MBh, 13, 36
Select a line for its word-by-word analysis.
विरूपं रूपम् आस्थाय प्रश्नं पप्रच्छ शम्बरम् ॥ (२।२)
virūpaṃ rūpam āsthāya praśnaṃ papraccha śambaram ||
श्रेष्ठं त्वां केन मन्यन्ते तन्मे प्रब्रूहि पृच्छतः ॥ (३।२)
śreṣṭhaṃ tvāṃ kena manyante tanme prabrūhi pṛcchataḥ ||
नासूयामि सदा विप्रान् ब्रह्माणं च पितामहम् । (४।२)
nāsūyāmi sadā viprān brahmāṇaṃ ca pitāmaham |
शास्त्राणि वदतो विप्रान् संमन्यामि यथासुखम् ॥ (४।३)
śāstrāṇi vadato viprān saṃmanyāmi yathāsukham ||
श्रुत्वा च नावजानामि नापराध्यामि कर्हिचित् । (५।१)
śrutvā ca nāvajānāmi nāparādhyāmi karhicit |
अभ्यर्च्यान् अनुपृच्छामि पादौ गृह्णामि धीमताम् ॥ (५।२)
abhyarcyān anupṛcchāmi pādau gṛhṇāmi dhīmatām ||
ते विश्रब्धाः प्रभाषन्ते संयच्छन्ति च मां सदा । (६।१)
te viśrabdhāḥ prabhāṣante saṃyacchanti ca māṃ sadā |
प्रमत्तेष्वप्रमत्तो ऽस्मि सदा सुप्तेषु जागृमि ॥ (६।२)
pramatteṣvapramatto 'smi sadā supteṣu jāgṛmi ||
ते मा शास्त्रपथे युक्तं ब्रह्मण्यम् अनसूयकम् । (७।१)
te mā śāstrapathe yuktaṃ brahmaṇyam anasūyakam |
समासिञ्चन्ति शास्तारः क्षौद्रं मध्विव मक्षिकाः ॥ (७।२)
samāsiñcanti śāstāraḥ kṣaudraṃ madhviva makṣikāḥ ||
यच्च भाषन्ति ते तुष्टास्तत् तद् गृह्णामि मेधया । (८।१)
yacca bhāṣanti te tuṣṭāstat tad gṛhṇāmi medhayā |
स्वजात्यान् अधितिष्ठामि नक्षत्राणीव चन्द्रमाः ॥ (९।२)
svajātyān adhitiṣṭhāmi nakṣatrāṇīva candramāḥ ||
एतत् पृथिव्याम् अमृतम् एतच्चक्षुर् अनुत्तमम् । (१०।१)
etat pṛthivyām amṛtam etaccakṣur anuttamam |
यद् ब्राह्मणमुखाच्छास्त्रम् इह श्रुत्वा प्रवर्तते ॥ (१०।२)
yad brāhmaṇamukhācchāstram iha śrutvā pravartate ||
एतत् कारणम् आज्ञाय दृष्ट्वा देवासुरं पुरा । (११।१)
etat kāraṇam ājñāya dṛṣṭvā devāsuraṃ purā |
युद्धं पिता मे हृष्टात्मा विस्मितः प्रत्यपद्यत ॥ (११।२)
yuddhaṃ pitā me hṛṣṭātmā vismitaḥ pratyapadyata ||
दृष्ट्वा च ब्राह्मणानां तु महिमानं महात्मनाम् । (१२।१)
dṛṣṭvā ca brāhmaṇānāṃ tu mahimānaṃ mahātmanām |
पर्यपृच्छत् कथम् इमे सिद्धा इति निशाकरम् ॥ (१२।२)
paryapṛcchat katham ime siddhā iti niśākaram ||
ब्राह्मणास्तपसा सर्वे सिध्यन्ते वाग्बलाः सदा । (१३।२)
brāhmaṇāstapasā sarve sidhyante vāgbalāḥ sadā |
भुजवीर्या हि राजानो वागस्त्राश्च द्विजातयः ॥ (१३।३)
bhujavīryā hi rājāno vāgastrāśca dvijātayaḥ ||
प्रवसन् वाप्यधीयीत बह्वीर् दुर्वसतीर् वसन् । (१४।१)
pravasan vāpyadhīyīta bahvīr durvasatīr vasan |
निर्मन्युर् अपि निर्मानो यतिः स्यात् समदर्शनः ॥ (१४।२)
nirmanyur api nirmāno yatiḥ syāt samadarśanaḥ ||
अपि चेज्जातिसम्पन्नः सर्वान् वेदान् पितुर् गृहे । (१५।१)
api cejjātisampannaḥ sarvān vedān pitur gṛhe |
श्लाघमान इवाधीयेद् ग्राम्य इत्येव तं विदुः ॥ (१५।२)
ślāghamāna ivādhīyed grāmya ityeva taṃ viduḥ ||
राजानं चाप्ययोद्धारं ब्राह्मणं चाप्रवासिनम् ॥ (१६।२)
rājānaṃ cāpyayoddhāraṃ brāhmaṇaṃ cāpravāsinam ||
गर्भेण दुष्यते कन्या गृहवासेन च द्विजः ॥ (१७।२)
garbheṇa duṣyate kanyā gṛhavāsena ca dvijaḥ ||
इत्येतन्मे पिता श्रुत्वा सोमाद् अद्भुतदर्शनात् । (१८।१)
ityetanme pitā śrutvā somād adbhutadarśanāt |
ब्राह्मणान् पूजयामास तथैवाहं महाव्रतान् ॥ (१८।२)
brāhmaṇān pūjayāmāsa tathaivāhaṃ mahāvratān ||
श्रुत्वैतद् वचनं शक्रो दानवेन्द्रमुखाच्च्युतम् । (१९।२)
śrutvaitad vacanaṃ śakro dānavendramukhāccyutam |
द्विजान् संपूजयामास महेन्द्रत्वम् अवाप च ॥ (१९।३)
dvijān saṃpūjayāmāsa mahendratvam avāpa ca ||
Data courtesy of The Digital Corpus of Sanskrit.