāyvagnī prāṇato 'sṛjat ||

8.1८.१

बाहुभ्याम् अनुदात्तौ च विश्वे भूतानि चैव ह । (८।१)

bāhubhyām anudāttau ca viśve bhūtāni caiva ha |

8.2८.२

एतान् सृष्ट्वा ततः पञ्च पितॄणाम् असृजत् सुतान् ॥ (८।२)

etān sṛṣṭvā tataḥ pañca pitṝṇām asṛjat sutān ||

9.1९.१

बृहदूर्जस्य प्रणिधिः काश्यपस्य बृहत्तरः । (९।१)

bṛhadūrjasya praṇidhiḥ kāśyapasya bṛhattaraḥ |

9.2९.२

भानुर् अङ्गिरसो वीरः पुत्रो वर्चस्य सौभरः ॥ (९।२)

bhānur aṅgiraso vīraḥ putro varcasya saubharaḥ ||

10.1१०.१

प्राणस्य चानुदात्तश् च व्याख्याताः पञ्च वंशजाः । (१०।१)

prāṇasya cānudāttaś ca vyākhyātāḥ pañca vaṃśajāḥ |

10.2१०.२

देवान् यज्ञमुषश् चान्यान् सृजन् पञ्चदशोत्तरान् ॥ (१०।२)

devān yajñamuṣaś cānyān sṛjan pañcadaśottarān ||

11.1११.१

अभीमम् अतिभीमं च भीमं भीमबलाबलम् । (११।१)

abhīmam atibhīmaṃ ca bhīmaṃ bhīmabalābalam |

11.2११.२

एतान् यज्ञमुषः पञ्च देवान् अभ्यसृजत् तपः ॥ (११।२)

etān yajñamuṣaḥ pañca devān abhyasṛjat tapaḥ ||

12.1१२.१

सुमित्रं मित्रवन्तं च मित्रज्ञं मित्रवर्धनम् । (१२।१)

sumitraṃ mitravantaṃ ca mitrajñaṃ mitravardhanam |

12.2१२.२

मित्रधर्माणम् इत्येतान् देवान् अभ्यसृजत् तपः ॥ (१२।२)

mitradharmāṇam ityetān devān abhyasṛjat tapaḥ ||

13.1१३.१

सुरप्रवीरं वीरं च सुकेशं च सुवर्चसम् । (१३।१)

surapravīraṃ vīraṃ ca sukeśaṃ ca suvarcasam |

13.2१३.२

सुराणाम् अपि हन्तारं पञ्चैतान् असृजत् तपः ॥ (१३।२)

surāṇām api hantāraṃ pañcaitān asṛjat tapaḥ ||

14.1१४.१

त्रिविधं संस्थिता ह्येते पञ्च पञ्च पृथक् पृथक् । (१४।१)

trividhaṃ saṃsthitā hyete pañca pañca pṛthak pṛthak |

14.2१४.२

मुष्णन्त्यत्र स्थिता ह्येते स्वर्गतो यज्ञयाजिनः ॥ (१४।२)

muṣṇantyatra sthitā hyete svargato yajñayājinaḥ ||

15.1१५.१

तेषाम् इष्टं हरन्त्येते निघ्नन्ति च महद् भुवि । (१५।१)

teṣām iṣṭaṃ harantyete nighnanti ca mahad bhuvi |

15.2१५.२

स्पर्धया हव्यवाहानां निघ्नन्त्येते हरन्ति च ॥ (१५।२)

spardhayā havyavāhānāṃ nighnantyete haranti ca ||

16.1१६.१

हविर् वेद्यां तदादानं कुशलैः सम्प्रवर्तितम् । (१६।१)

havir vedyāṃ tadādānaṃ kuśalaiḥ sampravartitam |

16.2१६.२

तद् एते नोपसर्पन्ति यत्र चाग्निः स्थितो भवेत् ॥ (१६।२)

tad ete nopasarpanti yatra cāgniḥ sthito bhavet ||

17.1१७.१

चितो ऽग्निर् उद्वहन् यज्ञं पक्षाभ्यां तान् प्रबाधते । (१७।१)

cito 'gnir udvahan yajñaṃ pakṣābhyāṃ tān prabādhate |

17.2१७.२

मन्त्रैः प्रशमिता ह्येते नेष्टं मुष्णन्ति यज्ञियम् ॥ (१७।२)

mantraiḥ praśamitā hyete neṣṭaṃ muṣṇanti yajñiyam ||

18.1१८.१

बृहदुक्थतपस्यैव पुत्रो भूमिम् उपाश्रितः । (१८।१)

bṛhadukthatapasyaiva putro bhūmim upāśritaḥ |

18.2१८.२

अग्निहोत्रे हूयमाने पृथिव्यां सद्भिर् इज्यते ॥ (१८।२)

agnihotre hūyamāne pṛthivyāṃ sadbhir ijyate ||

19.1१९.१

रथंतरश् च तपसः पुत्रो ऽग्निः परिपठ्यते । (१९।१)

rathaṃtaraś ca tapasaḥ putro 'gniḥ paripaṭhyate |

19.2१९.२

मित्रविन्दाय वै तस्य हविर् अध्वर्यवो विदुः । (१९।२)

mitravindāya vai tasya havir adhvaryavo viduḥ |

19.3१९.३

मुमुदे परमप्रीतः सह पुत्रैर् महायशाः ॥ (१९।३)

mumude paramaprītaḥ saha putrair mahāyaśāḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 3, 210

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit