महाभारतMahābhārata

MBh, 3, 80

378 of 1995 · 284 verses

Select a line for its word-by-word analysis.

1.1१.१

वैशम्पायन उवाच । (१।१)

vaiśampāyana uvāca

1.2१.२

धनंजयोत्सुकास्ते तु वने तस्मिन् महारथाः । (१।२)

dhanaṃjayotsukāste tu vane tasmin mahārathāḥ |

1.3१.३

न्यवसन्त महाभागा द्रौपद्या सह पाण्डवाः ॥ (१।३)

nyavasanta mahābhāgā draupadyā saha pāṇḍavāḥ ||

2.1२.१

अथापश्यन् महात्मानं देवर्षिं तत्र नारदम् । (२।१)

athāpaśyan mahātmānaṃ devarṣiṃ tatra nāradam |

2.2२.२

दीप्यमानं श्रिया ब्राह्म्या दीप्ताग्निसमतेजसम् ॥ (२।२)

dīpyamānaṃ śriyā brāhmyā dīptāgnisamatejasam ||

3.1३.१

स तैः परिवृतः श्रीमान् भ्रातृभिः कुरुसत्तमः । (३।१)

sa taiḥ parivṛtaḥ śrīmān bhrātṛbhiḥ kurusattamaḥ |

3.2३.२

विबभावतिदीप्तौजा देवैर् इव शतक्रतुः ॥ (३।२)

vibabhāvatidīptaujā devair iva śatakratuḥ ||

4.1४.१

यथा च वेदान् सावित्री याज्ञसेनी तथा सती । (४।१)

yathā ca vedān sāvitrī yājñasenī tathā satī |

4.2४.२

न जहौ धर्मतः पार्थान् मेरुम् अर्कप्रभा यथा ॥ (४।२)

na jahau dharmataḥ pārthān merum arkaprabhā yathā ||

5.1५.१

प्रतिगृह्य तु तां पूजां नारदो भगवान् ऋषिः । (५।१)

pratigṛhya tu tāṃ pūjāṃ nārado bhagavān ṛṣiḥ |

5.2५.२

आश्वासयद् धर्मसुतं युक्तरूपम् इवानघ ॥ (५।२)

āśvāsayad dharmasutaṃ yuktarūpam ivānagha ||

6.1६.१

उवाच च महात्मानं धर्मराजं युधिष्ठिरम् । (६।१)

uvāca ca mahātmānaṃ dharmarājaṃ yudhiṣṭhiram |

6.2६.२

ब्रूहि धर्मभृतां श्रेष्ठ केनार्थः किं ददामि ते ॥ (६।२)

brūhi dharmabhṛtāṃ śreṣṭha kenārthaḥ kiṃ dadāmi te ||

7.1७.१

अथ धर्मसुतो राजा प्रणम्य भ्रातृभिः सह । (७।१)

atha dharmasuto rājā praṇamya bhrātṛbhiḥ saha |

7.2७.२

उवाच प्राञ्जलिर् वाक्यं नारदं देवसंमितम् ॥ (७।२)

uvāca prāñjalir vākyaṃ nāradaṃ devasaṃmitam ||

8.1८.१

त्वयि तुष्टे महाभाग सर्वलोकाभिपूजिते । (८।१)

tvayi tuṣṭe mahābhāga sarvalokābhipūjite |

8.2८.२

कृतम् इत्येव मन्ये ऽहं प्रसादात् तव सुव्रत ॥ (८।२)

kṛtam ityeva manye 'haṃ prasādāt tava suvrata ||

9.1९.१

यदि त्वहम् अनुग्राह्यो भ्रातृभिः सहितो ऽनघ । (९।१)

yadi tvaham anugrāhyo bhrātṛbhiḥ sahito 'nagha |

9.2९.२

संदेहं मे मुनिश्रेष्ठ हृदिस्थं छेत्तुम् अर्हसि ॥ (९।२)

saṃdehaṃ me muniśreṣṭha hṛdisthaṃ chettum arhasi ||

10.1१०.१

प्रदक्षिणं यः कुरुते पृथिवीं तीर्थतत्परः । (१०।१)

pradakṣiṇaṃ yaḥ kurute pṛthivīṃ tīrthatatparaḥ |

10.2१०.२

किं फलं तस्य कार्त्स्न्येन तद् ब्रह्मन् वक्तुम् अर्हसि ॥ (१०।२)

kiṃ phalaṃ tasya kārtsnyena tad brahman vaktum arhasi ||

11.1११.१

नारद उवाच । (११।१)

nārada uvāca

11.2११.२

शृणु राजन्न् अवहितो यथा भीष्मेण भारत । (११।२)

śṛṇu rājann avahito yathā bhīṣmeṇa bhārata |

11.3११.३

पुलस्त्यस्य सकाशाद् वै सर्वम् एतद् उपश्रुतम् ॥ (११।३)

pulastyasya sakāśād vai sarvam etad upaśrutam ||

12.1१२.१

पुरा भागीरथीतीरे भीष्मो धर्मभृतां वरः । (१२।१)

purā bhāgīrathītīre bhīṣmo dharmabhṛtāṃ varaḥ |

12.2१२.२

पित्र्यं व्रतं समास्थाय न्यवसन् मुनिवत् तदा ॥ (१२।२)

pitryaṃ vrataṃ samāsthāya nyavasan munivat tadā ||

13.1१३.१

शुभे देशे महाराज पुण्ये देवर्षिसेविते । (१३।१)

śubhe deśe mahārāja puṇye devarṣisevite |

13.2१३.२

गङ्गाद्वारे महातेजा देवगन्धर्वसेविते ॥ (१३।२)

gaṅgādvāre mahātejā devagandharvasevite ||

14.1१४.१

स पितॄंस् तर्पयामास देवांश् च परमद्युतिः । (१४।१)

sa pitṝṃs tarpayāmāsa devāṃś ca paramadyutiḥ |

14.2१४.२

ऋषींश् च तोषयामास विधिदृष्टेन कर्मणा ॥ (१४।२)

ṛṣīṃś ca toṣayāmāsa vidhidṛṣṭena karmaṇā ||

15.1१५.१

कस्यचित् त्वथ कालस्य जपन्न् एव महातपाः । (१५।१)

kasyacit tvatha kālasya japann eva mahātapāḥ |

15.2१५.२

ददर्शाद्भुतसंकाशं पुलस्त्यम् ऋषिसत्तमम् ॥ (१५।२)

dadarśādbhutasaṃkāśaṃ pulastyam ṛṣisattamam ||

16.1१६.१

स तं दृष्ट्वोग्रतपसं दीप्यमानम् इव श्रिया । (१६।१)

sa taṃ dṛṣṭvogratapasaṃ dīpyamānam iva śriyā |

16.2१६.२

प्रहर्षम् अतुलं लेभे विस्मयं च परं ययौ ॥ (१६।२)

praharṣam atulaṃ lebhe vismayaṃ ca paraṃ yayau ||

17.1१७.१

उपस्थितं महाराज पूजयामास भारत । (१७।१)

upasthitaṃ mahārāja pūjayāmāsa bhārata |

17.2१७.२

भीष्मो धर्मभृतां श्रेष्ठो विधिदृष्टेन कर्मणा ॥ (१७।२)

bhīṣmo dharmabhṛtāṃ śreṣṭho vidhidṛṣṭena karmaṇā ||

18.1१८.१

शिरसा चार्घ्यम् आदाय शुचिः प्रयतमानसः । (१८।१)

