MBh, 1, 66
Select a line for its word-by-word analysis.
विश्वामित्रं तपस्यन्तं मेनका भीरुर् आश्रमे ॥ (२।२)
viśvāmitraṃ tapasyantaṃ menakā bhīrur āśrame ||
अभिवाद्य ततः सा तं प्राक्रीडद् ऋषिसंनिधौ । (३।१)
abhivādya tataḥ sā taṃ prākrīḍad ṛṣisaṃnidhau |
सागच्छत् त्वरिता भूमिं वासस्तद् अभिलिङ्गती । (४।१)
sāgacchat tvaritā bhūmiṃ vāsastad abhiliṅgatī |
विश्वामित्रस्ततस्तां तु विषमस्थाम् अनिन्दिताम् ॥ (४।४)
viśvāmitrastatastāṃ tu viṣamasthām aninditām ||
गृद्धां वाससि संभ्रान्तां मेनकां मुनिसत्तमः । (५।१)
gṛddhāṃ vāsasi saṃbhrāntāṃ menakāṃ munisattamaḥ |
तस्या रूपगुणं दृष्ट्वा स तु विप्रर्षभस्तदा । (६।१)
tasyā rūpaguṇaṃ dṛṣṭvā sa tu viprarṣabhastadā |
न्यमन्त्रयत चाप्येनां सा चाप्यैच्छद् अनिन्दिता । (७।१)
nyamantrayata cāpyenāṃ sā cāpyaicchad aninditā |
कामक्रोधावजितवान् मुनिर् नित्यं क्षमान्वितः । (७।५)
kāmakrodhāvajitavān munir nityaṃ kṣamānvitaḥ |
मोहाभिभूतः क्रोधात्मा ग्रसन् मूलफलं मुनिः । (७।८)
mohābhibhūtaḥ krodhātmā grasan mūlaphalaṃ muniḥ |
पादैर् जलरवं कृत्वा अन्तर्द्वीपे कुटीं गतः । (७।९)
pādair jalaravaṃ kṛtvā antardvīpe kuṭīṃ gataḥ |
अद्य संज्ञां विजानामि येन केन तपःक्षयम् । (७।१२)
adya saṃjñāṃ vijānāmi yena kena tapaḥkṣayam |
हन्त निर्यामि चेत्युक्त्वा ऋतुस्नाता तु मेनका । (७।१३)
hanta niryāmi cetyuktvā ṛtusnātā tu menakā |
कामरागाभिभूतस्य मुनेः पार्श्वं जगाम सा ॥ (७।१४)
kāmarāgābhibhūtasya muneḥ pārśvaṃ jagāma sā ||
प्रस्थे हिमवतो रम्ये मालिनीम् अभितो नदीम् । (८।२)
prasthe himavato ramye mālinīm abhito nadīm |
तस्मात् स्वर्गं गमिष्यामि देवकार्यार्थम् आगता ॥ (८।६)
tasmāt svargaṃ gamiṣyāmi devakāryārtham āgatā ||
जातम् उत्सृज्य तं गर्भं मेनका मालिनीम् अनु । (९।१)
jātam utsṛjya taṃ garbhaṃ menakā mālinīm anu |
कृतकार्या ततस्तूर्णम् अगच्छच्छक्रसंसदम् ॥ (९।२)
kṛtakāryā tatastūrṇam agacchacchakrasaṃsadam ||
तं वने विजने गर्भं सिंहव्याघ्रसमाकुले । (१०।१)
taṃ vane vijane garbhaṃ siṃhavyāghrasamākule |
दृष्ट्वा शयानं शकुनाः समन्तात् पर्यवारयन् ॥ (१०।२)
dṛṣṭvā śayānaṃ śakunāḥ samantāt paryavārayan ||
नेमां हिंस्युर् वने बालां क्रव्यादा मांसगृद्धिनः । (११।१)
nemāṃ hiṃsyur vane bālāṃ kravyādā māṃsagṛddhinaḥ |
पर्यरक्षन्त तां तत्र शकुन्ता मेनकात्मजाम् ॥ (११।२)
paryarakṣanta tāṃ tatra śakuntā menakātmajām ||
उपस्प्रष्टुं गतश्चाहम् अपश्यं शयिताम् इमाम् । (१२।१)
upaspraṣṭuṃ gataścāham apaśyaṃ śayitām imām |
मां दृष्ट्वैवाभ्यपद्यन्त पादयोः पतिता द्विजाः । (१२।२)
māṃ dṛṣṭvaivābhyapadyanta pādayoḥ patitā dvijāḥ |
विश्वामित्रसुतां ब्रह्मन् न्यासभूतां भरस्व वै । (१२।४)
viśvāmitrasutāṃ brahman nyāsabhūtāṃ bharasva vai |
तस्मात् पोषय पुत्रीं ते दयावन्न् इति ते ऽब्रुवन् । (१२।६)
tasmāt poṣaya putrīṃ te dayāvann iti te 'bruvan |
सर्वभूतरुतज्ञो ऽहं दयावान् सर्वजन्तुषु । (१२।७)
sarvabhūtarutajño 'haṃ dayāvān sarvajantuṣu |
निर्जने विपिने ऽरण्ये शकुन्तैः परिवारिताम् । (१२।८)
nirjane vipine 'raṇye śakuntaiḥ parivāritām |
आनयित्वा ततश्चैनां दुहितृत्वे न्ययोजयम् ॥ (१२।९)
ānayitvā tataścaināṃ duhitṛtve nyayojayam ||
शरीरकृत् प्राणदाता यस्य चान्नानि भुञ्जते । (१३।१)
śarīrakṛt prāṇadātā yasya cānnāni bhuñjate |
क्रमेण ते त्रयो ऽप्युक्ताः पितरो धर्मनिश्चये ॥ (१३।२)
krameṇa te trayo 'pyuktāḥ pitaro dharmaniścaye ||
निर्जने च वने यस्माच्छकुन्तैः परिरक्षिता । (१४।१)
nirjane ca vane yasmācchakuntaiḥ parirakṣitā |
एवं दुहितरं विद्धि मम सौम्य शकुन्तलाम् । (१५।१)
evaṃ duhitaraṃ viddhi mama saumya śakuntalām |
सुतां कण्वस्य माम् एवं विद्धि त्वं मनुजाधिप ॥ (१६।२)
sutāṃ kaṇvasya mām evaṃ viddhi tvaṃ manujādhipa ||
कण्वं हि पितरं मन्ये पितरं स्वम् अजानती । (१७।१)
kaṇvaṃ hi pitaraṃ manye pitaraṃ svam ajānatī |
इति ते कथितं राजन् यथावृत्तं श्रुतं मया ॥ (१७।२)
iti te kathitaṃ rājan yathāvṛttaṃ śrutaṃ mayā ||
Data courtesy of The Digital Corpus of Sanskrit.