MBh, 13, 33
Select a line for its word-by-word analysis.
किं राज्ञः सर्वकृत्यानां गरीयः स्यात् पितामह । (१।२)
kiṃ rājñaḥ sarvakṛtyānāṃ garīyaḥ syāt pitāmaha |
किं कुर्वन् कर्म नृपतिर् उभौ लोकौ समश्नुते ॥ (१।३)
kiṃ kurvan karma nṛpatir ubhau lokau samaśnute ||
ब्राह्मणानाम् अनुष्ठानम् अत्यन्तं सुखम् इच्छता । (२।३)
brāhmaṇānām anuṣṭhānam atyantaṃ sukham icchatā |
श्रोत्रियान् ब्राह्मणान् वृद्धान्नित्यम् एवाभिपूजयेत् ॥ (२।४)
śrotriyān brāhmaṇān vṛddhānnityam evābhipūjayet ||
पौरजानपदांश्चापि ब्राह्मणांश्च बहुश्रुतान् । (३।१)
paurajānapadāṃścāpi brāhmaṇāṃśca bahuśrutān |
एतत् कृत्यतमं राज्ञो नित्यम् एवेति लक्षयेत् । (४।१)
etat kṛtyatamaṃ rājño nityam eveti lakṣayet |
यथात्मानं यथा पुत्रांस्तथैतान् परिपालयेत् ॥ (४।२)
yathātmānaṃ yathā putrāṃstathaitān paripālayet ||
ये चाप्येषां पूज्यतमास्तान् दृढं प्रतिपूजयेत् । (५।१)
ye cāpyeṣāṃ pūjyatamāstān dṛḍhaṃ pratipūjayet |
तेषु शान्तेषु तद् राष्ट्रं सर्वम् एव विराजते ॥ (५।२)
teṣu śānteṣu tad rāṣṭraṃ sarvam eva virājate ||
ते पूज्यास्ते नमस्कार्यास्ते रक्ष्याः पितरो यथा । (६।१)
te pūjyāste namaskāryāste rakṣyāḥ pitaro yathā |
निःशेषं कुपिताः कुर्युर् उग्राः सत्यपराक्रमाः ॥ (७।२)
niḥśeṣaṃ kupitāḥ kuryur ugrāḥ satyaparākramāḥ ||
नान्तम् एषां प्रपश्यामि न दिशश्चाप्यपावृताः । (८।१)
nāntam eṣāṃ prapaśyāmi na diśaścāpyapāvṛtāḥ |
कूपा इव तृणच्छन्ना विशुद्धा द्यौर् इवापरे ॥ (९।२)
kūpā iva tṛṇacchannā viśuddhā dyaur ivāpare ||
सन्ति चैषाम् अतिशठास्तथान्ये ऽतितपस्विनः ॥ (१०।२)
santi caiṣām atiśaṭhāstathānye 'titapasvinaḥ ||
कृषिगोरक्ष्यम् अप्यन्ये भैक्षम् अन्ये ऽप्यनुष्ठिताः । (११।१)
kṛṣigorakṣyam apyanye bhaikṣam anye 'pyanuṣṭhitāḥ |
चोराश्चान्ये ऽनृताश्चान्ये तथान्ये नटनर्तकाः ॥ (११।२)
corāścānye 'nṛtāścānye tathānye naṭanartakāḥ ||
सर्वकर्मसु दृश्यन्ते प्रशान्तेष्वितरेषु च । (१२।१)
sarvakarmasu dṛśyante praśānteṣvitareṣu ca |
धर्मज्ञानां सतां तेषां नित्यम् एवानुकीर्तयेत् ॥ (१३।२)
dharmajñānāṃ satāṃ teṣāṃ nityam evānukīrtayet ||
नैते देवैर् न पितृभिर् न गन्धर्वैर् न राक्षसैः । (१५।१)
naite devair na pitṛbhir na gandharvair na rākṣasaiḥ |
नासुरैर् न पिशाचैश्च शक्या जेतुं द्विजातयः ॥ (१५।२)
nāsurair na piśācaiśca śakyā jetuṃ dvijātayaḥ ||
अदैवं दैवतं कुर्युर् दैवतं चाप्यदैवतम् । (१६।१)
adaivaṃ daivataṃ kuryur daivataṃ cāpyadaivatam |
यम् इच्छेयुः स राजा स्याद् यं द्विष्युः स पराभवेत् ॥ (१६।२)
yam iccheyuḥ sa rājā syād yaṃ dviṣyuḥ sa parābhavet ||
परिवादं च ये कुर्युर् ब्राह्मणानाम् अचेतसः । (१७।१)
parivādaṃ ca ye kuryur brāhmaṇānām acetasaḥ |
निन्दाप्रशंसाकुशलाः कीर्त्यकीर्तिपरावराः । (१७।२)
nindāpraśaṃsākuśalāḥ kīrtyakīrtiparāvarāḥ |
परिकुप्यन्ति ते राजन् सततं द्विषतां द्विजाः ॥ (१७।३)
parikupyanti te rājan satataṃ dviṣatāṃ dvijāḥ ||
ब्राह्मणा यं प्रशंसन्ति पुरुषः स प्रवर्धते । (१८।१)
brāhmaṇā yaṃ praśaṃsanti puruṣaḥ sa pravardhate |
ब्राह्मणैर् यः पराक्रुष्टः पराभूयात् क्षणाद्धि सः ॥ (१८।२)
brāhmaṇair yaḥ parākruṣṭaḥ parābhūyāt kṣaṇāddhi saḥ ||
वृषलत्वं परिगता ब्राह्मणानाम् अदर्शनात् ॥ (१९।२)
vṛṣalatvaṃ parigatā brāhmaṇānām adarśanāt ||
द्रमिलाश्च कलिङ्गाश्च पुलिन्दाश्चाप्युशीनराः । (२०।१)
dramilāśca kaliṅgāśca pulindāścāpyuśīnarāḥ |
कौलाः सर्पा माहिषकास्तास्ताः क्षत्रियजातयः ॥ (२०।२)
kaulāḥ sarpā māhiṣakāstāstāḥ kṣatriyajātayaḥ ||
श्रेयान् पराजयस्तेभ्यो न जयो जयतां वर ॥ (२१।२)
śreyān parājayastebhyo na jayo jayatāṃ vara ||
यस्तु सर्वम् इदं हन्याद् ब्राह्मणं च न तत्समम् । (२२।१)
yastu sarvam idaṃ hanyād brāhmaṇaṃ ca na tatsamam |
ब्रह्मवध्या महान् दोष इत्याहुः परमर्षयः ॥ (२२।२)
brahmavadhyā mahān doṣa ityāhuḥ paramarṣayaḥ ||
आसीताधोमुखस्तूष्णीं समुत्थाय व्रजेत वा ॥ (२३।२)
āsītādhomukhastūṣṇīṃ samutthāya vrajeta vā ||
न स जातो जनिष्यो वा पृथिव्याम् इह कश्चन । (२४।१)
na sa jāto janiṣyo vā pṛthivyām iha kaścana |
यो ब्राह्मणविरोधेन सुखं जीवितुम् उत्सहेत् ॥ (२४।२)
yo brāhmaṇavirodhena sukhaṃ jīvitum utsahet ||
दुर्ग्रहो मुष्टिना वायुर् दुःस्पर्शः पाणिना शशी । (२५।१)
durgraho muṣṭinā vāyur duḥsparśaḥ pāṇinā śaśī |
दुर्धरा पृथिवी मूर्ध्ना दुर्जया ब्राह्मणा भुवि ॥ (२५।२)
durdharā pṛthivī mūrdhnā durjayā brāhmaṇā bhuvi ||
Data courtesy of The Digital Corpus of Sanskrit.