śirasā cārghyam ādāya śuciḥ prayatamānasaḥ |

18.2१८.२

नाम संकीर्तयामास तस्मिन् ब्रह्मर्षिसत्तमे ॥ (१८।२)

nāma saṃkīrtayāmāsa tasmin brahmarṣisattame ||

19.1१९.१

भीष्मो ऽहम् अस्मि भद्रं ते दासो ऽस्मि तव सुव्रत । (१९।१)

bhīṣmo 'ham asmi bhadraṃ te dāso 'smi tava suvrata |

19.2१९.२

तव संदर्शनाद् एव मुक्तो ऽहं सर्वकिल्बिषैः ॥ (१९।२)

tava saṃdarśanād eva mukto 'haṃ sarvakilbiṣaiḥ ||

20.1२०.१

एवम् उक्त्वा महाराज भीष्मो धर्मभृतां वरः । (२०।१)

evam uktvā mahārāja bhīṣmo dharmabhṛtāṃ varaḥ |

20.2२०.२

वाग्यतः प्राञ्जलिर् भूत्वा तूष्णीम् आसीद् युधिष्ठिर ॥ (२०।२)

vāgyataḥ prāñjalir bhūtvā tūṣṇīm āsīd yudhiṣṭhira ||

21.1२१.१

तं दृष्ट्वा नियमेनाथ स्वाध्यायाम्नायकर्शितम् । (२१।१)

taṃ dṛṣṭvā niyamenātha svādhyāyāmnāyakarśitam |

21.2२१.२

भीष्मं कुरुकुलश्रेष्ठं मुनिः प्रीतमनाभवत् ॥ (२१।२)

bhīṣmaṃ kurukulaśreṣṭhaṃ muniḥ prītamanābhavat ||

22.1२२.१

पुलस्त्य उवाच । (२२।१)

pulastya uvāca

22.2२२.२

अनेन तव धर्मज्ञ प्रश्रयेण दमेन च । (२२।२)

anena tava dharmajña praśrayeṇa damena ca |

22.3२२.३

सत्येन च महाभाग तुष्टो ऽस्मि तव सर्वशः ॥ (२२।३)

satyena ca mahābhāga tuṣṭo 'smi tava sarvaśaḥ ||

23.1२३.१

यस्येदृशस् ते धर्मो ऽयं पितृभक्त्याश्रितो ऽनघ । (२३।१)

yasyedṛśas te dharmo 'yaṃ pitṛbhaktyāśrito 'nagha |

23.2२३.२

तेन पश्यसि मां पुत्र प्रीतिश् चापि मम त्वयि ॥ (२३।२)

tena paśyasi māṃ putra prītiś cāpi mama tvayi ||

24.1२४.१

अमोघदर्शी भीष्माहं ब्रूहि किं करवाणि ते । (२४।१)

amoghadarśī bhīṣmāhaṃ brūhi kiṃ karavāṇi te |

24.2२४.२

यद् वक्ष्यसि कुरुश्रेष्ठ तस्य दातास्मि ते ऽनघ ॥ (२४।२)

yad vakṣyasi kuruśreṣṭha tasya dātāsmi te 'nagha ||

25.1२५.१

भीष्म उवाच । (२५।१)

bhīṣma uvāca

25.2२५.२

प्रीते त्वयि महाभाग सर्वलोकाभिपूजिते । (२५।२)

prīte tvayi mahābhāga sarvalokābhipūjite |

25.3२५.३

कृतम् इत्येव मन्ये ऽहं यद् अहं दृष्टवान् प्रभुम् ॥ (२५।३)

kṛtam ityeva manye 'haṃ yad ahaṃ dṛṣṭavān prabhum ||

26.1२६.१

यदि त्वहम् अनुग्राह्यस् तव धर्मभृतां वर । (२६।१)

yadi tvaham anugrāhyas tava dharmabhṛtāṃ vara |

26.2२६.२

वक्ष्यामि हृत्स्थं संदेहं तन् मे त्वं वक्तुम् अर्हसि ॥ (२६।२)

vakṣyāmi hṛtsthaṃ saṃdehaṃ tan me tvaṃ vaktum arhasi ||

27.1२७.१

अस्ति मे भगवन् कश्चित् तीर्थेभ्यो धर्मसंशयः । (२७।१)

asti me bhagavan kaścit tīrthebhyo dharmasaṃśayaḥ |

27.2२७.२

तम् अहं श्रोतुम् इच्छामि पृथक् संकीर्तितं त्वया ॥ (२७।२)

tam ahaṃ śrotum icchāmi pṛthak saṃkīrtitaṃ tvayā ||

28.1२८.१

प्रदक्षिणं यः पृथिवीं करोत्यमितविक्रम । (२८।१)

pradakṣiṇaṃ yaḥ pṛthivīṃ karotyamitavikrama |

28.2२८.२

किं फलं तस्य विप्रर्षे तन् मे ब्रूहि तपोधन ॥ (२८।२)

kiṃ phalaṃ tasya viprarṣe tan me brūhi tapodhana ||

29.1२९.१

पुलस्त्य उवाच । (२९।१)

pulastya uvāca

29.2२९.२

हन्त ते ऽहं प्रवक्ष्यामि यद् ऋषीणां परायणम् । (२९।२)

hanta te 'haṃ pravakṣyāmi yad ṛṣīṇāṃ parāyaṇam |

29.3२९.३

तद् एकाग्रमनास् तात शृणु तीर्थेषु यत् फलम् ॥ (२९।३)

tad ekāgramanās tāta śṛṇu tīrtheṣu yat phalam ||

30.1३०.१

यस्य हस्तौ च पादौ च मनश् चैव सुसंयतम् । (३०।१)

yasya hastau ca pādau ca manaś caiva susaṃyatam |

30.2३०.२

विद्या तपश् च कीर्तिश् च स तीर्थफलम् अश्नुते ॥ (३०।२)

vidyā tapaś ca kīrtiś ca sa tīrthaphalam aśnute ||

31.1३१.१

प्रतिग्रहाद् उपावृत्तः संतुष्टो नियतः शुचिः । (३१।१)

pratigrahād upāvṛttaḥ saṃtuṣṭo niyataḥ śuciḥ |

31.2३१.२

अहंकारनिवृत्तश् च स तीर्थफलम् अश्नुते ॥ (३१।२)

ahaṃkāranivṛttaś ca sa tīrthaphalam aśnute ||

32.1३२.१

अकल्कको निरारम्भो लघ्वाहारो जितेन्द्रियः । (३२।१)

akalkako nirārambho laghvāhāro jitendriyaḥ |

32.2३२.२

विमुक्तः सर्वदोषैर् यः स तीर्थफलम् अश्नुते ॥ (३२।२)

vimuktaḥ sarvadoṣair yaḥ sa tīrthaphalam aśnute ||

33.1३३.१

अक्रोधनश् च राजेन्द्र सत्यशीलो दृढव्रतः । (३३।१)

akrodhanaś ca rājendra satyaśīlo dṛḍhavrataḥ |

33.2३३.२

आत्मोपमश् च भूतेषु स तीर्थफलम् अश्नुते ॥ (३३।२)

ātmopamaś ca bhūteṣu sa tīrthaphalam aśnute ||

34.1३४.१

ऋषिभिः क्रतवः प्रोक्ता वेदेष्विह यथाक्रमम् । (३४।१)

ṛṣibhiḥ kratavaḥ proktā vedeṣviha yathākramam |

34.2३४.२

फलं चैव यथातत्त्वं प्रेत्य चेह च सर्वशः ॥ (३४।२)

phalaṃ caiva yathātattvaṃ pretya ceha ca sarvaśaḥ ||

35.1३५.१

न ते शक्या दरिद्रेण यज्ञाः प्राप्तुं महीपते । (३५।१)

na te śakyā daridreṇa yajñāḥ prāptuṃ mahīpate |

35.2३५.२

बहूपकरणा यज्ञा नानासम्भारविस्तराः ॥ (३५।२)

bahūpakaraṇā yajñā nānāsambhāravistarāḥ ||

36.1३६.१

प्राप्यन्ते पार्थिवैर् एते समृद्धैर् वा नरैः क्वचित् । (३६।१)

prāpyante pārthivair ete samṛddhair vā naraiḥ kvacit |

36.2३६.२

नार्थन्यूनोपकरणैर् एकात्मभिर् असंहतैः ॥ (३६।२)

nārthanyūnopakaraṇair ekātmabhir asaṃhataiḥ ||

37.1३७.१

यो दरिद्रैर् अपि विधिः शक्यः प्राप्तुं नरेश्वर । (३७।१)

yo daridrair api vidhiḥ śakyaḥ prāptuṃ nareśvara |

37.2३७.२

तुल्यो यज्ञफलैः पुण्यैस् तं निबोध युधां वर ॥ (३७।२)

tulyo yajñaphalaiḥ puṇyais taṃ nibodha yudhāṃ vara ||

38.1३८.१

ऋषीणां परमं गुह्यम् इदं भरतसत्तम । (३८।१)

ṛṣīṇāṃ paramaṃ guhyam idaṃ bharatasattama |

38.2३८.२

तीर्थाभिगमनं पुण्यं यज्ञैर् अपि विशिष्यते ॥ (३८।२)

tīrthābhigamanaṃ puṇyaṃ yajñair api viśiṣyate ||

39.1३९.१

अनुपोष्य त्रिरात्राणि तीर्थान्यनभिगम्य च । (३९।१)

anupoṣya trirātrāṇi tīrthānyanabhigamya ca |

39.2३९.२

अदत्त्वा काञ्चनं गाश् च दरिद्रो नाम जायते ॥ (३९।२)

adattvā kāñcanaṃ gāś ca daridro nāma jāyate ||

40.1४०.१

अग्निष्टोमादिभिर् यज्ञैर् इष्ट्वा विपुलदक्षिणैः । (४०।१)

agniṣṭomādibhir yajñair iṣṭvā vipuladakṣiṇaiḥ |

40.2४०.२

न तत्फलम् अवाप्नोति तीर्थाभिगमनेन यत् ॥ (४०।२)

na tatphalam avāpnoti tīrthābhigamanena yat ||

41.1४१.१

नृलोके देवदेवस्य तीर्थं त्रैलोक्यविश्रुतम् । (४१।१)

nṛloke devadevasya tīrthaṃ trailokyaviśrutam |

41.2४१.२

पुष्करं नाम विख्यातं महाभागः समाविशेत् ॥ (४१।२)

puṣkaraṃ nāma vikhyātaṃ mahābhāgaḥ samāviśet ||

42.1४२.१

दश कोटिसहस्राणि तीर्थानां वै महीपते । (४२।१)

daśa koṭisahasrāṇi tīrthānāṃ vai mahīpate |

42.2४२.२

सांनिध्यं पुष्करे येषां त्रिसंध्यं कुरुनन्दन ॥ (४२।२)

sāṃnidhyaṃ puṣkare yeṣāṃ trisaṃdhyaṃ kurunandana ||

43.1४३.१

आदित्या वसवो रुद्राः साध्याश्च समरुद्गणाः । (४३।१)

ādityā vasavo rudrāḥ sādhyāśca samarudgaṇāḥ |

43.2४३.२

गन्धर्वाप्सरसश् चैव नित्यं संनिहिता विभो ॥ (४३।२)

gandharvāpsarasaś caiva nityaṃ saṃnihitā vibho ||

44.1४४.१

यत्र देवास् तपस् तप्त्वा दैत्या ब्रह्मर्षयस् तथा । (४४।१)

yatra devās tapas taptvā daityā brahmarṣayas tathā |

44.2४४.२

दिव्ययोगा महाराज पुण्येन महतान्विताः ॥ (४४।२)

divyayogā mahārāja puṇyena mahatānvitāḥ ||

45.1४५.१

मनसाप्यभिकामस्य पुष्कराणि मनस्विनः । (४५।१)

manasāpyabhikāmasya puṣkarāṇi manasvinaḥ |

45.2४५.२

पूयन्ते सर्वपापानि नाकपृष्ठे च पूज्यते ॥ (४५।२)

pūyante sarvapāpāni nākapṛṣṭhe ca pūjyate ||

46.1४६.१

तस्मिंस्तीर्थे महाभाग नित्यम् एव पितामहः । (४६।१)

tasmiṃstīrthe mahābhāga nityam eva pitāmahaḥ |

46.2४६.२

उवास परमप्रीतो देवदानवसंमतः ॥ (४६।२)

uvāsa paramaprīto devadānavasaṃmataḥ ||

47.1४७.१

पुष्करेषु महाभाग देवाः सर्षिपुरोगमाः । (४७।१)

puṣkareṣu mahābhāga devāḥ sarṣipurogamāḥ |

47.2४७.२

सिद्धिं समभिसंप्राप्ताः पुण्येन महतान्विताः ॥ (४७।२)

siddhiṃ samabhisaṃprāptāḥ puṇyena mahatānvitāḥ ||

48.1४८.१

तत्राभिषेकं यः कुर्यात् पितृदेवार्चने रतः । (४८।१)

tatrābhiṣekaṃ yaḥ kuryāt pitṛdevārcane rataḥ |

48.2४८.२

अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः ॥ (४८।२)

aśvamedhaṃ daśaguṇaṃ pravadanti manīṣiṇaḥ ||

49.1४९.१

अप्येकं भोजयेद् विप्रं पुष्करारण्यम् आश्रितः । (४९।१)

apyekaṃ bhojayed vipraṃ puṣkarāraṇyam āśritaḥ |

49.2४९.२

तेनासौ कर्मणा भीष्म प्रेत्य चेह च मोदते ॥ (४९।२)

tenāsau karmaṇā bhīṣma pretya ceha ca modate ||

50.1५०.१

शाकमूलफलैर् वापि येन वर्तयते स्वयम् । (५०।१)

śākamūlaphalair vāpi yena vartayate svayam |

50.2५०.२

तद् वै दद्याद् ब्राह्मणाय श्रद्धावान् अनसूयकः । (५०।२)

tad vai dadyād brāhmaṇāya śraddhāvān anasūyakaḥ |

50.3५०.३

तेनैव प्राप्नुयात् प्राज्ञो हयमेधफलं नरः ॥ (५०।३)

tenaiva prāpnuyāt prājño hayamedhaphalaṃ naraḥ ||

51.1५१.१

ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा राजसत्तम । (५१।१)

brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro vā rājasattama |

51.2५१.२

न वियोनिं व्रजन्त्येते स्नातास् तीर्थे महात्मनः ॥ (५१।२)

na viyoniṃ vrajantyete snātās tīrthe mahātmanaḥ ||

52.1५२.१

कार्त्तिक्यां तु विशेषेण यो ऽभिगच्छेत पुष्करम् । (५२।१)

kārttikyāṃ tu viśeṣeṇa yo 'bhigaccheta puṣkaram |

52.2५२.२

फलं तत्राक्षयं तस्य वर्धते भरतर्षभ ॥ (५२।२)

phalaṃ tatrākṣayaṃ tasya vardhate bharatarṣabha ||

53.1५३.१

सायं प्रातः स्मरेद् यस् तु पुष्कराणि कृताञ्जलिः । (५३।१)

sāyaṃ prātaḥ smared yas tu puṣkarāṇi kṛtāñjaliḥ |

53.2५३.२

उपस्पृष्टं भवेत् तेन सर्वतीर्थेषु भारत । (५३।२)

upaspṛṣṭaṃ bhavet tena sarvatīrtheṣu bhārata |

53.3५३.३

प्राप्नुयाच्च नरो लोकान् ब्रह्मणः सदने ऽक्षयान् ॥ (५३।३)

prāpnuyācca naro lokān brahmaṇaḥ sadane 'kṣayān ||

54.1५४.१

जन्मप्रभृति यत् पापं स्त्रियो वा पुरुषस्य वा । (५४।१)

janmaprabhṛti yat pāpaṃ striyo vā puruṣasya vā |

54.2५४.२

पुष्करे स्नातमात्रस्य सर्वम् एव प्रणश्यति ॥ (५४।२)

puṣkare snātamātrasya sarvam eva praṇaśyati ||

55.1५५.१

यथा सुराणां सर्वेषाम् आदिस् तु मधुसूदनः । (५५।१)

yathā surāṇāṃ sarveṣām ādis tu madhusūdanaḥ |

55.2५५.२

तथैव पुष्करं राजंस् तीर्थानाम् आदिर् उच्यते ॥ (५५।२)

tathaiva puṣkaraṃ rājaṃs tīrthānām ādir ucyate ||

56.1५६.१

उष्य द्वादश वर्षाणि पुष्करे नियतः शुचिः । (५६।१)

uṣya dvādaśa varṣāṇi puṣkare niyataḥ śuciḥ |

56.2५६.२

क्रतून् सर्वान् अवाप्नोति ब्रह्मलोकं च गच्छति ॥ (५६।२)

kratūn sarvān avāpnoti brahmalokaṃ ca gacchati ||

57.1५७.१

यस् तु वर्षशतं पूर्णम् अग्निहोत्रम् उपासते । (५७।१)

yas tu varṣaśataṃ pūrṇam agnihotram upāsate |

57.2५७.२

कार्त्तिकीं वा वसेद् एकां पुष्करे समम् एव तत् ॥ (५७।२)

kārttikīṃ vā vased ekāṃ puṣkare samam eva tat ||

58.1५८.१

दुष्करं पुष्करं गन्तुं दुष्करं पुष्करे तपः । (५८।१)

duṣkaraṃ puṣkaraṃ gantuṃ duṣkaraṃ puṣkare tapaḥ |

58.2५८.२

दुष्करं पुष्करे दानं वस्तुं चैव सुदुष्करम् ॥ (५८।२)

duṣkaraṃ puṣkare dānaṃ vastuṃ caiva suduṣkaram ||

59.1५९.१

उष्य द्वादशरात्रं तु नियतो नियताशनः । (५९।१)

uṣya dvādaśarātraṃ tu niyato niyatāśanaḥ |

59.2५९.२

प्रदक्षिणम् उपावृत्तो जम्बूमार्गं समाविशेत् ॥ (५९।२)

pradakṣiṇam upāvṛtto jambūmārgaṃ samāviśet ||

60.1६०.१

जम्बूमार्गं समाविश्य देवर्षिपितृसेवितम् । (६०।१)

jambūmārgaṃ samāviśya devarṣipitṛsevitam |

60.2६०.२

अश्वमेधम् अवाप्नोति विष्णुलोकं च गच्छति ॥ (६०।२)

aśvamedham avāpnoti viṣṇulokaṃ ca gacchati ||

61.1६१.१

तत्रोष्य रजनीः पञ्च षष्ठकालक्षमी नरः । (६१।१)

tatroṣya rajanīḥ pañca ṣaṣṭhakālakṣamī naraḥ |

61.2६१.२

न दुर्गतिम् अवाप्नोति सिद्धिं प्राप्नोति चोत्तमाम् ॥ (६१।२)

na durgatim avāpnoti siddhiṃ prāpnoti cottamām ||

62.1६२.१

जम्बूमार्गाद् उपावृत्तो गच्छेत् तण्डुलिकाश्रमम् । (६२।१)

jambūmārgād upāvṛtto gacchet taṇḍulikāśramam |

62.2६२.२

न दुर्गतिम् अवाप्नोति स्वर्गलोके च पूज्यते ॥ (६२।२)

na durgatim avāpnoti svargaloke ca pūjyate ||

63.1६३.१

अगस्त्यसर आसाद्य पितृदेवार्चने रतः । (६३।१)

agastyasara āsādya pitṛdevārcane rataḥ |

63.2६३.२

त्रिरात्रोपोषितो राजन्न् अग्निष्टोमफलं लभेत् ॥ (६३।२)

trirātropoṣito rājann agniṣṭomaphalaṃ labhet ||

64.1६४.१

शाकवृत्तिः फलैर् वापि कौमारं विन्दते पदम् । (६४।१)

śākavṛttiḥ phalair vāpi kaumāraṃ vindate padam |

64.2६४.२

कण्वाश्रमं समासाद्य श्रीजुष्टं लोकपूजितम् ॥ (६४।२)

kaṇvāśramaṃ samāsādya śrījuṣṭaṃ lokapūjitam ||

65.1६५.१

धर्मारण्यं हि तत् पुण्यम् आद्यं च भरतर्षभ । (६५।१)

dharmāraṇyaṃ hi tat puṇyam ādyaṃ ca bharatarṣabha |

65.2६५.२

यत्र प्रविष्टमात्रो वै पापेभ्यो विप्रमुच्यते ॥ (६५।२)

yatra praviṣṭamātro vai pāpebhyo vipramucyate ||

66.1६६.१

अर्चयित्वा पितॄन् देवान् नियतो नियताशनः । (६६।१)

arcayitvā pitṝn devān niyato niyatāśanaḥ |

66.2६६.२

सर्वकामसमृद्धस्य यज्ञस्य फलम् अश्नुते ॥ (६६।२)

sarvakāmasamṛddhasya yajñasya phalam aśnute ||

67.1६७.१

प्रदक्षिणं ततः कृत्वा ययातिपतनं व्रजेत् । (६७।१)

pradakṣiṇaṃ tataḥ kṛtvā yayātipatanaṃ vrajet |

67.2६७.२

हयमेधस्य यज्ञस्य फलं प्राप्नोति तत्र वै ॥ (६७।२)

hayamedhasya yajñasya phalaṃ prāpnoti tatra vai ||

68.1६८.१

महाकालं ततो गच्छेन् नियतो नियताशनः । (६८।१)

mahākālaṃ tato gacchen niyato niyatāśanaḥ |

68.2६८.२

कोटितीर्थम् उपस्पृश्य हयमेधफलं लभेत् ॥ (६८।२)

koṭitīrtham upaspṛśya hayamedhaphalaṃ labhet ||

69.1६९.१

ततो गच्छेत धर्मज्ञ पुण्यस्थानम् उमापतेः । (६९।१)

tato gaccheta dharmajña puṇyasthānam umāpateḥ |

69.2६९.२

नाम्ना भद्रवटं नाम त्रिषु लोकेषु विश्रुतम् ॥ (६९।२)

nāmnā bhadravaṭaṃ nāma triṣu lokeṣu viśrutam ||

70.1७०.१

तत्राभिगम्य चेशानं गोसहस्रफलं लभेत् । (७०।१)

tatrābhigamya ceśānaṃ gosahasraphalaṃ labhet |

70.2७०.२

महादेवप्रसादाच्च गाणपत्यम् अवाप्नुयात् ॥ (७०।२)

mahādevaprasādācca gāṇapatyam avāpnuyāt ||

71.1७१.१

नर्मदाम् अथ चासाद्य नदीं त्रैलोक्यविश्रुताम् । (७१।१)

narmadām atha cāsādya nadīṃ trailokyaviśrutām |

71.2७१.२

तर्पयित्वा पितॄन् देवान् अग्निष्टोमफलं लभेत् ॥ (७१।२)

tarpayitvā pitṝn devān agniṣṭomaphalaṃ labhet ||

72.1७२.१

दक्षिणं सिन्धुम् आसाद्य ब्रह्मचारी जितेन्द्रियः । (७२।१)

dakṣiṇaṃ sindhum āsādya brahmacārī jitendriyaḥ |

72.2७२.२

अग्निष्टोमम् अवाप्नोति विमानं चाधिरोहति ॥ (७२।२)

agniṣṭomam avāpnoti vimānaṃ cādhirohati ||

73.1७३.१

चर्मण्वतीं समासाद्य नियतो नियताशनः । (७३।१)

carmaṇvatīṃ samāsādya niyato niyatāśanaḥ |

73.2७३.२

रन्तिदेवाभ्यनुज्ञातो ऽग्निष्टोमफलं लभेत् ॥ (७३।२)

rantidevābhyanujñāto 'gniṣṭomaphalaṃ labhet ||

74.1७४.१

ततो गच्छेत धर्मज्ञ हिमवत्सुतम् अर्बुदम् । (७४।१)

tato gaccheta dharmajña himavatsutam arbudam |

74.2७४.२

पृथिव्यां यत्र वै छिद्रं पूर्वम् आसीद् युधिष्ठिर ॥ (७४।२)

pṛthivyāṃ yatra vai chidraṃ pūrvam āsīd yudhiṣṭhira ||

75.1७५.१

तत्राश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतः । (७५।१)

tatrāśramo vasiṣṭhasya triṣu lokeṣu viśrutaḥ |

75.2७५.२

तत्रोष्य रजनीम् एकां गोसहस्रफलं लभेत् ॥ (७५।२)

tatroṣya rajanīm ekāṃ gosahasraphalaṃ labhet ||

76.1७६.१

पिङ्गातीर्थम् उपस्पृश्य ब्रह्मचारी जितेन्द्रियः । (७६।१)

piṅgātīrtham upaspṛśya brahmacārī jitendriyaḥ |

76.2७६.२

कपिलानां नरव्याघ्र शतस्य फलम् अश्नुते ॥ (७६।२)

kapilānāṃ naravyāghra śatasya phalam aśnute ||

77.1७७.१

ततो गच्छेत धर्मज्ञ प्रभासं लोकविश्रुतम् । (७७।१)

tato gaccheta dharmajña prabhāsaṃ lokaviśrutam |

77.2७७.२

यत्र संनिहितो नित्यं स्वयम् एव हुताशनः । (७७।२)

yatra saṃnihito nityaṃ svayam eva hutāśanaḥ |

77.3७७.३

देवतानां मुखं वीर अनलो ऽनिलसारथिः ॥ (७७।३)

devatānāṃ mukhaṃ vīra analo 'nilasārathiḥ ||

78.1७८.१

तस्मिंस् तीर्थवरे स्नात्वा शुचिः प्रयतमानसः । (७८।१)

tasmiṃs tīrthavare snātvā śuciḥ prayatamānasaḥ |

78.2७८.२

अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति मानवः ॥ (७८।२)

agniṣṭomātirātrābhyāṃ phalaṃ prāpnoti mānavaḥ ||

79.1७९.१

ततो गत्वा सरस्वत्याः सागरस्य च संगमे । (७९।१)

tato gatvā sarasvatyāḥ sāgarasya ca saṃgame |

79.2७९.२

गोसहस्रफलं प्राप्य स्वर्गलोके महीयते । (७९।२)

gosahasraphalaṃ prāpya svargaloke mahīyate |

79.3७९.३

दीप्यमानो ऽग्निवन् नित्यं प्रभया भरतर्षभ ॥ (७९।३)

dīpyamāno 'gnivan nityaṃ prabhayā bharatarṣabha ||

80.1८०.१

त्रिरात्रम् उषितस् तत्र तर्पयेत् पितृदेवताः । (८०।१)

trirātram uṣitas tatra tarpayet pitṛdevatāḥ |

80.2८०.२

प्रभासते यथा सोमो ऽश्वमेधं च विन्दति ॥ (८०।२)

prabhāsate yathā somo 'śvamedhaṃ ca vindati ||

81.1८१.१

वरदानं ततो गच्छेत् तीर्थं भरतसत्तम । (८१।१)

varadānaṃ tato gacchet tīrthaṃ bharatasattama |

81.2८१.२

विष्णोर् दुर्वाससा यत्र वरो दत्तो युधिष्ठिर ॥ (८१।२)

viṣṇor durvāsasā yatra varo datto yudhiṣṭhira ||

82.1८२.१

वरदाने नरः स्नात्वा गोसहस्रफलं लभेत् । (८२।१)

varadāne naraḥ snātvā gosahasraphalaṃ labhet |

82.2८२.२

ततो द्वारवतीं गच्छेन् नियतो नियताशनः । (८२।२)

tato dvāravatīṃ gacchen niyato niyatāśanaḥ |

82.3८२.३

पिण्डारके नरः स्नात्वा लभेद् बहु सुवर्णकम् ॥ (८२।३)

piṇḍārake naraḥ snātvā labhed bahu suvarṇakam ||

83.1८३.१

तस्मिंस् तीर्थे महाभाग पद्मलक्षणलक्षिताः । (८३।१)

tasmiṃs tīrthe mahābhāga padmalakṣaṇalakṣitāḥ |

83.2८३.२

अद्यापि मुद्रा दृश्यन्ते तद् अद्भुतम् अरिंदम ॥ (८३।२)

adyāpi mudrā dṛśyante tad adbhutam ariṃdama ||

84.1८४.१

त्रिशूलाङ्कानि पद्मानि दृश्यन्ते कुरुनन्दन । (८४।१)

triśūlāṅkāni padmāni dṛśyante kurunandana |

84.2८४.२

महादेवस्य सांनिध्यं तत्रैव भरतर्षभ ॥ (८४।२)

mahādevasya sāṃnidhyaṃ tatraiva bharatarṣabha ||

85.1८५.१

सागरस्य च सिन्धोश् च संगमं प्राप्य भारत । (८५।१)

sāgarasya ca sindhoś ca saṃgamaṃ prāpya bhārata |

85.2८५.२

तीर्थे सलिलराजस्य स्नात्वा प्रयतमानसः ॥ (८५।२)

tīrthe salilarājasya snātvā prayatamānasaḥ ||

86.1८६.१

तर्पयित्वा पितॄन् देवान् ऋषींश् च भरतर्षभ । (८६।१)

tarpayitvā pitṝn devān ṛṣīṃś ca bharatarṣabha |

86.2८६.२

प्राप्नोति वारुणं लोकं दीप्यमानः स्वतेजसा ॥ (८६।२)

prāpnoti vāruṇaṃ lokaṃ dīpyamānaḥ svatejasā ||

87.1८७.१

शङ्कुकर्णेश्वरं देवम् अर्चयित्वा युधिष्ठिर । (८७।१)

śaṅkukarṇeśvaraṃ devam arcayitvā yudhiṣṭhira |

87.2८७.२

अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः ॥ (८७।२)

aśvamedhaṃ daśaguṇaṃ pravadanti manīṣiṇaḥ ||

88.1८८.१

प्रदक्षिणम् उपावृत्य गच्छेत भरतर्षभ । (८८।१)

pradakṣiṇam upāvṛtya gaccheta bharatarṣabha |

88.2८८.२

तीर्थं कुरुवरश्रेष्ठ त्रिषु लोकेषु विश्रुतम् । (८८।२)

tīrthaṃ kuruvaraśreṣṭha triṣu lokeṣu viśrutam |

88.3८८.३

दृमीति नाम्ना विख्यातं सर्वपापप्रमोचनम् ॥ (८८।३)

dṛmīti nāmnā vikhyātaṃ sarvapāpapramocanam ||

89.1८९.१

यत्र ब्रह्मादयो देवा उपासन्ते महेश्वरम् । (८९।१)

yatra brahmādayo devā upāsante maheśvaram |

89.2८९.२

तत्र स्नात्वार्चयित्वा च रुद्रं देवगणैर् वृतम् । (८९।२)

tatra snātvārcayitvā ca rudraṃ devagaṇair vṛtam |

89.3८९.३

जन्मप्रभृति पापानि कृतानि नुदते नरः ॥ (८९।३)

janmaprabhṛti pāpāni kṛtāni nudate naraḥ ||

90.1९०.१

दृमी चात्र नरश्रेष्ठ सर्वदेवैर् अभिष्टुता । (९०।१)

dṛmī cātra naraśreṣṭha sarvadevair abhiṣṭutā |

90.2९०.२

तत्र स्नात्वा नरव्याघ्र हयमेधम् अवाप्नुयात् ॥ (९०।२)

tatra snātvā naravyāghra hayamedham avāpnuyāt ||

91.1९१.१

जित्वा यत्र महाप्राज्ञ विष्णुना प्रभविष्णुना । (९१।१)

jitvā yatra mahāprājña viṣṇunā prabhaviṣṇunā |

91.2९१.२

पुरा शौचं कृतं राजन् हत्वा दैवतकण्टकान् ॥ (९१।२)

purā śaucaṃ kṛtaṃ rājan hatvā daivatakaṇṭakān ||

92.1९२.१

ततो गच्छेत धर्मज्ञ वसोर् धाराम् अभिष्टुताम् । (९२।१)

tato gaccheta dharmajña vasor dhārām abhiṣṭutām |

92.2९२.२

गमनाद् एव तस्यां हि हयमेधम् अवाप्नुयात् ॥ (९२।२)

gamanād eva tasyāṃ hi hayamedham avāpnuyāt ||

93.1९३.१

स्नात्वा कुरुवरश्रेष्ठ प्रयतात्मा तु मानवः । (९३।१)

snātvā kuruvaraśreṣṭha prayatātmā tu mānavaḥ |

93.2९३.२

तर्प्य देवान् पितॄंश्चैव विष्णुलोके महीयते ॥ (९३।२)

tarpya devān pitṝṃścaiva viṣṇuloke mahīyate ||

94.1९४.१

तीर्थं चात्र परं पुण्यं वसूनां भरतर्षभ । (९४।१)

tīrthaṃ cātra paraṃ puṇyaṃ vasūnāṃ bharatarṣabha |

94.2९४.२

तत्र स्नात्वा च पीत्वा च वसूनां संमतो भवेत् ॥ (९४।२)

tatra snātvā ca pītvā ca vasūnāṃ saṃmato bhavet ||

95.1९५.१

सिन्धूत्तमम् इति ख्यातं सर्वपापप्रणाशनम् । (९५।१)

sindhūttamam iti khyātaṃ sarvapāpapraṇāśanam |

95.2९५.२

तत्र स्नात्वा नरश्रेष्ठ लभेद् बहु सुवर्णकम् ॥ (९५।२)

tatra snātvā naraśreṣṭha labhed bahu suvarṇakam ||

96.1९६.१

ब्रह्मतुङ्गं समासाद्य शुचिः प्रयतमानसः । (९६।१)

brahmatuṅgaṃ samāsādya śuciḥ prayatamānasaḥ |

96.2९६.२

ब्रह्मलोकम् अवाप्नोति सुकृती विरजा नरः ॥ (९६।२)

brahmalokam avāpnoti sukṛtī virajā naraḥ ||

97.1९७.१

कुमारिकाणां शक्रस्य तीर्थं सिद्धनिषेवितम् । (९७।१)

kumārikāṇāṃ śakrasya tīrthaṃ siddhaniṣevitam |

97.2९७.२

तत्र स्नात्वा नरः क्षिप्रं शक्रलोकम् अवाप्नुयात् ॥ (९७।२)

tatra snātvā naraḥ kṣipraṃ śakralokam avāpnuyāt ||

98.1९८.१

रेणुकायाश् च तत्रैव तीर्थं देवनिषेवितम् । (९८।१)

reṇukāyāś ca tatraiva tīrthaṃ devaniṣevitam |

98.2९८.२

तत्र स्नात्वा भवेद् विप्रो विमलश् चन्द्रमा यथा ॥ (९८।२)

tatra snātvā bhaved vipro vimalaś candramā yathā ||

99.1९९.१

अथ पञ्चनदं गत्वा नियतो नियताशनः । (९९।१)

atha pañcanadaṃ gatvā niyato niyatāśanaḥ |

99.2९९.२

पञ्च यज्ञान् अवाप्नोति क्रमशो ये ऽनुकीर्तिताः ॥ (९९।२)

pañca yajñān avāpnoti kramaśo ye 'nukīrtitāḥ ||

100.1१००.१

ततो गच्छेत धर्मज्ञ भीमायाः स्थानम् उत्तमम् । (१००।१)

tato gaccheta dharmajña bhīmāyāḥ sthānam uttamam |

100.2१००.२

तत्र स्नात्वा तु योन्यां वै नरो भरतसत्तम ॥ (१००।२)

tatra snātvā tu yonyāṃ vai naro bharatasattama ||

101.1१०१.१

देव्याः पुत्रो भवेद् राजंस् तप्तकुण्डलविग्रहः । (१०१।१)

devyāḥ putro bhaved rājaṃs taptakuṇḍalavigrahaḥ |

101.2१०१.२

गवां शतसहस्रस्य फलं चैवाप्नुयान् महत् ॥ (१०१।२)

gavāṃ śatasahasrasya phalaṃ caivāpnuyān mahat ||

102.1१०२.१

गिरिमुञ्जं समासाद्य त्रिषु लोकेषु विश्रुतम् । (१०२।१)

girimuñjaṃ samāsādya triṣu lokeṣu viśrutam |

102.2१०२.२

पितामहं नमस्कृत्य गोसहस्रफलं लभेत् ॥ (१०२।२)

pitāmahaṃ namaskṛtya gosahasraphalaṃ labhet ||

103.1१०३.१

ततो गच्छेत धर्मज्ञ विमलं तीर्थम् उत्तमम् । (१०३।१)

tato gaccheta dharmajña vimalaṃ tīrtham uttamam |

103.2१०३.२

अद्यापि यत्र दृश्यन्ते मत्स्याः सौवर्णराजताः ॥ (१०३।२)

adyāpi yatra dṛśyante matsyāḥ sauvarṇarājatāḥ ||

104.1१०४.१

तत्र स्नात्वा नरश्रेष्ठ वाजपेयम् अवाप्नुयात् । (१०४।१)

tatra snātvā naraśreṣṭha vājapeyam avāpnuyāt |

104.2१०४.२

सर्वपापविशुद्धात्मा गच्छेच्च परमां गतिम् ॥ (१०४।२)

sarvapāpaviśuddhātmā gacchecca paramāṃ gatim ||

105.1१०५.१

ततो गच्छेत मलदां त्रिषु लोकेषु विश्रुताम् । (१०५।१)

tato gaccheta maladāṃ triṣu lokeṣu viśrutām |

105.2१०५.२

पश्चिमायां तु संध्यायाम् उपस्पृश्य यथाविधि ॥ (१०५।२)

paścimāyāṃ tu saṃdhyāyām upaspṛśya yathāvidhi ||

106.1१०६.१

चरुं नरेन्द्र सप्तार्चेर् यथाशक्ति निवेदयेत् । (१०६।१)

caruṃ narendra saptārcer yathāśakti nivedayet |

106.2१०६.२

पितॄणाम् अक्षयं दानं प्रवदन्ति मनीषिणः ॥ (१०६।२)

pitṝṇām akṣayaṃ dānaṃ pravadanti manīṣiṇaḥ ||

107.1१०७.१

गवां शतसहस्रेण राजसूयशतेन च । (१०७।१)

gavāṃ śatasahasreṇa rājasūyaśatena ca |

107.2१०७.२

अश्वमेधसहस्रेण श्रेयान् सप्तार्चिषश् चरुः ॥ (१०७।२)

aśvamedhasahasreṇa śreyān saptārciṣaś caruḥ ||

108.1१०८.१

ततो निवृत्तो राजेन्द्र वस्त्रापदम् अथाविशेत् । (१०८।१)

tato nivṛtto rājendra vastrāpadam athāviśet |

108.2१०८.२

अभिगम्य महादेवम् अश्वमेधफलं लभेत् ॥ (१०८।२)

abhigamya mahādevam aśvamedhaphalaṃ labhet ||

109.1१०९.१

मणिमन्तं समासाद्य ब्रह्मचारी समाहितः । (१०९।१)

maṇimantaṃ samāsādya brahmacārī samāhitaḥ |

109.2१०९.२

एकरात्रोषितो राजन्न् अग्निष्टोमफलं लभेत् ॥ (१०९।२)

ekarātroṣito rājann agniṣṭomaphalaṃ labhet ||

110.1११०.१

अथ गच्छेत राजेन्द्र देविकां लोकविश्रुताम् । (११०।१)

atha gaccheta rājendra devikāṃ lokaviśrutām |

110.2११०.२

प्रसूतिर् यत्र विप्राणां श्रूयते भरतर्षभ ॥ (११०।२)

prasūtir yatra viprāṇāṃ śrūyate bharatarṣabha ||

111.1१११.१

त्रिशूलपाणेः स्थानं च त्रिषु लोकेषु विश्रुतम् । (१११।१)

triśūlapāṇeḥ sthānaṃ ca triṣu lokeṣu viśrutam |

111.2१११.२

देविकायां नरः स्नात्वा समभ्यर्च्य महेश्वरम् ॥ (१११।२)

devikāyāṃ naraḥ snātvā samabhyarcya maheśvaram ||

112.1११२.१

यथाशक्ति चरुं तत्र निवेद्य भरतर्षभ । (११२।१)

yathāśakti caruṃ tatra nivedya bharatarṣabha |

112.2११२.२

सर्वकामसमृद्धस्य यज्ञस्य लभते फलम् ॥ (११२।२)

sarvakāmasamṛddhasya yajñasya labhate phalam ||

113.1११३.१

कामाख्यं तत्र रुद्रस्य तीर्थं देवर्षिसेवितम् । (११३।१)

kāmākhyaṃ tatra rudrasya tīrthaṃ devarṣisevitam |

113.2११३.२

तत्र स्नात्वा नरः क्षिप्रं सिद्धिम् आप्नोति भारत ॥ (११३।२)

tatra snātvā naraḥ kṣipraṃ siddhim āpnoti bhārata ||

114.1११४.१

यजनं याजनं गत्वा तथैव ब्रह्मवालुकाम् । (११४।१)

yajanaṃ yājanaṃ gatvā tathaiva brahmavālukām |

114.2११४.२

पुष्पन्यास उपस्पृश्य न शोचेन् मरणं ततः ॥ (११४।२)

puṣpanyāsa upaspṛśya na śocen maraṇaṃ tataḥ ||

115.1११५.१

अर्धयोजनविस्तारां पञ्चयोजनम् आयताम् । (११५।१)

ardhayojanavistārāṃ pañcayojanam āyatām |

115.2११५.२

एतावद् देविकाम् आहुः पुण्यां देवर्षिसेविताम् ॥ (११५।२)

etāvad devikām āhuḥ puṇyāṃ devarṣisevitām ||

116.1११६.१

ततो गच्छेत धर्मज्ञ दीर्घसत्त्रं यथाक्रमम् । (११६।१)

tato gaccheta dharmajña dīrghasattraṃ yathākramam |

116.2११६.२

यत्र ब्रह्मादयो देवाः सिद्धाश् च परमर्षयः । (११६।२)

yatra brahmādayo devāḥ siddhāś ca paramarṣayaḥ |

116.3११६.३

दीर्घसत्त्रम् उपासन्ते दक्षिणाभिर् यतव्रताः ॥ (११६।३)

dīrghasattram upāsante dakṣiṇābhir yatavratāḥ ||

117.1११७.१

गमनाद् एव राजेन्द्र दीर्घसत्त्रम् अरिंदम । (११७।१)

gamanād eva rājendra dīrghasattram ariṃdama |

117.2११७.२

राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः ॥ (११७।२)

rājasūyāśvamedhābhyāṃ phalaṃ prāpnoti mānavaḥ ||

118.1११८.१

ततो विनशनं गच्छेन्नियतो नियताशनः । (११८।१)

tato vinaśanaṃ gacchenniyato niyatāśanaḥ |

118.2११८.२

गच्छत्यन्तर्हिता यत्र मरुपृष्ठे सरस्वती । (११८।२)

gacchatyantarhitā yatra marupṛṣṭhe sarasvatī |

118.3११८.३

चमसे च शिवोद्भेदे नागोद्भेदे च दृश्यते ॥ (११८।३)

camase ca śivodbhede nāgodbhede ca dṛśyate ||

119.1११९.१

स्नात्वा च चमसोद्भेदे अग्निष्टोमफलं लभेत् । (११९।१)

snātvā ca camasodbhede agniṣṭomaphalaṃ labhet |

119.2११९.२

शिवोद्भेदे नरः स्नात्वा गोसहस्रफलं लभेत् ॥ (११९।२)

śivodbhede naraḥ snātvā gosahasraphalaṃ labhet ||

120.1१२०.१

नागोद्भेदे नरः स्नात्वा नागलोकम् अवाप्नुयात् । (१२०।१)

nāgodbhede naraḥ snātvā nāgalokam avāpnuyāt |

120.2१२०.२

शशयानं च राजेन्द्र तीर्थम् आसाद्य दुर्लभम् । (१२०।२)

śaśayānaṃ ca rājendra tīrtham āsādya durlabham |

120.3१२०.३

शशरूपप्रतिच्छन्नाः पुष्करा यत्र भारत ॥ (१२०।३)

śaśarūpapraticchannāḥ puṣkarā yatra bhārata ||

121.1१२१.१

सरस्वत्यां महाराज अनु संवत्सरं हि ते । (१२१।१)

sarasvatyāṃ mahārāja anu saṃvatsaraṃ hi te |

121.2१२१.२

स्नायन्ते भरतश्रेष्ठ वृत्तां वै कार्त्तिकीं सदा ॥ (१२१।२)

snāyante bharataśreṣṭha vṛttāṃ vai kārttikīṃ sadā ||

122.1१२२.१

तत्र स्नात्वा नरव्याघ्र द्योतते शशिवत् सदा । (१२२।१)

tatra snātvā naravyāghra dyotate śaśivat sadā |

122.2१२२.२

गोसहस्रफलं चैव प्राप्नुयाद् भरतर्षभ ॥ (१२२।२)

gosahasraphalaṃ caiva prāpnuyād bharatarṣabha ||

123.1१२३.१

कुमारकोटिम् आसाद्य नियतः कुरुनन्दन । (१२३।१)

kumārakoṭim āsādya niyataḥ kurunandana |

123.2१२३.२

तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः । (१२३।२)

tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ |

123.3१२३.३

गवामयम् अवाप्नोति कुलं चैव समुद्धरेत् ॥ (१२३।३)

gavāmayam avāpnoti kulaṃ caiva samuddharet ||

124.1१२४.१

ततो गच्छेत धर्मज्ञ रुद्रकोटिं समाहितः । (१२४।१)

tato gaccheta dharmajña rudrakoṭiṃ samāhitaḥ |

124.2१२४.२

पुरा यत्र महाराज ऋषिकोटिः समाहिता । (१२४।२)

purā yatra mahārāja ṛṣikoṭiḥ samāhitā |

124.3१२४.३

प्रहर्षेण च संविष्टा देवदर्शनकाङ्क्षया ॥ (१२४।३)

praharṣeṇa ca saṃviṣṭā devadarśanakāṅkṣayā ||

125.1१२५.१

अहं पूर्वम् अहं पूर्वं द्रक्ष्यामि वृषभध्वजम् । (१२५।१)

ahaṃ pūrvam ahaṃ pūrvaṃ drakṣyāmi vṛṣabhadhvajam |

125.2१२५.२

एवं सम्प्रस्थिता राजन्न् ऋषयः किल भारत ॥ (१२५।२)

evaṃ samprasthitā rājann ṛṣayaḥ kila bhārata ||

126.1१२६.१

ततो योगेश्वरेणापि योगम् आस्थाय भूपते । (१२६।१)

tato yogeśvareṇāpi yogam āsthāya bhūpate |

126.2१२६.२

तेषां मन्युप्रणाशार्थम् ऋषीणां भावितात्मनाम् ॥ (१२६।२)

teṣāṃ manyupraṇāśārtham ṛṣīṇāṃ bhāvitātmanām ||

127.1१२७.१

सृष्टा कोटिस् तु रुद्राणाम् ऋषीणाम् अग्रतः स्थिता । (१२७।१)

sṛṣṭā koṭis tu rudrāṇām ṛṣīṇām agrataḥ sthitā |

127.2१२७.२

मया पूर्वतरं दृष्ट इति ते मेनिरे पृथक् ॥ (१२७।२)

mayā pūrvataraṃ dṛṣṭa iti te menire pṛthak ||

128.1१२८.१

तेषां तुष्टो महादेव ऋषीणाम् उग्रतेजसाम् । (१२८।१)

teṣāṃ tuṣṭo mahādeva ṛṣīṇām ugratejasām |

128.2१२८.२

भक्त्या परमया राजन् वरं तेषां प्रदिष्टवान् । (१२८।२)

bhaktyā paramayā rājan varaṃ teṣāṃ pradiṣṭavān |

128.3१२८.३

अद्य प्रभृति युष्माकं धर्मवृद्धिर् भविष्यति ॥ (१२८।३)

adya prabhṛti yuṣmākaṃ dharmavṛddhir bhaviṣyati ||

129.1१२९.१

तत्र स्नात्वा नरव्याघ्र रुद्रकोट्यां नरः शुचिः । (१२९।१)

tatra snātvā naravyāghra rudrakoṭyāṃ naraḥ śuciḥ |

129.2१२९.२

अश्वमेधम् अवाप्नोति कुलं चैव समुद्धरेत् ॥ (१२९।२)

aśvamedham avāpnoti kulaṃ caiva samuddharet ||

130.1१३०.१

ततो गच्छेत राजेन्द्र संगमं लोकविश्रुतम् । (१३०।१)

tato gaccheta rājendra saṃgamaṃ lokaviśrutam |

130.2१३०.२

सरस्वत्या महापुण्यम् उपासन्ते जनार्दनम् ॥ (१३०।२)

sarasvatyā mahāpuṇyam upāsante janārdanam ||

131.1१३१.१

यत्र ब्रह्मादयो देवा ऋषयः सिद्धचारणाः । (१३१।१)

yatra brahmādayo devā ṛṣayaḥ siddhacāraṇāḥ |

131.2१३१.२

अभिगच्छन्ति राजेन्द्र चैत्रशुक्लचतुर्दशीम् ॥ (१३१।२)

abhigacchanti rājendra caitraśuklacaturdaśīm ||

132.1१३२.१

तत्र स्नात्वा नरव्याघ्र विन्देद् बहु सुवर्णकम् । (१३२।१)

tatra snātvā naravyāghra vinded bahu suvarṇakam |

132.2१३२.२

सर्वपापविशुद्धात्मा ब्रह्मलोकं च गच्छति ॥ (१३२।२)

sarvapāpaviśuddhātmā brahmalokaṃ ca gacchati ||

133.1१३३.१

ऋषीणां यत्र सत्त्राणि समाप्तानि नराधिप । (१३३।१)

ṛṣīṇāṃ yatra sattrāṇi samāptāni narādhipa |

133.2१३३.२

सत्त्रावसानम् आसाद्य गोसहस्रफलं लभेत् ॥ (१३३।२)

sattrāvasānam āsādya gosahasraphalaṃ labhet ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 3, 80

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit