MBh, 13, 32
Select a line for its word-by-word analysis.
के पूज्याः के नमस्कार्या मानवैर् भरतर्षभ । (१।२)
ke pūjyāḥ ke namaskāryā mānavair bharatarṣabha |
विस्तरेण तद् आचक्ष्व न हि तृप्यामि कथ्यताम् ॥ (१।३)
vistareṇa tad ācakṣva na hi tṛpyāmi kathyatām ||
नारदं प्राञ्जलिं दृष्ट्वा पूजयानं द्विजर्षभान् । (३।१)
nāradaṃ prāñjaliṃ dṛṣṭvā pūjayānaṃ dvijarṣabhān |
शक्यं चेच्छ्रोतुम् इच्छामि ब्रूह्येतद् धर्मवित्तम ॥ (४।२)
śakyaṃ cecchrotum icchāmi brūhyetad dharmavittama ||
त्वत्तो ऽन्यः कः पुमांल् लोके श्रोतुम् एतद् इहार्हति ॥ (५।३)
tvatto 'nyaḥ kaḥ pumāṃl loke śrotum etad ihārhati ||
स्थाणुं स्कन्दं तथा लक्ष्मीं विष्णुं ब्रह्माणम् एव च ॥ (६।२)
sthāṇuṃ skandaṃ tathā lakṣmīṃ viṣṇuṃ brahmāṇam eva ca ||
वाचस्पतिं चन्द्रमसम् अपः पृथ्वीं सरस्वतीम् । (७।१)
vācaspatiṃ candramasam apaḥ pṛthvīṃ sarasvatīm |
महार्हान् वृष्णिशार्दूल सदा सम्पूजयाम्यहम् ॥ (८।२)
mahārhān vṛṣṇiśārdūla sadā sampūjayāmyaham ||
अभुक्त्वा देवकार्याणि कुर्वते ये ऽविकत्थनाः । (९।१)
abhuktvā devakāryāṇi kurvate ye 'vikatthanāḥ |
संतुष्टाश्च क्षमायुक्तास्तान्नमस्याम्यहं विभो ॥ (९।२)
saṃtuṣṭāśca kṣamāyuktāstānnamasyāmyahaṃ vibho ||
सम्यग् ददति ये चेष्टान् क्षान्ता दान्ता जितेन्द्रियाः । (१०।१)
samyag dadati ye ceṣṭān kṣāntā dāntā jitendriyāḥ |
सस्यं धनं क्षितिं गाश्च तान्नमस्यामि यादव ॥ (१०।२)
sasyaṃ dhanaṃ kṣitiṃ gāśca tānnamasyāmi yādava ||
ये भृत्यभरणे सक्ताः सततं चातिथिप्रियाः । (१२।१)
ye bhṛtyabharaṇe saktāḥ satataṃ cātithipriyāḥ |
ये वेदं प्राप्य दुर्धर्षा वाग्मिनो ब्रह्मवादिनः । (१३।१)
ye vedaṃ prāpya durdharṣā vāgmino brahmavādinaḥ |
याजनाध्यापने युक्ता नित्यं तान् पूजयाम्यहम् ॥ (१३।२)
yājanādhyāpane yuktā nityaṃ tān pūjayāmyaham ||
प्रसन्नहृदयाश्चैव सर्वसत्त्वेषु नित्यशः । (१४।१)
prasannahṛdayāścaiva sarvasattveṣu nityaśaḥ |
आ पृष्ठतापात् स्वाध्याये युक्तास्तान् पूजयाम्यहम् ॥ (१४।२)
ā pṛṣṭhatāpāt svādhyāye yuktāstān pūjayāmyaham ||
गुरुप्रसादे स्वाध्याये यतन्ते ये स्थिरव्रताः । (१५।१)
guruprasāde svādhyāye yatante ye sthiravratāḥ |
सुव्रता मुनयो ये च ब्रह्मण्याः सत्यसंगराः । (१६।१)
suvratā munayo ye ca brahmaṇyāḥ satyasaṃgarāḥ |
भैक्ष्यचर्यासु निरताः कृशा गुरुकुलाश्रयाः । (१७।१)
bhaikṣyacaryāsu niratāḥ kṛśā gurukulāśrayāḥ |
निःसुखा निर्धना ये च तान्नमस्यामि यादव ॥ (१७।२)
niḥsukhā nirdhanā ye ca tānnamasyāmi yādava ||
निर्ममा निष्प्रतिद्वंद्वा निर्ह्रीका निष्प्रयोजनाः । (१८।१)
nirmamā niṣpratidvaṃdvā nirhrīkā niṣprayojanāḥ |
येषां त्रिवर्गः कृत्येषु वर्तते नोपहीयते । (२०।१)
yeṣāṃ trivargaḥ kṛtyeṣu vartate nopahīyate |
शिष्टाचारप्रवृत्ताश्च तान्नमस्याम्यहं सदा ॥ (२०।२)
śiṣṭācārapravṛttāśca tānnamasyāmyahaṃ sadā ||
ब्राह्मणास्त्रिषु लोकेषु ये त्रिवर्गम् अनुष्ठिताः । (२१।१)
brāhmaṇāstriṣu lokeṣu ye trivargam anuṣṭhitāḥ |
अब्भक्षा वायुभक्षाश्च सुधाभक्षाश्च ये सदा । (२२।१)
abbhakṣā vāyubhakṣāśca sudhābhakṣāśca ye sadā |
व्रतैश्च विविधैर् युक्तास्तान्नमस्यामि माधव ॥ (२२।२)
vrataiśca vividhair yuktāstānnamasyāmi mādhava ||
अयोनीन् अग्नियोनींश्च ब्रह्मयोनींस्तथैव च । (२३।१)
ayonīn agniyonīṃśca brahmayonīṃstathaiva ca |
सर्वभूतात्मयोनींश् च तान्नमस्याम्यहं द्विजान् ॥ (२३।२)
sarvabhūtātmayonīṃś ca tānnamasyāmyahaṃ dvijān ||
नित्यम् एतान्नमस्यामि कृष्ण लोककरान् ऋषीन् । (२४।१)
nityam etānnamasyāmi kṛṣṇa lokakarān ṛṣīn |
लोकज्येष्ठाञ् ज्ञाननिष्ठांस्तमोघ्नांल् लोकभास्करान् ॥ (२४।२)
lokajyeṣṭhāñ jñānaniṣṭhāṃstamoghnāṃl lokabhāskarān ||
तस्मात् त्वम् अपि वार्ष्णेय द्विजान् पूजय नित्यदा । (२५।१)
tasmāt tvam api vārṣṇeya dvijān pūjaya nityadā |
पूजिताः पूजनार्हा हि सुखं दास्यन्ति ते ऽनघ ॥ (२५।२)
pūjitāḥ pūjanārhā hi sukhaṃ dāsyanti te 'nagha ||
अस्मिंल् लोके सदा ह्येते परत्र च सुखप्रदाः । (२६।१)
asmiṃl loke sadā hyete paratra ca sukhapradāḥ |
त एते मान्यमाना वै प्रदास्यन्ति सुखं तव ॥ (२६।२)
ta ete mānyamānā vai pradāsyanti sukhaṃ tava ||
ये सर्वातिथयो नित्यं गोषु च ब्राह्मणेषु च । (२७।१)
ye sarvātithayo nityaṃ goṣu ca brāhmaṇeṣu ca |
नित्यं सत्ये च निरता दुर्गाण्यतितरन्ति ते ॥ (२७।२)
nityaṃ satye ca niratā durgāṇyatitaranti te ||
नित्यं स्वाध्यायिनो ये च दुर्गाण्यतितरन्ति ते ॥ (२८।२)
nityaṃ svādhyāyino ye ca durgāṇyatitaranti te ||
सर्वान् देवान्नमस्यन्ति ये चैकं देवम् आश्रिताः । (२९।१)
sarvān devānnamasyanti ye caikaṃ devam āśritāḥ |
श्रद्दधानाश्च दान्ताश्च दुर्गाण्यतितरन्ति ते ॥ (२९।२)
śraddadhānāśca dāntāśca durgāṇyatitaranti te ||
अग्नीन् आधाय विधिवत् प्रयता धारयन्ति ये । (३१।१)
agnīn ādhāya vidhivat prayatā dhārayanti ye |
प्राप्ताः सोमाहुतिं चैव दुर्गाण्यतितरन्ति ते ॥ (३१।२)
prāptāḥ somāhutiṃ caiva durgāṇyatitaranti te ||
मातापित्रोर् गुरुषु च सम्यग् वर्तन्ति ये सदा । (३२।१)
mātāpitror guruṣu ca samyag vartanti ye sadā |
यथा त्वं वृष्णिशार्दूलेत्युक्त्वैवं विरराम सः ॥ (३२।२)
yathā tvaṃ vṛṣṇiśārdūletyuktvaivaṃ virarāma saḥ ||
तस्मात् त्वम् अपि कौन्तेय पितृदेवद्विजातिथीन् । (३३।१)
tasmāt tvam api kaunteya pitṛdevadvijātithīn |
सम्यक् पूजय येन त्वं गतिम् इष्टाम् अवाप्स्यसि ॥ (३३।२)
samyak pūjaya yena tvaṃ gatim iṣṭām avāpsyasi ||
Data courtesy of The Digital Corpus of Sanskrit.