महाभारतMahābhārata

MBh, 1, 204

204 of 1995 · 82 verses

Select a line for its word-by-word analysis.

1.1१.१

नारद उवाच । (१।१)

nārada uvāca

1.2१.२

जित्वा तु पृथिवीं दैत्यौ निःसपत्नौ गतव्यथौ । (१।२)

jitvā tu pṛthivīṃ daityau niḥsapatnau gatavyathau |

1.3१.३

कृत्वा त्रैलोक्यम् अव्यग्रं कृतकृत्यौ बभूवतुः ॥ (१।३)

kṛtvā trailokyam avyagraṃ kṛtakṛtyau babhūvatuḥ ||

2.1२.१

देवगन्धर्वयक्षाणां नागपार्थिवरक्षसाम् । (२।१)

devagandharvayakṣāṇāṃ nāgapārthivarakṣasām |

2.2२.२

आदाय सर्वरत्नानि परां तुष्टिम् उपागतौ ॥ (२।२)

ādāya sarvaratnāni parāṃ tuṣṭim upāgatau ||

3.1३.१

यदा न प्रतिषेद्धारस्तयोः सन्तीह केचन । (३।१)

yadā na pratiṣeddhārastayoḥ santīha kecana |

3.2३.२

निरुद्योगौ तदा भूत्वा विजह्राते ऽमराविव ॥ (३।२)

nirudyogau tadā bhūtvā vijahrāte 'marāviva ||

4.1४.१

स्त्रीभिर् माल्यैश्च गन्धैश्च भक्षैर् भोज्यैश्च पुष्कलैः । (४।१)

strībhir mālyaiśca gandhaiśca bhakṣair bhojyaiśca puṣkalaiḥ |

4.2४.२

पानैश्च विविधैर् हृद्यैः परां प्रीतिम् अवापतुः ॥ (४।२)

pānaiśca vividhair hṛdyaiḥ parāṃ prītim avāpatuḥ ||

5.1५.१

अन्तःपुरे वनोद्याने पर्वतोपवनेषु च । (५।१)

antaḥpure vanodyāne parvatopavaneṣu ca |

5.2५.२

यथेप्सितेषु देशेषु विजह्राते ऽमराविव ॥ (५।२)

yathepsiteṣu deśeṣu vijahrāte 'marāviva ||

6.1६.१

ततः कदाचिद् विन्ध्यस्य पृष्ठे समशिलातले । (६।१)

tataḥ kadācid vindhyasya pṛṣṭhe samaśilātale |

6.2६.२

पुष्पिताग्रेषु शालेषु विहारम् अभिजग्मतुः ॥ (६।२)

puṣpitāgreṣu śāleṣu vihāram abhijagmatuḥ ||

7.1७.१

दिव्येषु सर्वकामेषु समानीतेषु तत्र तौ । (७।१)

divyeṣu sarvakāmeṣu samānīteṣu tatra tau |

7.2७.२

वरासनेषु संहृष्टौ सह स्त्रीभिर् निषेदतुः ॥ (७।२)

varāsaneṣu saṃhṛṣṭau saha strībhir niṣedatuḥ ||

8.1८.१

ततो वादित्रनृत्ताभ्याम् उपातिष्ठन्त तौ स्त्रियः । (८।१)

tato vāditranṛttābhyām upātiṣṭhanta tau striyaḥ |

8.2८.२

गीतैश्च स्तुतिसंयुक्तैः प्रीत्यर्थम् उपजग्मिरे । (८।२)

gītaiśca stutisaṃyuktaiḥ prītyartham upajagmire |

8.3८.३

नामापि तस्याः संहारं विकारं च करोति वै । (८।३)

nāmāpi tasyāḥ saṃhāraṃ vikāraṃ ca karoti vai |

8.4८.४

किं पुनर् दर्शनं तस्या विलासोल्लासितं प्रभो । (८।४)

kiṃ punar darśanaṃ tasyā vilāsollāsitaṃ prabho |

8.5८.५

रहःप्रचारकुशला मृदुगद्गदभाषिणी । (८।५)

rahaḥpracārakuśalā mṛdugadgadabhāṣiṇī |

8.6८.६

किं नु नारी छलयति सुरक्ता तु सुलोचना । (८।६)

kiṃ nu nārī chalayati suraktā tu sulocanā |

8.7८.७

मुनेर् अपि मनो वश्यं सरागं कुरुते ऽङ्गना । (८।७)

muner api mano vaśyaṃ sarāgaṃ kurute 'ṅganā |

8.8८.८

प्रसन्नं कान्तिजननं संध्येव शशिमण्डलम् । (८।८)

prasannaṃ kāntijananaṃ saṃdhyeva śaśimaṇḍalam |

8.9८.९

मनः प्रह्लादयन्तीभिर् मर्दयन्तीभिर् अप्यलम् । (८।९)

manaḥ prahlādayantībhir mardayantībhir apyalam |

8.10८.१०

महान्तो ऽपि हि भिद्यन्ते स्त्रीभिर् अद्भिर् इवाचलाः ॥ (८।१०)

mahānto 'pi hi bhidyante strībhir adbhir ivācalāḥ ||

9.1९.१

ततस्तिलोत्तमा तत्र वने पुष्पाणि चिन्वती । (९।१)

tatastilottamā tatra vane puṣpāṇi cinvatī |

9.2९.२

वेषम् आक्षिप्तम् आधाय रक्तेनैकेन वाससा ॥ (९।२)

veṣam ākṣiptam ādhāya raktenaikena vāsasā ||

10.1१०.१

नदीतीरेषु जातान् सा कर्णिकारान् विचिन्वती । (१०।१)

nadītīreṣu jātān sā karṇikārān vicinvatī |

10.2१०.२

शनैर् जगाम तं देशं यत्रास्तां तौ महासुरौ ॥ (१०।२)

śanair jagāma taṃ deśaṃ yatrāstāṃ tau mahāsurau ||

11.1११.१

तौ तु पीत्वा वरं पानं मदरक्तान्तलोचनौ । (११।१)

tau tu pītvā varaṃ pānaṃ madaraktāntalocanau |

11.2११.२

दृष्ट्वैव तां वरारोहां व्यथितौ संबभूवतुः ॥ (११।२)

dṛṣṭvaiva tāṃ varārohāṃ vyathitau saṃbabhūvatuḥ ||

12.1१२.१

तावुत्पत्यासनं हित्वा जग्मतुर् यत्र सा स्थिता । (१२।१)

tāvutpatyāsanaṃ hitvā jagmatur yatra sā sthitā |

12.2१२.२

उभौ च कामसंमत्तावुभौ प्रार्थयतश्च ताम् ॥ (१२।२)

ubhau ca kāmasaṃmattāvubhau prārthayataśca tām ||

13.1१३.१

दक्षिणे तां करे सुभ्रूं सुन्दो जग्राह पाणिना । (१३।१)

dakṣiṇe tāṃ kare subhrūṃ sundo jagrāha pāṇinā |

13.2१३.२

उपसुन्दो ऽपि जग्राह वामे पाणौ तिलोत्तमाम् ॥ (१३।२)

upasundo 'pi jagrāha vāme pāṇau tilottamām ||

14.1१४.१

वरप्रदानमत्तौ तावौरसेन बलेन च । (१४।१)

varapradānamattau tāvaurasena balena ca |

14.2१४.२

धनरत्नमदाभ्यां च सुरापानमदेन च । (१४।२)

dhanaratnamadābhyāṃ ca surāpānamadena ca |

14.3१४.३

तौ कटाक्षेण दैत्येन्द्रावाकर्षन्ती मुहुर् मुहुः । (१४।३)

tau kaṭākṣeṇa daityendrāvākarṣantī muhur muhuḥ |

14.4१४.४

दक्षिणेन कटाक्षेण सुन्दं जग्राह भामिनी । (१४।४)

dakṣiṇena kaṭākṣeṇa sundaṃ jagrāha bhāminī |

14.5१४.५

वामेनैव कटाक्षेण उपसुन्दं जिघूक्षती । (१४।५)

vāmenaiva kaṭākṣeṇa upasundaṃ jighūkṣatī |

14.6१४.६

गन्धाभरणरूपैस्तौ व्यामोहम् उपजग्मतुः ॥ (१४।६)

gandhābharaṇarūpaistau vyāmoham upajagmatuḥ ||

15.1१५.१

सर्वैर् एतैर् मदैर् मत्तावन्योन्यं भ्रुकुटीकृतौ । (१५।१)

sarvair etair madair mattāvanyonyaṃ bhrukuṭīkṛtau |

15.2१५.२

मदकामसमाविष्टौ परस्परम् अथोचतुः ॥ (१५।२)

madakāmasamāviṣṭau parasparam athocatuḥ ||

16.1१६.१

मम भार्या तव गुरुर् इति सुन्दो ऽभ्यभाषत । (१६।१)

mama bhāryā tava gurur iti sundo 'bhyabhāṣata |

16.2१६.२

मम भार्या तव वधूर् उपसुन्दो ऽभ्यभाषत ॥ (१६।२)

mama bhāryā tava vadhūr upasundo 'bhyabhāṣata ||

17.1१७.१

नैषा तव ममैषेति तत्र तौ मन्युर् आविशत् । (१७।१)

naiṣā tava mamaiṣeti tatra tau manyur āviśat |

17.2१७.२

तस्या रूपेण संमत्तौ विगतस्नेहसौहृदौ । (१७।२)

tasyā rūpeṇa saṃmattau vigatasnehasauhṛdau |

17.3१७.३

तस्या हेतोर् गदे भीमे तावुभावप्यगृह्णताम् ॥ (१७।३)

tasyā hetor gade bhīme tāvubhāvapyagṛhṇatām ||

18.1१८.१

तौ प्रगृह्य गदे भीमे तस्याः कामेन मोहितौ । (१८।१)

tau pragṛhya gade bhīme tasyāḥ kāmena mohitau |

18.2१८.२

अहं पूर्वम् अहं पूर्वम् इत्यन्योन्यं निजघ्नतुः ॥ (१८।२)

ahaṃ pūrvam ahaṃ pūrvam ityanyonyaṃ nijaghnatuḥ ||

19.1१९.१

तौ गदाभिहतौ भीमौ पेततुर् धरणीतले । (१९।१)

tau gadābhihatau bhīmau petatur dharaṇītale |

19.2१९.२

रुधिरेणावलिप्ताङ्गौ द्वाविवार्कौ नभश्च्युतौ ॥ (१९।२)

rudhireṇāvaliptāṅgau dvāvivārkau nabhaścyutau ||

20.1२०.१

ततस्ता विद्रुता नार्यः स च दैत्यगणस्तदा । (२०।१)

tatastā vidrutā nāryaḥ sa ca daityagaṇastadā |

20.2२०.२

पातालम् अगमत् सर्वो विषादभयकम्पितः ॥ (२०।२)

pātālam agamat sarvo viṣādabhayakampitaḥ ||

21.1२१.१

ततः पितामहस्तत्र सह देवैर् महर्षिभिः । (२१।१)

tataḥ pitāmahastatra saha devair maharṣibhiḥ |

21.2२१.२

आजगाम विशुद्धात्मा पूजयिष्यंस्तिलोत्तमाम् ॥ (२१।२)

ājagāma viśuddhātmā pūjayiṣyaṃstilottamām ||

22.1२२.१

वरेण छन्दिता सा तु ब्रह्मणा प्रीतिम् एव ह । (२२।१)

vareṇa chanditā sā tu brahmaṇā prītim eva ha |

22.2२२.२

वरयामास तत्रैनां प्रीतः प्राह पितामहः ॥ (२२।२)

varayāmāsa tatraināṃ prītaḥ prāha pitāmahaḥ ||

23.1२३.१

आदित्यचरितांल् लोकान् विचरिष्यसि भामिनि । (२३।१)

ādityacaritāṃl lokān vicariṣyasi bhāmini |

23.2२३.२

तेजसा च सुदृष्टां त्वां न करिष्यति कश्चन ॥ (२३।२)

tejasā ca sudṛṣṭāṃ tvāṃ na kariṣyati kaścana ||

24.1२४.१

एवं तस्यै वरं दत्त्वा सर्वलोकपितामहः । (२४।१)

evaṃ tasyai varaṃ dattvā sarvalokapitāmahaḥ |

24.2२४.२

इन्द्रे त्रैलोक्यम् आधाय ब्रह्मलोकं गतः प्रभुः ॥ (२४।२)

indre trailokyam ādhāya brahmalokaṃ gataḥ prabhuḥ ||

25.1२५.१

एवं तौ सहितौ भूत्वा सर्वार्थेष्वेकनिश्चयौ । (२५।१)

evaṃ tau sahitau bhūtvā sarvārtheṣvekaniścayau |

25.2२५.२

तिलोत्तमार्थे संक्रुद्धावन्योन्यम् अभिजघ्नतुः ॥ (२५।२)

tilottamārthe saṃkruddhāvanyonyam abhijaghnatuḥ ||

26.1२६.१

तस्माद् ब्रवीमि वः स्नेहात् सर्वान् भरतसत्तमान् । (२६।१)

tasmād bravīmi vaḥ snehāt sarvān bharatasattamān |

26.2२६.२

यथा वो नात्र भेदः स्यात् सर्वेषां द्रौपदीकृते । (२६।२)

yathā vo nātra bhedaḥ syāt sarveṣāṃ draupadīkṛte |

26.3२६.३

तथा कुरुत भद्रं वो मम चेत् प्रियम् इच्छथ । (२६।३)

tathā kuruta bhadraṃ vo mama cet priyam icchatha |

26.4२६.४

यथा सुन्दोपसुन्दाभ्यां तथा न स्याद् युधिष्ठिर ॥ (२६।४)

yathā sundopasundābhyāṃ tathā na syād yudhiṣṭhira ||

27.1२७.१

वैशंपायन उवाच । (२७।१)

vaiśaṃpāyana uvāca

27.2२७.२

एवम् उक्ता महात्मानो नारदेन महर्षिणा । (२७।२)

evam uktā mahātmāno nāradena maharṣiṇā |

27.3२७.३

समयं चक्रिरे राजंस्ते ऽन्योन्येन समागताः । (२७।३)

samayaṃ cakrire rājaṃste 'nyonyena samāgatāḥ |

27.4२७.४

समक्षं तस्य देवर्षेर् नारदस्यामितौजसः । (२७।४)

samakṣaṃ tasya devarṣer nāradasyāmitaujasaḥ |

27.5२७.५

एकैकस्य गृहे कृष्णा वसेद् वर्षम् अकल्मषा ॥ (२७।५)

ekaikasya gṛhe kṛṣṇā vased varṣam akalmaṣā ||

28.1२८.१

द्रौपद्या नः सहासीनम् अन्योन्यं यो ऽभिदर्शयेत् । (२८।१)

draupadyā naḥ sahāsīnam anyonyaṃ yo 'bhidarśayet |

28.2२८.२

स नो द्वादश वर्षाणि ब्रह्मचारी वने वसेत् ॥ (२८।२)

sa no dvādaśa varṣāṇi brahmacārī vane vaset ||

29.1२९.१

कृते तु समये तस्मिन् पाण्डवैर् धर्मचारिभिः । (२९।१)

kṛte tu samaye tasmin pāṇḍavair dharmacāribhiḥ |

29.2२९.२

ततः स भगवांस्तत्र पाण्डवैर् अर्चितः प्रभुः । (२९।२)

tataḥ sa bhagavāṃstatra pāṇḍavair arcitaḥ prabhuḥ |

29.3२९.३

नारदो ऽप्यगमत् प्रीत इष्टं देशं महामुनिः ॥ (२९।३)

nārado 'pyagamat prīta iṣṭaṃ deśaṃ mahāmuniḥ ||

30.1३०.१

एवं तैः समयः पूर्वं कृतो नारदचोदितैः । (३०।१)

evaṃ taiḥ samayaḥ pūrvaṃ kṛto nāradacoditaiḥ |

30.2३०.२

न चाभिद्यन्त ते सर्वे तदान्योन्येन भारत । (३०।२)

na cābhidyanta te sarve tadānyonyena bhārata |

30.3३०.३

एतद् विस्तरतः सर्वम् आख्यातं ते नरेश्वर । (३०।३)

etad vistarataḥ sarvam ākhyātaṃ te nareśvara |

30.4३०.४

काले च तस्मिन् सम्पन्नं यथावज्जनमेजय ॥ (३०।४)

kāle ca tasmin sampannaṃ yathāvajjanamejaya ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 1, 204

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit