MBh, 3, 71
Select a line for its word-by-word analysis.
ततो विदर्भान् सम्प्राप्तं सायाह्ने सत्यविक्रमम् । (१।२)
tato vidarbhān samprāptaṃ sāyāhne satyavikramam |
स भीमवचनाद् राजा कुण्डिनं प्राविशत् पुरम् । (२।१)
sa bhīmavacanād rājā kuṇḍinaṃ prāviśat puram |
ततस् तं रथनिर्घोषं नलाश्वास् तत्र शुश्रुवुः । (३।१)
tatas taṃ rathanirghoṣaṃ nalāśvās tatra śuśruvuḥ |
प्रासादस्थाश् च शिखिनः शालास्थाश् चैव वारणाः । (६।१)
prāsādasthāś ca śikhinaḥ śālāsthāś caiva vāraṇāḥ |
हयाश् च शुश्रुवुस् तत्र रथघोषं महीपतेः ॥ (६।२)
hayāś ca śuśruvus tatra rathaghoṣaṃ mahīpateḥ ||
ते श्रुत्वा रथनिर्घोषं वारणाः शिखिनस् तथा । (७।१)
te śrutvā rathanirghoṣaṃ vāraṇāḥ śikhinas tathā |
प्रणेदुर् उन्मुखा राजन् मेघोदयम् इवेक्ष्य ह ॥ (७।२)
praṇedur unmukhā rājan meghodayam ivekṣya ha ||
अद्य चन्द्राभवक्त्रं तं न पश्यामि नलं यदि । (९।१)
adya candrābhavaktraṃ taṃ na paśyāmi nalaṃ yadi |
यदि वै तस्य वीरस्य बाह्वोर् नाद्याहम् अन्तरम् । (१०।१)
yadi vai tasya vīrasya bāhvor nādyāham antaram |
प्रविशामि सुखस्पर्शं विनशिष्याम्यसंशयम् ॥ (१०।२)
praviśāmi sukhasparśaṃ vinaśiṣyāmyasaṃśayam ||
नाभिगच्छति राजेन्द्रो विनशिष्याम्यसंशयम् ॥ (१२।२)
nābhigacchati rājendro vinaśiṣyāmyasaṃśayam ||
न स्मराम्यनृतं किंचिन् न स्मराम्यनुपाकृतम् । (१३।१)
na smarāmyanṛtaṃ kiṃcin na smarāmyanupākṛtam |
न च पर्युषितं वाक्यं स्वैरेष्वपि महात्मनः ॥ (१३।२)
na ca paryuṣitaṃ vākyaṃ svaireṣvapi mahātmanaḥ ||
प्रभुः क्षमावान् वीरश्च मृदुर् दान्तो जितेन्द्रियः । (१४।१)
prabhuḥ kṣamāvān vīraśca mṛdur dānto jitendriyaḥ |
रहो ऽनीचानुवर्ती च क्लीबवन् मम नैषधः ॥ (१४।२)
raho 'nīcānuvartī ca klībavan mama naiṣadhaḥ ||
गुणांस् तस्य स्मरन्त्या मे तत्पराया दिवानिशम् । (१५।१)
guṇāṃs tasya smarantyā me tatparāyā divāniśam |
ततो मध्यमकक्षायां ददर्श रथम् आस्थितम् । (१७।१)
tato madhyamakakṣāyāṃ dadarśa ratham āsthitam |
ततो ऽवतीर्य वार्ष्णेयो बाहुकश्च रथोत्तमात् । (१८।१)
tato 'vatīrya vārṣṇeyo bāhukaśca rathottamāt |
हयांस् तान् अवमुच्याथ स्थापयामासतू रथम् ॥ (१८।२)
hayāṃs tān avamucyātha sthāpayāmāsatū ratham ||
सो ऽवतीर्य रथोपस्थाद् ऋतुपर्णो नराधिपः । (१९।१)
so 'vatīrya rathopasthād ṛtuparṇo narādhipaḥ |
अकस्मात् सहसा प्राप्तं स्त्रीमन्त्रं न स्म विन्दति ॥ (२०।२)
akasmāt sahasā prāptaṃ strīmantraṃ na sma vindati ||
किं कार्यं स्वागतं ते ऽस्तु राज्ञा पृष्टश् च भारत । (२१।१)
kiṃ kāryaṃ svāgataṃ te 'stu rājñā pṛṣṭaś ca bhārata |
नाभिजज्ञे स नृपतिर् दुहित्रर्थे समागतम् ॥ (२१।२)
nābhijajñe sa nṛpatir duhitrarthe samāgatam ||
ऋतुपर्णो ऽपि राजा स धीमान् सत्यपराक्रमः । (२२।१)
ṛtuparṇo 'pi rājā sa dhīmān satyaparākramaḥ |
राजानं राजपुत्रं वा न स्म पश्यति कंचन । (२२।२)
rājānaṃ rājaputraṃ vā na sma paśyati kaṃcana |
आगतो ऽस्मीत्युवाचैनं भवन्तम् अभिवादकः ॥ (२३।२)
āgato 'smītyuvācainaṃ bhavantam abhivādakaḥ ||
ग्रामान् बहून् अतिक्रम्य नाध्यगच्छद् यथातथम् । (२५।१)
grāmān bahūn atikramya nādhyagacchad yathātatham |
नैतद् एवं स नृपतिस् तं सत्कृत्य व्यसर्जयत् । (२६।१)
naitad evaṃ sa nṛpatis taṃ satkṛtya vyasarjayat |
विश्राम्यताम् इति वदन् क्लान्तो ऽसीति पुनः पुनः ॥ (२६।२)
viśrāmyatām iti vadan klānto 'sīti punaḥ punaḥ ||
स सत्कृतः प्रहृष्टात्मा प्रीतः प्रीतेन पार्थिवः । (२७।१)
sa satkṛtaḥ prahṛṣṭātmā prītaḥ prītena pārthivaḥ |
राजप्रेष्यैर् अनुगतो दिष्टं वेश्म समाविशत् ॥ (२७।२)
rājapreṣyair anugato diṣṭaṃ veśma samāviśat ||
स मोचयित्वा तान् अश्वान् परिचार्य च शास्त्रतः । (२९।१)
sa mocayitvā tān aśvān paricārya ca śāstrataḥ |
स्वयं चैतान् समाश्वास्य रथोपस्थ उपाविशत् ॥ (२९।२)
svayaṃ caitān samāśvāsya rathopastha upāviśat ||
दमयन्ती तु शोकार्ता दृष्ट्वा भाङ्गस्वरिं नृपम् । (३०।१)
damayantī tu śokārtā dṛṣṭvā bhāṅgasvariṃ nṛpam |
सूतपुत्रं च वार्ष्णेयं बाहुकं च तथाविधम् ॥ (३०।२)
sūtaputraṃ ca vārṣṇeyaṃ bāhukaṃ ca tathāvidham ||
नलस्येव महान् आसीन् न च पश्यामि नैषधम् ॥ (३१।२)
nalasyeva mahān āsīn na ca paśyāmi naiṣadham ||
वार्ष्णेयेन भवेन् नूनं विद्या सैवोपशिक्षिता । (३२।१)
vārṣṇeyena bhaven nūnaṃ vidyā saivopaśikṣitā |
तेनास्य रथनिर्घोषो नलस्येव महान् अभूत् ॥ (३२।२)
tenāsya rathanirghoṣo nalasyeva mahān abhūt ||
आहोस्विद् ऋतुपर्णो ऽपि यथा राजा नलस् तथा । (३३।१)
āhosvid ṛtuparṇo 'pi yathā rājā nalas tathā |
ततो ऽयं रथनिर्घोषो नैषधस्येव लक्ष्यते ॥ (३३।२)
tato 'yaṃ rathanirghoṣo naiṣadhasyeva lakṣyate ||
Data courtesy of The Digital Corpus of Sanskrit.