MBh, 1, 214
Select a line for its word-by-word analysis.
इन्द्रप्रस्थे वसन्तस्ते जघ्नुर् अन्यान् नराधिपान् । (१।२)
indraprasthe vasantaste jaghnur anyān narādhipān |
शासनाद् धृतराष्ट्रस्य राज्ञः शांतनवस्य च ॥ (१।३)
śāsanād dhṛtarāṣṭrasya rājñaḥ śāṃtanavasya ca ||
आश्रित्य धर्मराजानं सर्वलोको ऽवसत् सुखम् । (२।१)
āśritya dharmarājānaṃ sarvaloko 'vasat sukham |
त्रीन् इवात्मसमान् बन्धून् बन्धुमान् इव मानयन् ॥ (३।२)
trīn ivātmasamān bandhūn bandhumān iva mānayan ||
बभौ धर्मार्थकामानां चतुर्थ इव पार्थिवः ॥ (४।२)
babhau dharmārthakāmānāṃ caturtha iva pārthivaḥ ||
अध्येतारं परं वेदाः प्रयोक्तारं महाध्वराः । (५।१)
adhyetāraṃ paraṃ vedāḥ prayoktāraṃ mahādhvarāḥ |
रक्षितारं शुभं वर्णा लेभिरे तं जनाधिपम् । (५।२)
rakṣitāraṃ śubhaṃ varṇā lebhire taṃ janādhipam |
बन्धुमान् अखिलो धर्मस्तेनासीत् पृथिवीक्षिता ॥ (६।२)
bandhumān akhilo dharmastenāsīt pṛthivīkṣitā ||
भ्रातृभिः सहितो राजा चतुर्भिर् अधिकं बभौ । (७।१)
bhrātṛbhiḥ sahito rājā caturbhir adhikaṃ babhau |
प्रयुज्यमानैर् विततो वेदैर् इव महाध्वरः ॥ (७।२)
prayujyamānair vitato vedair iva mahādhvaraḥ ||
तं तु धौम्यादयो विप्राः परिवार्योपतस्थिरे । (८।१)
taṃ tu dhaumyādayo viprāḥ parivāryopatasthire |
रञ्जयामास वै प्रीत्या प्रीतिदानैर् अनुत्तमैः ॥ (९।३)
rañjayāmāsa vai prītyā prītidānair anuttamaiḥ ||
यद् बभूव मनःकान्तं कर्मणा स चकार तत् ॥ (१०।२)
yad babhūva manaḥkāntaṃ karmaṇā sa cakāra tat ||
न ह्ययुक्तं न चासत्यं नानृतं न च विप्रियम् । (११।१)
na hyayuktaṃ na cāsatyaṃ nānṛtaṃ na ca vipriyam |
भाषितं चारुभाषस्य जज्ञे पार्थस्य धीमतः ॥ (११।२)
bhāṣitaṃ cārubhāṣasya jajñe pārthasya dhīmataḥ ||
पुष्पितानि वनानीव धान्यलक्ष्म्या च भारत । (१२।३)
puṣpitāni vanānīva dhānyalakṣmyā ca bhārata |
तथा तु मुदिताः सर्वे पाण्डवा विगतज्वराः । (१३।१)
tathā tu muditāḥ sarve pāṇḍavā vigatajvarāḥ |
ततः कतिपयाहस्य बीभत्सुः कृष्णम् अब्रवीत् । (१४।१)
tataḥ katipayāhasya bībhatsuḥ kṛṣṇam abravīt |
उष्णानि कृष्ण वर्तन्ते गच्छामो यमुनां प्रति ॥ (१४।२)
uṣṇāni kṛṣṇa vartante gacchāmo yamunāṃ prati ||
सायाह्ने पुनर् एष्यामो रोचतां ते जनार्दन ॥ (१५।२)
sāyāhne punar eṣyāmo rocatāṃ te janārdana ||
कुन्तीमातर् ममाप्येतद् रोचते यद् वयं जले । (१६।२)
kuntīmātar mamāpyetad rocate yad vayaṃ jale |
आमन्त्र्य धर्मराजानम् अनुज्ञाप्य च भारत । (१७।२)
āmantrya dharmarājānam anujñāpya ca bhārata |
जग्मतुः पार्थगोविन्दौ सुहृज्जनवृतौ ततः । (१७।३)
jagmatuḥ pārthagovindau suhṛjjanavṛtau tataḥ |
पुष्पितोपवनां रम्यां ददर्श यमुनां नदीम् । (१७।५)
puṣpitopavanāṃ ramyāṃ dadarśa yamunāṃ nadīm |
आलयं सर्वभूतानां खाण्डवं खड्गचर्मभृत् । (१७।६)
ālayaṃ sarvabhūtānāṃ khāṇḍavaṃ khaḍgacarmabhṛt |
शाखामृगगणैर् जुष्टं निकेतं सर्वरक्षसाम् । (१७।९)
śākhāmṛgagaṇair juṣṭaṃ niketaṃ sarvarakṣasām |
आलयं पन्नगेन्द्रस्य तक्षकस्य महात्मनः । (१७।१३)
ālayaṃ pannagendrasya takṣakasya mahātmanaḥ |
वेणुशाल्मलिमाल्याङ्गैर् उपेतं वेत्रसंवृतम् । (१७।१४)
veṇuśālmalimālyāṅgair upetaṃ vetrasaṃvṛtam |
निरुद्देशतमप्रख्यम् आवृतं गजसंस्थितैः । (१७।१६)
niruddeśatamaprakhyam āvṛtaṃ gajasaṃsthitaiḥ |
स्नुहिवेत्रकुलिङ्गाक्षैर् हिन्तालैश्च समावृतम् । (१७।१९)
snuhivetrakuliṅgākṣair hintālaiśca samāvṛtam |
व्यालदंष्ट्रिगणाकीर्णं वर्जितं सर्वमानुषैः । (१७।२०)
vyāladaṃṣṭrigaṇākīrṇaṃ varjitaṃ sarvamānuṣaiḥ |
रक्षसां भुजगेन्द्राणां पक्षिणां च महालयम् । (१७।२१)
rakṣasāṃ bhujagendrāṇāṃ pakṣiṇāṃ ca mahālayam |
पीताम्बरधरो देवस्तद् वनं बहुधा चरन् । (१७।२३)
pītāmbaradharo devastad vanaṃ bahudhā caran |
खाण्डवस्य विनाशं तं ददर्श मधुसूदनः ॥ (१७।२५)
khāṇḍavasya vināśaṃ taṃ dadarśa madhusūdanaḥ ||
विहारदेशं सम्प्राप्य नानाद्रुमवद् उत्तमम् । (१८।१)
vihāradeśaṃ samprāpya nānādrumavad uttamam |
गृहैर् उच्चावचैर् युक्तं पुरंदरगृहोपमम् ॥ (१८।२)
gṛhair uccāvacair yuktaṃ puraṃdaragṛhopamam ||
भक्ष्यैर् भोज्यैश्च पेयैश्च रसवद्भिर् महाधनैः । (१९।१)
bhakṣyair bhojyaiśca peyaiśca rasavadbhir mahādhanaiḥ |
माल्यैश्च विविधैर् युक्तं युक्तं वार्ष्णेयपार्थयोः ॥ (१९।२)
mālyaiśca vividhair yuktaṃ yuktaṃ vārṣṇeyapārthayoḥ ||
आविवेशतुर् आपूर्णं रत्नैर् उच्चावचैः शुभैः । (२०।१)
āviveśatur āpūrṇaṃ ratnair uccāvacaiḥ śubhaiḥ |
वने काश्चिज् जले काश्चित् काश्चिद् वेश्मसु चाङ्गनाः । (२१।१)
vane kāścij jale kāścit kāścid veśmasu cāṅganāḥ |
यथादेशं यथाप्रीति चिक्रीडुः कृष्णपार्थयोः । (२१।२)
yathādeśaṃ yathāprīti cikrīḍuḥ kṛṣṇapārthayoḥ |
वासुदेवप्रिया नित्यं सत्यभामा च भामिनी ॥ (२१।३)
vāsudevapriyā nityaṃ satyabhāmā ca bhāminī ||
द्रौपदी च सुभद्रा च वासांस्याभरणानि च । (२२।१)
draupadī ca subhadrā ca vāsāṃsyābharaṇāni ca |
प्रयच्छेतां महार्हाणि स्त्रीणां ते स्म मदोत्कटे ॥ (२२।२)
prayacchetāṃ mahārhāṇi strīṇāṃ te sma madotkaṭe ||
काश्चित् प्रहृष्टा ननृतुश्चुक्रुशुश्च तथापराः । (२३।१)
kāścit prahṛṣṭā nanṛtuścukruśuśca tathāparāḥ |
रुरुदुश्चापरास्तत्र प्रजघ्नुश्च परस्परम् । (२४।१)
ruruduścāparāstatra prajaghnuśca parasparam |
मन्त्रयामासुर् अन्याश्च रहस्यानि परस्परम् । (२४।२)
mantrayāmāsur anyāśca rahasyāni parasparam |
काश्चिन् माल्यानि चिन्वन्ति काश्चिन् माल्यानि दध्रिरे ॥ (२४।३)
kāścin mālyāni cinvanti kāścin mālyāni dadhrire ||
शब्देनापूर्यते ह स्म तद् वनं सुसमृद्धिमत् ॥ (२५।२)
śabdenāpūryate ha sma tad vanaṃ susamṛddhimat ||
समीपे जग्मतुः कंचिद् उद्देशं सुमनोहरम् ॥ (२६।२)
samīpe jagmatuḥ kaṃcid uddeśaṃ sumanoharam ||
तत्र गत्वा महात्मानौ कृष्णौ परपुरंजयौ । (२७।१)
tatra gatvā mahātmānau kṛṣṇau parapuraṃjayau |
तत्र पूर्वव्यतीतानि विक्रान्तानि रतानि च । (२८।१)
tatra pūrvavyatītāni vikrāntāni ratāni ca |
तत्रोपविष्टौ मुदितौ नाकपृष्ठे ऽश्विनाविव । (२९।१)
tatropaviṣṭau muditau nākapṛṣṭhe 'śvināviva |
हरिपिङ्गो हरिश्मश्रुः प्रमाणायामतः समः ॥ (३०।२)
haripiṅgo hariśmaśruḥ pramāṇāyāmataḥ samaḥ ||
पद्मपत्राननः पिङ्गस्तेजसा प्रज्वलन्न् इव । (३१।२)
padmapatrānanaḥ piṅgastejasā prajvalann iva |
जगाम तौ कृष्णपार्थौ दिधक्षन् खाण्डवं वनम् ॥ (३१।३)
jagāma tau kṛṣṇapārthau didhakṣan khāṇḍavaṃ vanam ||
उपसृष्टं तु तं कृष्णौ भ्राजमानं द्विजोत्तमम् । (३२।१)
upasṛṣṭaṃ tu taṃ kṛṣṇau bhrājamānaṃ dvijottamam |
दृष्ट्वा जगाम मनसा पावको ऽयम् इति प्रभुः । (३२।२)
dṛṣṭvā jagāma manasā pāvako 'yam iti prabhuḥ |
अर्जुनो वासुदेवश्च तूर्णम् उत्पत्य तस्थतुः ॥ (३२।३)
arjuno vāsudevaśca tūrṇam utpatya tasthatuḥ ||
Data courtesy of The Digital Corpus of Sanskrit.