MBh, 12, 211
Select a line for its word-by-word analysis.
जगाम मोक्षं धर्मज्ञो भोगान् उत्सृज्य मानुषान् ॥ (१।३)
jagāma mokṣaṃ dharmajño bhogān utsṛjya mānuṣān ||
येन वृत्तेन वृत्तज्ञः स जगाम महत् सुखम् ॥ (२।३)
yena vṛttena vṛttajñaḥ sa jagāma mahat sukham ||
और्ध्वदेहिकधर्माणाम् आसीद् युक्तो विचिन्तने ॥ (३।२)
aurdhvadehikadharmāṇām āsīd yukto vicintane ||
दर्शयन्तः पृथग् धर्मान् नानापाषण्डवादिनः ॥ (४।२)
darśayantaḥ pṛthag dharmān nānāpāṣaṇḍavādinaḥ ||
स तेषां प्रेत्यभावे च प्रेत्यजातौ विनिश्चये । (५।१)
sa teṣāṃ pretyabhāve ca pretyajātau viniścaye |
आगमस्थः स भूयिष्ठम् आत्मतत्त्वे न तुष्यति ॥ (५।२)
āgamasthaḥ sa bhūyiṣṭham ātmatattve na tuṣyati ||
परिधावन् महीं कृत्स्नां जगाम मिथिलाम् अपि ॥ (६।२)
paridhāvan mahīṃ kṛtsnāṃ jagāma mithilām api ||
सुपर्यवसितार्थश् च निर्द्वंद्वो नष्टसंशयः ॥ (७।२)
suparyavasitārthaś ca nirdvaṃdvo naṣṭasaṃśayaḥ ||
शाश्वतं सुखम् अत्यन्तम् अन्विच्छन् स सुदुर्लभम् ॥ (८।२)
śāśvataṃ sukham atyantam anvicchan sa sudurlabham ||
यम् आहुः कपिलं सांख्याः परमर्षिं प्रजापतिम् । (९।१)
yam āhuḥ kapilaṃ sāṃkhyāḥ paramarṣiṃ prajāpatim |
आसुरेः प्रथमं शिष्यं यम् आहुश् चिरजीविनम् । (१०।१)
āsureḥ prathamaṃ śiṣyaṃ yam āhuś cirajīvinam |
पञ्चस्रोतसि यः सत्रम् आस्ते वर्षसहस्रिकम् ॥ (१०।२)
pañcasrotasi yaḥ satram āste varṣasahasrikam ||
पुरुषावस्थम् अव्यक्तं परमार्थं निबोधयत् ॥ (११।२)
puruṣāvastham avyaktaṃ paramārthaṃ nibodhayat ||
इष्टिसत्रेण संसिद्धो भूयश् च तपसा मुनिः । (१२।१)
iṣṭisatreṇa saṃsiddho bhūyaś ca tapasā muniḥ |
क्षेत्रक्षेत्रज्ञयोर् व्यक्तिं बुबुधे देवदर्शनः ॥ (१२।२)
kṣetrakṣetrajñayor vyaktiṃ bubudhe devadarśanaḥ ||
यत् तद् एकाक्षरं ब्रह्म नानारूपं प्रदृश्यते । (१३।१)
yat tad ekākṣaraṃ brahma nānārūpaṃ pradṛśyate |
आसुरिर् मण्डले तस्मिन् प्रतिपेदे तद् अव्ययम् ॥ (१३।२)
āsurir maṇḍale tasmin pratipede tad avyayam ||
तस्य पञ्चशिखः शिष्यो मानुष्या पयसा भृतः । (१४।१)
tasya pañcaśikhaḥ śiṣyo mānuṣyā payasā bhṛtaḥ |
ब्राह्मणी कपिला नाम काचिद् आसीत् कुटुम्बिनी ॥ (१४।२)
brāhmaṇī kapilā nāma kācid āsīt kuṭumbinī ||
तस्याः पुत्रत्वम् आगम्य स्त्रियाः स पिबति स्तनौ । (१५।१)
tasyāḥ putratvam āgamya striyāḥ sa pibati stanau |
ततः स कापिलेयत्वं लेभे बुद्धिं च नैष्ठिकीम् ॥ (१५।२)
tataḥ sa kāpileyatvaṃ lebhe buddhiṃ ca naiṣṭhikīm ||
तस्य तत् कापिलेयत्वं सर्ववित्त्वम् अनुत्तमम् ॥ (१६।२)
tasya tat kāpileyatvaṃ sarvavittvam anuttamam ||
सामान्यं कपिलो ज्ञात्वा धर्मज्ञानाम् अनुत्तमम् । (१७।१)
sāmānyaṃ kapilo jñātvā dharmajñānām anuttamam |
जनकस् त्व् अभिसंरक्तः कापिलेयानुदर्शनात् । (१८।१)
janakas tv abhisaṃraktaḥ kāpileyānudarśanāt |
उत्सृज्य शतम् आचार्यान् पृष्ठतो ऽनुजगाम तम् ॥ (१८।२)
utsṛjya śatam ācāryān pṛṣṭhato 'nujagāma tam ||
अब्रवीत् परमं मोक्षं यत् तत् सांख्यं विधीयते ॥ (१९।२)
abravīt paramaṃ mokṣaṃ yat tat sāṃkhyaṃ vidhīyate ||
जातिनिर्वेदम् उक्त्वा हि कर्मनिर्वेदम् अब्रवीत् । (२०।१)
jātinirvedam uktvā hi karmanirvedam abravīt |
कर्मनिर्वेदम् उक्त्वा च सर्वनिर्वेदम् अब्रवीत् ॥ (२०।२)
karmanirvedam uktvā ca sarvanirvedam abravīt ||
यदर्थं कर्मसंसर्गः कर्मणां च फलोदयः । (२१।१)
yadarthaṃ karmasaṃsargaḥ karmaṇāṃ ca phalodayaḥ |
तद् अनाश्वासिकं मोघं विनाशि चलम् अध्रुवम् ॥ (२१।२)
tad anāśvāsikaṃ moghaṃ vināśi calam adhruvam ||
दृश्यमाने विनाशे च प्रत्यक्षे लोकसाक्षिके । (२२।१)
dṛśyamāne vināśe ca pratyakṣe lokasākṣike |
आगमात् परम् अस्तीति ब्रुवन्न् अपि पराजितः ॥ (२२।२)
āgamāt param astīti bruvann api parājitaḥ ||
अनात्मा ह्य् आत्मनो मृत्युः क्लेशो मृत्युर् जरामयः । (२३।१)
anātmā hy ātmano mṛtyuḥ kleśo mṛtyur jarāmayaḥ |
आत्मानं मन्यते मोहात् तद् असम्यक् परं मतम् ॥ (२३।२)
ātmānaṃ manyate mohāt tad asamyak paraṃ matam ||
अथ चेद् एवम् अप्य् अस्ति यल् लोके नोपपद्यते । (२४।१)
atha ced evam apy asti yal loke nopapadyate |
अजरो ऽयम् अमृत्युश् च राजासौ मन्यते तथा ॥ (२४।२)
ajaro 'yam amṛtyuś ca rājāsau manyate tathā ||
अस्ति नास्तीति चाप्य् एतत् तस्मिन्न् असति लक्षणे । (२५।१)
asti nāstīti cāpy etat tasminn asati lakṣaṇe |
किम् अधिष्ठाय तद् ब्रूयाल् लोकयात्राविनिश्चयम् ॥ (२५।२)
kim adhiṣṭhāya tad brūyāl lokayātrāviniścayam ||
प्रत्यक्षं ह्य् एतयोर् मूलं कृतान्तैतिह्ययोर् अपि । (२६।१)
pratyakṣaṃ hy etayor mūlaṃ kṛtāntaitihyayor api |
प्रत्यक्षो ह्य् आगमो ऽभिन्नः कृतान्तो वा न किंचन ॥ (२६।२)
pratyakṣo hy āgamo 'bhinnaḥ kṛtānto vā na kiṃcana ||
यत्र तत्रानुमाने ऽस्ति कृतं भावयते ऽपि वा । (२७।१)
yatra tatrānumāne 'sti kṛtaṃ bhāvayate 'pi vā |
अन्यो जीवः शरीरस्य नास्तिकानां मते स्मृतः ॥ (२७।२)
anyo jīvaḥ śarīrasya nāstikānāṃ mate smṛtaḥ ||
जातिस्मृतिर् अयस्कान्तः सूर्यकान्तो ऽम्बुभक्षणम् ॥ (२८।२)
jātismṛtir ayaskāntaḥ sūryakānto 'mbubhakṣaṇam ||
प्रेत्य भूतात्ययश् चैव देवताभ्युपयाचनम् । (२९।१)
pretya bhūtātyayaś caiva devatābhyupayācanam |
मृते कर्मनिवृत्तिश् च प्रमाणम् इति निश्चयः ॥ (२९।२)
mṛte karmanivṛttiś ca pramāṇam iti niścayaḥ ||
न त्व् एते हेतवः सन्ति ये केचिन् मूर्तिसंस्थिताः । (३०।१)
na tv ete hetavaḥ santi ye kecin mūrtisaṃsthitāḥ |
अमर्त्यस्य हि मर्त्येन सामान्यं नोपपद्यते ॥ (३०।२)
amartyasya hi martyena sāmānyaṃ nopapadyate ||
अविद्याकर्मचेष्टानां केचिद् आहुः पुनर्भवम् । (३१।१)
avidyākarmaceṣṭānāṃ kecid āhuḥ punarbhavam |
अविद्यां क्षेत्रम् आहुर् हि कर्म बीजं तथा कृतम् । (३२।१)
avidyāṃ kṣetram āhur hi karma bījaṃ tathā kṛtam |
तस्मिन् व्यूढे च दग्धे च चित्ते मरणधर्मिणि । (३३।१)
tasmin vyūḍhe ca dagdhe ca citte maraṇadharmiṇi |
अन्यो ऽन्याज्जायते देहस् तम् आहुः सत्त्वसंक्षयम् ॥ (३३।२)
anyo 'nyājjāyate dehas tam āhuḥ sattvasaṃkṣayam ||
यदा स रूपतश् चान्यो जातितः श्रुतितो ऽर्थतः । (३४।१)
yadā sa rūpataś cānyo jātitaḥ śrutito 'rthataḥ |
कथम् अस्मिन् स इत्य् एव संबन्धः स्याद् असंहितः ॥ (३४।२)
katham asmin sa ity eva saṃbandhaḥ syād asaṃhitaḥ ||
यद् अन्याचरितं कर्म सर्वम् अन्यः प्रपद्यते ॥ (३५।२)
yad anyācaritaṃ karma sarvam anyaḥ prapadyate ||
यदा ह्य् अयम् इहैवान्यैः प्राकृतैर् दुःखितो भवेत् । (३६।१)
yadā hy ayam ihaivānyaiḥ prākṛtair duḥkhito bhavet |
सुखितैर् दुःखितैर् वापि दृश्यो ऽप्य् अस्य विनिर्णयः ॥ (३६।२)
sukhitair duḥkhitair vāpi dṛśyo 'py asya vinirṇayaḥ ||
तथा हि मुसलैर् हन्युः शरीरं तत् पुनर् भवेत् । (३७।१)
tathā hi musalair hanyuḥ śarīraṃ tat punar bhavet |
पृथग् ज्ञानं यद् अन्यच् च येनैतन् नोपलभ्यते ॥ (३७।२)
pṛthag jñānaṃ yad anyac ca yenaitan nopalabhyate ||
ऋतुः संवत्सरस् तिथ्यः शीतोष्णे च प्रियाप्रिये । (३८।१)
ṛtuḥ saṃvatsaras tithyaḥ śītoṣṇe ca priyāpriye |
यथातीतानि पश्यन्ति तादृशः सत्त्वसंक्षयः ॥ (३८।२)
yathātītāni paśyanti tādṛśaḥ sattvasaṃkṣayaḥ ||
दुर्बलं दुर्बलं पूर्वं गृहस्येव विनश्यति ॥ (३९।२)
durbalaṃ durbalaṃ pūrvaṃ gṛhasyeva vinaśyati ||
इन्द्रियाणि मनो वायुः शोणितं मांसम् अस्थि च । (४०।१)
indriyāṇi mano vāyuḥ śoṇitaṃ māṃsam asthi ca |
आनुपूर्व्या विनश्यन्ति स्वं धातुम् उपयान्ति च ॥ (४०।२)
ānupūrvyā vinaśyanti svaṃ dhātum upayānti ca ||
यदर्थं वेदशब्दाश् च व्यवहाराश् च लौकिकाः ॥ (४१।२)
yadarthaṃ vedaśabdāś ca vyavahārāś ca laukikāḥ ||
इति सम्यङ् मनस्य् एते बहवः सन्ति हेतवः । (४२।१)
iti samyaṅ manasy ete bahavaḥ santi hetavaḥ |
एतद् अस्तीदम् अस्तीति न किंचित् प्रतिपद्यते ॥ (४२।२)
etad astīdam astīti na kiṃcit pratipadyate ||
तेषां विमृशताम् एवं तत् तत् समभिधावताम् । (४३।१)
teṣāṃ vimṛśatām evaṃ tat tat samabhidhāvatām |
क्वचिन्निविशते बुद्धिस् तत्र जीर्यति वृक्षवत् ॥ (४३।२)
kvacinniviśate buddhis tatra jīryati vṛkṣavat ||
एवम् अर्थैर् अनर्थैश् च दुःखिताः सर्वजन्तवः । (४४।१)
evam arthair anarthaiś ca duḥkhitāḥ sarvajantavaḥ |
आगमैर् अपकृष्यन्ते हस्तिपैर् हस्तिनो यथा ॥ (४४।२)
āgamair apakṛṣyante hastipair hastino yathā ||
अर्थांस् तथात्यन्तसुखावहांश् च लिप्सन्त एते बहवो विशुल्काः । (४५।१)
arthāṃs tathātyantasukhāvahāṃś ca lipsanta ete bahavo viśulkāḥ |
महत्तरं दुःखम् अभिप्रपन्ना हित्वामिषं मृत्युवशं प्रयान्ति ॥ (४५।२)
mahattaraṃ duḥkham abhiprapannā hitvāmiṣaṃ mṛtyuvaśaṃ prayānti ||
विनाशिनो ह्य् अध्रुवजीवितस्य किं बन्धुभिर् मित्रपरिग्रहैश् च । (४६।१)
vināśino hy adhruvajīvitasya kiṃ bandhubhir mitraparigrahaiś ca |
विहाय यो गच्छति सर्वम् एव क्षणेन गत्वा न निवर्तते च ॥ (४६।२)
vihāya yo gacchati sarvam eva kṣaṇena gatvā na nivartate ca ||
भूव्योमतोयानलवायवो हि सदा शरीरं परिपालयन्ति । (४७।१)
bhūvyomatoyānalavāyavo hi sadā śarīraṃ paripālayanti |
इतीदम् आलक्ष्य कुतो रतिर् भवेद् विनाशिनो ह्य् अस्य न शर्म विद्यते ॥ (४७।२)
itīdam ālakṣya kuto ratir bhaved vināśino hy asya na śarma vidyate ||
इदम् अनुपधि वाक्यम् अछलं परमनिरामयम् आत्मसाक्षिकम् । (४८।१)
idam anupadhi vākyam achalaṃ paramanirāmayam ātmasākṣikam |
नरपतिर् अभिवीक्ष्य विस्मितः पुनर् अनुयोक्तुम् इदं प्रचक्रमे ॥ (४८।२)
narapatir abhivīkṣya vismitaḥ punar anuyoktum idaṃ pracakrame ||
Data courtesy of The Digital Corpus of Sanskrit.