MBh, 5, 113
Select a line for its word-by-word analysis.
यष्टा क्रतुसहस्राणां दाता दानपतिः प्रभुः । (२।१)
yaṣṭā kratusahasrāṇāṃ dātā dānapatiḥ prabhuḥ |
दृष्ट्वा प्रियसखं तार्क्ष्यं गालवं च द्विजर्षभम् । (३।१)
dṛṣṭvā priyasakhaṃ tārkṣyaṃ gālavaṃ ca dvijarṣabham |
निदर्शनं च तपसो भिक्षां श्लाघ्यां च कीर्तिताम् ॥ (३।२)
nidarśanaṃ ca tapaso bhikṣāṃ ślāghyāṃ ca kīrtitām ||
मत्सकाशम् अनुप्राप्तावेतौ बुद्धिम् अवेक्ष्य च ॥ (४।२)
matsakāśam anuprāptāvetau buddhim avekṣya ca ||
अद्य मे सफलं जन्म तारितं चाद्य मे कुलम् । (५।१)
adya me saphalaṃ janma tāritaṃ cādya me kulam |
अद्यायं तारितो देशो मम तार्क्ष्य त्वयानघ ॥ (५।२)
adyāyaṃ tārito deśo mama tārkṣya tvayānagha ||
वक्तुम् इच्छामि तु सखे यथा जानासि मां पुरा । (६।१)
vaktum icchāmi tu sakhe yathā jānāsi māṃ purā |
न तथा वित्तवान् अस्मि क्षीणं वित्तं हि मे सखे ॥ (६।२)
na tathā vittavān asmi kṣīṇaṃ vittaṃ hi me sakhe ||
न च शक्तो ऽस्मि ते कर्तुं मोघम् आगमनं खग । (७।१)
na ca śakto 'smi te kartuṃ mogham āgamanaṃ khaga |
न चाशाम् अस्य विप्रर्षेर् वितथां कर्तुम् उत्सहे ॥ (७।२)
na cāśām asya viprarṣer vitathāṃ kartum utsahe ||
तत् तु दास्यामि यत् कार्यम् इदं संपादयिष्यति । (८।१)
tat tu dāsyāmi yat kāryam idaṃ saṃpādayiṣyati |
नातः परं वैनतेय किंचित् पापिष्ठम् उच्यते । (९।१)
nātaḥ paraṃ vainateya kiṃcit pāpiṣṭham ucyate |
हताशो ह्यकृतार्थः सन् हतः संभावितो नरः । (१०।१)
hatāśo hyakṛtārthaḥ san hataḥ saṃbhāvito naraḥ |
हिनस्ति तस्य पुत्रांश्च पौत्रांश्चाकुर्वतो ऽर्थिनाम् ॥ (१०।२)
hinasti tasya putrāṃśca pautrāṃścākurvato 'rthinām ||
तस्माच्चतुर्णां वंशानां स्थापयित्री सुता मम । (११।१)
tasmāccaturṇāṃ vaṃśānāṃ sthāpayitrī sutā mama |
काङ्क्षिता रूपतो बाला सुता मे प्रतिगृह्यताम् ॥ (१२।२)
kāṅkṣitā rūpato bālā sutā me pratigṛhyatām ||
अस्याः शुल्कं प्रदास्यन्ति नृपा राज्यम् अपि ध्रुवम् । (१३।१)
asyāḥ śulkaṃ pradāsyanti nṛpā rājyam api dhruvam |
किं पुनः श्यामकर्णानां हयानां द्वे चतुःशते ॥ (१३।२)
kiṃ punaḥ śyāmakarṇānāṃ hayānāṃ dve catuḥśate ||
स भवान् प्रतिगृह्णातु ममेमां माधवीं सुताम् । (१४।१)
sa bhavān pratigṛhṇātu mamemāṃ mādhavīṃ sutām |
अहं दौहित्रवान् स्यां वै वर एष मम प्रभो ॥ (१४।२)
ahaṃ dauhitravān syāṃ vai vara eṣa mama prabho ||
प्रतिगृह्य च तां कन्यां गालवः सह पक्षिणा । (१५।१)
pratigṛhya ca tāṃ kanyāṃ gālavaḥ saha pakṣiṇā |
पुनर् द्रक्ष्याव इत्युक्त्वा प्रतस्थे सह कन्यया ॥ (१५।२)
punar drakṣyāva ityuktvā pratasthe saha kanyayā ||
उपलब्धम् इदं द्वारम् अश्वानाम् इति चाण्डजः । (१६।१)
upalabdham idaṃ dvāram aśvānām iti cāṇḍajaḥ |
उक्त्वा गालवम् आपृच्छ्य जगाम भवनं स्वकम् ॥ (१६।२)
uktvā gālavam āpṛcchya jagāma bhavanaṃ svakam ||
चिन्तयानः क्षमं दाने राज्ञां वै शुल्कतो ऽगमत् ॥ (१७।२)
cintayānaḥ kṣamaṃ dāne rājñāṃ vai śulkato 'gamat ||
सो ऽगच्छन्मनसेक्ष्वाकुं हर्यश्वं राजसत्तमम् । (१८।१)
so 'gacchanmanasekṣvākuṃ haryaśvaṃ rājasattamam |
कोशधान्यबलोपेतं प्रियपौरं द्विजप्रियम् । (१९।१)
kośadhānyabalopetaṃ priyapauraṃ dvijapriyam |
प्रजाभिकामं शाम्यन्तं कुर्वाणं तप उत्तमम् ॥ (१९।२)
prajābhikāmaṃ śāmyantaṃ kurvāṇaṃ tapa uttamam ||
तम् उपागम्य विप्रः स हर्यश्वं गालवो ऽब्रवीत् । (२०।१)
tam upāgamya vipraḥ sa haryaśvaṃ gālavo 'bravīt |
कन्येयं मम राजेन्द्र प्रसवैः कुलवर्धिनी ॥ (२०।२)
kanyeyaṃ mama rājendra prasavaiḥ kulavardhinī ||
इयं शुल्केन भार्यार्थे हर्यश्व प्रतिगृह्यताम् । (२१।१)
iyaṃ śulkena bhāryārthe haryaśva pratigṛhyatām |
शुल्कं ते कीर्तयिष्यामि तच्छ्रुत्वा सम्प्रधार्यताम् ॥ (२१।२)
śulkaṃ te kīrtayiṣyāmi tacchrutvā sampradhāryatām ||
Data courtesy of The Digital Corpus of Sanskrit.