MBh, 2, 44
Select a line for its word-by-word analysis.
दुर्योधन न ते ऽमर्षः कार्यः प्रति युधिष्ठिरम् । (१।२)
duryodhana na te 'marṣaḥ kāryaḥ prati yudhiṣṭhiram |
अनेकैर् अभ्युपायैश्च त्वयारब्धाः पुरासकृत् । (२।१)
anekair abhyupāyaiśca tvayārabdhāḥ purāsakṛt |
तैर् लब्धा द्रौपदी भार्या द्रुपदश्च सुतैः सह । (३।१)
tair labdhā draupadī bhāryā drupadaśca sutaiḥ saha |
लब्धश्च नाभिभूतो ऽर्थः पित्र्यो ऽंशः पृथिवीपते । (४।१)
labdhaśca nābhibhūto 'rthaḥ pitryo 'ṃśaḥ pṛthivīpate |
लब्धान्यस्त्राणि दिव्यानि तर्पयित्वा हुताशनम् ॥ (५।२)
labdhānyastrāṇi divyāni tarpayitvā hutāśanam ||
तन्मिथ्या भ्रातरो हीमे सहायास्ते महारथाः ॥ (९।२)
tanmithyā bhrātaro hīme sahāyāste mahārathāḥ ||
अहं च सह सोदर्यैः सौमदत्तिश्च वीर्यवान् । (११।१)
ahaṃ ca saha sodaryaiḥ saumadattiśca vīryavān |
एतैस्त्वं सहितः सर्वैर् जय कृत्स्नां वसुंधराम् ॥ (११।२)
etaistvaṃ sahitaḥ sarvair jaya kṛtsnāṃ vasuṃdharām ||
त्वया च सहितो राजन्न् एतैश्चान्यैर् महारथैः । (१२।२)
tvayā ca sahito rājann etaiścānyair mahārathaiḥ |
नैते युधि बलाज्जेतुं शक्याः सुरगणैर् अपि । (१५।१)
naite yudhi balājjetuṃ śakyāḥ suragaṇair api |
महारथा महेष्वासाः कृतास्त्रा युद्धदुर्मदाः ॥ (१५।२)
mahārathā maheṣvāsāḥ kṛtāstrā yuddhadurmadāḥ ||
युधिष्ठिरं स्वयं राजंस्तन्निबोध जुषस्व च ॥ (१६।२)
yudhiṣṭhiraṃ svayaṃ rājaṃstannibodha juṣasva ca ||
यदि शक्या विजेतुं ते तन्ममाचक्ष्व मातुल ॥ (१७।३)
yadi śakyā vijetuṃ te tanmamācakṣva mātula ||
द्यूतप्रियश्च कौन्तेयो न च जानाति देवितुम् । (१८।२)
dyūtapriyaśca kaunteyo na ca jānāti devitum |
समाहूतश्च राजेन्द्रो न शक्ष्यति निवर्तितुम् ॥ (१८।३)
samāhūtaśca rājendro na śakṣyati nivartitum ||
देवने कुशलश्चाहं न मे ऽस्ति सदृशो भुवि । (१९।१)
devane kuśalaścāhaṃ na me 'sti sadṛśo bhuvi |
त्रिषु लोकेषु कौन्तेयं तं त्वं द्यूते समाह्वय ॥ (१९।२)
triṣu lokeṣu kaunteyaṃ taṃ tvaṃ dyūte samāhvaya ||
तस्याक्षकुशलो राजन्न् आदास्ये ऽहम् असंशयम् । (२०।१)
tasyākṣakuśalo rājann ādāsye 'ham asaṃśayam |
राज्यं श्रियं च तां दीप्तां त्वदर्थं पुरुषर्षभ ॥ (२०।२)
rājyaṃ śriyaṃ ca tāṃ dīptāṃ tvadarthaṃ puruṣarṣabha ||
इदं तु सर्वं त्वं राज्ञे दुर्योधन निवेदय । (२१।१)
idaṃ tu sarvaṃ tvaṃ rājñe duryodhana nivedaya |
अनुज्ञातस्तु ते पित्रा विजेष्ये तं न संशयः ॥ (२१।२)
anujñātastu te pitrā vijeṣye taṃ na saṃśayaḥ ||
त्वम् एव कुरुमुख्याय धृतराष्ट्राय सौबल । (२२।२)
tvam eva kurumukhyāya dhṛtarāṣṭrāya saubala |
निवेदय यथान्यायं नाहं शक्ष्ये निशंसितुम् ॥ (२२।३)
nivedaya yathānyāyaṃ nāhaṃ śakṣye niśaṃsitum ||
Data courtesy of The Digital Corpus of Sanskrit.