महाभारतMahābhārata

MBh, 8, 30

1180 of 1995 · 184 verses

Select a line for its word-by-word analysis.

1.1१.१

संजय उवाच । (१।१)

saṃjaya uvāca

1.2१.२

ततः पुनर् महाराज मद्रराजम् अरिंदमम् । (१।२)

tataḥ punar mahārāja madrarājam ariṃdamam |

1.3१.३

अभ्यभाषत राधेयः संनिवार्योत्तरं वचः ॥ (१।३)

abhyabhāṣata rādheyaḥ saṃnivāryottaraṃ vacaḥ ||

2.1२.१

यत् त्वं निदर्शनार्थं मां शल्य जल्पितवान् असि । (२।१)

yat tvaṃ nidarśanārthaṃ māṃ śalya jalpitavān asi |

2.2२.२

नाहं शक्यस् त्वया वाचा विभीषयितुम् आहवे ॥ (२।२)

nāhaṃ śakyas tvayā vācā vibhīṣayitum āhave ||

3.1३.१

यदि मां देवताः सर्वा योधयेयुः सवासवाः । (३।१)

yadi māṃ devatāḥ sarvā yodhayeyuḥ savāsavāḥ |

3.2३.२

तथापि मे भयं न स्यात् किमु पार्थात् सकेशवात् ॥ (३।२)

tathāpi me bhayaṃ na syāt kimu pārthāt sakeśavāt ||

4.1४.१

नाहं भीषयितुं शक्यो वाङ्मात्रेण कथंचन । (४।१)

nāhaṃ bhīṣayituṃ śakyo vāṅmātreṇa kathaṃcana |

4.2४.२

अन्यं जानीहि यः शक्यस् त्वया भीषयितुं रणे ॥ (४।२)

anyaṃ jānīhi yaḥ śakyas tvayā bhīṣayituṃ raṇe ||

5.1५.१

नीचस्य बलम् एतावत् पारुष्यं यत् त्वम् आत्थ माम् । (५।१)

nīcasya balam etāvat pāruṣyaṃ yat tvam āttha mām |

5.2५.२

अशक्तो ऽस्मद्गुणान् प्राप्तुं वल्गसे बहु दुर्मते ॥ (५।२)

aśakto 'smadguṇān prāptuṃ valgase bahu durmate ||

6.1६.१

न हि कर्णः समुद्भूतो भयार्थम् इह मारिष । (६।१)

na hi karṇaḥ samudbhūto bhayārtham iha māriṣa |

6.2६.२

विक्रमार्थम् अहं जातो यशोऽर्थं च तथैव च ॥ (६।२)

vikramārtham ahaṃ jāto yaśo'rthaṃ ca tathaiva ca ||

7.1७.१

इदं तु मे त्वम् एकाग्रः शृणु मद्रजनाधिप । (७।१)

idaṃ tu me tvam ekāgraḥ śṛṇu madrajanādhipa |

7.2७.२

संनिधौ धृतराष्ट्रस्य प्रोच्यमानं मया श्रुतम् ॥ (७।२)

saṃnidhau dhṛtarāṣṭrasya procyamānaṃ mayā śrutam ||

8.1८.१

देशांश् च विविधांश् चित्रान् पूर्ववृत्तांश् च पार्थिवान् । (८।१)

deśāṃś ca vividhāṃś citrān pūrvavṛttāṃś ca pārthivān |

8.2८.२

ब्राह्मणाः कथयन्तः स्म धृतराष्ट्रम् उपासते ॥ (८।२)

brāhmaṇāḥ kathayantaḥ sma dhṛtarāṣṭram upāsate ||

9.1९.१

तत्र वृद्धः पुरावृत्ताः कथाः काश्चिद् द्विजोत्तमः । (९।१)

tatra vṛddhaḥ purāvṛttāḥ kathāḥ kāścid dvijottamaḥ |

9.2९.२

बाह्लीकदेशं मद्रांश् च कुत्सयन् वाक्यम् अब्रवीत् ॥ (९।२)

bāhlīkadeśaṃ madrāṃś ca kutsayan vākyam abravīt ||

10.1१०.१

बहिष्कृता हिमवता गङ्गया च तिरस्कृताः । (१०।१)

bahiṣkṛtā himavatā gaṅgayā ca tiraskṛtāḥ |

10.2१०.२

सरस्वत्या यमुनया कुरुक्षेत्रेण चापि ये ॥ (१०।२)

sarasvatyā yamunayā kurukṣetreṇa cāpi ye ||

11.1११.१

पञ्चानां सिन्धुषष्ठानां नदीनां ये ऽन्तर् आश्रिताः । (११।१)

pañcānāṃ sindhuṣaṣṭhānāṃ nadīnāṃ ye 'ntar āśritāḥ |

11.2११.२

तान् धर्मबाह्यान् अशुचीन् बाह्लीकान् परिवर्जयेत् ॥ (११।२)

tān dharmabāhyān aśucīn bāhlīkān parivarjayet ||

12.1१२.१

गोवर्धनो नाम वटः सुभाण्डं नाम चत्वरम् । (१२।१)

govardhano nāma vaṭaḥ subhāṇḍaṃ nāma catvaram |

12.2१२.२

एतद् राजकुलद्वारम् आकुमारः स्मराम्य् अहम् ॥ (१२।२)

etad rājakuladvāram ākumāraḥ smarāmy aham ||

13.1१३.१

कार्येणात्यर्थगाढेन बाह्लीकेषूषितं मया । (१३।१)

kāryeṇātyarthagāḍhena bāhlīkeṣūṣitaṃ mayā |

13.2१३.२

तत एषां समाचारः संवासाद् विदितो मम ॥ (१३।२)

tata eṣāṃ samācāraḥ saṃvāsād vidito mama ||

14.1१४.१

शाकलं नाम नगरम् आपगा नाम निम्नगा । (१४।१)

śākalaṃ nāma nagaram āpagā nāma nimnagā |

14.2१४.२

जर्तिका नाम बाह्लीकास् तेषां वृत्तं सुनिन्दितम् ॥ (१४।२)

jartikā nāma bāhlīkās teṣāṃ vṛttaṃ suninditam ||

15.1१५.१

धानागौडासवे पीत्वा गोमांसं लशुनैः सह । (१५।१)

dhānāgauḍāsave pītvā gomāṃsaṃ laśunaiḥ saha |

15.2१५.२

अपूपमांसवाट्यानाम् आशिनः शीलवर्जिताः ॥ (१५।२)

apūpamāṃsavāṭyānām āśinaḥ śīlavarjitāḥ ||

16.1१६.१

हसन्ति गान्ति नृत्यन्ति स्त्रीभिर् मत्ता विवाससः । (१६।१)

hasanti gānti nṛtyanti strībhir mattā vivāsasaḥ |

16.2१६.२

नगरागारवप्रेषु बहिर् माल्यानुलेपनाः ॥ (१६।२)

nagarāgāravapreṣu bahir mālyānulepanāḥ ||

17.1१७.१

मत्तावगीतैर् विविधैः खरोष्ट्रनिनदोपमैः । (१७।१)

mattāvagītair vividhaiḥ kharoṣṭraninadopamaiḥ |

17.2१७.२

आहुर् अन्योन्यम् उक्तानि प्रब्रुवाणा मदोत्कटाः ॥ (१७।२)

āhur anyonyam uktāni prabruvāṇā madotkaṭāḥ ||

18.1१८.१

हा हते हा हतेत्य् एव स्वामिभर्तृहतेति च । (१८।१)

hā hate hā hatety eva svāmibhartṛhateti ca |

18.2१८.२

आक्रोशन्त्यः प्रनृत्यन्ति मन्दाः पर्वस्व् असंयताः ॥ (१८।२)

ākrośantyaḥ pranṛtyanti mandāḥ parvasv asaṃyatāḥ ||

19.1१९.१

तेषां किलावलिप्तानां निवसन् कुरुजाङ्गले । (१९।१)

teṣāṃ kilāvaliptānāṃ nivasan kurujāṅgale |

19.2१९.२

कश्चिद् बाह्लीकमुख्यानां नातिहृष्टमना जगौ ॥ (१९।२)

kaścid bāhlīkamukhyānāṃ nātihṛṣṭamanā jagau ||

20.1२०.१

सा नूनं बृहती गौरी सूक्ष्मकम्बलवासिनी । (२०।१)

sā nūnaṃ bṛhatī gaurī sūkṣmakambalavāsinī |

20.2२०.२

माम् अनुस्मरती शेते बाह्लीकं कुरुवासिनम् ॥ (२०।२)

mām anusmaratī śete bāhlīkaṃ kuruvāsinam ||

21.1२१.१

शतद्रुकनदीं तीर्त्वा तां च रम्याम् इरावतीम् । (२१।१)

śatadrukanadīṃ tīrtvā tāṃ ca ramyām irāvatīm |

21.2२१.२

गत्वा स्वदेशं द्रक्ष्यामि स्थूलशङ्खाः शुभाः स्त्रियः ॥ (२१।२)

gatvā svadeśaṃ drakṣyāmi sthūlaśaṅkhāḥ śubhāḥ striyaḥ ||

22.1२२.१

मनःशिलोज्ज्वलापाङ्गा गौर्यस् त्रिककुदाञ्जनाः । (२२।१)

manaḥśilojjvalāpāṅgā gauryas trikakudāñjanāḥ |

22.2२२.२

केवलाजिनसंवीताः कूर्दन्त्यः प्रियदर्शनाः ॥ (२२।२)

kevalājinasaṃvītāḥ kūrdantyaḥ priyadarśanāḥ ||

23.1२३.१

मृदङ्गानकशङ्खानां मर्दलानां च निस्वनैः । (२३।१)

mṛdaṅgānakaśaṅkhānāṃ mardalānāṃ ca nisvanaiḥ |

23.2२३.२

खरोष्ट्राश्वतरैश् चैव मत्ता यास्यामहे सुखम् ॥ (२३।२)

kharoṣṭrāśvataraiś caiva mattā yāsyāmahe sukham ||

24.1२४.१

शमीपीलुकरीराणां वनेषु सुखवर्त्मसु । (२४।१)

śamīpīlukarīrāṇāṃ vaneṣu sukhavartmasu |

24.2२४.२

अपूपान् सक्तुपिण्डीश् च खादन्तो मथितान्विताः ॥ (२४।२)

apūpān saktupiṇḍīś ca khādanto mathitānvitāḥ ||

25.1२५.१

पथिषु प्रबला भूत्वा कदासमृदिते ऽध्वनि । (२५।१)

pathiṣu prabalā bhūtvā kadāsamṛdite 'dhvani |

25.2२५.२

खलोपहारं कुर्वाणास् ताडयिष्याम भूयसः ॥ (२५।२)

khalopahāraṃ kurvāṇās tāḍayiṣyāma bhūyasaḥ ||

26.1२६.१

एवं हीनेषु व्रात्येषु बाह्लीकेषु दुरात्मसु । (२६।१)

evaṃ hīneṣu vrātyeṣu bāhlīkeṣu durātmasu |

26.2२६.२

कश् चेतयानो निवसेन् मुहूर्तम् अपि मानवः ॥ (२६।२)

kaś cetayāno nivasen muhūrtam api mānavaḥ ||

27.1२७.१

ईदृशा ब्राह्मणेनोक्ता बाह्लीका मोघचारिणः । (२७।१)

īdṛśā brāhmaṇenoktā bāhlīkā moghacāriṇaḥ |

27.2२७.२

येषां षड्भागहर्ता त्वम् उभयोः शुभपापयोः ॥ (२७।२)

yeṣāṃ ṣaḍbhāgahartā tvam ubhayoḥ śubhapāpayoḥ ||

28.1२८.१

इत्य् उक्त्वा ब्राह्मणः साधुर् उत्तरं पुनर् उक्तवान् । (२८।१)

ity uktvā brāhmaṇaḥ sādhur uttaraṃ punar uktavān |

28.2२८.२

बाह्लीकेष्व् अविनीतेषु प्रोच्यमानं निबोधत ॥ (२८।२)

bāhlīkeṣv avinīteṣu procyamānaṃ nibodhata ||

29.1२९.१

तत्र स्म राक्षसी गाति सदा कृष्णचतुर्दशीम् । (२९।१)

tatra sma rākṣasī gāti sadā kṛṣṇacaturdaśīm |

29.2२९.२

नगरे शाकले स्फीते आहत्य निशि दुन्दुभिम् ॥ (२९।२)

nagare śākale sphīte āhatya niśi dundubhim ||

30.1३०.१

कदा वा घोषिका गाथाः पुनर् गास्यन्ति शाकले । (३०।१)

kadā vā ghoṣikā gāthāḥ punar gāsyanti śākale |

30.2३०.२

गव्यस्य तृप्ता मांसस्य पीत्वा गौडं महासवम् ॥ (३०।२)

gavyasya tṛptā māṃsasya pītvā gauḍaṃ mahāsavam ||

31.1३१.१

गौरीभिः सह नारीभिर् बृहतीभिः स्वलंकृताः । (३१।१)

gaurībhiḥ saha nārībhir bṛhatībhiḥ svalaṃkṛtāḥ |

31.2३१.२

पलाण्डुगण्डूषयुतान् खादन्ते चैडकान् बहून् ॥ (३१।२)

palāṇḍugaṇḍūṣayutān khādante caiḍakān bahūn ||

32.1३२.१

वाराहं कौक्कुटं मांसं गव्यं गार्दभम् औष्ट्रकम् । (३२।१)

vārāhaṃ kaukkuṭaṃ māṃsaṃ gavyaṃ gārdabham auṣṭrakam |

32.2३२.२

ऐडं च ये न खादन्ति तेषां जन्म निरर्थकम् ॥ (३२।२)

aiḍaṃ ca ye na khādanti teṣāṃ janma nirarthakam ||

33.1३३.१

इति गायन्ति ये मत्ताः शीधुना शाकलावतः । (३३।१)

iti gāyanti ye mattāḥ śīdhunā śākalāvataḥ |

33.2३३.२

सबालवृद्धाः कूर्दन्तस् तेषु वृत्तं कथं भवेत् ॥ (३३।२)

sabālavṛddhāḥ kūrdantas teṣu vṛttaṃ kathaṃ bhavet ||

34.1३४.१

इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते । (३४।१)

iti śalya vijānīhi hanta bhūyo bravīmi te |

34.2३४.२

यद् अन्यो ऽप्य् उक्तवान् अस्मान् ब्राह्मणः कुरुसंसदि ॥ (३४।२)

yad anyo 'py uktavān asmān brāhmaṇaḥ kurusaṃsadi ||

35.1३५.१

पञ्च नद्यो वहन्त्य् एता यत्र पीलुवनान्य् अपि । (३५।१)

pañca nadyo vahanty etā yatra pīluvanāny api |

35.2३५.२

शतद्रुश् च विपाशा च तृतीयेरावती तथा । (३५।२)

śatadruś ca vipāśā ca tṛtīyerāvatī tathā |

35.3३५.३

चन्द्रभागा वितस्ता च सिन्धुषष्ठा बहिर् गताः ॥ (३५।३)

candrabhāgā vitastā ca sindhuṣaṣṭhā bahir gatāḥ ||

36.1३६.१

आरट्टा नाम ते देशा नष्टधर्मान् न तान् व्रजेत् । (३६।१)

āraṭṭā nāma te deśā naṣṭadharmān na tān vrajet |

36.2३६.२

व्रात्यानां दासमीयानां विदेहानाम् अयज्वनाम् ॥ (३६।२)

vrātyānāṃ dāsamīyānāṃ videhānām ayajvanām ||

37.1३७.१

न देवाः प्रतिगृह्णन्ति पितरो ब्राह्मणास् तथा । (३७।१)

na devāḥ pratigṛhṇanti pitaro brāhmaṇās tathā |

37.2३७.२

तेषां प्रनष्टधर्माणां बाह्लीकानाम् इति श्रुतिः ॥ (३७।२)

teṣāṃ pranaṣṭadharmāṇāṃ bāhlīkānām iti śrutiḥ ||

38.1३८.१

ब्राह्मणेन तथा प्रोक्तं विदुषा साधुसंसदि । (३८।१)

brāhmaṇena tathā proktaṃ viduṣā sādhusaṃsadi |

38.2३८.२

काष्ठकुण्डेषु बाह्लीका मृण्मयेषु च भुञ्जते । (३८।२)

kāṣṭhakuṇḍeṣu bāhlīkā mṛṇmayeṣu ca bhuñjate |

38.3३८.३

सक्तुवाट्यावलिप्तेषु श्वादिलीढेषु निर्घृणाः ॥ (३८।३)

saktuvāṭyāvalipteṣu śvādilīḍheṣu nirghṛṇāḥ ||

39.1३९.१

आविकं चौष्ट्रिकं चैव क्षीरं गार्दभम् एव च । (३९।१)

āvikaṃ cauṣṭrikaṃ caiva kṣīraṃ gārdabham eva ca |

39.2३९.२

तद्विकारांश् च बाह्लीकाः खादन्ति च पिबन्ति च ॥ (३९।२)

tadvikārāṃś ca bāhlīkāḥ khādanti ca pibanti ca ||

40.1४०.१

पुत्रसंकरिणो जाल्माः सर्वान्नक्षीरभोजनाः । (४०।१)

putrasaṃkariṇo jālmāḥ sarvānnakṣīrabhojanāḥ |

40.2४०.२

आरट्टा नाम बाह्लीका वर्जनीया विपश्चिता ॥ (४०।२)

āraṭṭā nāma bāhlīkā varjanīyā vipaścitā ||

41.1४१.१

उत शल्य विजानीहि हन्त भूयो ब्रवीमि ते । (४१।१)

uta śalya vijānīhi hanta bhūyo bravīmi te |

41.2४१.२

यद् अन्यो ऽप्य् उक्तवान् सभ्यो ब्राह्मणः कुरुसंसदि ॥ (४१।२)

yad anyo 'py uktavān sabhyo brāhmaṇaḥ kurusaṃsadi ||

42.1४२.१

युगंधरे पयः पीत्वा प्रोष्य चाप्य् अच्युतस्थले । (४२।१)

yugaṃdhare payaḥ pītvā proṣya cāpy acyutasthale |

42.2४२.२

तद्वद् भूतिलये स्नात्वा कथं स्वर्गं गमिष्यति ॥ (४२।२)

tadvad bhūtilaye snātvā kathaṃ svargaṃ gamiṣyati ||

43.1४३.१

पञ्च नद्यो वहन्त्य् एता यत्र निःसृत्य पर्वतात् । (४३।१)

pañca nadyo vahanty etā yatra niḥsṛtya parvatāt |

43.2४३.२

आरट्टा नाम बाह्लीका न तेष्व् आर्यो द्व्यहं वसेत् ॥ (४३।२)

āraṭṭā nāma bāhlīkā na teṣv āryo dvyahaṃ vaset ||

44.1४४.१

बहिश् च नाम ह्लीकश् च विपाशायां पिशाचकौ । (४४।१)

bahiś ca nāma hlīkaś ca vipāśāyāṃ piśācakau |

44.2४४.२

तयोर् अपत्यं बाह्लीका नैषा सृष्टिः प्रजापतेः ॥ (४४।२)

tayor apatyaṃ bāhlīkā naiṣā sṛṣṭiḥ prajāpateḥ ||

45.1४५.१

कारस्करान् महिषकान् कलिङ्गान् कीकटाटवीन् । (४५।१)

kāraskarān mahiṣakān kaliṅgān kīkaṭāṭavīn |

45.2४५.२

कर्कोटकान् वीरकांश् च दुर्धर्मांश् च विवर्जयेत् ॥ (४५।२)

karkoṭakān vīrakāṃś ca durdharmāṃś ca vivarjayet ||

46.1४६.१

इति तीर्थानुसर्तारं राक्षसी काचिद् अब्रवीत् । (४६।१)

iti tīrthānusartāraṃ rākṣasī kācid abravīt |

46.2४६.२

एकरात्रा शमीगेहे महोलूखलमेखला ॥ (४६।२)

ekarātrā śamīgehe maholūkhalamekhalā ||

47.1४७.१

आरट्टा नाम ते देशा बाह्लीका नाम ते जनाः । (४७।१)

āraṭṭā nāma te deśā bāhlīkā nāma te janāḥ |

47.2४७.२

वसातिसिन्धुसौवीरा इति प्रायो विकुत्सिताः ॥ (४७।२)

vasātisindhusauvīrā iti prāyo vikutsitāḥ ||

48.1४८.१

उत शल्य विजानीहि हन्त भूयो ब्रवीमि ते । (४८।१)

uta śalya vijānīhi hanta bhūyo bravīmi te |

48.2४८.२

उच्यमानं मया सम्यक् तद् एकाग्रमनाः शृणु ॥ (४८।२)

ucyamānaṃ mayā samyak tad ekāgramanāḥ śṛṇu ||

49.1४९.१

ब्राह्मणः शिल्पिनो गेहम् अभ्यगच्छत् पुरातिथिः । (४९।१)

brāhmaṇaḥ śilpino geham abhyagacchat purātithiḥ |

49.2४९.२

आचारं तत्र सम्प्रेक्ष्य प्रीतः शिल्पिनम् अब्रवीत् ॥ (४९।२)

ācāraṃ tatra samprekṣya prītaḥ śilpinam abravīt ||

50.1५०.१

मया हिमवतः शृङ्गम् एकेनाध्युषितं चिरम् । (५०।१)

mayā himavataḥ śṛṅgam ekenādhyuṣitaṃ ciram |

50.2५०.२

दृष्टाश् च बहवो देशा नानाधर्मसमाकुलाः ॥ (५०।२)

dṛṣṭāś ca bahavo deśā nānādharmasamākulāḥ ||

51.1५१.१

न च केनच धर्मेण विरुध्यन्ते प्रजा इमाः । (५१।१)

na ca kenaca dharmeṇa virudhyante prajā imāḥ |

51.2५१.२

सर्वे हि ते ऽब्रुवन् धर्मं यथोक्तं वेदपारगैः ॥ (५१।२)

sarve hi te 'bruvan dharmaṃ yathoktaṃ vedapāragaiḥ ||

52.1५२.१

अटता तु सदा देशान् नानाधर्मसमाकुलान् । (५२।१)

aṭatā tu sadā deśān nānādharmasamākulān |

52.2५२.२

आगच्छता महाराज बाह्लीकेषु निशामितम् ॥ (५२।२)

āgacchatā mahārāja bāhlīkeṣu niśāmitam ||

53.1५३.१

तत्रैव ब्राह्मणो भूत्वा ततो भवति क्षत्रियः । (५३।१)

tatraiva brāhmaṇo bhūtvā tato bhavati kṣatriyaḥ |

53.2५३.२

वैश्यः शूद्रश् च बाह्लीकस् ततो भवति नापितः ॥ (५३।२)

vaiśyaḥ śūdraś ca bāhlīkas tato bhavati nāpitaḥ ||

54.1५४.१

नापितश् च ततो भूत्वा पुनर् भवति ब्राह्मणः । (५४।१)

nāpitaś ca tato bhūtvā punar bhavati brāhmaṇaḥ |

54.2५४.२

द्विजो भूत्वा च तत्रैव पुनर् दासो ऽपि जायते ॥ (५४।२)

dvijo bhūtvā ca tatraiva punar dāso 'pi jāyate ||

55.1५५.१

भवत्य् एकः कुले विप्रः शिष्टान्ये कामचारिणः । (५५।१)

bhavaty ekaḥ kule vipraḥ śiṣṭānye kāmacāriṇaḥ |

55.2५५.२

गान्धारा मद्रकाश् चैव बाह्लीकाः के ऽप्य् अचेतसः ॥ (५५।२)

gāndhārā madrakāś caiva bāhlīkāḥ ke 'py acetasaḥ ||

56.1५६.१

एतन् मया श्रुतं तत्र धर्मसंकरकारकम् । (५६।१)

etan mayā śrutaṃ tatra dharmasaṃkarakārakam |

56.2५६.२

कृत्स्नाम् अटित्वा पृथिवीं बाह्लीकेषु विपर्ययः ॥ (५६।२)

kṛtsnām aṭitvā pṛthivīṃ bāhlīkeṣu viparyayaḥ ||

57.1५७.१

उत शल्य विजानीहि हन्त भूयो ब्रवीमि ते । (५७।१)

uta śalya vijānīhi hanta bhūyo bravīmi te |

57.2५७.२

यद् अप्य् अन्यो ऽब्रवीद् वाक्यं बाह्लीकानां विकुत्सितम् ॥ (५७।२)

yad apy anyo 'bravīd vākyaṃ bāhlīkānāṃ vikutsitam ||

58.1५८.१

सती पुरा हृता काचिद् आरट्टा किल दस्युभिः । (५८।१)

satī purā hṛtā kācid āraṭṭā kila dasyubhiḥ |

58.2५८.२

अधर्मतश् चोपयाता सा तान् अभ्यशपत् ततः ॥ (५८।२)

adharmataś copayātā sā tān abhyaśapat tataḥ ||

59.1५९.१

बालां बन्धुमतीं यन् माम् अधर्मेणोपगच्छथ । (५९।१)

bālāṃ bandhumatīṃ yan mām adharmeṇopagacchatha |

59.2५९.२

तस्मान् नार्यो भविष्यन्ति बन्धक्यो वै कुलेषु वः । (५९।२)

tasmān nāryo bhaviṣyanti bandhakyo vai kuleṣu vaḥ |

59.3५९.३

न चैवास्मात् प्रमोक्ष्यध्वं घोरात् पापान् नराधमाः ॥ (५९।३)

na caivāsmāt pramokṣyadhvaṃ ghorāt pāpān narādhamāḥ ||

60.1६०.१

कुरवः सहपाञ्चालाः शाल्वा मत्स्याः सनैमिषाः । (६०।१)

kuravaḥ sahapāñcālāḥ śālvā matsyāḥ sanaimiṣāḥ |

60.2६०.२

कोसलाः काशयो ऽङ्गाश् च कलिङ्गा मगधास् तथा ॥ (६०।२)

kosalāḥ kāśayo 'ṅgāś ca kaliṅgā magadhās tathā ||

61.1६१.१

चेदयश् च महाभागा धर्मं जानन्ति शाश्वतम् । (६१।१)

cedayaś ca mahābhāgā dharmaṃ jānanti śāśvatam |

61.2६१.२

नानादेशेषु सन्तश् च प्रायो बाह्या लयाद् ऋते ॥ (६१।२)

nānādeśeṣu santaś ca prāyo bāhyā layād ṛte ||

62.1६२.१

आ मत्स्येभ्यः कुरुपाञ्चालदेश्या आ नैमिषाच् चेदयो ये विशिष्टाः । (६२।१)

ā matsyebhyaḥ kurupāñcāladeśyā ā naimiṣāc cedayo ye viśiṣṭāḥ |

62.2६२.२

धर्मं पुराणम् उपजीवन्ति सन्तो मद्रान् ऋते पञ्चनदांश् च जिह्मान् ॥ (६२।२)

dharmaṃ purāṇam upajīvanti santo madrān ṛte pañcanadāṃś ca jihmān ||

63.1६३.१

एवं विद्वन् धर्मकथांश् च राजंस् तूष्णींभूतो जडवच्छल्य भूयाः । (६३।१)

evaṃ vidvan dharmakathāṃś ca rājaṃs tūṣṇīṃbhūto jaḍavacchalya bhūyāḥ |

63.2६३.२

त्वं तस्य गोप्ता च जनस्य राजा षड्भागहर्ता शुभदुष्कृतस्य ॥ (६३।२)

tvaṃ tasya goptā ca janasya rājā ṣaḍbhāgahartā śubhaduṣkṛtasya ||

64.1६४.१

अथ वा दुष्कृतस्य त्वं हर्ता तेषाम् अरक्षिता । (६४।१)

atha vā duṣkṛtasya tvaṃ hartā teṣām arakṣitā |

64.2६४.२

रक्षिता पुण्यभाग् राजा प्रजानां त्वं त्व् अपुण्यभाक् ॥ (६४।२)

rakṣitā puṇyabhāg rājā prajānāṃ tvaṃ tv apuṇyabhāk ||

65.1६५.१

पूज्यमाने पुरा धर्मे सर्वदेशेषु शाश्वते । (६५।१)

pūjyamāne purā dharme sarvadeśeṣu śāśvate |

65.2६५.२

धर्मं पाञ्चनदं दृष्ट्वा धिग् इत्य् आह पितामहः ॥ (६५।२)

dharmaṃ pāñcanadaṃ dṛṣṭvā dhig ity āha pitāmahaḥ ||

66.1६६.१

व्रात्यानां दाशमीयानां कृते ऽप्य् अशुभकर्मणाम् । (६६।१)

vrātyānāṃ dāśamīyānāṃ kṛte 'py aśubhakarmaṇām |

66.2६६.२

इति पाञ्चनदं धर्मम् अवमेने पितामहः । (६६।२)

iti pāñcanadaṃ dharmam avamene pitāmahaḥ |

66.3६६.३

स्वधर्मस्थेषु वर्णेषु सो ऽप्य् एतं नाभिपूजयेत् ॥ (६६।३)

svadharmastheṣu varṇeṣu so 'py etaṃ nābhipūjayet ||

67.1६७.१

उत शल्य विजानीहि हन्त भूयो ब्रवीमि ते । (६७।१)

uta śalya vijānīhi hanta bhūyo bravīmi te |

67.2६७.२

कल्माषपादः सरसि निमज्जन् राक्षसो ऽब्रवीत् ॥ (६७।२)

kalmāṣapādaḥ sarasi nimajjan rākṣaso 'bravīt ||

68.1६८.१

क्षत्रियस्य मलं भैक्षं ब्राह्मणस्यानृतं मलम् । (६८।१)

kṣatriyasya malaṃ bhaikṣaṃ brāhmaṇasyānṛtaṃ malam |

68.2६८.२

मलं पृथिव्या बाह्लीकाः स्त्रीणां मद्रस्त्रियो मलम् ॥ (६८।२)

malaṃ pṛthivyā bāhlīkāḥ strīṇāṃ madrastriyo malam ||

69.1६९.१

निमज्जमानम् उद्धृत्य कश्चिद् राजा निशाचरम् । (६९।१)

nimajjamānam uddhṛtya kaścid rājā niśācaram |

69.2६९.२

अपृच्छत् तेन चाख्यातं प्रोक्तवान् यन् निबोध तत् ॥ (६९।२)

apṛcchat tena cākhyātaṃ proktavān yan nibodha tat ||

70.1७०.१

मानुषाणां मलं म्लेच्छा म्लेच्छानां मौष्टिका मलम् । (७०।१)

mānuṣāṇāṃ malaṃ mlecchā mlecchānāṃ mauṣṭikā malam |

70.2७०.२

मौष्टिकानां मलं शण्डाः शण्डानां राजयाजकाः ॥ (७०।२)

mauṣṭikānāṃ malaṃ śaṇḍāḥ śaṇḍānāṃ rājayājakāḥ ||

71.1७१.१

राजयाजकयाज्यानां मद्रकाणां च यन् मलम् । (७१।१)

rājayājakayājyānāṃ madrakāṇāṃ ca yan malam |

71.2७१.२

तद् भवेद् वै तव मलं यद्य् अस्मान् न विमुञ्चसि ॥ (७१।२)

tad bhaved vai tava malaṃ yady asmān na vimuñcasi ||

72.1७२.१

इति रक्षोपसृष्टेषु विषवीर्यहतेषु च । (७२।१)

iti rakṣopasṛṣṭeṣu viṣavīryahateṣu ca |

72.2७२.२

राक्षसं भेषजं प्रोक्तं संसिद्धं वचनोत्तरम् ॥ (७२।२)

rākṣasaṃ bheṣajaṃ proktaṃ saṃsiddhaṃ vacanottaram ||

73.1७३.१

ब्राह्मं पाञ्चालाः कौरवेयाः स्वधर्मः सत्यं मत्स्याः शूरसेनाश् च यज्ञः । (७३।१)

brāhmaṃ pāñcālāḥ kauraveyāḥ svadharmaḥ satyaṃ matsyāḥ śūrasenāś ca yajñaḥ |

73.2७३.२

प्राच्या दासा वृषला दाक्षिणात्याः स्तेना बाह्लीकाः संकरा वै सुराष्ट्राः ॥ (७३।२)

prācyā dāsā vṛṣalā dākṣiṇātyāḥ stenā bāhlīkāḥ saṃkarā vai surāṣṭrāḥ ||

74.1७४.१

कृतघ्नता परवित्तापहारः सुरापानं गुरुदारावमर्शः । (७४।१)

kṛtaghnatā paravittāpahāraḥ surāpānaṃ gurudārāvamarśaḥ |

74.2७४.२

येषां धर्मस् तान् प्रति नास्त्य् अधर्म आरट्टकान् पाञ्चनदान् धिग् अस्तु ॥ (७४।२)

yeṣāṃ dharmas tān prati nāsty adharma āraṭṭakān pāñcanadān dhig astu ||

75.1७५.१

आ पाञ्चालेभ्यः कुरवो नैमिषाश् च मत्स्याश् चैवाप्य् अथ जानन्ति धर्मम् । (७५।१)

ā pāñcālebhyaḥ kuravo naimiṣāś ca matsyāś caivāpy atha jānanti dharmam |

75.2७५.२

कलिङ्गकाश् चाङ्गका मागधाश् च शिष्टान् धर्मान् उपजीवन्ति वृद्धाः ॥ (७५।२)

kaliṅgakāś cāṅgakā māgadhāś ca śiṣṭān dharmān upajīvanti vṛddhāḥ ||

76.1७६.१

प्राचीं दिशं श्रिता देवा जातवेदःपुरोगमाः । (७६।१)

prācīṃ diśaṃ śritā devā jātavedaḥpurogamāḥ |

76.2७६.२

दक्षिणां पितरो गुप्तां यमेन शुभकर्मणा ॥ (७६।२)

dakṣiṇāṃ pitaro guptāṃ yamena śubhakarmaṇā ||

77.1७७.१

प्रतीचीं वरुणः पाति पालयन्न् असुरान् बली । (७७।१)

pratīcīṃ varuṇaḥ pāti pālayann asurān balī |

77.2७७.२

उदीचीं भगवान् सोमो ब्रह्मण्यो ब्राह्मणैः सह ॥ (७७।२)

udīcīṃ bhagavān somo brahmaṇyo brāhmaṇaiḥ saha ||

78.1७८.१

रक्षःपिशाचान् हिमवान् गुह्यकान् गन्धमादनः । (७८।१)

rakṣaḥpiśācān himavān guhyakān gandhamādanaḥ |

78.2७८.२

ध्रुवः सर्वाणि भूतानि विष्णुर् लोकाञ् जनार्दनः ॥ (७८।२)

dhruvaḥ sarvāṇi bhūtāni viṣṇur lokāñ janārdanaḥ ||

79.1७९.१

इङ्गितज्ञाश् च मगधाः प्रेक्षितज्ञाश् च कोसलाः । (७९।१)

iṅgitajñāś ca magadhāḥ prekṣitajñāś ca kosalāḥ |

79.2७९.२

अर्धोक्ताः कुरुपाञ्चालाः शाल्वाः कृत्स्नानुशासनाः । (७९।२)

ardhoktāḥ kurupāñcālāḥ śālvāḥ kṛtsnānuśāsanāḥ |

79.3७९.३

पार्वतीयाश् च विषमा यथैव गिरयस् तथा ॥ (७९।३)

pārvatīyāś ca viṣamā yathaiva girayas tathā ||

80.1८०.१

सर्वज्ञा यवना राजञ् शूराश् चैव विशेषतः । (८०।१)

sarvajñā yavanā rājañ śūrāś caiva viśeṣataḥ |

80.2८०.२

म्लेच्छाः स्वसंज्ञानियता नानुक्त इतरो जनः ॥ (८०।२)

mlecchāḥ svasaṃjñāniyatā nānukta itaro janaḥ ||

81.1८१.१

प्रतिरब्धास् तु बाह्लीका न च केचन मद्रकाः । (८१।१)

pratirabdhās tu bāhlīkā na ca kecana madrakāḥ |

81.2८१.२

स त्वम् एतादृशः शल्य नोत्तरं वक्तुम् अर्हसि ॥ (८१।२)

sa tvam etādṛśaḥ śalya nottaraṃ vaktum arhasi ||

82.1८२.१

एतज् ज्ञात्वा जोषम् आस्स्व प्रतीपं मा स्म वै कृथाः । (८२।१)

etaj jñātvā joṣam āssva pratīpaṃ mā sma vai kṛthāḥ |

82.2८२.२

स त्वां पूर्वम् अहं हत्वा हनिष्ये केशवार्जुनौ ॥ (८२।२)

sa tvāṃ pūrvam ahaṃ hatvā haniṣye keśavārjunau ||

83.1८३.१

शल्य उवाच । (८३।१)

śalya uvāca

83.2८३.२

आतुराणां परित्यागः स्वदारसुतविक्रयः । (८३।२)

āturāṇāṃ parityāgaḥ svadārasutavikrayaḥ |

83.3८३.३

अङ्गेषु वर्तते कर्ण येषाम् अधिपतिर् भवान् ॥ (८३।३)

aṅgeṣu vartate karṇa yeṣām adhipatir bhavān ||

84.1८४.१

रथातिरथसंख्यायां यत् त्वा भीष्मस् तदाब्रवीत् । (८४।१)

rathātirathasaṃkhyāyāṃ yat tvā bhīṣmas tadābravīt |

84.2८४.२

तान् विदित्वात्मनो दोषान् निर्मन्युर् भव मा क्रुधः ॥ (८४।२)

tān viditvātmano doṣān nirmanyur bhava mā krudhaḥ ||

85.1८५.१

सर्वत्र ब्राह्मणाः सन्ति सन्ति सर्वत्र क्षत्रियाः । (८५।१)

sarvatra brāhmaṇāḥ santi santi sarvatra kṣatriyāḥ |

85.2८५.२

वैश्याः शूद्रास् तथा कर्ण स्त्रियः साध्व्यश् च सुव्रताः ॥ (८५।२)

vaiśyāḥ śūdrās tathā karṇa striyaḥ sādhvyaś ca suvratāḥ ||

86.1८६.१

रमन्ते चोपहासेन पुरुषाः पुरुषैः सह । (८६।१)

ramante copahāsena puruṣāḥ puruṣaiḥ saha |

86.2८६.२

अन्योन्यम् अवतक्षन्तो देशे देशे समैथुनाः ॥ (८६।२)

anyonyam avatakṣanto deśe deśe samaithunāḥ ||

87.1८७.१

परवाच्येषु निपुणः सर्वो भवति सर्वदा । (८७।१)

paravācyeṣu nipuṇaḥ sarvo bhavati sarvadā |

87.2८७.२

आत्मवाच्यं न जानीते जानन्न् अपि विमुह्यति ॥ (८७।२)

ātmavācyaṃ na jānīte jānann api vimuhyati ||

88.1८८.१

संजय उवाच । (८८।१)

saṃjaya uvāca

88.2८८.२

कर्णो ऽपि नोत्तरं प्राह शल्यो ऽप्य् अभिमुखः परान् । (८८।२)

karṇo 'pi nottaraṃ prāha śalyo 'py abhimukhaḥ parān |

88.3८८.३

पुनः प्रहस्य राधेयः पुनर् याहीत्य् अचोदयत् ॥ (८८।३)

punaḥ prahasya rādheyaḥ punar yāhīty acodayat ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 8, 30

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit