MBh, 5, 169
Select a line for its word-by-word analysis.
योत्स्यते ऽमरवत् संख्ये परसैन्येषु भारत ॥ (१।३)
yotsyate 'maravat saṃkhye parasainyeṣu bhārata ||
स योत्स्यति हि विक्रम्य मघवान् इव दानवैः । (४।१)
sa yotsyati hi vikramya maghavān iva dānavaiḥ |
योधाश्चास्य परिख्याताः सर्वे युद्धविशारदाः ॥ (४।२)
yodhāścāsya parikhyātāḥ sarve yuddhaviśāradāḥ ||
सुमहत् कर्म पाण्डूनां स्थितः प्रियहिते नृपः ॥ (५।२)
sumahat karma pāṇḍūnāṃ sthitaḥ priyahite nṛpaḥ ||
नेष्यन्ति समरे सेनां भीमां यौधिष्ठिरीं नृप । (१०।१)
neṣyanti samare senāṃ bhīmāṃ yaudhiṣṭhirīṃ nṛpa |
तैर् अहं समरे वीर त्वाम् आयद्भिर् जयैषिभिः । (११।१)
tair ahaṃ samare vīra tvām āyadbhir jayaiṣibhiḥ |
योत्स्यामि जयम् आकाङ्क्षन्न् अथवा निधनं रणे ॥ (११।२)
yotsyāmi jayam ākāṅkṣann athavā nidhanaṃ raṇe ||
पार्थं च वासुदेवं च चक्रगाण्डीवधारिणौ । (१२।१)
pārthaṃ ca vāsudevaṃ ca cakragāṇḍīvadhāriṇau |
संध्यागताविवार्केन्दू समेष्ये पुरुषोत्तमौ ॥ (१२।२)
saṃdhyāgatāvivārkendū sameṣye puruṣottamau ||
ये चैव ते रथोदाराः पाण्डुपुत्रस्य सैनिकाः । (१३।१)
ye caiva te rathodārāḥ pāṇḍuputrasya sainikāḥ |
सहसैन्यान् अहं तांश्च प्रतीयां रणमूर्धनि ॥ (१३।२)
sahasainyān ahaṃ tāṃśca pratīyāṃ raṇamūrdhani ||
एते रथाश्चातिरथाश्च तुभ्यं यथाप्रधानं नृप कीर्तिता मया । (१४।१)
ete rathāścātirathāśca tubhyaṃ yathāpradhānaṃ nṛpa kīrtitā mayā |
तथा राजन्न् अर्धरथाश्च केचित् तथैव तेषाम् अपि कौरवेन्द्र ॥ (१४।२)
tathā rājann ardharathāśca kecit tathaiva teṣām api kauravendra ||
अर्जुनं वासुदेवं च ये चान्ये तत्र पार्थिवाः । (१५।१)
arjunaṃ vāsudevaṃ ca ye cānye tatra pārthivāḥ |
सर्वान् आवारयिष्यामि यावद् द्रक्ष्यामि भारत ॥ (१५।२)
sarvān āvārayiṣyāmi yāvad drakṣyāmi bhārata ||
पाञ्चाल्यं तु महाबाहो नाहं हन्यां शिखण्डिनम् । (१६।१)
pāñcālyaṃ tu mahābāho nāhaṃ hanyāṃ śikhaṇḍinam |
उद्यतेषुम् अभिप्रेक्ष्य प्रतियुध्यन्तम् आहवे ॥ (१६।२)
udyateṣum abhiprekṣya pratiyudhyantam āhave ||
लोकस्तद् वेद यद् अहं पितुः प्रियचिकीर्षया । (१७।१)
lokastad veda yad ahaṃ pituḥ priyacikīrṣayā |
प्राप्तं राज्यं परित्यज्य ब्रह्मचर्ये धृतव्रतः ॥ (१७।२)
prāptaṃ rājyaṃ parityajya brahmacarye dhṛtavrataḥ ||
चित्राङ्गदं कौरवाणाम् अहं राज्ये ऽभ्यषेचयम् । (१८।१)
citrāṅgadaṃ kauravāṇām ahaṃ rājye 'bhyaṣecayam |
विचित्रवीर्यं च शिशुं यौवराज्ये ऽभ्यषेचयम् ॥ (१८।२)
vicitravīryaṃ ca śiśuṃ yauvarājye 'bhyaṣecayam ||
देवव्रतत्वं विख्याप्य पृथिव्यां सर्वराजसु । (१९।१)
devavratatvaṃ vikhyāpya pṛthivyāṃ sarvarājasu |
नैव हन्यां स्त्रियं जातु न स्त्रीपूर्वं कथंचन ॥ (१९।२)
naiva hanyāṃ striyaṃ jātu na strīpūrvaṃ kathaṃcana ||
स हि स्त्रीपूर्वको राजञ् शिखण्डी यदि ते श्रुतः । (२०।१)
sa hi strīpūrvako rājañ śikhaṇḍī yadi te śrutaḥ |
कन्या भूत्वा पुमाञ् जातो न योत्स्ये तेन भारत ॥ (२०।२)
kanyā bhūtvā pumāñ jāto na yotsye tena bhārata ||
सर्वांस्त्वन्यान् हनिष्यामि पार्थिवान् भरतर्षभ । (२१।१)
sarvāṃstvanyān haniṣyāmi pārthivān bharatarṣabha |
यान् समेष्यामि समरे न तु कुन्तीसुतान्नृप ॥ (२१।२)
yān sameṣyāmi samare na tu kuntīsutānnṛpa ||
Data courtesy of The Digital Corpus of Sanskrit.