महाभारतMahābhārata

MBh, 6, 10

871 of 1995 · 150 verses

Select a line for its word-by-word analysis.

1.1१.१

धृतराष्ट्र उवाच । (१।१)

dhṛtarāṣṭra uvāca

1.2१.२

यद् इदं भारतं वर्षं यत्रेदं मूर्छितं बलम् । (१।२)

yad idaṃ bhārataṃ varṣaṃ yatredaṃ mūrchitaṃ balam |

1.3१.३

यत्रातिमात्रं लुब्धो ऽयं पुत्रो दुर्योधनो मम ॥ (१।३)

yatrātimātraṃ lubdho 'yaṃ putro duryodhano mama ||

2.1२.१

यत्र गृद्धाः पाण्डुसुता यत्र मे सज्जते मनः । (२।१)

yatra gṛddhāḥ pāṇḍusutā yatra me sajjate manaḥ |

2.2२.२

एतन्मे तत्त्वम् आचक्ष्व कुशलो ह्यसि संजय ॥ (२।२)

etanme tattvam ācakṣva kuśalo hyasi saṃjaya ||

3.1३.१

संजय उवाच । (३।१)

saṃjaya uvāca

3.2३.२

न तत्र पाण्डवा गृद्धाः शृणु राजन् वचो मम । (३।२)

na tatra pāṇḍavā gṛddhāḥ śṛṇu rājan vaco mama |

3.3३.३

गृद्धो दुर्योधनस्तत्र शकुनिश्चापि सौबलः ॥ (३।३)

gṛddho duryodhanastatra śakuniścāpi saubalaḥ ||

4.1४.१

अपरे क्षत्रियाश्चापि नानाजनपदेश्वराः । (४।१)

apare kṣatriyāścāpi nānājanapadeśvarāḥ |

4.2४.२

ये गृद्धा भारते वर्षे न मृष्यन्ति परस्परम् ॥ (४।२)

ye gṛddhā bhārate varṣe na mṛṣyanti parasparam ||

5.1५.१

अत्र ते वर्णयिष्यामि वर्षं भारत भारतम् । (५।१)

atra te varṇayiṣyāmi varṣaṃ bhārata bhāratam |

5.2५.२

प्रियम् इन्द्रस्य देवस्य मनोर् वैवस्वतस्य च ॥ (५।२)

priyam indrasya devasya manor vaivasvatasya ca ||

6.1६.१

पृथोश्च राजन् वैन्यस्य तथेक्ष्वाकोर् महात्मनः । (६।१)

pṛthośca rājan vainyasya tathekṣvākor mahātmanaḥ |

6.2६.२

ययातेर् अम्बरीषस्य मान्धातुर् नहुषस्य च ॥ (६।२)

yayāter ambarīṣasya māndhātur nahuṣasya ca ||

7.1७.१

तथैव मुचुकुन्दस्य शिबेर् औशीनरस्य च । (७।१)

tathaiva mucukundasya śiber auśīnarasya ca |

7.2७.२

ऋषभस्य तथैलस्य नृगस्य नृपतेस्तथा ॥ (७।२)

ṛṣabhasya tathailasya nṛgasya nṛpatestathā ||

8.1८.१

अन्येषां च महाराज क्षत्रियाणां बलीयसाम् । (८।१)

anyeṣāṃ ca mahārāja kṣatriyāṇāṃ balīyasām |

8.2८.२

सर्वेषाम् एव राजेन्द्र प्रियं भारत भारतम् ॥ (८।२)

sarveṣām eva rājendra priyaṃ bhārata bhāratam ||

9.1९.१

तत् ते वर्षं प्रवक्ष्यामि यथाश्रुतम् अरिंदम । (९।१)

tat te varṣaṃ pravakṣyāmi yathāśrutam ariṃdama |

9.2९.२

शृणु मे गदतो राजन् यन्मां त्वं परिपृच्छसि ॥ (९।२)

śṛṇu me gadato rājan yanmāṃ tvaṃ paripṛcchasi ||

10.1१०.१

महेन्द्रो मलयः सह्यः शुक्तिमान् ऋक्षवान् अपि । (१०।१)

mahendro malayaḥ sahyaḥ śuktimān ṛkṣavān api |

10.2१०.२

विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः ॥ (१०।२)

vindhyaśca pāriyātraśca saptaite kulaparvatāḥ ||

11.1११.१

तेषां सहस्रशो राजन् पर्वतास्तु समीपतः । (११।१)

teṣāṃ sahasraśo rājan parvatāstu samīpataḥ |

11.2११.२

अभिज्ञाताः सारवन्तो विपुलाश्चित्रसानवः ॥ (११।२)

abhijñātāḥ sāravanto vipulāścitrasānavaḥ ||

12.1१२.१

अन्ये ततो ऽपरिज्ञाता ह्रस्वा ह्रस्वोपजीविनः । (१२।१)

anye tato 'parijñātā hrasvā hrasvopajīvinaḥ |

12.2१२.२

आर्या म्लेच्छाश्च कौरव्य तैर् मिश्राः पुरुषा विभो ॥ (१२।२)

āryā mlecchāśca kauravya tair miśrāḥ puruṣā vibho ||

13.1१३.१

नदीः पिबन्ति बहुला गङ्गां सिन्धुं सरस्वतीम् । (१३।१)

nadīḥ pibanti bahulā gaṅgāṃ sindhuṃ sarasvatīm |

13.2१३.२

गोदावरीं नर्मदां च बाहुदां च महानदीम् ॥ (१३।२)

godāvarīṃ narmadāṃ ca bāhudāṃ ca mahānadīm ||

14.1१४.१

शतद्रुं चन्द्रभागां च यमुनां च महानदीम् । (१४।१)

śatadruṃ candrabhāgāṃ ca yamunāṃ ca mahānadīm |

14.2१४.२

दृषद्वतीं विपाशां च विपापां स्थूलवालुकाम् ॥ (१४।२)

dṛṣadvatīṃ vipāśāṃ ca vipāpāṃ sthūlavālukām ||

15.1१५.१

नदीं वेत्रवतीं चैव कृष्णवेणां च निम्नगाम् । (१५।१)

nadīṃ vetravatīṃ caiva kṛṣṇaveṇāṃ ca nimnagām |

15.2१५.२

इरावतीं वितस्तां च पयोष्णीं देविकाम् अपि ॥ (१५।२)

irāvatīṃ vitastāṃ ca payoṣṇīṃ devikām api ||

16.1१६.१

वेदस्मृतिं वेतसिनीं त्रिदिवाम् इष्कुमालिनीम् । (१६।१)

vedasmṛtiṃ vetasinīṃ tridivām iṣkumālinīm |

16.2१६.२

करीषिणीं चित्रवहां चित्रसेनां च निम्नगाम् ॥ (१६।२)

karīṣiṇīṃ citravahāṃ citrasenāṃ ca nimnagām ||

17.1१७.१

गोमतीं धूतपापां च वन्दनां च महानदीम् । (१७।१)

gomatīṃ dhūtapāpāṃ ca vandanāṃ ca mahānadīm |

17.2१७.२

कौशिकीं त्रिदिवां कृत्यां विचित्रां लोहतारिणीम् ॥ (१७।२)

kauśikīṃ tridivāṃ kṛtyāṃ vicitrāṃ lohatāriṇīm ||

18.1१८.१

रथस्थां शतकुम्भां च सरयूं च नरेश्वर । (१८।१)

rathasthāṃ śatakumbhāṃ ca sarayūṃ ca nareśvara |

18.2१८.२

चर्मण्वतीं वेत्रवतीं हस्तिसोमां दिशं तथा ॥ (१८।२)

carmaṇvatīṃ vetravatīṃ hastisomāṃ diśaṃ tathā ||

19.1१९.१

शतावरीं पयोष्णीं च परां भैमरथीं तथा । (१९।१)

śatāvarīṃ payoṣṇīṃ ca parāṃ bhaimarathīṃ tathā |

19.2१९.२

कावेरीं चुलुकां चापि वापीं शतबलाम् अपि ॥ (१९।२)

kāverīṃ culukāṃ cāpi vāpīṃ śatabalām api ||

20.1२०.१

निचीरां महितां चापि सुप्रयोगां नराधिप । (२०।१)

nicīrāṃ mahitāṃ cāpi suprayogāṃ narādhipa |

20.2२०.२

पवित्रां कुण्डलां सिन्धुं वाजिनीं पुरमालिनीम् ॥ (२०।२)

pavitrāṃ kuṇḍalāṃ sindhuṃ vājinīṃ puramālinīm ||

21.1२१.१

पूर्वाभिरामां वीरां च भीमाम् ओघवतीं तथा । (२१।१)

pūrvābhirāmāṃ vīrāṃ ca bhīmām oghavatīṃ tathā |

21.2२१.२

पलाशिनीं पापहरां महेन्द्रां पिप्पलावतीम् ॥ (२१।२)

palāśinīṃ pāpaharāṃ mahendrāṃ pippalāvatīm ||

22.1२२.१

पारिषेणाम् असिक्नीं च सरलां भारमर्दिनीम् । (२२।१)

pāriṣeṇām asiknīṃ ca saralāṃ bhāramardinīm |

22.2२२.२

पुरुहीं प्रवरां मेनां मोघां घृतवतीं तथा ॥ (२२।२)

puruhīṃ pravarāṃ menāṃ moghāṃ ghṛtavatīṃ tathā ||

23.1२३.१

धूमत्याम् अतिकृष्णां च सूचीं छावीं च कौरव । (२३।१)

dhūmatyām atikṛṣṇāṃ ca sūcīṃ chāvīṃ ca kaurava |

23.2२३.२

सदानीराम् अधृष्यां च कुशधारां महानदीम् ॥ (२३।२)

sadānīrām adhṛṣyāṃ ca kuśadhārāṃ mahānadīm ||

24.1२४.१

शशिकान्तां शिवां चैव तथा वीरवतीम् अपि । (२४।१)

śaśikāntāṃ śivāṃ caiva tathā vīravatīm api |

24.2२४.२

वास्तुं सुवास्तुं गौरीं च कम्पनां सहिरण्वतीम् ॥ (२४।२)

vāstuṃ suvāstuṃ gaurīṃ ca kampanāṃ sahiraṇvatīm ||

25.1२५.१

हिरण्वतीं चित्रवतीं चित्रसेनां च निम्नगाम् । (२५।१)

hiraṇvatīṃ citravatīṃ citrasenāṃ ca nimnagām |

25.2२५.२

रथचित्रां ज्योतिरथां विश्वामित्रां कपिञ्जलाम् ॥ (२५।२)

rathacitrāṃ jyotirathāṃ viśvāmitrāṃ kapiñjalām ||

26.1२६.१

उपेन्द्रां बहुलां चैव कुचराम् अम्बुवाहिनीम् । (२६।१)

upendrāṃ bahulāṃ caiva kucarām ambuvāhinīm |

26.2२६.२

वैनन्दीं पिञ्जलां वेण्णां तुङ्गवेणां महानदीम् ॥ (२६।२)

vainandīṃ piñjalāṃ veṇṇāṃ tuṅgaveṇāṃ mahānadīm ||

27.1२७.१

विदिशां कृष्णवेण्णां च ताम्रां च कपिलाम् अपि । (२७।१)

vidiśāṃ kṛṣṇaveṇṇāṃ ca tāmrāṃ ca kapilām api |

27.2२७.२

शलुं सुवामां वेदाश्वां हरिस्रावां महापगाम् ॥ (२७।२)

śaluṃ suvāmāṃ vedāśvāṃ harisrāvāṃ mahāpagām ||

28.1२८.१

शीघ्रां च पिच्छिलां चैव भारद्वाजीं च निम्नगाम् । (२८।१)

śīghrāṃ ca picchilāṃ caiva bhāradvājīṃ ca nimnagām |

28.2२८.२

कौशिकीं निम्नगां शोणां बाहुदाम् अथ चन्दनाम् ॥ (२८।२)

kauśikīṃ nimnagāṃ śoṇāṃ bāhudām atha candanām ||

29.1२९.१

दुर्गाम् अन्तःशिलां चैव ब्रह्ममेध्यां बृहद्वतीम् । (२९।१)

durgām antaḥśilāṃ caiva brahmamedhyāṃ bṛhadvatīm |

29.2२९.२

चरक्षां महिरोहीं च तथा जम्बुनदीम् अपि ॥ (२९।२)

carakṣāṃ mahirohīṃ ca tathā jambunadīm api ||

30.1३०.१

सुनसां तमसां दासीं त्रसाम् अन्यां वराणसीम् । (३०।१)

sunasāṃ tamasāṃ dāsīṃ trasām anyāṃ varāṇasīm |

30.2३०.२

लोलोद्धृतकरां चैव पूर्णाशां च महानदीम् ॥ (३०।२)

loloddhṛtakarāṃ caiva pūrṇāśāṃ ca mahānadīm ||

31.1३१.१

मानवीं वृषभां चैव महानद्यो जनाधिप । (३१।१)

mānavīṃ vṛṣabhāṃ caiva mahānadyo janādhipa |

31.2३१.२

सदानिरामयां वृत्यां मन्दगां मन्दवाहिनीम् ॥ (३१।२)

sadānirāmayāṃ vṛtyāṃ mandagāṃ mandavāhinīm ||

32.1३२.१

ब्रह्माणीं च महागौरीं दुर्गाम् अपि च भारत । (३२।१)

brahmāṇīṃ ca mahāgaurīṃ durgām api ca bhārata |

32.2३२.२

चित्रोपलां चित्रबर्हां मञ्जुं मकरवाहिनीम् ॥ (३२।२)

citropalāṃ citrabarhāṃ mañjuṃ makaravāhinīm ||

33.1३३.१

मन्दाकिनीं वैतरणीं कोकां चैव महानदीम् । (३३।१)

mandākinīṃ vaitaraṇīṃ kokāṃ caiva mahānadīm |

33.2३३.२

शुक्तिमतीम् अरण्यां च पुष्पवेण्युत्पलावतीम् ॥ (३३।२)

śuktimatīm araṇyāṃ ca puṣpaveṇyutpalāvatīm ||

34.1३४.१

लोहित्यां करतोयां च तथैव वृषभङ्गिनीम् । (३४।१)

lohityāṃ karatoyāṃ ca tathaiva vṛṣabhaṅginīm |

34.2३४.२

कुमारीम् ऋषिकुल्यां च ब्रह्मकुल्यां च भारत ॥ (३४।२)

kumārīm ṛṣikulyāṃ ca brahmakulyāṃ ca bhārata ||

35.1३५.१

सरस्वतीः सुपुण्याश्च सर्वा गङ्गाश्च मारिष । (३५।१)

sarasvatīḥ supuṇyāśca sarvā gaṅgāśca māriṣa |

35.2३५.२

विश्वस्य मातरः सर्वाः सर्वाश्चैव महाबलाः ॥ (३५।२)

viśvasya mātaraḥ sarvāḥ sarvāścaiva mahābalāḥ ||

36.1३६.१

तथा नद्यस्त्वप्रकाशाः शतशो ऽथ सहस्रशः । (३६।१)

tathā nadyastvaprakāśāḥ śataśo 'tha sahasraśaḥ |

36.2३६.२

इत्येताः सरितो राजन् समाख्याता यथास्मृति ॥ (३६।२)

ityetāḥ sarito rājan samākhyātā yathāsmṛti ||

37.1३७.१

अत ऊर्ध्वं जनपदान्निबोध गदतो मम । (३७।१)

ata ūrdhvaṃ janapadānnibodha gadato mama |

37.2३७.२

तत्रेमे कुरुपाञ्चालाः शाल्वमाद्रेयजाङ्गलाः ॥ (३७।२)

tatreme kurupāñcālāḥ śālvamādreyajāṅgalāḥ ||

38.1३८.१

शूरसेनाः कलिङ्गाश्च बोधा मौकास्तथैव च । (३८।१)

śūrasenāḥ kaliṅgāśca bodhā maukāstathaiva ca |

38.2३८.२

मत्स्याः सुकुट्यः सौबल्याः कुन्तलाः काशिकोशलाः ॥ (३८।२)

matsyāḥ sukuṭyaḥ saubalyāḥ kuntalāḥ kāśikośalāḥ ||

39.1३९.१

चेदिवत्साः करूषाश्च भोजाः सिन्धुपुलिन्दकाः । (३९।१)

cedivatsāḥ karūṣāśca bhojāḥ sindhupulindakāḥ |

39.2३९.२

उत्तमौजा दशार्णाश्च मेकलाश्चोत्कलैः सह ॥ (३९।२)

uttamaujā daśārṇāśca mekalāścotkalaiḥ saha ||

40.1४०.१

पाञ्चालाः कौशिजाश्चैव एकपृष्ठा युगंधराः । (४०।१)

pāñcālāḥ kauśijāścaiva ekapṛṣṭhā yugaṃdharāḥ |

40.2४०.२

सौधा मद्रा भुजिङ्गाश्च काशयो ऽपरकाशयः ॥ (४०।२)

saudhā madrā bhujiṅgāśca kāśayo 'parakāśayaḥ ||

41.1४१.१

जठराः कुक्कुशाश्चैव सुदाशार्णाश्च भारत । (४१।१)

jaṭharāḥ kukkuśāścaiva sudāśārṇāśca bhārata |

41.2४१.२

कुन्तयो ऽवन्तयश्चैव तथैवापरकुन्तयः ॥ (४१।२)

kuntayo 'vantayaścaiva tathaivāparakuntayaḥ ||

42.1४२.१

गोविन्दा मन्दकाः षण्डा विदर्भानूपवासिकाः । (४२।१)

govindā mandakāḥ ṣaṇḍā vidarbhānūpavāsikāḥ |

42.2४२.२

अश्मकाः पांसुराष्ट्राश्च गोपराष्ट्राः पनीतकाः ॥ (४२।२)

aśmakāḥ pāṃsurāṣṭrāśca goparāṣṭrāḥ panītakāḥ ||

43.1४३.१

आदिराष्ट्राः सुकुट्टाश्च बलिराष्ट्रं च केवलम् । (४३।१)

ādirāṣṭrāḥ sukuṭṭāśca balirāṣṭraṃ ca kevalam |

43.2४३.२

वानरास्याः प्रवाहाश्च वक्रा वक्रभयाः शकाः ॥ (४३।२)

vānarāsyāḥ pravāhāśca vakrā vakrabhayāḥ śakāḥ ||

44.1४४.१

विदेहका मागधाश्च सुह्माश्च विजयास्तथा । (४४।१)

videhakā māgadhāśca suhmāśca vijayāstathā |

44.2४४.२

अङ्गा वङ्गाः कलिङ्गाश्च यकृल्लोमान एव च ॥ (४४।२)

aṅgā vaṅgāḥ kaliṅgāśca yakṛllomāna eva ca ||

45.1४५.१

मल्लाः सुदेष्णाः प्राहूतास्तथा माहिषकार्षिकाः । (४५।१)

mallāḥ sudeṣṇāḥ prāhūtāstathā māhiṣakārṣikāḥ |

45.2४५.२

वाहीका वाटधानाश्च आभीराः कालतोयकाः ॥ (४५।२)

vāhīkā vāṭadhānāśca ābhīrāḥ kālatoyakāḥ ||

46.1४६.१

अपरन्ध्राश्च शूद्राश्च पह्लवाश्चर्मखण्डिकाः । (४६।१)

aparandhrāśca śūdrāśca pahlavāścarmakhaṇḍikāḥ |

46.2४६.२

अटवीशबराश्चैव मरुभौमाश्च मारिष ॥ (४६।२)

aṭavīśabarāścaiva marubhaumāśca māriṣa ||

47.1४७.१

उपावृश्चानुपावृश्चसुराष्ट्राः केकयास्तथा । (४७।१)

upāvṛścānupāvṛścasurāṣṭrāḥ kekayāstathā |

47.2४७.२

कुट्टापरान्ता द्वैधेयाः काक्षाः सामुद्रनिष्कुटाः ॥ (४७।२)

kuṭṭāparāntā dvaidheyāḥ kākṣāḥ sāmudraniṣkuṭāḥ ||

48.1४८.१

अन्ध्राश्च बहवो राजन्न् अन्तर्गिर्यास्तथैव च । (४८।१)

andhrāśca bahavo rājann antargiryāstathaiva ca |

48.2४८.२

बहिर्गिर्याङ्गमलदा मागधा मानवर्जकाः ॥ (४८।२)

bahirgiryāṅgamaladā māgadhā mānavarjakāḥ ||

49.1४९.१

मह्युत्तराः प्रावृषेया भार्गवाश्च जनाधिप । (४९।१)

mahyuttarāḥ prāvṛṣeyā bhārgavāśca janādhipa |

49.2४९.२

पुण्ड्रा भार्गाः किराताश्च सुदोष्णाः प्रमुदास्तथा ॥ (४९।२)

puṇḍrā bhārgāḥ kirātāśca sudoṣṇāḥ pramudāstathā ||

50.1५०.१

शका निषादा निषधास्तथैवानर्तनैरृताः । (५०।१)

śakā niṣādā niṣadhāstathaivānartanairṛtāḥ |

50.2५०.२

दुगूलाः प्रतिमत्स्याश्च कुशलाः कुनटास्तथा ॥ (५०।२)

dugūlāḥ pratimatsyāśca kuśalāḥ kunaṭāstathā ||

51.1५१.१

तीरग्राहास्तरतोया राजिका रस्यकागणाः । (५१।१)

tīragrāhāstaratoyā rājikā rasyakāgaṇāḥ |

51.2५१.२

तिलकाः पारसीकाश्च मधुमन्तः प्रकुत्सकाः ॥ (५१।२)

tilakāḥ pārasīkāśca madhumantaḥ prakutsakāḥ ||

52.1५२.१

काश्मीराः सिन्धुसौवीरा गान्धारा दर्शकास्तथा । (५२।१)

kāśmīrāḥ sindhusauvīrā gāndhārā darśakāstathā |

52.2५२.२

अभीसारा कुलूताश्च शैवला बाह्लिकास्तथा ॥ (५२।२)

abhīsārā kulūtāśca śaivalā bāhlikāstathā ||

53.1५३.१

दर्वीकाः सकचा दर्वा वातजामरथोरगाः । (५३।१)

darvīkāḥ sakacā darvā vātajāmarathoragāḥ |

53.2५३.२

बहुवाद्याश्च कौरव्य सुदामानः सुमल्लिकाः ॥ (५३।२)

bahuvādyāśca kauravya sudāmānaḥ sumallikāḥ ||

54.1५४.१

वध्राः करीषकाश्चापि कुलिन्दोपत्यकास्तथा । (५४।१)

vadhrāḥ karīṣakāścāpi kulindopatyakāstathā |

54.2५४.२

वनायवो दशापार्श्वा रोमाणः कुशबिन्दवः ॥ (५४।२)

vanāyavo daśāpārśvā romāṇaḥ kuśabindavaḥ ||

55.1५५.१

कच्छा गोपालकच्छाश्च लाङ्गलाः परवल्लकाः । (५५।१)

kacchā gopālakacchāśca lāṅgalāḥ paravallakāḥ |

55.2५५.२

किराता बर्बराः सिद्धा विदेहास्ताम्रलिङ्गकाः ॥ (५५।२)

kirātā barbarāḥ siddhā videhāstāmraliṅgakāḥ ||

56.1५६.१

ओष्ट्राः पुण्ड्राः ससैरन्ध्राः पार्वतीयाश्च मारिष । (५६।१)

oṣṭrāḥ puṇḍrāḥ sasairandhrāḥ pārvatīyāśca māriṣa |

56.2५६.२

अथापरे जनपदा दक्षिणा भरतर्षभ ॥ (५६।२)

athāpare janapadā dakṣiṇā bharatarṣabha ||

57.1५७.१

द्रविडाः केरलाः प्राच्या भूषिका वनवासिनः । (५७।१)

draviḍāḥ keralāḥ prācyā bhūṣikā vanavāsinaḥ |

57.2५७.२

उन्नत्यका माहिषका विकल्पा मूषकास्तथा ॥ (५७।२)

unnatyakā māhiṣakā vikalpā mūṣakāstathā ||

58.1५८.१

कर्णिकाः कुन्तिकाश्चैव सौद्भिदा नलकालकाः । (५८।१)

karṇikāḥ kuntikāścaiva saudbhidā nalakālakāḥ |

58.2५८.२

कौकुट्टकास्तथा चोलाः कोङ्कणा मालवाणकाः ॥ (५८।२)

kaukuṭṭakāstathā colāḥ koṅkaṇā mālavāṇakāḥ ||

59.1५९.१

समङ्गाः कोपनाश्चैव कुकुराङ्गदमारिषाः । (५९।१)

samaṅgāḥ kopanāścaiva kukurāṅgadamāriṣāḥ |

59.2५९.२

ध्वजिन्युत्सवसंकेतास्त्रिगर्ताः सर्वसेनयः ॥ (५९।२)

dhvajinyutsavasaṃketāstrigartāḥ sarvasenayaḥ ||

60.1६०.१

त्र्यङ्गाः केकरकाः प्रोष्ठाः परसंचरकास्तथा । (६०।१)

tryaṅgāḥ kekarakāḥ proṣṭhāḥ parasaṃcarakāstathā |

60.2६०.२

तथैव विन्ध्यपुलकाः पुलिन्दाः कल्कलैः सह ॥ (६०।२)

tathaiva vindhyapulakāḥ pulindāḥ kalkalaiḥ saha ||

61.1६१.१

मालका मल्लकाश्चैव तथैवापरवर्तकाः । (६१।१)

mālakā mallakāścaiva tathaivāparavartakāḥ |

61.2६१.२

कुलिन्दाः कुलकाश्चैव करण्ठाः कुरकास्तथा ॥ (६१।२)

kulindāḥ kulakāścaiva karaṇṭhāḥ kurakāstathā ||

62.1६२.१

मूषका स्तनबालाश्च सतियः पत्तिपञ्जकाः । (६२।१)

mūṣakā stanabālāśca satiyaḥ pattipañjakāḥ |

62.2६२.२

आदिदायाः सिरालाश्च स्तूबका स्तनपास्तथा ॥ (६२।२)

ādidāyāḥ sirālāśca stūbakā stanapāstathā ||

63.1६३.१

हृषीविदर्भाः कान्तीकास्तङ्गणाः परतङ्गणाः । (६३।१)

hṛṣīvidarbhāḥ kāntīkāstaṅgaṇāḥ parataṅgaṇāḥ |

63.2६३.२

उत्तराश्चापरे म्लेच्छा जना भरतसत्तम ॥ (६३।२)

uttarāścāpare mlecchā janā bharatasattama ||

64.1६४.१

यवनाश्च सकाम्बोजा दारुणा म्लेच्छजातयः । (६४।१)

yavanāśca sakāmbojā dāruṇā mlecchajātayaḥ |

64.2६४.२

सक्षद्द्रुहः कुन्तलाश्च हूणाः पारतकैः सह ॥ (६४।२)

sakṣaddruhaḥ kuntalāśca hūṇāḥ pāratakaiḥ saha ||

65.1६५.१

तथैव मरधाश्चीनास्तथैव दशमालिकाः । (६५।१)

tathaiva maradhāścīnāstathaiva daśamālikāḥ |

65.2६५.२

क्षत्रियोपनिवेशाश्च वैश्यशूद्रकुलानि च ॥ (६५।२)

kṣatriyopaniveśāśca vaiśyaśūdrakulāni ca ||

66.1६६.१

शूद्राभीराथ दरदाः काश्मीराः पशुभिः सह । (६६।१)

śūdrābhīrātha daradāḥ kāśmīrāḥ paśubhiḥ saha |

66.2६६.२

खशिकाश्च तुखाराश्च पल्लवा गिरिगह्वराः ॥ (६६।२)

khaśikāśca tukhārāśca pallavā girigahvarāḥ ||

67.1६७.१

आत्रेयाः सभरद्वाजास्तथैव स्तनयोषिकाः । (६७।१)

ātreyāḥ sabharadvājāstathaiva stanayoṣikāḥ |

67.2६७.२

औपकाश्च कलिङ्गाश्च किरातानां च जातयः ॥ (६७।२)

aupakāśca kaliṅgāśca kirātānāṃ ca jātayaḥ ||

68.1६८.१

तामरा हंसमार्गाश्च तथैव करभञ्जकाः । (६८।१)

tāmarā haṃsamārgāśca tathaiva karabhañjakāḥ |

68.2६८.२

उद्देशमात्रेण मया देशाः संकीर्तिताः प्रभो ॥ (६८।२)

uddeśamātreṇa mayā deśāḥ saṃkīrtitāḥ prabho ||

69.1६९.१

यथागुणबलं चापि त्रिवर्गस्य महाफलम् । (६९।१)

yathāguṇabalaṃ cāpi trivargasya mahāphalam |

69.2६९.२

दुह्येद् धेनुः कामधुक् च भूमिः सम्यग् अनुष्ठिता ॥ (६९।२)

duhyed dhenuḥ kāmadhuk ca bhūmiḥ samyag anuṣṭhitā ||

70.1७०.१

तस्यां गृध्यन्ति राजानः शूरा धर्मार्थकोविदाः । (७०।१)

tasyāṃ gṛdhyanti rājānaḥ śūrā dharmārthakovidāḥ |

70.2७०.२

ते त्यजन्त्याहवे प्राणान् रसागृद्धास्तरस्विनः ॥ (७०।२)

te tyajantyāhave prāṇān rasāgṛddhāstarasvinaḥ ||

71.1७१.१

देवमानुषकायानां कामं भूमिः परायणम् । (७१।१)

devamānuṣakāyānāṃ kāmaṃ bhūmiḥ parāyaṇam |

71.2७१.२

अन्योन्यस्यावलुम्पन्ति सारमेया इवामिषम् ॥ (७१।२)

anyonyasyāvalumpanti sārameyā ivāmiṣam ||

72.1७२.१

राजानो भरतश्रेष्ठ भोक्तुकामा वसुंधराम् । (७२।१)

rājāno bharataśreṣṭha bhoktukāmā vasuṃdharām |

72.2७२.२

न चापि तृप्तिः कामानां विद्यते चेह कस्यचित् ॥ (७२।२)

na cāpi tṛptiḥ kāmānāṃ vidyate ceha kasyacit ||

73.1७३.१

तस्मात् परिग्रहे भूमेर् यतन्ते कुरुपाण्डवाः । (७३।१)

tasmāt parigrahe bhūmer yatante kurupāṇḍavāḥ |

73.2७३.२

साम्ना दानेन भेदेन दण्डेनैव च पार्थिव ॥ (७३।२)

sāmnā dānena bhedena daṇḍenaiva ca pārthiva ||

74.1७४.१

पिता माता च पुत्रश्च खं द्यौश्च नरपुंगव । (७४।१)

pitā mātā ca putraśca khaṃ dyauśca narapuṃgava |

74.2७४.२

भूमिर् भवति भूतानां सम्यग् अच्छिद्रदर्शिनी ॥ (७४।२)

bhūmir bhavati bhūtānāṃ samyag acchidradarśinī ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 6, 10

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit