महाभारतMahābhārata

MBh, 1, 71

71 of 1995 · 195 verses

Select a line for its word-by-word analysis.

1.1१.१

जनमेजय उवाच । (१।१)

janamejaya uvāca

1.2१.२

ययातिः पूर्वको ऽस्माकं दशमो यः प्रजापतेः । (१।२)

yayātiḥ pūrvako 'smākaṃ daśamo yaḥ prajāpateḥ |

1.3१.३

कथं स शुक्रतनयां लेभे परमदुर्लभाम् ॥ (१।३)

kathaṃ sa śukratanayāṃ lebhe paramadurlabhām ||

2.1२.१

एतद् इच्छाम्यहं श्रोतुं विस्तरेण द्विजोत्तम । (२।१)

etad icchāmyahaṃ śrotuṃ vistareṇa dvijottama |

2.2२.२

वर्णसंकरजो धर्मः कथं तं नास्पृशत् तदा । (२।२)

varṇasaṃkarajo dharmaḥ kathaṃ taṃ nāspṛśat tadā |

2.3२.३

जरासंचारणं चापि अन्यदेहेषु नः श्रुतम् । (२।३)

jarāsaṃcāraṇaṃ cāpi anyadeheṣu naḥ śrutam |

2.4२.४

आनुपूर्व्या च मे शंस पूरोर् वंशकरान् पृथक् ॥ (२।४)

ānupūrvyā ca me śaṃsa pūror vaṃśakarān pṛthak ||

3.1३.१

वैशंपायन उवाच । (३।१)

vaiśaṃpāyana uvāca

3.2३.२

ययातिर् आसीद् राजर्षिर् देवराजसमद्युतिः । (३।२)

yayātir āsīd rājarṣir devarājasamadyutiḥ |

3.3३.३

तं शुक्रवृषपर्वाणौ वव्राते वै यथा पुरा ॥ (३।३)

taṃ śukravṛṣaparvāṇau vavrāte vai yathā purā ||

4.1४.१

तत् ते ऽहं सम्प्रवक्ष्यामि पृच्छतो जनमेजय । (४।१)

tat te 'haṃ sampravakṣyāmi pṛcchato janamejaya |

4.2४.२

देवयान्याश्च संयोगं ययातेर् नाहुषस्य च ॥ (४।२)

devayānyāśca saṃyogaṃ yayāter nāhuṣasya ca ||

5.1५.१

सुराणाम् असुराणां च समजायत वै मिथः । (५।१)

surāṇām asurāṇāṃ ca samajāyata vai mithaḥ |

5.2५.२

ऐश्वर्यं प्रति संघर्षस्त्रैलोक्ये सचराचरे ॥ (५।२)

aiśvaryaṃ prati saṃgharṣastrailokye sacarācare ||

6.1६.१

जिगीषया ततो देवा वव्रिर आङ्गिरसं मुनिम् । (६।१)

jigīṣayā tato devā vavrira āṅgirasaṃ munim |

6.2६.२

पौरोहित्येन याज्यार्थे काव्यं तूशनसं परे । (६।२)

paurohityena yājyārthe kāvyaṃ tūśanasaṃ pare |

6.3६.३

ब्राह्मणौ तावुभौ नित्यम् अन्योन्यस्पर्धिनौ भृशम् ॥ (६।३)

brāhmaṇau tāvubhau nityam anyonyaspardhinau bhṛśam ||

7.1७.१

तत्र देवा निजघ्नुर् यान् दानवान् युधि संगतान् । (७।१)

tatra devā nijaghnur yān dānavān yudhi saṃgatān |

7.2७.२

तान् पुनर् जीवयामास काव्यो विद्याबलाश्रयात् । (७।२)

tān punar jīvayāmāsa kāvyo vidyābalāśrayāt |

7.3७.३

ततस्ते पुनर् उत्थाय योधयांचक्रिरे सुरान् ॥ (७।३)

tataste punar utthāya yodhayāṃcakrire surān ||

8.1८.१

असुरास्तु निजघ्नुर् यान् सुरान् समरमूर्धनि । (८।१)

asurāstu nijaghnur yān surān samaramūrdhani |

8.2८.२

न तान् संजीवयामास बृहस्पतिर् उदारधीः ॥ (८।२)

na tān saṃjīvayāmāsa bṛhaspatir udāradhīḥ ||

9.1९.१

न हि वेद स तां विद्यां यां काव्यो वेद वीर्यवान् । (९।१)

na hi veda sa tāṃ vidyāṃ yāṃ kāvyo veda vīryavān |

9.2९.२

संजीवनीं ततो देवा विषादम् अगमन् परम् ॥ (९।२)

saṃjīvanīṃ tato devā viṣādam agaman param ||

10.1१०.१

ते तु देवा भयोद्विग्नाः काव्याद् उशनसस्तदा । (१०।१)

te tu devā bhayodvignāḥ kāvyād uśanasastadā |

10.2१०.२

ऊचुः कचम् उपागम्य ज्येष्ठं पुत्रं बृहस्पतेः ॥ (१०।२)

ūcuḥ kacam upāgamya jyeṣṭhaṃ putraṃ bṛhaspateḥ ||

11.1११.१

भजमानान् भजस्वास्मान् कुरु नः साह्यम् उत्तमम् । (११।१)

bhajamānān bhajasvāsmān kuru naḥ sāhyam uttamam |

11.2११.२

यासौ विद्या निवसति ब्राह्मणे ऽमिततेजसि । (११।२)

yāsau vidyā nivasati brāhmaṇe 'mitatejasi |

11.3११.३

शुक्रे ताम् आहर क्षिप्रं भागभाङ् नो भविष्यसि ॥ (११।३)

śukre tām āhara kṣipraṃ bhāgabhāṅ no bhaviṣyasi ||

12.1१२.१

वृषपर्वसमीपे स शक्यो द्रष्टुं त्वया द्विजः । (१२।१)

vṛṣaparvasamīpe sa śakyo draṣṭuṃ tvayā dvijaḥ |

12.2१२.२

रक्षते दानवांस्तत्र न स रक्षत्यदानवान् ॥ (१२।२)

rakṣate dānavāṃstatra na sa rakṣatyadānavān ||

13.1१३.१

तम् आराधयितुं शक्तो भवान् पूर्ववयाः कविम् । (१३।१)

tam ārādhayituṃ śakto bhavān pūrvavayāḥ kavim |

13.2१३.२

देवयानीं च दयितां सुतां तस्य महात्मनः ॥ (१३।२)

devayānīṃ ca dayitāṃ sutāṃ tasya mahātmanaḥ ||

14.1१४.१

त्वम् आराधयितुं शक्तो नान्यः कश्चन विद्यते । (१४।१)

tvam ārādhayituṃ śakto nānyaḥ kaścana vidyate |

14.2१४.२

शीलदाक्षिण्यमाधुर्यैर् आचारेण दमेन च । (१४।२)

śīladākṣiṇyamādhuryair ācāreṇa damena ca |

14.3१४.३

देवयान्यां हि तुष्टायां विद्यां तां प्राप्स्यसि ध्रुवम् ॥ (१४।३)

devayānyāṃ hi tuṣṭāyāṃ vidyāṃ tāṃ prāpsyasi dhruvam ||

15.1१५.१

तथेत्युक्त्वा ततः प्रायाद् बृहस्पतिसुतः कचः । (१५।१)

tathetyuktvā tataḥ prāyād bṛhaspatisutaḥ kacaḥ |

15.2१५.२

तदाभिपूजितो देवैः समीपं वृषपर्वणः ॥ (१५।२)

tadābhipūjito devaiḥ samīpaṃ vṛṣaparvaṇaḥ ||

16.1१६.१

स गत्वा त्वरितो राजन् देवैः संप्रेषितः कचः । (१६।१)

sa gatvā tvarito rājan devaiḥ saṃpreṣitaḥ kacaḥ |

16.2१६.२

असुरेन्द्रपुरे शुक्रं दृष्ट्वा वाक्यम् उवाच ह ॥ (१६।२)

asurendrapure śukraṃ dṛṣṭvā vākyam uvāca ha ||

17.1१७.१

ऋषेर् अङ्गिरसः पौत्रं पुत्रं साक्षाद् बृहस्पतेः । (१७।१)

ṛṣer aṅgirasaḥ pautraṃ putraṃ sākṣād bṛhaspateḥ |

17.2१७.२

नाम्ना कच इति ख्यातं शिष्यं गृह्णातु मां भवान् ॥ (१७।२)

nāmnā kaca iti khyātaṃ śiṣyaṃ gṛhṇātu māṃ bhavān ||

18.1१८.१

ब्रह्मचर्यं चरिष्यामि त्वय्यहं परमं गुरौ । (१८।१)

brahmacaryaṃ cariṣyāmi tvayyahaṃ paramaṃ gurau |

18.2१८.२

अनुमन्यस्व मां ब्रह्मन् सहस्रं परिवत्सरान् ॥ (१८।२)

anumanyasva māṃ brahman sahasraṃ parivatsarān ||

19.1१९.१

शुक्र उवाच । (१९।१)

śukra uvāca

19.2१९.२

कच सुस्वागतं ते ऽस्तु प्रतिगृह्णामि ते वचः । (१९।२)

kaca susvāgataṃ te 'stu pratigṛhṇāmi te vacaḥ |

19.3१९.३

अर्चयिष्ये ऽहम् अर्च्यं त्वाम् अर्चितो ऽस्तु बृहस्पतिः ॥ (१९।३)

arcayiṣye 'ham arcyaṃ tvām arcito 'stu bṛhaspatiḥ ||

20.1२०.१

वैशंपायन उवाच । (२०।१)

vaiśaṃpāyana uvāca

20.2२०.२

कचस्तु तं तथेत्युक्त्वा प्रतिजग्राह तद् व्रतम् । (२०।२)

kacastu taṃ tathetyuktvā pratijagrāha tad vratam |

20.3२०.३

आदिष्टं कविपुत्रेण शुक्रेणोशनसा स्वयम् ॥ (२०।३)

ādiṣṭaṃ kaviputreṇa śukreṇośanasā svayam ||

21.1२१.१

व्रतस्य व्रतकालं स यथोक्तं प्रत्यगृह्णत । (२१।१)

vratasya vratakālaṃ sa yathoktaṃ pratyagṛhṇata |

21.2२१.२

आराधयन्न् उपाध्यायं देवयानीं च भारत ॥ (२१।२)

ārādhayann upādhyāyaṃ devayānīṃ ca bhārata ||

22.1२२.१

नित्यम् आराधयिष्यंस्तां युवा यौवनगो आमुखे । (२२।१)

nityam ārādhayiṣyaṃstāṃ yuvā yauvanago āmukhe |

22.2२२.२

गायन् नृत्यन् वादयंश्च देवयानीम् अतोषयत् ॥ (२२।२)

gāyan nṛtyan vādayaṃśca devayānīm atoṣayat ||

23.1२३.१

संशीलयन् देवयानीं कन्यां सम्प्राप्तयौवनाम् । (२३।१)

saṃśīlayan devayānīṃ kanyāṃ samprāptayauvanām |

23.2२३.२

पुष्पैः फलैः प्रेषणैश्च तोषयामास भारत । (२३।२)

puṣpaiḥ phalaiḥ preṣaṇaiśca toṣayāmāsa bhārata |

23.3२३.३

ततः सहस्रं गुरुगाः संरक्षन् वन्यम् आहरत् ॥ (२३।३)

tataḥ sahasraṃ gurugāḥ saṃrakṣan vanyam āharat ||

24.1२४.१

देवयान्यपि तं विप्रं नियमव्रतचारिणम् । (२४।१)

devayānyapi taṃ vipraṃ niyamavratacāriṇam |

24.2२४.२

अनुगायमाना ललना रहः पर्यचरत् तदा । (२४।२)

anugāyamānā lalanā rahaḥ paryacarat tadā |

24.3२४.३

गायन्तं चैव शुक्लं च दातारं प्रियवादिनम् । (२४।३)

gāyantaṃ caiva śuklaṃ ca dātāraṃ priyavādinam |

24.4२४.४

नार्यो नरं कामयन्ते रूपिणं स्रग्विणं तथा ॥ (२४।४)

nāryo naraṃ kāmayante rūpiṇaṃ sragviṇaṃ tathā ||

25.1२५.१

पञ्च वर्षशतान्येवं कचस्य चरतो व्रतम् । (२५।१)

pañca varṣaśatānyevaṃ kacasya carato vratam |

25.2२५.२

तत्रातीयुर् अथो बुद्ध्वा दानवास्तं ततः कचम् ॥ (२५।२)

tatrātīyur atho buddhvā dānavāstaṃ tataḥ kacam ||

26.1२६.१

गा रक्षन्तं वने दृष्ट्वा रहस्येकम् अमर्षिताः । (२६।१)

gā rakṣantaṃ vane dṛṣṭvā rahasyekam amarṣitāḥ |

26.2२६.२

जघ्नुर् बृहस्पतेर् द्वेषाद् विद्यारक्षार्थम् एव च । (२६।२)

jaghnur bṛhaspater dveṣād vidyārakṣārtham eva ca |

26.3२६.३

हत्वा शालावृकेभ्यश्च प्रायच्छंस्तिलशः कृतम् ॥ (२६।३)

hatvā śālāvṛkebhyaśca prāyacchaṃstilaśaḥ kṛtam ||

27.1२७.१

ततो गावो निवृत्तास्ता अगोपाः स्वं निवेशनम् । (२७।१)

tato gāvo nivṛttāstā agopāḥ svaṃ niveśanam |

27.2२७.२

ता दृष्ट्वा रहिता गास्तु कचेनाभ्यागता वनात् । (२७।२)

tā dṛṣṭvā rahitā gāstu kacenābhyāgatā vanāt |

27.3२७.३

उवाच वचनं काले देवयान्यथ भारत ॥ (२७।३)

uvāca vacanaṃ kāle devayānyatha bhārata ||

28.1२८.१

अहुतं चाग्निहोत्रं ते सूर्यश्चास्तं गतः प्रभो । (२८।१)

ahutaṃ cāgnihotraṃ te sūryaścāstaṃ gataḥ prabho |

28.2२८.२

अगोपाश्चागता गावः कचस्तात न दृश्यते ॥ (२८।२)

agopāścāgatā gāvaḥ kacastāta na dṛśyate ||

29.1२९.१

व्यक्तं हतो मृतो वापि कचस्तात भविष्यति । (२९।१)

vyaktaṃ hato mṛto vāpi kacastāta bhaviṣyati |

29.2२९.२

तं विना न च जीवेयं कचं सत्यं ब्रवीमि ते ॥ (२९।२)

taṃ vinā na ca jīveyaṃ kacaṃ satyaṃ bravīmi te ||

30.1३०.१

शुक्र उवाच । (३०।१)

śukra uvāca

30.2३०.२

अयम् एहीति शब्देन मृतं संजीवयाम्यहम् ॥ (३०।२)

ayam ehīti śabdena mṛtaṃ saṃjīvayāmyaham ||

31.1३१.१

वैशंपायन उवाच । (३१।१)

vaiśaṃpāyana uvāca

31.2३१.२

ततः संजीवनीं विद्यां प्रयुज्य कचम् आह्वयत् । (३१।२)

tataḥ saṃjīvanīṃ vidyāṃ prayujya kacam āhvayat |

31.3३१.३

आहूतः प्रादुरभवत् कचो ऽरिष्टो ऽथ विद्यया । (३१।३)

āhūtaḥ prādurabhavat kaco 'riṣṭo 'tha vidyayā |

31.4३१.४

कस्माच्चिरायितो ऽसीति पृष्टस्ताम् आह भार्गवीम् । (३१।४)

kasmāccirāyito 'sīti pṛṣṭastām āha bhārgavīm |

31.5३१.५

कचः । (३१।५)

kacaḥ |

31.6३१.६

समिधश्च कुशादीनि काष्ठभारं च भामिनि । (३१।६)

samidhaśca kuśādīni kāṣṭhabhāraṃ ca bhāmini |

31.7३१.७

गृहीत्वा श्रमभारार्तो वटवृक्षं समाश्रितः । (३१।७)

gṛhītvā śramabhārārto vaṭavṛkṣaṃ samāśritaḥ |

31.8३१.८

गावश्च सहिताः सर्वा वृक्षच्छायाम् उपाश्रिताः । (३१।८)

gāvaśca sahitāḥ sarvā vṛkṣacchāyām upāśritāḥ |

31.9३१.९

असुरास्तत्र मां दृष्ट्वा कस्त्वम् इत्यभ्यचोदयन् । (३१।९)

asurāstatra māṃ dṛṣṭvā kastvam ityabhyacodayan |

31.10३१.१०

बृहस्पतिसुतश्चाहं कच इत्यभिविश्रुतः । (३१।१०)

bṛhaspatisutaścāhaṃ kaca ityabhiviśrutaḥ |

31.11३१.११

इत्युक्तमात्रे मां हत्वा पेशीकृत्वा तु दानवाः । (३१।११)

ityuktamātre māṃ hatvā peśīkṛtvā tu dānavāḥ |

31.12३१.१२

दत्त्वा शालावृकेभ्यस्तु सुखं जग्मुः स्वम् आलयम् । (३१।१२)

dattvā śālāvṛkebhyastu sukhaṃ jagmuḥ svam ālayam |

31.13३१.१३

आहूतो विद्यया भद्रे भार्गवेण महात्मना । (३१।१३)

āhūto vidyayā bhadre bhārgaveṇa mahātmanā |

31.14३१.१४

त्वत्समीपम् इहायातः कथंचित् समजीवितः । (३१।१४)

tvatsamīpam ihāyātaḥ kathaṃcit samajīvitaḥ |

31.15३१.१५

हतो ऽहम् इति चाचख्यौ पृष्टो ब्राह्मणकन्यया । (३१।१५)

hato 'ham iti cācakhyau pṛṣṭo brāhmaṇakanyayā |

31.16३१.१६

भित्त्वा भित्त्वा शरीराणि वृकाणां स विनिष्पतत् ॥ (३१।१६)

bhittvā bhittvā śarīrāṇi vṛkāṇāṃ sa viniṣpatat ||

32.1३२.१

स पुनर् देवयान्योक्तः पुष्पाहारो यदृच्छया । (३२।१)

sa punar devayānyoktaḥ puṣpāhāro yadṛcchayā |

32.2३२.२

वनं ययौ ततो विप्रो ददृशुर् दानवाश्च तम् । (३२।२)

vanaṃ yayau tato vipro dadṛśur dānavāśca tam |

32.3३२.३

पुनस्तं पेषयित्वा तु समुद्राम्भस्यमिश्रयन् । (३२।३)

punastaṃ peṣayitvā tu samudrāmbhasyamiśrayan |

32.4३२.४

चिरं गतं पुनः कन्या पित्रे तं संन्यवेदयत् । (३२।४)

ciraṃ gataṃ punaḥ kanyā pitre taṃ saṃnyavedayat |

32.5३२.५

विप्रेण पुनर् आहूतो विद्यया गुरुदेहजः । (३२।५)

vipreṇa punar āhūto vidyayā gurudehajaḥ |

32.6३२.६

पुनर् आवृत्य तद् वृत्तं न्यवेदयत तत् तथा । (३२।६)

punar āvṛtya tad vṛttaṃ nyavedayata tat tathā |

32.7३२.७

भेदयित्वा शरीराणि मत्स्यादीनां स निर्गतः । (३२।७)

bhedayitvā śarīrāṇi matsyādīnāṃ sa nirgataḥ |

32.8३२.८

देवयान्या पुनस्तत्र कदाचिद् वन्यम् आहर । (३२।८)

devayānyā punastatra kadācid vanyam āhara |

32.9३२.९

उक्तो ऽगच्छद् वनं तं तु ददृशुर् दानवाः पुनः ॥ (३२।९)

ukto 'gacchad vanaṃ taṃ tu dadṛśur dānavāḥ punaḥ ||

33.1३३.१

ततो द्वितीयं हत्वा तं दग्ध्वा कृत्वा च चूर्णशः । (३३।१)

tato dvitīyaṃ hatvā taṃ dagdhvā kṛtvā ca cūrṇaśaḥ |

33.2३३.२

संगृह्य पूरयित्वा च सुरया समलोड्य च । (३३।२)

saṃgṛhya pūrayitvā ca surayā samaloḍya ca |

33.3३३.३

प्रायच्छन् ब्राह्मणायैव सुरायाम् असुरास्तदा । (३३।३)

prāyacchan brāhmaṇāyaiva surāyām asurāstadā |

33.4३३.४

अपिबत् सुरया सार्धं कचभस्म भृगूद्वहः । (३३।४)

apibat surayā sārdhaṃ kacabhasma bhṛgūdvahaḥ |

33.5३३.५

सा सायंतनवेलायाम् अगोपा गाः समागताः ॥ (३३।५)

sā sāyaṃtanavelāyām agopā gāḥ samāgatāḥ ||

34.1३४.१

देवयान्यथ भूयो ऽपि वाक्यं पितरम् अब्रवीत् । (३४।१)

devayānyatha bhūyo 'pi vākyaṃ pitaram abravīt |

34.2३४.२

वैशंपायनः । (३४।२)

vaiśaṃpāyanaḥ |

34.3३४.३

श्रुत्वा पुत्रीवचः काव्यो मन्त्रेणाहूतवान् कचम् । (३४।३)

śrutvā putrīvacaḥ kāvyo mantreṇāhūtavān kacam |

34.4३४.४

ज्ञात्वा बहिष्ठम् अज्ञात्वा स्वकुक्षिस्थं कचं नृप । (३४।४)

jñātvā bahiṣṭham ajñātvā svakukṣisthaṃ kacaṃ nṛpa |

34.5३४.५

पुष्पाहारः प्रेषणकृत् कचस्तात न दृश्यते ॥ (३४।५)

puṣpāhāraḥ preṣaṇakṛt kacastāta na dṛśyate ||

35.1३५.१

शुक्र उवाच । (३५।१)

śukra uvāca

35.2३५.२

विद्ययोत्थाप्यमानो ऽपि नाभ्येति करवाणि किम् । (३५।२)

vidyayotthāpyamāno 'pi nābhyeti karavāṇi kim |

35.3३५.३

बृहस्पतेः सुतः पुत्रि कचः प्रेतगतिं गतः । (३५।३)

bṛhaspateḥ sutaḥ putri kacaḥ pretagatiṃ gataḥ |

35.4३५.४

विद्यया जीवितो ऽप्येवं हन्यते करवाणि किम् ॥ (३५।४)

vidyayā jīvito 'pyevaṃ hanyate karavāṇi kim ||

36.1३६.१

मैवं शुचो मा रुद देवयानि न त्वादृशी मर्त्यम् अनुप्रशोचेत् । (३६।१)

maivaṃ śuco mā ruda devayāni na tvādṛśī martyam anupraśocet |

36.2३६.२

यस्यास्तव ब्रह्म च ब्राह्मणाश्च । (३६।२)

yasyāstava brahma ca brāhmaṇāśca |

36.3३६.३

सेन्द्रा देवा वसवो ऽथाश्विनौ च । (३६।३)

sendrā devā vasavo 'thāśvinau ca |

36.4३६.४

सुराश्च विश्वे च जगच्च सर्वम् उपस्थितां वैकृतिम् आनमन्ति । (३६।४)

surāśca viśve ca jagacca sarvam upasthitāṃ vaikṛtim ānamanti |

36.5३६.५

अशक्यो ऽसौ जीवयितुं द्विजातिः । (३६।५)

aśakyo 'sau jīvayituṃ dvijātiḥ |

36.6३६.६

संजीवितो वध्यते चैव भूयः ॥ (३६।६)

saṃjīvito vadhyate caiva bhūyaḥ ||

37.1३७.१

देवयान्युवाच । (३७।१)

devayānyuvāca |

37.2३७.२

यस्याङ्गिरा वृद्धतमः पितामहो बृहस्पतिश्चापि पिता तपोधनः । (३७।२)

yasyāṅgirā vṛddhatamaḥ pitāmaho bṛhaspatiścāpi pitā tapodhanaḥ |

37.3३७.३

ऋषेः पुत्रं तम् अथो वापि पौत्रं कथं न शोचेयम् अहं न रुद्याम् ॥ (३७।३)

ṛṣeḥ putraṃ tam atho vāpi pautraṃ kathaṃ na śoceyam ahaṃ na rudyām ||

38.1३८.१

स ब्रह्मचारी च तपोधनश्च सदोत्थितः कर्मसु चैव दक्षः । (३८।१)

sa brahmacārī ca tapodhanaśca sadotthitaḥ karmasu caiva dakṣaḥ |

38.2३८.२

कचस्य मार्गं प्रतिपत्स्ये न भोक्ष्ये प्रियो हि मे तात कचो ऽभिरूपः ॥ (३८।२)

kacasya mārgaṃ pratipatsye na bhokṣye priyo hi me tāta kaco 'bhirūpaḥ ||

39.1३९.१

शुक्र उवाच । (३९।१)

śukra uvāca

39.2३९.२

असंशयं माम् असुरा द्विषन्ति ये मे शिष्यं नागसं सूदयन्ति । (३९।२)

asaṃśayaṃ mām asurā dviṣanti ye me śiṣyaṃ nāgasaṃ sūdayanti |

39.3३९.३

अब्राह्मणं कर्तुम् इच्छन्ति रौद्रास् ते मां यथा प्रस्तुतं दानवैर् हि । (३९।३)

abrāhmaṇaṃ kartum icchanti raudrās te māṃ yathā prastutaṃ dānavair hi |

39.4३९.४

अप्यस्य पापस्य भवेद् इहान्तः कं ब्रह्महत्या न दहेद् अपीन्द्रम् ॥ (३९।४)

apyasya pāpasya bhaved ihāntaḥ kaṃ brahmahatyā na dahed apīndram ||

40.1४०.१

वैशंपायन उवाच । (४०।१)

vaiśaṃpāyana uvāca

40.2४०.२

संचोदितो देवयान्या महर्षिः पुनर् आह्वयत् । (४०।२)

saṃcodito devayānyā maharṣiḥ punar āhvayat |

40.3४०.३

संरम्भेणैव काव्यो हि बृहस्पतिसुतं कचम् । (४०।३)

saṃrambheṇaiva kāvyo hi bṛhaspatisutaṃ kacam |

40.4४०.४

स पीडितो देवयान्या महर्षिः । (४०।४)

sa pīḍito devayānyā maharṣiḥ |

40.5४०.५

समारभत् संरम्भाच्चैव काव्यः । (४०।५)

samārabhat saṃrambhāccaiva kāvyaḥ |

40.6४०.६

कचो ऽपि राजन् सुमहानुभावो विद्याबलाल्लब्धमतिर् महात्मा । (४०।६)

kaco 'pi rājan sumahānubhāvo vidyābalāllabdhamatir mahātmā |

40.7४०.७

वैशंपायन उवाच । (४०।७)

vaiśaṃpāyana uvāca

40.8४०.८

अकारयामास तदा देवयान्याः कृते विभुः ॥ (४०।८)

akārayāmāsa tadā devayānyāḥ kṛte vibhuḥ ||

41.1४१.१

गुरोर् भीतो विद्यया चोपहूतः शनैर् वाचं जठरे व्याजहार । (४१।१)

guror bhīto vidyayā copahūtaḥ śanair vācaṃ jaṭhare vyājahāra |

41.2४१.२

कचः । (४१।२)

kacaḥ |

41.3४१.३

प्रसीद भगवन् मह्यं कचो ऽहम् अभिवादये । (४१।३)

prasīda bhagavan mahyaṃ kaco 'ham abhivādaye |

41.4४१.४

यथा बहुमतः पुत्रस्तथा मन्यतु मां भवान् । (४१।४)

yathā bahumataḥ putrastathā manyatu māṃ bhavān |

41.5४१.५

तम् अब्रवीत् केन पथोपनीतो ममोदरे तिष्ठसि ब्रूहि विप्र । (४१।५)

tam abravīt kena pathopanīto mamodare tiṣṭhasi brūhi vipra |

41.6४१.६

अस्मिन् मुहूर्ते ह्यसुरान् विनाश्य । (४१।६)

asmin muhūrte hyasurān vināśya |

41.7४१.७

गच्छामि देवान् अहम् अद्य विप्र ॥ (४१।७)

gacchāmi devān aham adya vipra ||

42.1४२.१

कच उवाच । (४२।१)

kaca uvāca

42.2४२.२

भवत्प्रसादान् न जहाति मां स्मृतिः स्मरे च सर्वं यच्च यथा च वृत्तम् । (४२।२)

bhavatprasādān na jahāti māṃ smṛtiḥ smare ca sarvaṃ yacca yathā ca vṛttam |

42.3४२.३

न त्वेवं स्यात् तपसो व्ययो मे ततः क्लेशं घोरम् इमं सहामि ॥ (४२।३)

na tvevaṃ syāt tapaso vyayo me tataḥ kleśaṃ ghoram imaṃ sahāmi ||

43.1४३.१

असुरैः सुरायां भवतो ऽस्मि दत्तो हत्वा दग्ध्वा चूर्णयित्वा च काव्य । (४३।१)

asuraiḥ surāyāṃ bhavato 'smi datto hatvā dagdhvā cūrṇayitvā ca kāvya |

43.2४३.२

ब्राह्मीं मायाम् आसुरी चैव माया त्वयि स्थिते कथम् एवातिवर्तेत् ॥ (४३।२)

brāhmīṃ māyām āsurī caiva māyā tvayi sthite katham evātivartet ||

44.1४४.१

शुक्र उवाच । (४४।१)

śukra uvāca

44.2४४.२

किं ते प्रियं करवाण्यद्य वत्से वधेन मे जीवितं स्यात् कचस्य । (४४।२)

kiṃ te priyaṃ karavāṇyadya vatse vadhena me jīvitaṃ syāt kacasya |

44.3४४.३

नान्यत्र कुक्षेर् मम भेदनेन दृश्येत् कचो मद्गतो देवयानि ॥ (४४।३)

nānyatra kukṣer mama bhedanena dṛśyet kaco madgato devayāni ||

45.1४५.१

देवयान्युवाच । (४५।१)

devayānyuvāca |

45.2४५.२

द्वौ मां शोकावग्निकल्पौ दहेतां कचस्य नाशस्तव चैवोपघातः । (४५।२)

dvau māṃ śokāvagnikalpau dahetāṃ kacasya nāśastava caivopaghātaḥ |

45.3४५.३

कचस्य नाशे मम नास्ति शर्म तवोपघाते जीवितुं नास्मि शक्ता ॥ (४५।३)

kacasya nāśe mama nāsti śarma tavopaghāte jīvituṃ nāsmi śaktā ||

46.1४६.१

शुक्र उवाच । (४६।१)

śukra uvāca

46.2४६.२

संसिद्धरूपो ऽसि बृहस्पतेः सुत यत् त्वां भक्तं भजते देवयानी । (४६।२)

saṃsiddharūpo 'si bṛhaspateḥ suta yat tvāṃ bhaktaṃ bhajate devayānī |

46.3४६.३

विद्याम् इमां प्राप्नुहि जीवनीं त्वं न चेद् इन्द्रः कचरूपी त्वम् अद्य ॥ (४६।३)

vidyām imāṃ prāpnuhi jīvanīṃ tvaṃ na ced indraḥ kacarūpī tvam adya ||

47.1४७.१

न निवर्तेत् पुनर् जीवन् कश्चिद् अन्यो ममोदरात् । (४७।१)

na nivartet punar jīvan kaścid anyo mamodarāt |

47.2४७.२

ब्राह्मणं वर्जयित्वैकं तस्माद् विद्याम् अवाप्नुहि ॥ (४७।२)

brāhmaṇaṃ varjayitvaikaṃ tasmād vidyām avāpnuhi ||

48.1४८.१

पुत्रो भूत्वा भावय भावितो माम् अस्माद् देहाद् उपनिष्क्रम्य तात । (४८।१)

putro bhūtvā bhāvaya bhāvito mām asmād dehād upaniṣkramya tāta |

48.2४८.२

समीक्षेथा धर्मवतीम् अवेक्षां गुरोः सकाशात् प्राप्य विद्यां सविद्यः ॥ (४८।२)

samīkṣethā dharmavatīm avekṣāṃ guroḥ sakāśāt prāpya vidyāṃ savidyaḥ ||

49.1४९.१

वैशंपायन उवाच । (४९।१)

vaiśaṃpāyana uvāca

49.2४९.२

गुरोः सकाशात् समवाप्य विद्यां भित्त्वा कुक्षिं निर्विचक्राम विप्रः । (४९।२)

guroḥ sakāśāt samavāpya vidyāṃ bhittvā kukṣiṃ nirvicakrāma vipraḥ |

49.3४९.३

कचो ऽभिरूपो दक्षिणं ब्राह्मणस्य शुक्लात्यये पौर्णमास्याम् इवेन्दुः ॥ (४९।३)

kaco 'bhirūpo dakṣiṇaṃ brāhmaṇasya śuklātyaye paurṇamāsyām ivenduḥ ||

50.1५०.१

दृष्ट्वा च तं पतितं ब्रह्मराशिम् उत्थापयामास मृतं कचो ऽपि । (५०।१)

dṛṣṭvā ca taṃ patitaṃ brahmarāśim utthāpayāmāsa mṛtaṃ kaco 'pi |

50.2५०.२

विद्यां सिद्धां ताम् अवाप्याभिवाद्य ततः कचस्तं गुरुम् इत्युवाच । (५०।२)

vidyāṃ siddhāṃ tām avāpyābhivādya tataḥ kacastaṃ gurum ityuvāca |

50.3५०.३

यः श्रोत्रयोर् अमृतं संनिषिञ्चेद् विद्याम् अविद्यस्य यथा ममायम् । (५०।३)

yaḥ śrotrayor amṛtaṃ saṃniṣiñced vidyām avidyasya yathā mamāyam |

50.4५०.४

तं मन्ये ऽहं पितरं मातरं च । (५०।४)

taṃ manye 'haṃ pitaraṃ mātaraṃ ca |

50.5५०.५

तस्मै न द्रुह्येत् कृतम् अस्य जानन् ॥ (५०।५)

tasmai na druhyet kṛtam asya jānan ||

51.1५१.१

ऋतस्य दातारम् अनुत्तमस्य निधिं निधीनां चतुरन्वयानाम् । (५१।१)

ṛtasya dātāram anuttamasya nidhiṃ nidhīnāṃ caturanvayānām |

51.2५१.२

ये नाद्रियन्ते गुरुम् अर्चनीयं पापांल्लोकांस्ते व्रजन्त्यप्रतिष्ठान् ॥ (५१।२)

ye nādriyante gurum arcanīyaṃ pāpāṃllokāṃste vrajantyapratiṣṭhān ||

52.1५२.१

वैशंपायन उवाच । (५२।१)

vaiśaṃpāyana uvāca

52.2५२.२

शृण्वत्सु भूतेष्विदम् आह काव्यः । (५२।२)

śṛṇvatsu bhūteṣvidam āha kāvyaḥ |

52.3५२.३

समुत्थितो ब्रह्मराशिः पुराणः । (५२।३)

samutthito brahmarāśiḥ purāṇaḥ |

52.4५२.४

सुरापानाद् वञ्चनां प्रापयित्वा संज्ञानाशं चैव तथातिघोरम् । (५२।४)

surāpānād vañcanāṃ prāpayitvā saṃjñānāśaṃ caiva tathātighoram |

52.5५२.५

दृष्ट्वा कचं चापि तथाभिरूपं पीतं तदा सुरया मोहितेन ॥ (५२।५)

dṛṣṭvā kacaṃ cāpi tathābhirūpaṃ pītaṃ tadā surayā mohitena ||

53.1५३.१

समन्युर् उत्थाय महानुभावस् तदोशना विप्रहितं चिकीर्षुः । (५३।१)

samanyur utthāya mahānubhāvas tadośanā viprahitaṃ cikīrṣuḥ |

53.2५३.२

काव्यः स्वयं वाक्यम् इदं जगाद सुरापानं प्रति वै जातशङ्कः ॥ (५३।२)

kāvyaḥ svayaṃ vākyam idaṃ jagāda surāpānaṃ prati vai jātaśaṅkaḥ ||

54.1५४.१

यो ब्राह्मणो ऽद्य प्रभृतीह कश्चिन् मोहात् सुरां पास्यति मन्दबुद्धिः । (५४।१)

yo brāhmaṇo 'dya prabhṛtīha kaścin mohāt surāṃ pāsyati mandabuddhiḥ |

54.2५४.२

अपेतधर्मो ब्रह्महा चैव स स्याद् अस्मिंल्लोके गर्हितः स्यात् परे च ॥ (५४।२)

apetadharmo brahmahā caiva sa syād asmiṃlloke garhitaḥ syāt pare ca ||

55.1५५.१

मया चेमां विप्रधर्मोक्तिसीमां मर्यादां वै स्थापितां सर्वलोके । (५५।१)

mayā cemāṃ vipradharmoktisīmāṃ maryādāṃ vai sthāpitāṃ sarvaloke |

55.2५५.२

सन्तो विप्राः शुश्रुवांसो गुरूणां देवा लोकाश्चोपशृण्वन्तु सर्वे । (५५।२)

santo viprāḥ śuśruvāṃso gurūṇāṃ devā lokāścopaśṛṇvantu sarve |

55.3५५.३

ब्रह्महत्यासमं तस्य पापं स्याद् ब्राह्मणस्य तु । (५५।३)

brahmahatyāsamaṃ tasya pāpaṃ syād brāhmaṇasya tu |

55.4५५.४

यः पास्यति सुरां मोहान् नरकं चापि यास्यति ॥ (५५।४)

yaḥ pāsyati surāṃ mohān narakaṃ cāpi yāsyati ||

56.1५६.१

इतीदम् उक्त्वा स महानुभावस् तपोनिधीनां निधिर् अप्रमेयः । (५६।१)

itīdam uktvā sa mahānubhāvas taponidhīnāṃ nidhir aprameyaḥ |

56.2५६.२

तान् दानवान् दैवविमूढबुद्धीन् इदं समाहूय वचो ऽभ्युवाच ॥ (५६।२)

tān dānavān daivavimūḍhabuddhīn idaṃ samāhūya vaco 'bhyuvāca ||

57.1५७.१

आचक्षे वो दानवा बालिशाः स्थ सिद्धः कचो वत्स्यति मत्सकाशे । (५७।१)

ācakṣe vo dānavā bāliśāḥ stha siddhaḥ kaco vatsyati matsakāśe |

57.2५७.२

संजीवनीं प्राप्य विद्यां महार्थां तुल्यप्रभावो ब्रह्मणा ब्रह्मभूतः । (५७।२)

saṃjīvanīṃ prāpya vidyāṃ mahārthāṃ tulyaprabhāvo brahmaṇā brahmabhūtaḥ |

57.3५७.३

यो ऽकार्षीद् दुष्करं कर्म देवानां कारणात् कचः । (५७।३)

yo 'kārṣīd duṣkaraṃ karma devānāṃ kāraṇāt kacaḥ |

57.4५७.४

न तत्कीर्तिर् जरां गच्छेद् याज्ञीयश्च भविष्यति । (५७।४)

na tatkīrtir jarāṃ gacched yājñīyaśca bhaviṣyati |

57.5५७.५

एतावद् उक्त्वा वचनं विरराम स भार्गवः । (५७।५)

etāvad uktvā vacanaṃ virarāma sa bhārgavaḥ |

57.6५७.६

दानवा विस्मयाविष्टाः प्रययुः स्वं निवेशनम् ॥ (५७।६)

dānavā vismayāviṣṭāḥ prayayuḥ svaṃ niveśanam ||

58.1५८.१

गुरोर् उष्य सकाशे तु दश वर्षशतानि सः । (५८।१)

guror uṣya sakāśe tu daśa varṣaśatāni saḥ |

58.2५८.२

अनुज्ञातः कचो गन्तुम् इयेष त्रिदशालयम् ॥ (५८।२)

anujñātaḥ kaco gantum iyeṣa tridaśālayam ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 1, 71

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit