MBh, 13, 88
Select a line for its word-by-word analysis.
किं स्विद् दत्तं पितृभ्यो वै भवत्यक्षयम् ईश्वर । (१।२)
kiṃ svid dattaṃ pitṛbhyo vai bhavatyakṣayam īśvara |
किं हविश्चिररात्राय किम् आनन्त्याय कल्पते ॥ (१।३)
kiṃ haviścirarātrāya kim ānantyāya kalpate ||
हवींषि श्राद्धकल्पे तु यानि श्राद्धविदो विदुः । (२।२)
havīṃṣi śrāddhakalpe tu yāni śrāddhavido viduḥ |
तानि मे शृणु काम्यानि फलं चैषां युधिष्ठिर ॥ (२।३)
tāni me śṛṇu kāmyāni phalaṃ caiṣāṃ yudhiṣṭhira ||
तिलैर् व्रीहियवैर् माषैर् अद्भिर् मूलफलैस्तथा । (३।१)
tilair vrīhiyavair māṣair adbhir mūlaphalaistathā |
दत्तेन मासं प्रीयन्ते श्राद्धेन पितरो नृप ॥ (३।२)
dattena māsaṃ prīyante śrāddhena pitaro nṛpa ||
वर्धमानतिलं श्राद्धम् अक्षयं मनुर् अब्रवीत् । (४।१)
vardhamānatilaṃ śrāddham akṣayaṃ manur abravīt |
सर्वेष्वेव तु भोज्येषु तिलाः प्राधान्यतः स्मृताः ॥ (४।२)
sarveṣveva tu bhojyeṣu tilāḥ prādhānyataḥ smṛtāḥ ||
द्वौ मासौ तु भवेत् तृप्तिर् मत्स्यैः पितृगणस्य ह । (५।१)
dvau māsau tu bhavet tṛptir matsyaiḥ pitṛgaṇasya ha |
त्रीन्मासान् आविकेनाहुश्चातुर्मास्यं शशेन तु ॥ (५।२)
trīnmāsān āvikenāhuścāturmāsyaṃ śaśena tu ||
गवयस्य तु मांसेन तृप्तिः स्याद् दशमासिकी ॥ (७।२)
gavayasya tu māṃsena tṛptiḥ syād daśamāsikī ||
गव्येन दत्ते श्राद्धे तु संवत्सरम् इहोच्यते ॥ (८।२)
gavyena datte śrāddhe tu saṃvatsaram ihocyate ||
वाध्रीणसस्य मांसेन तृप्तिर् द्वादशवार्षिकी ॥ (९।२)
vādhrīṇasasya māṃsena tṛptir dvādaśavārṣikī ||
आनन्त्याय भवेद् दत्तं खड्गमांसं पितृक्षये । (१०।१)
ānantyāya bhaved dattaṃ khaḍgamāṃsaṃ pitṛkṣaye |
कालशाकं च लौहं चाप्यानन्त्यं छाग उच्यते ॥ (१०।२)
kālaśākaṃ ca lauhaṃ cāpyānantyaṃ chāga ucyate ||
गाथाश्चाप्यत्र गायन्ति पितृगीता युधिष्ठिर । (११।१)
gāthāścāpyatra gāyanti pitṛgītā yudhiṣṭhira |
अपि नः स कुले जायाद् यो नो दद्यात् त्रयोदशीम् । (१२।१)
api naḥ sa kule jāyād yo no dadyāt trayodaśīm |
हस्तिच्छायासु विधिवत् कर्णव्यजनवीजितम् ॥ (१३।२)
hasticchāyāsu vidhivat karṇavyajanavījitam ||
एष्टव्या बहवः पुत्रा यद्येको ऽपि गयां व्रजेत् । (१४।१)
eṣṭavyā bahavaḥ putrā yadyeko 'pi gayāṃ vrajet |
यत्रासौ प्रथितो लोकेष्वक्षय्यकरणो वटः ॥ (१४।२)
yatrāsau prathito lokeṣvakṣayyakaraṇo vaṭaḥ ||
आपो मूलं फलं मांसम् अन्नं वापि पितृक्षये । (१५।१)
āpo mūlaṃ phalaṃ māṃsam annaṃ vāpi pitṛkṣaye |
यत् किंचिन्मधुसंमिश्रं तद् आनन्त्याय कल्पते ॥ (१५।२)
yat kiṃcinmadhusaṃmiśraṃ tad ānantyāya kalpate ||
Data courtesy of The Digital Corpus of Sanskrit.