MBh, 3, 73
Select a line for its word-by-word analysis.
शङ्कमाना नलं तं वै केशिनीम् इदम् अब्रवीत् ॥ (१।३)
śaṅkamānā nalaṃ taṃ vai keśinīm idam abravīt ||
गच्छ केशिनि भूयस् त्वं परीक्षां कुरु बाहुके । (२।१)
gaccha keśini bhūyas tvaṃ parīkṣāṃ kuru bāhuke |
यदा च किंचित् कुर्यात् स कारणं तत्र भामिनि । (३।१)
yadā ca kiṃcit kuryāt sa kāraṇaṃ tatra bhāmini |
तत्र संचेष्टमानस्य संलक्ष्यं ते विचेष्टितम् ॥ (३।२)
tatra saṃceṣṭamānasya saṃlakṣyaṃ te viceṣṭitam ||
न चास्य प्रतिबन्धेन देयोऽग्निर् अपि भामिनि । (४।१)
na cāsya pratibandhena deyo'gnir api bhāmini |
एतत् सर्वं समीक्ष्य त्वं चरितं मे निवेदय । (५।१)
etat sarvaṃ samīkṣya tvaṃ caritaṃ me nivedaya |
यच्चान्यदपि पश्येथास् तच्चाख्येयं त्वया मम ॥ (५।२)
yaccānyadapi paśyethās taccākhyeyaṃ tvayā mama ||
सा तत् सर्वं यथावृत्तं दमयन्त्यै न्यवेदयत् । (७।१)
sā tat sarvaṃ yathāvṛttaṃ damayantyai nyavedayat |
निमित्तं यत् तदा दृष्टं बाहुके दिव्यमानुषम् ॥ (७।२)
nimittaṃ yat tadā dṛṣṭaṃ bāhuke divyamānuṣam ||
दृढं शुच्युपचारोऽसौ न मया मानुषः क्वचित् । (८।२)
dṛḍhaṃ śucyupacāro'sau na mayā mānuṣaḥ kvacit |
दृष्टपूर्वः श्रुतो वापि दमयन्ति तथाविधः ॥ (८।३)
dṛṣṭapūrvaḥ śruto vāpi damayanti tathāvidhaḥ ||
ह्रस्वम् आसाद्य संचारं नासौ विनमते क्वचित् । (९।१)
hrasvam āsādya saṃcāraṃ nāsau vinamate kvacit |
तं तु दृष्ट्वा यथासङ्गम् उत्सर्पति यथासुखम् । (९।२)
taṃ tu dṛṣṭvā yathāsaṅgam utsarpati yathāsukham |
संकटे ऽप्यस्य सुमहद् विवरं जायते ऽधिकम् ॥ (९।३)
saṃkaṭe 'pyasya sumahad vivaraṃ jāyate 'dhikam ||
प्रेषितं तत्र राज्ञा च मांसं सुबहु पाशवम् ॥ (१०।२)
preṣitaṃ tatra rājñā ca māṃsaṃ subahu pāśavam ||
तस्य प्रक्षालनार्थाय कुम्भस् तत्रोपकल्पितः । (११।१)
tasya prakṣālanārthāya kumbhas tatropakalpitaḥ |
स तेनावेक्षितः कुम्भः पूर्ण एवाभवत् तदा ॥ (११।२)
sa tenāvekṣitaḥ kumbhaḥ pūrṇa evābhavat tadā ||
ततः प्रक्षालनं कृत्वा समधिश्रित्य बाहुकः । (१२।१)
tataḥ prakṣālanaṃ kṛtvā samadhiśritya bāhukaḥ |
तद् अद्भुततमं दृष्ट्वा विस्मिताहम् इहागता ॥ (१३।२)
tad adbhutatamaṃ dṛṣṭvā vismitāham ihāgatā ||
अन्यच्च तस्मिन् सुमहद् आश्चर्यं लक्षितं मया । (१४।१)
anyacca tasmin sumahad āścaryaṃ lakṣitaṃ mayā |
यद् अग्निम् अपि संस्पृश्य नैव दह्यत्यसौ शुभे ॥ (१४।२)
yad agnim api saṃspṛśya naiva dahyatyasau śubhe ||
छन्देन चोदकं तस्य वहत्यावर्जितं द्रुतम् । (१५।१)
chandena codakaṃ tasya vahatyāvarjitaṃ drutam |
अतीव चान्यत् सुमहद् आश्चर्यं दृष्टवत्यहम् ॥ (१५।२)
atīva cānyat sumahad āścaryaṃ dṛṣṭavatyaham ||
यत् स पुष्पाण्युपादाय हस्ताभ्यां ममृदे शनैः । (१६।१)
yat sa puṣpāṇyupādāya hastābhyāṃ mamṛde śanaiḥ |
मृद्यमानानि पाणिभ्यां तेन पुष्पाणि तान्यथ ॥ (१६।२)
mṛdyamānāni pāṇibhyāṃ tena puṣpāṇi tānyatha ||
एतान्यद्भुतकल्पानि दृष्ट्वाहं द्रुतम् आगता ॥ (१७।२)
etānyadbhutakalpāni dṛṣṭvāhaṃ drutam āgatā ||
दमयन्ती तु तच्छ्रुत्वा पुण्यश्लोकस्य चेष्टितम् । (१८।२)
damayantī tu tacchrutvā puṇyaślokasya ceṣṭitam |
अमन्यत नलं प्राप्तं कर्मचेष्टाभिसूचितम् ॥ (१८।३)
amanyata nalaṃ prāptaṃ karmaceṣṭābhisūcitam ||
केशिनीं श्लक्ष्णया वाचा रुदती पुनर् अब्रवीत् ॥ (१९।२)
keśinīṃ ślakṣṇayā vācā rudatī punar abravīt ||
पुनर् गच्छ प्रमत्तस्य बाहुकस्योपसंस्कृतम् । (२०।१)
punar gaccha pramattasya bāhukasyopasaṃskṛtam |
सा गत्वा बाहुके व्यग्रे तन् मांसम् अपकृष्य च । (२१।१)
sā gatvā bāhuke vyagre tan māṃsam apakṛṣya ca |
अत्युष्णम् एव त्वरिता तत्क्षणं प्रियकारिणी । (२१।२)
atyuṣṇam eva tvaritā tatkṣaṇaṃ priyakāriṇī |
दमयन्त्यै ततः प्रादात् केशिनी कुरुनन्दन ॥ (२१।३)
damayantyai tataḥ prādāt keśinī kurunandana ||
प्राश्य मत्वा नलं सूदं प्राक्रोशद् भृशदुःखिता ॥ (२२।२)
prāśya matvā nalaṃ sūdaṃ prākrośad bhṛśaduḥkhitā ||
वैक्लव्यं च परं गत्वा प्रक्षाल्य च मुखं ततः । (२३।१)
vaiklavyaṃ ca paraṃ gatvā prakṣālya ca mukhaṃ tataḥ |
इन्द्रसेनां सह भ्रात्रा समभिज्ञाय बाहुकः । (२४।१)
indrasenāṃ saha bhrātrā samabhijñāya bāhukaḥ |
अभिद्रुत्य ततो राजा परिष्वज्याङ्कम् आनयत् ॥ (२४।२)
abhidrutya tato rājā pariṣvajyāṅkam ānayat ||
भृशं दुःखपरीतात्मा सस्वरं प्ररुरोद ह ॥ (२५।२)
bhṛśaṃ duḥkhaparītātmā sasvaraṃ praruroda ha ||
उत्सृज्य सहसा पुत्रौ केशिनीम् इदम् अब्रवीत् ॥ (२६।२)
utsṛjya sahasā putrau keśinīm idam abravīt ||
ततो दृष्ट्वैव सहसा बाष्पम् उत्सृष्टवान् अहम् ॥ (२७।२)
tato dṛṣṭvaiva sahasā bāṣpam utsṛṣṭavān aham ||
बहुशः संपतन्तीं त्वां जनः शङ्केत दोषतः । (२८।१)
bahuśaḥ saṃpatantīṃ tvāṃ janaḥ śaṅketa doṣataḥ |
वयं च देशातिथयो गच्छ भद्रे नमो ऽस्तु ते ॥ (२८।२)
vayaṃ ca deśātithayo gaccha bhadre namo 'stu te ||
Data courtesy of The Digital Corpus of Sanskrit.