महाभारतMahābhārata

MBh, 13, 14

1695 of 1995 · 428 verses

Select a line for its word-by-word analysis.

1.1१.१

युधिष्ठिर उवाच । (१।१)

yudhiṣṭhira uvāca

1.2१.२

पितामहेशाय विभो नामान्याचक्ष्व शंभवे । (१।२)

pitāmaheśāya vibho nāmānyācakṣva śaṃbhave |

1.3१.३

बभ्रवे विश्वमायाय महाभाग्यं च तत्त्वतः ॥ (१।३)

babhrave viśvamāyāya mahābhāgyaṃ ca tattvataḥ ||

2.1२.१

भीष्म उवाच । (२।१)

bhīṣma uvāca

2.2२.२

सुरासुरगुरो देव विष्णो त्वं वक्तुम् अर्हसि । (२।२)

surāsuraguro deva viṣṇo tvaṃ vaktum arhasi |

2.3२.३

शिवाय विश्वरूपाय यन्मां पृच्छद् युधिष्ठिरः ॥ (२।३)

śivāya viśvarūpāya yanmāṃ pṛcchad yudhiṣṭhiraḥ ||

3.1३.१

नाम्नां सहस्रं देवस्य तण्डिना ब्रह्मयोनिना । (३।१)

nāmnāṃ sahasraṃ devasya taṇḍinā brahmayoninā |

3.2३.२

निवेदितं ब्रह्मलोके ब्रह्मणो यत् पुराभवत् ॥ (३।२)

niveditaṃ brahmaloke brahmaṇo yat purābhavat ||

4.1४.१

द्वैपायनप्रभृतयस्तथैवेमे तपोधनाः । (४।१)

dvaipāyanaprabhṛtayastathaiveme tapodhanāḥ |

4.2४.२

ऋषयः सुव्रता दान्ताः शृण्वन्तु गदतस्तव ॥ (४।२)

ṛṣayaḥ suvratā dāntāḥ śṛṇvantu gadatastava ||

5.1५.१

ध्रुवाय नन्दिने होत्रे गोप्त्रे विश्वसृजे ऽग्नये । (५।१)

dhruvāya nandine hotre goptre viśvasṛje 'gnaye |

5.2५.२

महाभाग्यं विभो ब्रूहि मुण्डिने ऽथ कपर्दिने ॥ (५।२)

mahābhāgyaṃ vibho brūhi muṇḍine 'tha kapardine ||

6.1६.१

वासुदेव उवाच । (६।१)

vāsudeva uvāca

6.2६.२

न गतिः कर्मणां शक्या वेत्तुम् ईशस्य तत्त्वतः ॥ (६।२)

na gatiḥ karmaṇāṃ śakyā vettum īśasya tattvataḥ ||

7.1७.१

हिरण्यगर्भप्रमुखा देवाः सेन्द्रा महर्षयः । (७।१)

hiraṇyagarbhapramukhā devāḥ sendrā maharṣayaḥ |

7.2७.२

न विदुर् यस्य निधनम् आदिं वा सूक्ष्मदर्शिनः । (७।२)

na vidur yasya nidhanam ādiṃ vā sūkṣmadarśinaḥ |

7.3७.३

स कथं नरमात्रेण शक्यो ज्ञातुं सतां गतिः ॥ (७।३)

sa kathaṃ naramātreṇa śakyo jñātuṃ satāṃ gatiḥ ||

8.1८.१

तस्याहम् असुरघ्नस्य कांश्चिद् भगवतो गुणान् । (८।१)

tasyāham asuraghnasya kāṃścid bhagavato guṇān |

8.2८.२

भवतां कीर्तयिष्यामि व्रतेशाय यथातथम् ॥ (८।२)

bhavatāṃ kīrtayiṣyāmi vrateśāya yathātatham ||

9.1९.१

वैशंपायन उवाच । (९।१)

vaiśaṃpāyana uvāca

9.2९.२

एवम् उक्त्वा तु भगवान् गुणांस्तस्य महात्मनः । (९।२)

evam uktvā tu bhagavān guṇāṃstasya mahātmanaḥ |

9.3९.३

उपस्पृश्य शुचिर् भूत्वा कथयामास धीमतः ॥ (९।३)

upaspṛśya śucir bhūtvā kathayāmāsa dhīmataḥ ||

10.1१०.१

वासुदेव उवाच । (१०।१)

vāsudeva uvāca

10.2१०.२

शुश्रूषध्वं ब्राह्मणेन्द्रास्त्वं च तात युधिष्ठिर । (१०।२)

śuśrūṣadhvaṃ brāhmaṇendrāstvaṃ ca tāta yudhiṣṭhira |

10.3१०.३

त्वं चापगेय नामानि निशामय जगत्पतेः ॥ (१०।३)

tvaṃ cāpageya nāmāni niśāmaya jagatpateḥ ||

11.1११.१

यद् अवाप्तं च मे पूर्वं साम्बहेतोः सुदुष्करम् । (११।१)

yad avāptaṃ ca me pūrvaṃ sāmbahetoḥ suduṣkaram |

11.2११.२

यथा च भगवान् दृष्टो मया पूर्वं समाधिना ॥ (११।२)

yathā ca bhagavān dṛṣṭo mayā pūrvaṃ samādhinā ||

12.1१२.१

शम्बरे निहते पूर्वं रौक्मिणेयेन धीमता । (१२।१)

śambare nihate pūrvaṃ raukmiṇeyena dhīmatā |

12.2१२.२

अतीते द्वादशे वर्षे जाम्बवत्यब्रवीद्धि माम् ॥ (१२।२)

atīte dvādaśe varṣe jāmbavatyabravīddhi mām ||

13.1१३.१

प्रद्युम्नचारुदेष्णादीन् रुक्मिण्या वीक्ष्य पुत्रकान् । (१३।१)

pradyumnacārudeṣṇādīn rukmiṇyā vīkṣya putrakān |

13.2१३.२

पुत्रार्थिनी माम् उपेत्य वाक्यम् आह युधिष्ठिर ॥ (१३।२)

putrārthinī mām upetya vākyam āha yudhiṣṭhira ||

14.1१४.१

शूरं बलवतां श्रेष्ठं कान्तरूपम् अकल्मषम् । (१४।१)

śūraṃ balavatāṃ śreṣṭhaṃ kāntarūpam akalmaṣam |

14.2१४.२

आत्मतुल्यं मम सुतं प्रयच्छाच्युत माचिरम् ॥ (१४।२)

ātmatulyaṃ mama sutaṃ prayacchācyuta māciram ||

15.1१५.१

न हि ते ऽप्राप्यम् अस्तीह त्रिषु लोकेषु किंचन । (१५।१)

na hi te 'prāpyam astīha triṣu lokeṣu kiṃcana |

15.2१५.२

लोकान् सृजेस्त्वम् अपरान् इच्छन् यदुकुलोद्वह ॥ (१५।२)

lokān sṛjestvam aparān icchan yadukulodvaha ||

16.1१६.१

त्वया द्वादश वर्षाणि वायुभूतेन शुष्यता । (१६।१)

tvayā dvādaśa varṣāṇi vāyubhūtena śuṣyatā |

16.2१६.२

आराध्य पशुभर्तारं रुक्मिण्या जनिताः सुताः ॥ (१६।२)

ārādhya paśubhartāraṃ rukmiṇyā janitāḥ sutāḥ ||

17.1१७.१

चारुदेष्णः सुचारुश्च चारुवेषो यशोधरः । (१७।१)

cārudeṣṇaḥ sucāruśca cāruveṣo yaśodharaḥ |

17.2१७.२

चारुश्रवाश्चारुयशाः प्रद्युम्नः शंभुर् एव च ॥ (१७।२)

cāruśravāścāruyaśāḥ pradyumnaḥ śaṃbhur eva ca ||

18.1१८.१

यथा ते जनिताः पुत्रा रुक्मिण्याश्चारुविक्रमाः । (१८।१)

yathā te janitāḥ putrā rukmiṇyāścāruvikramāḥ |

18.2१८.२

तथा ममापि तनयं प्रयच्छ बलशालिनम् ॥ (१८।२)

tathā mamāpi tanayaṃ prayaccha balaśālinam ||

19.1१९.१

इत्येवं चोदितो देव्या ताम् अवोचं सुमध्यमाम् । (१९।१)

ityevaṃ codito devyā tām avocaṃ sumadhyamām |

19.2१९.२

अनुजानीहि मां राज्ञि करिष्ये वचनं तव । (१९।२)

anujānīhi māṃ rājñi kariṣye vacanaṃ tava |

19.3१९.३

सा च माम् अब्रवीद् गच्छ विजयाय शिवाय च ॥ (१९।३)

sā ca mām abravīd gaccha vijayāya śivāya ca ||

20.1२०.१

ब्रह्मा शिवः काश्यपश्च नद्यो देवा मनोनुगाः । (२०।१)

brahmā śivaḥ kāśyapaśca nadyo devā manonugāḥ |

20.2२०.२

क्षेत्रौषध्यो यज्ञवाहाच्छन्दांस्य् ऋषिगणा धरा ॥ (२०।२)

kṣetrauṣadhyo yajñavāhācchandāṃsy ṛṣigaṇā dharā ||

21.1२१.१

समुद्रा दक्षिणा स्तोभा ऋक्षाणि पितरो ग्रहाः । (२१।१)

samudrā dakṣiṇā stobhā ṛkṣāṇi pitaro grahāḥ |

21.2२१.२

देवपत्न्यो देवकन्या देवमातर एव च ॥ (२१।२)

devapatnyo devakanyā devamātara eva ca ||

22.1२२.१

मन्वन्तराणि गावश्च चन्द्रमाः सविता हरिः । (२२।१)

manvantarāṇi gāvaśca candramāḥ savitā hariḥ |

22.2२२.२

सावित्री ब्रह्मविद्या च ऋतवो वत्सराः क्षपाः ॥ (२२।२)

sāvitrī brahmavidyā ca ṛtavo vatsarāḥ kṣapāḥ ||

23.1२३.१

क्षणा लवा मुहूर्ताश्च निमेषा युगपर्ययाः । (२३।१)

kṣaṇā lavā muhūrtāśca nimeṣā yugaparyayāḥ |

23.2२३.२

रक्षन्तु सर्वत्र गतं त्वां यादव सुखावहम् । (२३।२)

rakṣantu sarvatra gataṃ tvāṃ yādava sukhāvaham |

23.3२३.३

अरिष्टं गच्छ पन्थानम् अप्रमत्तो भवानघ ॥ (२३।३)

ariṣṭaṃ gaccha panthānam apramatto bhavānagha ||

24.1२४.१

एवं कृतस्वस्त्ययनस्तयाहं ताम् अभ्यनुज्ञाय कपीन्द्रपुत्रीम् । (२४।१)

evaṃ kṛtasvastyayanastayāhaṃ tām abhyanujñāya kapīndraputrīm |

24.2२४.२

पितुः समीपे नरसत्तमस्य मातुश्च राज्ञश्च तथाहुकस्य ॥ (२४।२)

pituḥ samīpe narasattamasya mātuśca rājñaśca tathāhukasya ||

25.1२५.१

तम् अर्थम् आवेद्य यद् अब्रवीन्मां विद्याधरेन्द्रस्य सुता भृशार्ता । (२५।१)

tam artham āvedya yad abravīnmāṃ vidyādharendrasya sutā bhṛśārtā |

25.2२५.२

तान् अभ्यनुज्ञाय तदातिदुःखाद् गदं तथैवातिबलं च रामम् ॥ (२५।२)

tān abhyanujñāya tadātiduḥkhād gadaṃ tathaivātibalaṃ ca rāmam ||

26.1२६.१

प्राप्यानुज्ञां गुरुजनाद् अहं तार्क्ष्यम् अचिन्तयम् । (२६।१)

prāpyānujñāṃ gurujanād ahaṃ tārkṣyam acintayam |

26.2२६.२

सो ऽवहद्धिमवन्तं मां प्राप्य चैनं व्यसर्जयम् ॥ (२६।२)

so 'vahaddhimavantaṃ māṃ prāpya cainaṃ vyasarjayam ||

27.1२७.१

तत्राहम् अद्भुतान् भावान् अपश्यं गिरिसत्तमे । (२७।१)

tatrāham adbhutān bhāvān apaśyaṃ girisattame |

27.2२७.२

क्षेत्रं च तपसां श्रेष्ठं पश्याम्याश्रमम् उत्तमम् ॥ (२७।२)

kṣetraṃ ca tapasāṃ śreṣṭhaṃ paśyāmyāśramam uttamam ||

28.1२८.१

दिव्यं वैयाघ्रपद्यस्य उपमन्योर् महात्मनः । (२८।१)

divyaṃ vaiyāghrapadyasya upamanyor mahātmanaḥ |

28.2२८.२

पूजितं देवगन्धर्वैर् ब्राह्म्या लक्ष्म्या समन्वितम् ॥ (२८।२)

pūjitaṃ devagandharvair brāhmyā lakṣmyā samanvitam ||

29.1२९.१

धवककुभकदम्बनारिकेलैः कुरबककेतकजम्बुपाटलाभिः । (२९।१)

dhavakakubhakadambanārikelaiḥ kurabakaketakajambupāṭalābhiḥ |

29.2२९.२

वटवरुणकवत्सनाभबिल्वैः सरलकपित्थप्रियालसालतालैः ॥ (२९।२)

vaṭavaruṇakavatsanābhabilvaiḥ saralakapitthapriyālasālatālaiḥ ||

30.1३०.१

बदरीकुन्दपुन्नागैर् अशोकाम्रातिमुक्तकैः । (३०।१)

badarīkundapunnāgair aśokāmrātimuktakaiḥ |

30.2३०.२

भल्लातकैर् मधूकैश्च चम्पकैः पनसैस्तथा ॥ (३०।२)

bhallātakair madhūkaiśca campakaiḥ panasaistathā ||

31.1३१.१

वन्यैर् बहुविधैर् वृक्षैः फलपुष्पप्रदैर् युतम् । (३१।१)

vanyair bahuvidhair vṛkṣaiḥ phalapuṣpapradair yutam |

31.2३१.२

पुष्पगुल्मलताकीर्णं कदलीषण्डशोभितम् ॥ (३१।२)

puṣpagulmalatākīrṇaṃ kadalīṣaṇḍaśobhitam ||

32.1३२.१

नानाशकुनिसंभोज्यैः फलैर् वृक्षैर् अलंकृतम् । (३२।१)

nānāśakunisaṃbhojyaiḥ phalair vṛkṣair alaṃkṛtam |

32.2३२.२

यथास्थानविनिक्षिप्तैर् भूषितं वनराजिभिः ॥ (३२।२)

yathāsthānavinikṣiptair bhūṣitaṃ vanarājibhiḥ ||

33.1३३.१

रुरुवारणशार्दूलसिंहद्वीपिसमाकुलम् । (३३।१)

ruruvāraṇaśārdūlasiṃhadvīpisamākulam |

33.2३३.२

कुरङ्गबर्हिणाकीर्णं मार्जारभुजगावृतम् । (३३।२)

kuraṅgabarhiṇākīrṇaṃ mārjārabhujagāvṛtam |

33.3३३.३

पूगैश्च मृगजातीनां महिषर्क्षनिषेवितम् ॥ (३३।३)

pūgaiśca mṛgajātīnāṃ mahiṣarkṣaniṣevitam ||

34.1३४.१

नानापुष्परजोमिश्रो गजदानाधिवासितः । (३४।१)

nānāpuṣparajomiśro gajadānādhivāsitaḥ |

34.2३४.२

दिव्यस्त्रीगीतबहुलो मारुतो ऽत्र सुखो ववौ ॥ (३४।२)

divyastrīgītabahulo māruto 'tra sukho vavau ||

35.1३५.१

धारानिनादैर् विहगप्रणादैः शुभैस्तथा बृंहितैः कुञ्जराणाम् । (३५।१)

dhārāninādair vihagapraṇādaiḥ śubhaistathā bṛṃhitaiḥ kuñjarāṇām |

35.2३५.२

गीतैस्तथा किंनराणाम् उदारैः शुभैः स्वनैः सामगानां च वीर ॥ (३५।२)

gītaistathā kiṃnarāṇām udāraiḥ śubhaiḥ svanaiḥ sāmagānāṃ ca vīra ||

36.1३६.१

अचिन्त्यं मनसाप्यन्यैः सरोभिः समलंकृतम् । (३६।१)

acintyaṃ manasāpyanyaiḥ sarobhiḥ samalaṃkṛtam |

36.2३६.२

विशालैश्चाग्निशरणैर् भूषितं कुशसंवृतम् ॥ (३६।२)

viśālaiścāgniśaraṇair bhūṣitaṃ kuśasaṃvṛtam ||

37.1३७.१

विभूषितं पुण्यपवित्रतोयया सदा च जुष्टं नृप जह्नुकन्यया । (३७।१)

vibhūṣitaṃ puṇyapavitratoyayā sadā ca juṣṭaṃ nṛpa jahnukanyayā |

37.2३७.२

महात्मभिर् धर्मभृतां वरिष्ठैर् महर्षिभिर् भूषितम् अग्निकल्पैः ॥ (३७।२)

mahātmabhir dharmabhṛtāṃ variṣṭhair maharṣibhir bhūṣitam agnikalpaiḥ ||

38.1३८.१

वाय्वाहारैर् अम्बुपैर् जप्यनित्यैः संप्रक्षालैर् यतिभिर् ध्याननित्यैः । (३८।१)

vāyvāhārair ambupair japyanityaiḥ saṃprakṣālair yatibhir dhyānanityaiḥ |

38.2३८.२

धूमाशनैर् ऊष्मपैः क्षीरपैश्च विभूषितं ब्राह्मणेन्द्रैः समन्तात् ॥ (३८।२)

dhūmāśanair ūṣmapaiḥ kṣīrapaiśca vibhūṣitaṃ brāhmaṇendraiḥ samantāt ||

39.1३९.१

गोचारिणो ऽथाश्मकुट्टा दन्तोलूखलिनस्तथा । (३९।१)

gocāriṇo 'thāśmakuṭṭā dantolūkhalinastathā |

39.2३९.२

मरीचिपाः फेनपाश्च तथैव मृगचारिणः ॥ (३९।२)

marīcipāḥ phenapāśca tathaiva mṛgacāriṇaḥ ||

40.1४०.१

सुदुःखान्नियमांस्तांस्तान् वहतः सुतपोऽन्वितान् । (४०।१)

suduḥkhānniyamāṃstāṃstān vahataḥ sutapo'nvitān |

40.2४०.२

पश्यन्न् उत्फुल्लनयनः प्रवेष्टुम् उपचक्रमे ॥ (४०।२)

paśyann utphullanayanaḥ praveṣṭum upacakrame ||

41.1४१.१

सुपूजितं देवगणैर् महात्मभिः शिवादिभिर् भारत पुण्यकर्मभिः । (४१।१)

supūjitaṃ devagaṇair mahātmabhiḥ śivādibhir bhārata puṇyakarmabhiḥ |

41.2४१.२

रराज तच्चाश्रममण्डलं सदा दिवीव राजन् रविमण्डलं यथा ॥ (४१।२)

rarāja taccāśramamaṇḍalaṃ sadā divīva rājan ravimaṇḍalaṃ yathā ||

42.1४२.१

क्रीडन्ति सर्पैर् नकुला मृगैर् व्याघ्राश्च मित्रवत् । (४२।१)

krīḍanti sarpair nakulā mṛgair vyāghrāśca mitravat |

42.2४२.२

प्रभावाद् दीप्ततपसः संनिकर्षगुणान्विताः ॥ (४२।२)

prabhāvād dīptatapasaḥ saṃnikarṣaguṇānvitāḥ ||

43.1४३.१

तत्राश्रमपदे श्रेष्ठे सर्वभूतमनोरमे । (४३।१)

tatrāśramapade śreṣṭhe sarvabhūtamanorame |

43.2४३.२

सेविते द्विजशार्दूलैर् वेदवेदाङ्गपारगैः ॥ (४३।२)

sevite dvijaśārdūlair vedavedāṅgapāragaiḥ ||

44.1४४.१

नानानियमविख्यातैर् ऋषिभिश्च महात्मभिः । (४४।१)

nānāniyamavikhyātair ṛṣibhiśca mahātmabhiḥ |

44.2४४.२

प्रविशन्न् एव चापश्यं जटाचीरधरं प्रभुम् ॥ (४४।२)

praviśann eva cāpaśyaṃ jaṭācīradharaṃ prabhum ||

45.1४५.१

तेजसा तपसा चैव दीप्यमानं यथानलम् । (४५।१)

tejasā tapasā caiva dīpyamānaṃ yathānalam |

45.2४५.२

शिष्यमध्यगतं शान्तं युवानं ब्राह्मणर्षभम् । (४५।२)

śiṣyamadhyagataṃ śāntaṃ yuvānaṃ brāhmaṇarṣabham |

45.3४५.३

शिरसा वन्दमानं माम् उपमन्युर् अभाषत ॥ (४५।३)

śirasā vandamānaṃ mām upamanyur abhāṣata ||

46.1४६.१

स्वागतं पुण्डरीकाक्ष सफलानि तपांसि नः । (४६।१)

svāgataṃ puṇḍarīkākṣa saphalāni tapāṃsi naḥ |

46.2४६.२

यत् पूज्यः पूजयसि नो द्रष्टव्यो द्रष्टुम् इच्छसि ॥ (४६।२)

yat pūjyaḥ pūjayasi no draṣṭavyo draṣṭum icchasi ||

47.1४७.१

तम् अहं प्राञ्जलिर् भूत्वा मृगपक्षिष्वथाग्निषु । (४७।१)

tam ahaṃ prāñjalir bhūtvā mṛgapakṣiṣvathāgniṣu |

47.2४७.२

धर्मे च शिष्यवर्गे च समपृच्छम् अनामयम् ॥ (४७।२)

dharme ca śiṣyavarge ca samapṛccham anāmayam ||

48.1४८.१

ततो मां भगवान् आह साम्ना परमवल्गुना । (४८।१)

tato māṃ bhagavān āha sāmnā paramavalgunā |

48.2४८.२

लप्स्यसे तनयं कृष्ण आत्मतुल्यम् असंशयम् ॥ (४८।२)

lapsyase tanayaṃ kṛṣṇa ātmatulyam asaṃśayam ||

49.1४९.१

तपः सुमहद् आस्थाय तोषयेशानम् ईश्वरम् । (४९।१)

tapaḥ sumahad āsthāya toṣayeśānam īśvaram |

49.2४९.२

इह देवः सपत्नीकः समाक्रीडत्यधोक्षज ॥ (४९।२)

iha devaḥ sapatnīkaḥ samākrīḍatyadhokṣaja ||

50.1५०.१

इहैव देवताश्रेष्ठं देवाः सर्षिगणाः पुरा । (५०।१)

ihaiva devatāśreṣṭhaṃ devāḥ sarṣigaṇāḥ purā |

50.2५०.२

तपसा ब्रह्मचर्येण सत्येन च दमेन च । (५०।२)

tapasā brahmacaryeṇa satyena ca damena ca |

50.3५०.३

तोषयित्वा शुभान् कामान् प्राप्नुवंस्ते जनार्दन ॥ (५०।३)

toṣayitvā śubhān kāmān prāpnuvaṃste janārdana ||

51.1५१.१

तेजसां तपसां चैव निधिः स भगवान् इह । (५१।१)

tejasāṃ tapasāṃ caiva nidhiḥ sa bhagavān iha |

51.2५१.२

शुभाशुभान्वितान् भावान् विसृजन् संक्षिपन्न् अपि । (५१।२)

śubhāśubhānvitān bhāvān visṛjan saṃkṣipann api |

51.3५१.३

आस्ते देव्या सहाचिन्त्यो यं प्रार्थयसि शत्रुहन् ॥ (५१।३)

āste devyā sahācintyo yaṃ prārthayasi śatruhan ||

52.1५२.१

हिरण्यकशिपुर् यो ऽभूद् दानवो मेरुकम्पनः । (५२।१)

hiraṇyakaśipur yo 'bhūd dānavo merukampanaḥ |

52.2५२.२

तेन सर्वामरैश्वर्यं शर्वात् प्राप्तं समार्बुदम् ॥ (५२।२)

tena sarvāmaraiśvaryaṃ śarvāt prāptaṃ samārbudam ||

53.1५३.१

तस्यैव पुत्रप्रवरो मन्दरो नाम विश्रुतः । (५३।१)

tasyaiva putrapravaro mandaro nāma viśrutaḥ |

53.2५३.२

महादेववराच्छक्रं वर्षार्बुदम् अयोधयत् ॥ (५३।२)

mahādevavarācchakraṃ varṣārbudam ayodhayat ||

54.1५४.१

विष्णोश्चक्रं च तद् घोरं वज्रम् आखण्डलस्य च । (५४।१)

viṣṇoścakraṃ ca tad ghoraṃ vajram ākhaṇḍalasya ca |

54.2५४.२

शीर्णं पुराभवत् तात ग्रहस्याङ्गेषु केशव ॥ (५४।२)

śīrṇaṃ purābhavat tāta grahasyāṅgeṣu keśava ||

55.1५५.१

अर्द्यमानाश्च विबुधा ग्रहेण सुबलीयसा । (५५।१)

ardyamānāśca vibudhā graheṇa subalīyasā |

55.2५५.२

शिवदत्तवराञ् जघ्नुर् असुरेन्द्रान् सुरा भृशम् ॥ (५५।२)

śivadattavarāñ jaghnur asurendrān surā bhṛśam ||

56.1५६.१

तुष्टो विद्युत्प्रभस्यापि त्रिलोकेश्वरताम् अदात् । (५६।१)

tuṣṭo vidyutprabhasyāpi trilokeśvaratām adāt |

56.2५६.२

शतं वर्षसहस्राणां सर्वलोकेश्वरो ऽभवत् । (५६।२)

śataṃ varṣasahasrāṇāṃ sarvalokeśvaro 'bhavat |

56.3५६.३

ममैवानुचरो नित्यं भवितासीति चाब्रवीत् ॥ (५६।३)

mamaivānucaro nityaṃ bhavitāsīti cābravīt ||

57.1५७.१

तथा पुत्रसहस्राणाम् अयुतं च ददौ प्रभुः । (५७।१)

tathā putrasahasrāṇām ayutaṃ ca dadau prabhuḥ |

57.2५७.२

कुशद्वीपं च स ददौ राज्येन भगवान् अजः ॥ (५७।२)

kuśadvīpaṃ ca sa dadau rājyena bhagavān ajaḥ ||

58.1५८.१

तथा शतमुखो नाम धात्रा सृष्टो महासुरः । (५८।१)

tathā śatamukho nāma dhātrā sṛṣṭo mahāsuraḥ |

58.2५८.२

येन वर्षशतं साग्रम् आत्ममांसैर् हुतो ऽनलः । (५८।२)

yena varṣaśataṃ sāgram ātmamāṃsair huto 'nalaḥ |

58.3५८.३

तं प्राह भगवांस्तुष्टः किं करोमीति शंकरः ॥ (५८।३)

taṃ prāha bhagavāṃstuṣṭaḥ kiṃ karomīti śaṃkaraḥ ||

59.1५९.१

तं वै शतमुखः प्राह योगो भवतु मे ऽद्भुतः । (५९।१)

taṃ vai śatamukhaḥ prāha yogo bhavatu me 'dbhutaḥ |

59.2५९.२

बलं च दैवतश्रेष्ठ शाश्वतं सम्प्रयच्छ मे ॥ (५९।२)

balaṃ ca daivataśreṣṭha śāśvataṃ samprayaccha me ||

60.1६०.१

स्वायंभुवः क्रतुश्चापि पुत्रार्थम् अभवत् पुरा । (६०।१)

svāyaṃbhuvaḥ kratuścāpi putrārtham abhavat purā |

60.2६०.२

आविश्य योगेनात्मानं त्रीणि वर्षशतान्यपि ॥ (६०।२)

āviśya yogenātmānaṃ trīṇi varṣaśatānyapi ||

61.1६१.१

तस्य देवो ऽददत् पुत्रान् सहस्रं क्रतुसंमितान् । (६१।१)

tasya devo 'dadat putrān sahasraṃ kratusaṃmitān |

61.2६१.२

योगेश्वरं देवगीतं वेत्थ कृष्ण न संशयः ॥ (६१।२)

yogeśvaraṃ devagītaṃ vettha kṛṣṇa na saṃśayaḥ ||

62.1६२.१

वालखिल्या मघवता अवज्ञाताः पुरा किल । (६२।१)

vālakhilyā maghavatā avajñātāḥ purā kila |

62.2६२.२

तैः क्रुद्धैर् भगवान् रुद्रस्तपसा तोषितो ह्यभूत् ॥ (६२।२)

taiḥ kruddhair bhagavān rudrastapasā toṣito hyabhūt ||

63.1६३.१

तांश्चापि दैवतश्रेष्ठः प्राह प्रीतो जगत्पतिः । (६३।१)

tāṃścāpi daivataśreṣṭhaḥ prāha prīto jagatpatiḥ |

63.2६३.२

सुपर्णं सोमहर्तारं तपसोत्पादयिष्यथ ॥ (६३।२)

suparṇaṃ somahartāraṃ tapasotpādayiṣyatha ||

64.1६४.१

महादेवस्य रोषाच्च आपो नष्टाः पुराभवन् । (६४।१)

mahādevasya roṣācca āpo naṣṭāḥ purābhavan |

64.2६४.२

ताश्च सप्तकपालेन देवैर् अन्याः प्रवर्तिताः ॥ (६४।२)

tāśca saptakapālena devair anyāḥ pravartitāḥ ||

65.1६५.१

अत्रेर् भार्यापि भर्तारं संत्यज्य ब्रह्मवादिनी । (६५।१)

atrer bhāryāpi bhartāraṃ saṃtyajya brahmavādinī |

65.2६५.२

नाहं तस्य मुनेर् भूयो वशगा स्यां कथंचन । (६५।२)

nāhaṃ tasya muner bhūyo vaśagā syāṃ kathaṃcana |

65.3६५.३

इत्युक्त्वा सा महादेवम् अगच्छच्छरणं किल ॥ (६५।३)

ityuktvā sā mahādevam agacchaccharaṇaṃ kila ||

66.1६६.१

निराहारा भयाद् अत्रेस्त्रीणि वर्षशतान्यपि । (६६।१)

nirāhārā bhayād atrestrīṇi varṣaśatānyapi |

66.2६६.२

अशेत मुसलेष्वेव प्रसादार्थं भवस्य सा ॥ (६६।२)

aśeta musaleṣveva prasādārthaṃ bhavasya sā ||

67.1६७.१

ताम् अब्रवीद्धसन् देवो भविता वै सुतस्तव । (६७।१)

tām abravīddhasan devo bhavitā vai sutastava |

67.2६७.२

वंशे तवैव नाम्ना तु ख्यातिं यास्यति चेप्सिताम् ॥ (६७।२)

vaṃśe tavaiva nāmnā tu khyātiṃ yāsyati cepsitām ||

68.1६८.१

शाकल्यः संशितात्मा वै नव वर्षशतान्यपि । (६८।१)

śākalyaḥ saṃśitātmā vai nava varṣaśatānyapi |

68.2६८.२

आराधयामास भवं मनोयज्ञेन केशव ॥ (६८।२)

ārādhayāmāsa bhavaṃ manoyajñena keśava ||

69.1६९.१

तं चाह भगवांस्तुष्टो ग्रन्थकारो भविष्यसि । (६९।१)

taṃ cāha bhagavāṃstuṣṭo granthakāro bhaviṣyasi |

69.2६९.२

वत्साक्षया च ते कीर्तिस्त्रैलोक्ये वै भविष्यति । (६९।२)

vatsākṣayā ca te kīrtistrailokye vai bhaviṣyati |

69.3६९.३

अक्षयं च कुलं ते ऽस्तु महर्षिभिर् अलंकृतम् ॥ (६९।३)

akṣayaṃ ca kulaṃ te 'stu maharṣibhir alaṃkṛtam ||

70.1७०.१

सावर्णिश्चापि विख्यात ऋषिर् आसीत् कृते युगे । (७०।१)

sāvarṇiścāpi vikhyāta ṛṣir āsīt kṛte yuge |

70.2७०.२

इह तेन तपस्तप्तं षष्टिं वर्षशतान्यथ ॥ (७०।२)

iha tena tapastaptaṃ ṣaṣṭiṃ varṣaśatānyatha ||

71.1७१.१

तम् आह भगवान् रुद्रः साक्षात् तुष्टो ऽस्मि ते ऽनघ । (७१।१)

tam āha bhagavān rudraḥ sākṣāt tuṣṭo 'smi te 'nagha |

71.2७१.२

ग्रन्थकृल् लोकविख्यातो भवितास्यजरामरः ॥ (७१।२)

granthakṛl lokavikhyāto bhavitāsyajarāmaraḥ ||

72.1७२.१

मयापि च यथा दृष्टो देवदेवः पुरा विभुः । (७२।१)

mayāpi ca yathā dṛṣṭo devadevaḥ purā vibhuḥ |

72.2७२.२

साक्षात् पशुपतिस्तात तच्चापि शृणु माधव ॥ (७२।२)

sākṣāt paśupatistāta taccāpi śṛṇu mādhava ||

73.1७३.१

यदर्थं च महादेवः प्रयतेन मया पुरा । (७३।१)

yadarthaṃ ca mahādevaḥ prayatena mayā purā |

73.2७३.२

आराधितो महातेजास् तच्चापि शृणु विस्तरम् ॥ (७३।२)

ārādhito mahātejās taccāpi śṛṇu vistaram ||

74.1७४.१

यद् अवाप्तं च मे पूर्वं देवदेवान्महेश्वरात् । (७४।१)

yad avāptaṃ ca me pūrvaṃ devadevānmaheśvarāt |

74.2७४.२

तत् सर्वम् अखिलेनाद्य कथयिष्यामि ते ऽनघ ॥ (७४।२)

tat sarvam akhilenādya kathayiṣyāmi te 'nagha ||

75.1७५.१

पुरा कृतयुगे तात ऋषिर् आसीन्महायशाः । (७५।१)

purā kṛtayuge tāta ṛṣir āsīnmahāyaśāḥ |

75.2७५.२

व्याघ्रपाद इति ख्यातो वेदवेदाङ्गपारगः । (७५।२)

vyāghrapāda iti khyāto vedavedāṅgapāragaḥ |

75.3७५.३

तस्याहम् अभवं पुत्रो धौम्यश्चापि ममानुजः ॥ (७५।३)

tasyāham abhavaṃ putro dhaumyaścāpi mamānujaḥ ||

76.1७६.१

कस्यचित् त्वथ कालस्य धौम्येन सह माधव । (७६।१)

kasyacit tvatha kālasya dhaumyena saha mādhava |

76.2७६.२

आगच्छम् आश्रमं क्रीडन्मुनीनां भावितात्मनाम् ॥ (७६।२)

āgaccham āśramaṃ krīḍanmunīnāṃ bhāvitātmanām ||

77.1७७.१

तत्रापि च मया दृष्टा दुह्यमाना पयस्विनी । (७७।१)

tatrāpi ca mayā dṛṣṭā duhyamānā payasvinī |

77.2७७.२

लक्षितं च मया क्षीरं स्वादुतो ह्यमृतोपमम् ॥ (७७।२)

lakṣitaṃ ca mayā kṣīraṃ svāduto hyamṛtopamam ||

78.1७८.१

ततः पिष्टं समालोड्य तोयेन सह माधव । (७८।१)

tataḥ piṣṭaṃ samāloḍya toyena saha mādhava |

78.2७८.२

आवयोः क्षीरम् इत्येव पानार्थम् उपनीयते ॥ (७८।२)

āvayoḥ kṣīram ityeva pānārtham upanīyate ||

79.1७९.१

अथ गव्यं पयस्तात कदाचित् प्राशितं मया । (७९।१)

atha gavyaṃ payastāta kadācit prāśitaṃ mayā |

79.2७९.२

ततः पिष्टरसं तात न मे प्रीतिम् उदावहत् ॥ (७९।२)

tataḥ piṣṭarasaṃ tāta na me prītim udāvahat ||

80.1८०.१

ततो ऽहम् अब्रुवं बाल्याज्जननीम् आत्मनस्तदा । (८०।१)

tato 'ham abruvaṃ bālyājjananīm ātmanastadā |

80.2८०.२

क्षीरोदनसमायुक्तं भोजनं च प्रयच्छ मे ॥ (८०।२)

kṣīrodanasamāyuktaṃ bhojanaṃ ca prayaccha me ||

81.1८१.१

ततो माम् अब्रवीन्माता दुःखशोकसमन्विता । (८१।१)

tato mām abravīnmātā duḥkhaśokasamanvitā |

81.2८१.२

पुत्रस्नेहात् परिष्वज्य मूर्ध्नि चाघ्राय माधव ॥ (८१।२)

putrasnehāt pariṣvajya mūrdhni cāghrāya mādhava ||

82.1८२.१

कुतः क्षीरोदनं वत्स मुनीनां भावितात्मनाम् । (८२।१)

kutaḥ kṣīrodanaṃ vatsa munīnāṃ bhāvitātmanām |

82.2८२.२

वने निवसतां नित्यं कन्दमूलफलाशिनाम् ॥ (८२।२)

vane nivasatāṃ nityaṃ kandamūlaphalāśinām ||

83.1८३.१

अप्रसाद्य विरूपाक्षं वरदं स्थाणुम् अव्ययम् । (८३।१)

aprasādya virūpākṣaṃ varadaṃ sthāṇum avyayam |

83.2८३.२

कुतः क्षीरोदनं वत्स सुखानि वसनानि च ॥ (८३।२)

kutaḥ kṣīrodanaṃ vatsa sukhāni vasanāni ca ||

84.1८४.१

तं प्रपद्य सदा वत्स सर्वभावेन शंकरम् । (८४।१)

taṃ prapadya sadā vatsa sarvabhāvena śaṃkaram |

84.2८४.२

तत्प्रसादाच्च कामेभ्यः फलं प्राप्स्यसि पुत्रक ॥ (८४।२)

tatprasādācca kāmebhyaḥ phalaṃ prāpsyasi putraka ||

85.1८५.१

जनन्यास्तद् वचः श्रुत्वा तदाप्रभृति शत्रुहन् । (८५।१)

jananyāstad vacaḥ śrutvā tadāprabhṛti śatruhan |

85.2८५.२

मम भक्तिर् महादेवे नैष्ठिकी समपद्यत ॥ (८५।२)

mama bhaktir mahādeve naiṣṭhikī samapadyata ||

86.1८६.१

ततो ऽहं तप आस्थाय तोषयामास शंकरम् । (८६।१)

tato 'haṃ tapa āsthāya toṣayāmāsa śaṃkaram |

86.2८६.२

दिव्यं वर्षसहस्रं तु पादाङ्गुष्ठाग्रविष्ठितः ॥ (८६।२)

divyaṃ varṣasahasraṃ tu pādāṅguṣṭhāgraviṣṭhitaḥ ||

87.1८७.१

एकं वर्षशतं चैव फलाहारस्तदाभवम् । (८७।१)

ekaṃ varṣaśataṃ caiva phalāhārastadābhavam |

87.2८७.२

द्वितीयं शीर्णपर्णाशी तृतीयं चाम्बुभोजनः । (८७।२)

dvitīyaṃ śīrṇaparṇāśī tṛtīyaṃ cāmbubhojanaḥ |

87.3८७.३

शतानि सप्त चैवाहं वायुभक्षस्तदाभवम् ॥ (८७।३)

śatāni sapta caivāhaṃ vāyubhakṣastadābhavam ||

88.1८८.१

ततः प्रीतो महादेवः सर्वलोकेश्वरः प्रभुः । (८८।१)

tataḥ prīto mahādevaḥ sarvalokeśvaraḥ prabhuḥ |

88.2८८.२

शक्ररूपं स कृत्वा तु सर्वैर् देवगणैर् वृतः । (८८।२)

śakrarūpaṃ sa kṛtvā tu sarvair devagaṇair vṛtaḥ |

88.3८८.३

सहस्राक्षस्तदा भूत्वा वज्रपाणिर् महायशाः ॥ (८८।३)

sahasrākṣastadā bhūtvā vajrapāṇir mahāyaśāḥ ||

89.1८९.१

सुधावदातं रक्ताक्षं स्तब्धकर्णं मदोत्कटम् । (८९।१)

sudhāvadātaṃ raktākṣaṃ stabdhakarṇaṃ madotkaṭam |

89.2८९.२

आवेष्टितकरं रौद्रं चतुर्दंष्ट्रं महागजम् ॥ (८९।२)

āveṣṭitakaraṃ raudraṃ caturdaṃṣṭraṃ mahāgajam ||

90.1९०.१

समास्थितश्च भगवान् दीप्यमानः स्वतेजसा । (९०।१)

samāsthitaśca bhagavān dīpyamānaḥ svatejasā |

90.2९०.२

आजगाम किरीटी तु हारकेयूरभूषितः ॥ (९०।२)

ājagāma kirīṭī tu hārakeyūrabhūṣitaḥ ||

91.1९१.१

पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि । (९१।१)

pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani |

91.2९१.२

सेव्यमानो ऽप्सरोभिश्च दिव्यगन्धर्वनादितः ॥ (९१।२)

sevyamāno 'psarobhiśca divyagandharvanāditaḥ ||

92.1९२.१

ततो माम् आह देवेन्द्रः प्रीतस्ते ऽहं द्विजोत्तम । (९२।१)

tato mām āha devendraḥ prītaste 'haṃ dvijottama |

92.2९२.२

वरं वृणीष्व मत्तस्त्वं यत् ते मनसि वर्तते ॥ (९२।२)

varaṃ vṛṇīṣva mattastvaṃ yat te manasi vartate ||

93.1९३.१

शक्रस्य तु वचः श्रुत्वा नाहं प्रीतमनाभवम् । (९३।१)

śakrasya tu vacaḥ śrutvā nāhaṃ prītamanābhavam |

93.2९३.२

अब्रुवं च तदा कृष्ण देवराजम् इदं वचः ॥ (९३।२)

abruvaṃ ca tadā kṛṣṇa devarājam idaṃ vacaḥ ||

94.1९४.१

नाहं त्वत्तो वरं काङ्क्षे नान्यस्माद् अपि दैवतात् । (९४।१)

nāhaṃ tvatto varaṃ kāṅkṣe nānyasmād api daivatāt |

94.2९४.२

महादेवाद् ऋते सौम्य सत्यम् एतद् ब्रवीमि ते ॥ (९४।२)

mahādevād ṛte saumya satyam etad bravīmi te ||

95.1९५.१

पशुपतिवचनाद् भवामि सद्यः कृमिर् अथ वा तरुर् अप्यनेकशाखः । (९५।१)

paśupativacanād bhavāmi sadyaḥ kṛmir atha vā tarur apyanekaśākhaḥ |

95.2९५.२

अपशुपतिवरप्रसादजा मे त्रिभुवनराज्यविभूतिर् अप्यनिष्टा ॥ (९५।२)

apaśupativaraprasādajā me tribhuvanarājyavibhūtir apyaniṣṭā ||

96.1९६.१

अपि कीटः पतंगो वा भवेयं शंकराज्ञया । (९६।१)

api kīṭaḥ pataṃgo vā bhaveyaṃ śaṃkarājñayā |

96.2९६.२

न तु शक्र त्वया दत्तं त्रैलोक्यम् अपि कामये ॥ (९६।२)

na tu śakra tvayā dattaṃ trailokyam api kāmaye ||

97.1९७.१

यावच्छशाङ्कशकलामलबद्धमौलिर् न प्रीयते पशुपतिर् भगवान्ममेशः । (९७।१)

yāvacchaśāṅkaśakalāmalabaddhamaulir na prīyate paśupatir bhagavānmameśaḥ |

97.2९७.२

तावज्जरामरणजन्मशताभिघातैर् दुःखानि देहविहितानि समुद्वहामि ॥ (९७।२)

tāvajjarāmaraṇajanmaśatābhighātair duḥkhāni dehavihitāni samudvahāmi ||

98.1९८.१

दिवसकरशशाङ्कवह्निदीप्तं त्रिभुवनसारम् अपारम् आद्यम् एकम् । (९८।१)

divasakaraśaśāṅkavahnidīptaṃ tribhuvanasāram apāram ādyam ekam |

98.2९८.२

अजरम् अमरम् अप्रसाद्य रुद्रं जगति पुमान् इह को लभेत शान्तिम् ॥ (९८।२)

ajaram amaram aprasādya rudraṃ jagati pumān iha ko labheta śāntim ||

99.1९९.१

शक्र उवाच । (९९।१)

śakra uvāca

99.2९९.२

कः पुनस्तव हेतुर् वै ईशे कारणकारणे । (९९।२)

kaḥ punastava hetur vai īśe kāraṇakāraṇe |

99.3९९.३

येन देवाद् ऋते ऽन्यस्मात् प्रसादं नाभिकाङ्क्षसि ॥ (९९।३)

yena devād ṛte 'nyasmāt prasādaṃ nābhikāṅkṣasi ||

100.1१००.१

उपमन्युर् उवाच । (१००।१)

upamanyur uvāca

100.2१००.२

हेतुभिर् वा किम् अन्यैस्ते ईशः कारणकारणम् । (१००।२)

hetubhir vā kim anyaiste īśaḥ kāraṇakāraṇam |

100.3१००.३

न शुश्रुम यद् अन्यस्य लिङ्गम् अभ्यर्च्यते सुरैः ॥ (१००।३)

na śuśruma yad anyasya liṅgam abhyarcyate suraiḥ ||

101.1१०१.१

कस्यान्यस्य सुरैः सर्वैर् लिङ्गं मुक्त्वा महेश्वरम् । (१०१।१)

kasyānyasya suraiḥ sarvair liṅgaṃ muktvā maheśvaram |

101.2१०१.२

अर्च्यते ऽर्चितपूर्वं वा ब्रूहि यद्यस्ति ते श्रुतिः ॥ (१०१।२)

arcyate 'rcitapūrvaṃ vā brūhi yadyasti te śrutiḥ ||

102.1१०२.१

यस्य ब्रह्मा च विष्णुश्च त्वं चापि सह दैवतैः । (१०२।१)

yasya brahmā ca viṣṇuśca tvaṃ cāpi saha daivataiḥ |

102.2१०२.२

अर्चयध्वं सदा लिङ्गं तस्माच्छ्रेष्ठतमो हि सः ॥ (१०२।२)

arcayadhvaṃ sadā liṅgaṃ tasmācchreṣṭhatamo hi saḥ ||

103.1१०३.१

तस्माद् वरम् अहं काङ्क्षे निधनं वापि कौशिक । (१०३।१)

tasmād varam ahaṃ kāṅkṣe nidhanaṃ vāpi kauśika |

103.2१०३.२

गच्छ वा तिष्ठ वा शक्र यथेष्टं बलसूदन ॥ (१०३।२)

gaccha vā tiṣṭha vā śakra yatheṣṭaṃ balasūdana ||

104.1१०४.१

कामम् एष वरो मे ऽस्तु शापो वापि महेश्वरात् । (१०४।१)

kāmam eṣa varo me 'stu śāpo vāpi maheśvarāt |

104.2१०४.२

न चान्यां देवतां काङ्क्षे सर्वकामफलान्यपि ॥ (१०४।२)

na cānyāṃ devatāṃ kāṅkṣe sarvakāmaphalānyapi ||

105.1१०५.१

एवम् उक्त्वा तु देवेन्द्रं दुःखाद् आकुलितेन्द्रियः । (१०५।१)

evam uktvā tu devendraṃ duḥkhād ākulitendriyaḥ |

105.2१०५.२

न प्रसीदति मे रुद्रः किम् एतद् इति चिन्तयन् । (१०५।२)

na prasīdati me rudraḥ kim etad iti cintayan |

105.3१०५.३

अथापश्यं क्षणेनैव तम् एवैरावतं पुनः ॥ (१०५।३)

athāpaśyaṃ kṣaṇenaiva tam evairāvataṃ punaḥ ||

106.1१०६.१

हंसकुन्देन्दुसदृशं मृणालकुमुदप्रभम् । (१०६।१)

haṃsakundendusadṛśaṃ mṛṇālakumudaprabham |

106.2१०६.२

वृषरूपधरं साक्षात् क्षीरोदम् इव सागरम् ॥ (१०६।२)

vṛṣarūpadharaṃ sākṣāt kṣīrodam iva sāgaram ||

107.1१०७.१

कृष्णपुच्छं महाकायं मधुपिङ्गललोचनम् । (१०७।१)

kṛṣṇapucchaṃ mahākāyaṃ madhupiṅgalalocanam |

107.2१०७.२

जाम्बूनदेन दाम्ना च सर्वतः समलंकृतम् ॥ (१०७।२)

jāmbūnadena dāmnā ca sarvataḥ samalaṃkṛtam ||

108.1१०८.१

रक्ताक्षं सुमहानासं सुकर्णं सुकटीतटम् । (१०८।१)

raktākṣaṃ sumahānāsaṃ sukarṇaṃ sukaṭītaṭam |

108.2१०८.२

सुपार्श्वं विपुलस्कन्धं सुरूपं चारुदर्शनम् ॥ (१०८।२)

supārśvaṃ vipulaskandhaṃ surūpaṃ cārudarśanam ||

109.1१०९.१

ककुदं तस्य चाभाति स्कन्धम् आपूर्य विष्ठितम् । (१०९।१)

kakudaṃ tasya cābhāti skandham āpūrya viṣṭhitam |

109.2१०९.२

तुषारगिरिकूटाभं सिताभ्रशिखरोपमम् ॥ (१०९।२)

tuṣāragirikūṭābhaṃ sitābhraśikharopamam ||

110.1११०.१

तम् आस्थितश्च भगवान् देवदेवः सहोमया । (११०।१)

tam āsthitaśca bhagavān devadevaḥ sahomayā |

110.2११०.२

अशोभत महादेवः पौर्णमास्याम् इवोडुराट् ॥ (११०।२)

aśobhata mahādevaḥ paurṇamāsyām ivoḍurāṭ ||

111.1१११.१

तस्य तेजोभवो वह्निः समेघः स्तनयित्नुमान् । (१११।१)

tasya tejobhavo vahniḥ sameghaḥ stanayitnumān |

111.2१११.२

सहस्रम् इव सूर्याणां सर्वम् आवृत्य तिष्ठति ॥ (१११।२)

sahasram iva sūryāṇāṃ sarvam āvṛtya tiṣṭhati ||

112.1११२.१

ईश्वरः सुमहातेजाः संवर्तक इवानलः । (११२।१)

īśvaraḥ sumahātejāḥ saṃvartaka ivānalaḥ |

112.2११२.२

युगान्ते सर्वभूतानि दिधक्षुर् इव चोद्यतः ॥ (११२।२)

yugānte sarvabhūtāni didhakṣur iva codyataḥ ||

113.1११३.१

तेजसा तु तदा व्याप्ते दुर्निरीक्ष्ये समन्ततः । (११३।१)

tejasā tu tadā vyāpte durnirīkṣye samantataḥ |

113.2११३.२

पुनर् उद्विग्नहृदयः किम् एतद् इति चिन्तयम् ॥ (११३।२)

punar udvignahṛdayaḥ kim etad iti cintayam ||

114.1११४.१

मुहूर्तम् इव तत् तेजो व्याप्य सर्वा दिशो दश । (११४।१)

muhūrtam iva tat tejo vyāpya sarvā diśo daśa |

114.2११४.२

प्रशान्तं च क्षणेनैव देवदेवस्य मायया ॥ (११४।२)

praśāntaṃ ca kṣaṇenaiva devadevasya māyayā ||

115.1११५.१

अथापश्यं स्थितं स्थाणुं भगवन्तं महेश्वरम् । (११५।१)

athāpaśyaṃ sthitaṃ sthāṇuṃ bhagavantaṃ maheśvaram |

115.2११५.२

सौरभेयगतं सौम्यं विधूमम् इव पावकम् । (११५।२)

saurabheyagataṃ saumyaṃ vidhūmam iva pāvakam |

115.3११५.३

सहितं चारुसर्वाङ्ग्या पार्वत्या परमेश्वरम् ॥ (११५।३)

sahitaṃ cārusarvāṅgyā pārvatyā parameśvaram ||

116.1११६.१

नीलकण्ठं महात्मानम् असक्तं तेजसां निधिम् । (११६।१)

nīlakaṇṭhaṃ mahātmānam asaktaṃ tejasāṃ nidhim |

116.2११६.२

अष्टादशभुजं स्थाणुं सर्वाभरणभूषितम् ॥ (११६।२)

aṣṭādaśabhujaṃ sthāṇuṃ sarvābharaṇabhūṣitam ||

117.1११७.१

शुक्लाम्बरधरं देवं शुक्लमाल्यानुलेपनम् । (११७।१)

śuklāmbaradharaṃ devaṃ śuklamālyānulepanam |

117.2११७.२

शुक्लध्वजम् अनाधृष्यं शुक्लयज्ञोपवीतिनम् ॥ (११७।२)

śukladhvajam anādhṛṣyaṃ śuklayajñopavītinam ||

118.1११८.१

गायद्भिर् नृत्यमानैश्च उत्पतद्भिर् इतस्ततः । (११८।१)

gāyadbhir nṛtyamānaiśca utpatadbhir itastataḥ |

118.2११८.२

वृतं पारिषदैर् दिव्यैर् आत्मतुल्यपराक्रमैः ॥ (११८।२)

vṛtaṃ pāriṣadair divyair ātmatulyaparākramaiḥ ||

119.1११९.१

बालेन्दुमुकुटं पाण्डुं शरच्चन्द्रम् इवोदितम् । (११९।१)

bālendumukuṭaṃ pāṇḍuṃ śaraccandram ivoditam |

119.2११९.२

त्रिभिर् नेत्रैः कृतोद्द्योतं त्रिभिः सूर्यैर् इवोदितैः ॥ (११९।२)

tribhir netraiḥ kṛtoddyotaṃ tribhiḥ sūryair ivoditaiḥ ||

120.1१२०.१

अशोभत च देवस्य माला गात्रे सितप्रभे । (१२०।१)

aśobhata ca devasya mālā gātre sitaprabhe |

120.2१२०.२

जातरूपमयैः पद्मैर् ग्रथिता रत्नभूषिता ॥ (१२०।२)

jātarūpamayaiḥ padmair grathitā ratnabhūṣitā ||

121.1१२१.१

मूर्तिमन्ति तथास्त्राणि सर्वतेजोमयानि च । (१२१।१)

mūrtimanti tathāstrāṇi sarvatejomayāni ca |

121.2१२१.२

मया दृष्टानि गोविन्द भवस्यामिततेजसः ॥ (१२१।२)

mayā dṛṣṭāni govinda bhavasyāmitatejasaḥ ||

122.1१२२.१

इन्द्रायुधसहस्राभं धनुस्तस्य महात्मनः । (१२२।१)

indrāyudhasahasrābhaṃ dhanustasya mahātmanaḥ |

122.2१२२.२

पिनाकम् इति विख्यातं स च वै पन्नगो महान् ॥ (१२२।२)

pinākam iti vikhyātaṃ sa ca vai pannago mahān ||

123.1१२३.१

सप्तशीर्षो महाकायस् तीक्ष्णदंष्ट्रो विषोल्बणः । (१२३।१)

saptaśīrṣo mahākāyas tīkṣṇadaṃṣṭro viṣolbaṇaḥ |

123.2१२३.२

ज्यावेष्टितमहाग्रीवः स्थितः पुरुषविग्रहः ॥ (१२३।२)

jyāveṣṭitamahāgrīvaḥ sthitaḥ puruṣavigrahaḥ ||

124.1१२४.१

शरश्च सूर्यसंकाशः कालानलसमद्युतिः । (१२४।१)

śaraśca sūryasaṃkāśaḥ kālānalasamadyutiḥ |

124.2१२४.२

यत् तद् अस्त्रं महाघोरं दिव्यं पाशुपतं महत् ॥ (१२४।२)

yat tad astraṃ mahāghoraṃ divyaṃ pāśupataṃ mahat ||

125.1१२५.१

अद्वितीयम् अनिर्देश्यं सर्वभूतभयावहम् । (१२५।१)

advitīyam anirdeśyaṃ sarvabhūtabhayāvaham |

125.2१२५.२

सस्फुलिङ्गं महाकायं विसृजन्तम् इवानलम् ॥ (१२५।२)

sasphuliṅgaṃ mahākāyaṃ visṛjantam ivānalam ||

126.1१२६.१

एकपादं महादंष्ट्रं सहस्रशिरसोदरम् । (१२६।१)

ekapādaṃ mahādaṃṣṭraṃ sahasraśirasodaram |

126.2१२६.२

सहस्रभुजजिह्वाक्षम् उद्गिरन्तम् इवानलम् ॥ (१२६।२)

sahasrabhujajihvākṣam udgirantam ivānalam ||

127.1१२७.१

ब्राह्मान्नारायणाद् ऐन्द्राद् आग्नेयाद् अपि वारुणात् । (१२७।१)

brāhmānnārāyaṇād aindrād āgneyād api vāruṇāt |

127.2१२७.२

यद् विशिष्टं महाबाहो सर्वशस्त्रविघातनम् ॥ (१२७।२)

yad viśiṣṭaṃ mahābāho sarvaśastravighātanam ||

128.1१२८.१

येन तत् त्रिपुरं दग्ध्वा क्षणाद् भस्मीकृतं पुरा । (१२८।१)

yena tat tripuraṃ dagdhvā kṣaṇād bhasmīkṛtaṃ purā |

128.2१२८.२

शरेणैकेन गोविन्द महादेवेन लीलया ॥ (१२८।२)

śareṇaikena govinda mahādevena līlayā ||

129.1१२९.१

निर्ददाह जगत् कृत्स्नं त्रैलोक्यं सचराचरम् । (१२९।१)

nirdadāha jagat kṛtsnaṃ trailokyaṃ sacarācaram |

129.2१२९.२

महेश्वरभुजोत्सृष्टं निमेषार्धान्न संशयः ॥ (१२९।२)

maheśvarabhujotsṛṣṭaṃ nimeṣārdhānna saṃśayaḥ ||

130.1१३०.१

नावध्यो यस्य लोके ऽस्मिन् ब्रह्मविष्णुसुरेष्वपि । (१३०।१)

nāvadhyo yasya loke 'smin brahmaviṣṇusureṣvapi |

130.2१३०.२

तद् अहं दृष्टवांस्तात आश्चर्याद्भुतम् उत्तमम् ॥ (१३०।२)

tad ahaṃ dṛṣṭavāṃstāta āścaryādbhutam uttamam ||

131.1१३१.१

गुह्यम् अस्त्रं परं चापि तत्तुल्याधिकम् एव वा । (१३१।१)

guhyam astraṃ paraṃ cāpi tattulyādhikam eva vā |

131.2१३१.२

यत् तच्छूलम् इति ख्यातं सर्वलोकेषु शूलिनः ॥ (१३१।२)

yat tacchūlam iti khyātaṃ sarvalokeṣu śūlinaḥ ||

132.1१३२.१

दारयेद् यन्महीं कृत्स्नां शोषयेद् वा महोदधिम् । (१३२।१)

dārayed yanmahīṃ kṛtsnāṃ śoṣayed vā mahodadhim |

132.2१३२.२

संहरेद् वा जगत् कृत्स्नं विसृष्टं शूलपाणिना ॥ (१३२।२)

saṃhared vā jagat kṛtsnaṃ visṛṣṭaṃ śūlapāṇinā ||

133.1१३३.१

यौवनाश्वो हतो येन मान्धाता सबलः पुरा । (१३३।१)

yauvanāśvo hato yena māndhātā sabalaḥ purā |

133.2१३३.२

चक्रवर्ती महातेजास्त्रिलोकविजयी नृपः ॥ (१३३।२)

cakravartī mahātejāstrilokavijayī nṛpaḥ ||

134.1१३४.१

महाबलो महावीर्यः शक्रतुल्यपराक्रमः । (१३४।१)

mahābalo mahāvīryaḥ śakratulyaparākramaḥ |

134.2१३४.२

करस्थेनैव गोविन्द लवणस्येह रक्षसः ॥ (१३४।२)

karasthenaiva govinda lavaṇasyeha rakṣasaḥ ||

135.1१३५.१

तच्छूलम् अतितीक्ष्णाग्रं सुभीमं लोमहर्षणम् । (१३५।१)

tacchūlam atitīkṣṇāgraṃ subhīmaṃ lomaharṣaṇam |

135.2१३५.२

त्रिशिखां भ्रुकुटीं कृत्वा तर्जमानम् इव स्थितम् ॥ (१३५।२)

triśikhāṃ bhrukuṭīṃ kṛtvā tarjamānam iva sthitam ||

136.1१३६.१

विधूमं सार्चिषं कृष्णं कालसूर्यम् इवोदितम् । (१३६।१)

vidhūmaṃ sārciṣaṃ kṛṣṇaṃ kālasūryam ivoditam |

136.2१३६.२

सर्पहस्तम् अनिर्देश्यं पाशहस्तम् इवान्तकम् । (१३६।२)

sarpahastam anirdeśyaṃ pāśahastam ivāntakam |

136.3१३६.३

दृष्टवान् अस्मि गोविन्द तद् अस्त्रं रुद्रसंनिधौ ॥ (१३६।३)

dṛṣṭavān asmi govinda tad astraṃ rudrasaṃnidhau ||

137.1१३७.१

परशुस्तीक्ष्णधारश्च दत्तो रामस्य यः पुरा । (१३७।१)

paraśustīkṣṇadhāraśca datto rāmasya yaḥ purā |

137.2१३७.२

महादेवेन तुष्टेन क्षत्रियाणां क्षयंकरः । (१३७।२)

mahādevena tuṣṭena kṣatriyāṇāṃ kṣayaṃkaraḥ |

137.3१३७.३

कार्तवीर्यो हतो येन चक्रवर्ती महामृधे ॥ (१३७।३)

kārtavīryo hato yena cakravartī mahāmṛdhe ||

138.1१३८.१

त्रिःसप्तकृत्वः पृथिवी येन निःक्षत्रिया कृता । (१३८।१)

triḥsaptakṛtvaḥ pṛthivī yena niḥkṣatriyā kṛtā |

138.2१३८.२

जामदग्न्येन गोविन्द रामेणाक्लिष्टकर्मणा ॥ (१३८।२)

jāmadagnyena govinda rāmeṇākliṣṭakarmaṇā ||

139.1१३९.१

दीप्तधारः सुरौद्रास्यः सर्पकण्ठाग्रवेष्टितः । (१३९।१)

dīptadhāraḥ suraudrāsyaḥ sarpakaṇṭhāgraveṣṭitaḥ |

139.2१३९.२

अभवच्छूलिनो ऽभ्याशे दीप्तवह्निशिखोपमः ॥ (१३९।२)

abhavacchūlino 'bhyāśe dīptavahniśikhopamaḥ ||

140.1१४०.१

असंख्येयानि चास्त्राणि तस्य दिव्यानि धीमतः । (१४०।१)

asaṃkhyeyāni cāstrāṇi tasya divyāni dhīmataḥ |

140.2१४०.२

प्राधान्यतो मयैतानि कीर्तितानि तवानघ ॥ (१४०।२)

prādhānyato mayaitāni kīrtitāni tavānagha ||

141.1१४१.१

सव्यदेशे तु देवस्य ब्रह्मा लोकपितामहः । (१४१।१)

savyadeśe tu devasya brahmā lokapitāmahaḥ |

141.2१४१.२

दिव्यं विमानम् आस्थाय हंसयुक्तं मनोजवम् ॥ (१४१।२)

divyaṃ vimānam āsthāya haṃsayuktaṃ manojavam ||

142.1१४२.१

वामपार्श्वगतश्चैव तथा नारायणः स्थितः । (१४२।१)

vāmapārśvagataścaiva tathā nārāyaṇaḥ sthitaḥ |

142.2१४२.२

वैनतेयं समास्थाय शङ्खचक्रगदाधरः ॥ (१४२।२)

vainateyaṃ samāsthāya śaṅkhacakragadādharaḥ ||

143.1१४३.१

स्कन्दो मयूरम् आस्थाय स्थितो देव्याः समीपतः । (१४३।१)

skando mayūram āsthāya sthito devyāḥ samīpataḥ |

143.2१४३.२

शक्तिं कण्ठे समादाय द्वितीय इव पावकः ॥ (१४३।२)

śaktiṃ kaṇṭhe samādāya dvitīya iva pāvakaḥ ||

144.1१४४.१

पुरस्ताच्चैव देवस्य नन्दिं पश्याम्यवस्थितम् । (१४४।१)

purastāccaiva devasya nandiṃ paśyāmyavasthitam |

144.2१४४.२

शूलं विष्टभ्य तिष्ठन्तं द्वितीयम् इव शंकरम् ॥ (१४४।२)

śūlaṃ viṣṭabhya tiṣṭhantaṃ dvitīyam iva śaṃkaram ||

145.1१४५.१

स्वायंभुवाद्या मनवो भृग्वाद्या ऋषयस्तथा । (१४५।१)

svāyaṃbhuvādyā manavo bhṛgvādyā ṛṣayastathā |

145.2१४५.२

शक्राद्या देवताश्चैव सर्व एव समभ्ययुः ॥ (१४५।२)

śakrādyā devatāścaiva sarva eva samabhyayuḥ ||

146.1१४६.१

ते ऽभिवाद्य महात्मानं परिवार्य समन्ततः । (१४६।१)

te 'bhivādya mahātmānaṃ parivārya samantataḥ |

146.2१४६.२

अस्तुवन् विविधैः स्तोत्रैर् महादेवं सुरास्तदा ॥ (१४६।२)

astuvan vividhaiḥ stotrair mahādevaṃ surāstadā ||

147.1१४७.१

ब्रह्मा भवं तदा स्तुन्वन् रथन्तरम् उदीरयन् । (१४७।१)

brahmā bhavaṃ tadā stunvan rathantaram udīrayan |

147.2१४७.२

ज्येष्ठसाम्ना च देवेशं जगौ नारायणस्तदा । (१४७।२)

jyeṣṭhasāmnā ca deveśaṃ jagau nārāyaṇastadā |

147.3१४७.३

गृणञ् शक्रः परं ब्रह्म शतरुद्रीयम् उत्तमम् ॥ (१४७।३)

gṛṇañ śakraḥ paraṃ brahma śatarudrīyam uttamam ||

148.1१४८.१

ब्रह्मा नारायणश्चैव देवराजश्च कौशिकः । (१४८।१)

brahmā nārāyaṇaścaiva devarājaśca kauśikaḥ |

148.2१४८.२

अशोभन्त महात्मानस्त्रयस्त्रय इवाग्नयः ॥ (१४८।२)

aśobhanta mahātmānastrayastraya ivāgnayaḥ ||

149.1१४९.१

तेषां मध्यगतो देवो रराज भगवाञ् शिवः । (१४९।१)

teṣāṃ madhyagato devo rarāja bhagavāñ śivaḥ |

149.2१४९.२

शरद्घनविनिर्मुक्तः परिविष्ट इवांशुमान् । (१४९।२)

śaradghanavinirmuktaḥ pariviṣṭa ivāṃśumān |

149.3१४९.३

ततो ऽहम् अस्तुवं देवं स्तवेनानेन सुव्रतम् ॥ (१४९।३)

tato 'ham astuvaṃ devaṃ stavenānena suvratam ||

150.1१५०.१

नमो देवाधिदेवाय महादेवाय वै नमः । (१५०।१)

namo devādhidevāya mahādevāya vai namaḥ |

150.2१५०.२

शक्राय शक्ररूपाय शक्रवेषधराय च ॥ (१५०।२)

śakrāya śakrarūpāya śakraveṣadharāya ca ||

151.1१५१.१

नमस्ते वज्रहस्ताय पिङ्गलायारुणाय च । (१५१।१)

namaste vajrahastāya piṅgalāyāruṇāya ca |

151.2१५१.२

पिनाकपाणये नित्यं खड्गशूलधराय च ॥ (१५१।२)

pinākapāṇaye nityaṃ khaḍgaśūladharāya ca ||

152.1१५२.१

नमस्ते कृष्णवासाय कृष्णकुञ्चितमूर्धजे । (१५२।१)

namaste kṛṣṇavāsāya kṛṣṇakuñcitamūrdhaje |

152.2१५२.२

कृष्णाजिनोत्तरीयाय कृष्णाष्टमिरताय च ॥ (१५२।२)

kṛṣṇājinottarīyāya kṛṣṇāṣṭamiratāya ca ||

153.1१५३.१

शुक्लवर्णाय शुक्लाय शुक्लाम्बरधराय च । (१५३।१)

śuklavarṇāya śuklāya śuklāmbaradharāya ca |

153.2१५३.२

शुक्लभस्मावलिप्ताय शुक्लकर्मरताय च ॥ (१५३।२)

śuklabhasmāvaliptāya śuklakarmaratāya ca ||

154.1१५४.१

त्वं ब्रह्मा सर्वदेवानां रुद्राणां नीललोहितः । (१५४।१)

tvaṃ brahmā sarvadevānāṃ rudrāṇāṃ nīlalohitaḥ |

154.2१५४.२

आत्मा च सर्वभूतानां सांख्ये पुरुष उच्यसे ॥ (१५४।२)

ātmā ca sarvabhūtānāṃ sāṃkhye puruṣa ucyase ||

155.1१५५.१

ऋषभस्त्वं पवित्राणां योगिनां निष्कलः शिवः । (१५५।१)

ṛṣabhastvaṃ pavitrāṇāṃ yogināṃ niṣkalaḥ śivaḥ |

155.2१५५.२

आश्रमाणां गृहस्थस्त्वम् ईश्वराणां महेश्वरः । (१५५।२)

āśramāṇāṃ gṛhasthastvam īśvarāṇāṃ maheśvaraḥ |

155.3१५५.३

कुबेरः सर्वयक्षाणां क्रतूनां विष्णुर् उच्यसे ॥ (१५५।३)

kuberaḥ sarvayakṣāṇāṃ kratūnāṃ viṣṇur ucyase ||

156.1१५६.१

पर्वतानां महामेरुर् नक्षत्राणां च चन्द्रमाः । (१५६।१)

parvatānāṃ mahāmerur nakṣatrāṇāṃ ca candramāḥ |

156.2१५६.२

वसिष्ठस्त्वम् ऋषीणां च ग्रहाणां सूर्य उच्यसे ॥ (१५६।२)

vasiṣṭhastvam ṛṣīṇāṃ ca grahāṇāṃ sūrya ucyase ||

157.1१५७.१

आरण्यानां पशूनां च सिंहस्त्वं परमेश्वरः । (१५७।१)

āraṇyānāṃ paśūnāṃ ca siṃhastvaṃ parameśvaraḥ |

157.2१५७.२

ग्राम्याणां गोवृषश्चासि भगवांल् लोकपूजितः ॥ (१५७।२)

grāmyāṇāṃ govṛṣaścāsi bhagavāṃl lokapūjitaḥ ||

158.1१५८.१

आदित्यानां भवान् विष्णुर् वसूनां चैव पावकः । (१५८।१)

ādityānāṃ bhavān viṣṇur vasūnāṃ caiva pāvakaḥ |

158.2१५८.२

पक्षिणां वैनतेयश्च अनन्तो भुजगेषु च ॥ (१५८।२)

pakṣiṇāṃ vainateyaśca ananto bhujageṣu ca ||

159.1१५९.१

सामवेदश्च वेदानां यजुषां शतरुद्रियम् । (१५९।१)

sāmavedaśca vedānāṃ yajuṣāṃ śatarudriyam |

159.2१५९.२

सनत्कुमारो योगीनां सांख्यानां कपिलो ह्यसि ॥ (१५९।२)

sanatkumāro yogīnāṃ sāṃkhyānāṃ kapilo hyasi ||

160.1१६०.१

शक्रो ऽसि मरुतां देव पितॄणां धर्मराड् असि । (१६०।१)

śakro 'si marutāṃ deva pitṝṇāṃ dharmarāḍ asi |

160.2१६०.२

ब्रह्मलोकश्च लोकानां गतीनां मोक्ष उच्यसे ॥ (१६०।२)

brahmalokaśca lokānāṃ gatīnāṃ mokṣa ucyase ||

161.1१६१.१

क्षीरोदः सागराणां च शैलानां हिमवान् गिरिः । (१६१।१)

kṣīrodaḥ sāgarāṇāṃ ca śailānāṃ himavān giriḥ |

161.2१६१.२

वर्णानां ब्राह्मणश्चासि विप्राणां दीक्षितो द्विजः । (१६१।२)

varṇānāṃ brāhmaṇaścāsi viprāṇāṃ dīkṣito dvijaḥ |

161.3१६१.३

आदिस्त्वम् असि लोकानां संहर्ता काल एव च ॥ (१६१।३)

ādistvam asi lokānāṃ saṃhartā kāla eva ca ||

162.1१६२.१

यच्चान्यद् अपि लोकेषु सत्त्वं तेजोधिकं स्मृतम् । (१६२।१)

yaccānyad api lokeṣu sattvaṃ tejodhikaṃ smṛtam |

162.2१६२.२

तत् सर्वं भगवान् एव इति मे निश्चिता मतिः ॥ (१६२।२)

tat sarvaṃ bhagavān eva iti me niścitā matiḥ ||

163.1१६३.१

नमस्ते भगवन् देव नमस्ते भक्तवत्सल । (१६३।१)

namaste bhagavan deva namaste bhaktavatsala |

163.2१६३.२

योगेश्वर नमस्ते ऽस्तु नमस्ते विश्वसंभव ॥ (१६३।२)

yogeśvara namaste 'stu namaste viśvasaṃbhava ||

164.1१६४.१

प्रसीद मम भक्तस्य दीनस्य कृपणस्य च । (१६४।१)

prasīda mama bhaktasya dīnasya kṛpaṇasya ca |

164.2१६४.२

अनैश्वर्येण युक्तस्य गतिर् भव सनातन ॥ (१६४।२)

anaiśvaryeṇa yuktasya gatir bhava sanātana ||

165.1१६५.१

यं चापराधं कृतवान् अज्ञानात् परमेश्वर । (१६५।१)

yaṃ cāparādhaṃ kṛtavān ajñānāt parameśvara |

165.2१६५.२

मद्भक्त इति देवेश तत् सर्वं क्षन्तुम् अर्हसि ॥ (१६५।२)

madbhakta iti deveśa tat sarvaṃ kṣantum arhasi ||

166.1१६६.१

मोहितश्चास्मि देवेश तुभ्यं रूपविपर्ययात् । (१६६।१)

mohitaścāsmi deveśa tubhyaṃ rūpaviparyayāt |

166.2१६६.२

तेन नार्घ्यं मया दत्तं पाद्यं चापि सुरेश्वर ॥ (१६६।२)

tena nārghyaṃ mayā dattaṃ pādyaṃ cāpi sureśvara ||

167.1१६७.१

एवं स्तुत्वाहम् ईशानं पाद्यम् अर्घ्यं च भक्तितः । (१६७।१)

evaṃ stutvāham īśānaṃ pādyam arghyaṃ ca bhaktitaḥ |

167.2१६७.२

कृताञ्जलिपुटो भूत्वा सर्वं तस्मै न्यवेदयम् ॥ (१६७।२)

kṛtāñjalipuṭo bhūtvā sarvaṃ tasmai nyavedayam ||

168.1१६८.१

ततः शीताम्बुसंयुक्ता दिव्यगन्धसमन्विता । (१६८।१)

tataḥ śītāmbusaṃyuktā divyagandhasamanvitā |

168.2१६८.२

पुष्पवृष्टिः शुभा तात पपात मम मूर्धनि ॥ (१६८।२)

puṣpavṛṣṭiḥ śubhā tāta papāta mama mūrdhani ||

169.1१६९.१

दुन्दुभिश्च ततो दिव्यस्ताडितो देवकिंकरैः । (१६९।१)

dundubhiśca tato divyastāḍito devakiṃkaraiḥ |

169.2१६९.२

ववौ च मारुतः पुण्यः शुचिगन्धः सुखावहः ॥ (१६९।२)

vavau ca mārutaḥ puṇyaḥ śucigandhaḥ sukhāvahaḥ ||

170.1१७०.१

ततः प्रीतो महादेवः सपत्नीको वृषध्वजः । (१७०।१)

tataḥ prīto mahādevaḥ sapatnīko vṛṣadhvajaḥ |

170.2१७०.२

अब्रवीत् त्रिदशांस्तत्र हर्षयन्न् इव मां तदा ॥ (१७०।२)

abravīt tridaśāṃstatra harṣayann iva māṃ tadā ||

171.1१७१.१

पश्यध्वं त्रिदशाः सर्वे उपमन्योर् महात्मनः । (१७१।१)

paśyadhvaṃ tridaśāḥ sarve upamanyor mahātmanaḥ |

171.2१७१.२

मयि भक्तिं परां दिव्याम् एकभावाद् अवस्थिताम् ॥ (१७१।२)

mayi bhaktiṃ parāṃ divyām ekabhāvād avasthitām ||

172.1१७२.१

एवम् उक्तास्ततः कृष्ण सुरास्ते शूलपाणिना । (१७२।१)

evam uktāstataḥ kṛṣṇa surāste śūlapāṇinā |

172.2१७२.२

ऊचुः प्राञ्जलयः सर्वे नमस्कृत्वा वृषध्वजम् ॥ (१७२।२)

ūcuḥ prāñjalayaḥ sarve namaskṛtvā vṛṣadhvajam ||

173.1१७३.१

भगवन् देवदेवेश लोकनाथ जगत्पते । (१७३।१)

bhagavan devadeveśa lokanātha jagatpate |

173.2१७३.२

लभतां सर्वकामेभ्यः फलं त्वत्तो द्विजोत्तमः ॥ (१७३।२)

labhatāṃ sarvakāmebhyaḥ phalaṃ tvatto dvijottamaḥ ||

174.1१७४.१

एवम् उक्तस्ततः शर्वः सुरैर् ब्रह्मादिभिस्तथा । (१७४।१)

evam uktastataḥ śarvaḥ surair brahmādibhistathā |

174.2१७४.२

आह मां भगवान् ईशः प्रहसन्न् इव शंकरः ॥ (१७४।२)

āha māṃ bhagavān īśaḥ prahasann iva śaṃkaraḥ ||

175.1१७५.१

वत्सोपमन्यो प्रीतो ऽस्मि पश्य मां मुनिपुंगव । (१७५।१)

vatsopamanyo prīto 'smi paśya māṃ munipuṃgava |

175.2१७५.२

दृढभक्तो ऽसि विप्रर्षे मया जिज्ञासितो ह्यसि ॥ (१७५।२)

dṛḍhabhakto 'si viprarṣe mayā jijñāsito hyasi ||

176.1१७६.१

अनया चैव भक्त्या ते अत्यर्थं प्रीतिमान् अहम् । (१७६।१)

anayā caiva bhaktyā te atyarthaṃ prītimān aham |

176.2१७६.२

तस्मात् सर्वान् ददाम्यद्य कामांस्तव यथेप्सितान् ॥ (१७६।२)

tasmāt sarvān dadāmyadya kāmāṃstava yathepsitān ||

177.1१७७.१

एवम् उक्तस्य चैवाथ महादेवेन मे विभो । (१७७।१)

evam uktasya caivātha mahādevena me vibho |

177.2१७७.२

हर्षाद् अश्रूण्यवर्तन्त लोमहर्षश्च जायते ॥ (१७७।२)

harṣād aśrūṇyavartanta lomaharṣaśca jāyate ||

178.1१७८.१

अब्रुवं च तदा देवं हर्षगद्गदया गिरा । (१७८।१)

abruvaṃ ca tadā devaṃ harṣagadgadayā girā |

178.2१७८.२

जानुभ्याम् अवनिं गत्वा प्रणम्य च पुनः पुनः ॥ (१७८।२)

jānubhyām avaniṃ gatvā praṇamya ca punaḥ punaḥ ||

179.1१७९.१

अद्य जातो ह्यहं देव अद्य मे सफलं तपः । (१७९।१)

adya jāto hyahaṃ deva adya me saphalaṃ tapaḥ |

179.2१७९.२

यन्मे साक्षान्महादेवः प्रसन्नस्तिष्ठते ऽग्रतः ॥ (१७९।२)

yanme sākṣānmahādevaḥ prasannastiṣṭhate 'grataḥ ||

180.1१८०.१

यं न पश्यन्ति चाराध्य देवा ह्यमितविक्रमम् । (१८०।१)

yaṃ na paśyanti cārādhya devā hyamitavikramam |

180.2१८०.२

तम् अहं दृष्टवान् देवं को ऽन्यो धन्यतरो मया ॥ (१८०।२)

tam ahaṃ dṛṣṭavān devaṃ ko 'nyo dhanyataro mayā ||

181.1१८१.१

एवं ध्यायन्ति विद्वांसः परं तत्त्वं सनातनम् । (१८१।१)

evaṃ dhyāyanti vidvāṃsaḥ paraṃ tattvaṃ sanātanam |

181.2१८१.२

षड्विंशकम् इति ख्यातं यत् परात्परम् अक्षरम् ॥ (१८१।२)

ṣaḍviṃśakam iti khyātaṃ yat parātparam akṣaram ||

182.1१८२.१

स एष भगवान् देवः सर्वतत्त्वादिर् अव्ययः । (१८२।१)

sa eṣa bhagavān devaḥ sarvatattvādir avyayaḥ |

182.2१८२.२

सर्वतत्त्वविधानज्ञः प्रधानपुरुषेश्वरः ॥ (१८२।२)

sarvatattvavidhānajñaḥ pradhānapuruṣeśvaraḥ ||

183.1१८३.१

यो ऽसृजद् दक्षिणाद् अङ्गाद् ब्रह्माणं लोकसंभवम् । (१८३।१)

yo 'sṛjad dakṣiṇād aṅgād brahmāṇaṃ lokasaṃbhavam |

183.2१८३.२

वामपार्श्वात् तथा विष्णुं लोकरक्षार्थम् ईश्वरः । (१८३।२)

vāmapārśvāt tathā viṣṇuṃ lokarakṣārtham īśvaraḥ |

183.3१८३.३

युगान्ते चैव सम्प्राप्ते रुद्रम् अङ्गात् सृजत् प्रभुः ॥ (१८३।३)

yugānte caiva samprāpte rudram aṅgāt sṛjat prabhuḥ ||

184.1१८४.१

स रुद्रः संहरन् कृत्स्नं जगत् स्थावरजङ्गमम् । (१८४।१)

sa rudraḥ saṃharan kṛtsnaṃ jagat sthāvarajaṅgamam |

184.2१८४.२

कालो भूत्वा महातेजाः संवर्तक इवानलः ॥ (१८४।२)

kālo bhūtvā mahātejāḥ saṃvartaka ivānalaḥ ||

185.1१८५.१

एष देवो महादेवो जगत् सृष्ट्वा चराचरम् । (१८५।१)

eṣa devo mahādevo jagat sṛṣṭvā carācaram |

185.2१८५.२

कल्पान्ते चैव सर्वेषां स्मृतिम् आक्षिप्य तिष्ठति ॥ (१८५।२)

kalpānte caiva sarveṣāṃ smṛtim ākṣipya tiṣṭhati ||

186.1१८६.१

सर्वगः सर्वभूतात्मा सर्वभूतभवोद्भवः । (१८६।१)

sarvagaḥ sarvabhūtātmā sarvabhūtabhavodbhavaḥ |

186.2१८६.२

आस्ते सर्वगतो नित्यम् अदृश्यः सर्वदैवतैः ॥ (१८६।२)

āste sarvagato nityam adṛśyaḥ sarvadaivataiḥ ||

187.1१८७.१

यदि देयो वरो मह्यं यदि तुष्टश्च मे प्रभुः । (१८७।१)

yadi deyo varo mahyaṃ yadi tuṣṭaśca me prabhuḥ |

187.2१८७.२

भक्तिर् भवतु मे नित्यं शाश्वती त्वयि शंकर ॥ (१८७।२)

bhaktir bhavatu me nityaṃ śāśvatī tvayi śaṃkara ||

188.1१८८.१

अतीतानागतं चैव वर्तमानं च यद् विभो । (१८८।१)

atītānāgataṃ caiva vartamānaṃ ca yad vibho |

188.2१८८.२

जानीयाम् इति मे बुद्धिस्त्वत्प्रसादात् सुरोत्तम ॥ (१८८।२)

jānīyām iti me buddhistvatprasādāt surottama ||

189.1१८९.१

क्षीरोदनं च भुञ्जीयाम् अक्षयं सह बान्धवैः । (१८९।१)

kṣīrodanaṃ ca bhuñjīyām akṣayaṃ saha bāndhavaiḥ |

189.2१८९.२

आश्रमे च सदा मह्यं सांनिध्यं परम् अस्तु ते ॥ (१८९।२)

āśrame ca sadā mahyaṃ sāṃnidhyaṃ param astu te ||

190.1१९०.१

एवम् उक्तः स मां प्राह भगवांल् लोकपूजितः । (१९०।१)

evam uktaḥ sa māṃ prāha bhagavāṃl lokapūjitaḥ |

190.2१९०.२

महेश्वरो महातेजाश्चराचरगुरुः प्रभुः ॥ (१९०।२)

maheśvaro mahātejāścarācaraguruḥ prabhuḥ ||

191.1१९१.१

अजरश्चामरश्चैव भव दुःखविवर्जितः । (१९१।१)

ajaraścāmaraścaiva bhava duḥkhavivarjitaḥ |

191.2१९१.२

शीलवान् गुणसम्पन्नः सर्वज्ञः प्रियदर्शनः ॥ (१९१।२)

śīlavān guṇasampannaḥ sarvajñaḥ priyadarśanaḥ ||

192.1१९२.१

अक्षयं यौवनं ते ऽस्तु तेजश्चैवानलोपमम् । (१९२।१)

akṣayaṃ yauvanaṃ te 'stu tejaścaivānalopamam |

192.2१९२.२

क्षीरोदः सागरश्चैव यत्र यत्रेच्छसे मुने ॥ (१९२।२)

kṣīrodaḥ sāgaraścaiva yatra yatrecchase mune ||

193.1१९३.१

तत्र ते भविता कामं सांनिध्यं पयसो निधेः । (१९३।१)

tatra te bhavitā kāmaṃ sāṃnidhyaṃ payaso nidheḥ |

193.2१९३.२

क्षीरोदनं च भुङ्क्ष्व त्वम् अमृतेन समन्वितम् ॥ (१९३।२)

kṣīrodanaṃ ca bhuṅkṣva tvam amṛtena samanvitam ||

194.1१९४.१

बन्धुभिः सहितः कल्पं ततो माम् उपयास्यसि । (१९४।१)

bandhubhiḥ sahitaḥ kalpaṃ tato mām upayāsyasi |

194.2१९४.२

सांनिध्यम् आश्रमे नित्यं करिष्यामि द्विजोत्तम ॥ (१९४।२)

sāṃnidhyam āśrame nityaṃ kariṣyāmi dvijottama ||

195.1१९५.१

तिष्ठ वत्स यथाकामं नोत्कण्ठां कर्तुम् अर्हसि । (१९५।१)

tiṣṭha vatsa yathākāmaṃ notkaṇṭhāṃ kartum arhasi |

195.2१९५.२

स्मृतः स्मृतश्च ते विप्र सदा दास्यामि दर्शनम् ॥ (१९५।२)

smṛtaḥ smṛtaśca te vipra sadā dāsyāmi darśanam ||

196.1१९६.१

एवम् उक्त्वा स भगवान् सूर्यकोटिसमप्रभः । (१९६।१)

evam uktvā sa bhagavān sūryakoṭisamaprabhaḥ |

196.2१९६.२

ममेशानो वरं दत्त्वा तत्रैवान्तरधीयत ॥ (१९६।२)

mameśāno varaṃ dattvā tatraivāntaradhīyata ||

197.1१९७.१

एवं दृष्टो मया कृष्ण देवदेवः समाधिना । (१९७।१)

evaṃ dṛṣṭo mayā kṛṣṇa devadevaḥ samādhinā |

197.2१९७.२

तद् अवाप्तं च मे सर्वं यद् उक्तं तेन धीमता ॥ (१९७।२)

tad avāptaṃ ca me sarvaṃ yad uktaṃ tena dhīmatā ||

198.1१९८.१

प्रत्यक्षं चैव ते कृष्ण पश्य सिद्धान् व्यवस्थितान् । (१९८।१)

pratyakṣaṃ caiva te kṛṣṇa paśya siddhān vyavasthitān |

198.2१९८.२

ऋषीन् विद्याधरान् यक्षान् गन्धर्वाप्सरसस्तथा ॥ (१९८।२)

ṛṣīn vidyādharān yakṣān gandharvāpsarasastathā ||

199.1१९९.१

पश्य वृक्षान्मनोरम्यान् सदा पुष्पफलान्वितान् । (१९९।१)

paśya vṛkṣānmanoramyān sadā puṣpaphalānvitān |

199.2१९९.२

सर्वर्तुकुसुमैर् युक्तान् स्निग्धपत्रान् सुशाखिनः । (१९९।२)

sarvartukusumair yuktān snigdhapatrān suśākhinaḥ |

199.3१९९.३

सर्वम् एतन्महाबाहो दिव्यभावसमन्वितम् ॥ (१९९।३)

sarvam etanmahābāho divyabhāvasamanvitam ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 13, 14

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit