MBh, 1, 124
Select a line for its word-by-word analysis.
कृतास्त्रान् धार्तराष्ट्रांश्च पाण्डुपुत्रांश्च भारत । (१।२)
kṛtāstrān dhārtarāṣṭrāṃśca pāṇḍuputrāṃśca bhārata |
दृष्ट्वा द्रोणो ऽब्रवीद् राजन् धृतराष्ट्रं जनेश्वरम् ॥ (१।३)
dṛṣṭvā droṇo 'bravīd rājan dhṛtarāṣṭraṃ janeśvaram ||
गाङ्गेयस्य च सांनिध्ये व्यासस्य विदुरस्य च । (२।२)
gāṅgeyasya ca sāṃnidhye vyāsasya vidurasya ca |
त्रयाणाम् इव लोकानां प्रजापतिम् इव स्थितम् ॥ (२।३)
trayāṇām iva lokānāṃ prajāpatim iva sthitam ||
राजन् सम्प्राप्तविद्यास्ते कुमाराः कुरुसत्तम । (३।१)
rājan samprāptavidyāste kumārāḥ kurusattama |
ते दर्शयेयुः स्वां शिक्षां राजन्न् अनुमते तव ॥ (३।२)
te darśayeyuḥ svāṃ śikṣāṃ rājann anumate tava ||
ततो ऽब्रवीन् महाराजः प्रहृष्टेनान्तरात्मना । (४।१)
tato 'bravīn mahārājaḥ prahṛṣṭenāntarātmanā |
यदा तु मन्यसे कालं यस्मिन् देशे यथा यथा । (५।१)
yadā tu manyase kālaṃ yasmin deśe yathā yathā |
स्पृहयाम्यद्य निर्वेदात् पुरुषाणां सचक्षुषाम् । (६।१)
spṛhayāmyadya nirvedāt puruṣāṇāṃ sacakṣuṣām |
अस्त्रहेतोः पराक्रान्तान् ये मे द्रक्ष्यन्ति पुत्रकान् ॥ (६।२)
astrahetoḥ parākrāntān ye me drakṣyanti putrakān ||
क्षत्तर् यद् गुरुर् आचार्यो ब्रवीति कुरु तत् तथा । (७।१)
kṣattar yad gurur ācāryo bravīti kuru tat tathā |
प्रेक्ष्यागारं सुविपुलं शास्त्रदृष्ट्या यथाविधि । (८।३)
prekṣyāgāraṃ suvipulaṃ śāstradṛṣṭyā yathāvidhi |
समाम् अवृक्षां निर्गुल्माम् उदक्प्रवणसंस्थिताम् ॥ (८।४)
samām avṛkṣāṃ nirgulmām udakpravaṇasaṃsthitām ||
तस्यां भूमौ बलिं चक्रे तिथौ नक्षत्रपूजिते । (९।१)
tasyāṃ bhūmau baliṃ cakre tithau nakṣatrapūjite |
रङ्गभूमौ सुविपुलं शास्त्रदृष्टं यथाविधि । (१०।१)
raṅgabhūmau suvipulaṃ śāstradṛṣṭaṃ yathāvidhi |
प्रेक्षागारं सुविहितं चक्रुस्तत्र च शिल्पिनः । (१०।२)
prekṣāgāraṃ suvihitaṃ cakrustatra ca śilpinaḥ |
राज्ञः सर्वायुधोपेतं स्त्रीणां चैव नरर्षभ । (१०।३)
rājñaḥ sarvāyudhopetaṃ strīṇāṃ caiva nararṣabha |
मनस्यमञ्चान् विपुलान् अकरोद् दर्शनेप्सया ॥ (१०।४)
manasyamañcān vipulān akarod darśanepsayā ||
विपुलान् उच्छ्रयोपेताञ् शिबिकाश्च महाधनाः ॥ (११।२)
vipulān ucchrayopetāñ śibikāśca mahādhanāḥ ||
तस्मिंस्ततो ऽहनि प्राप्ते राजा ससचिवस्तदा । (१२।१)
tasmiṃstato 'hani prāpte rājā sasacivastadā |
भीष्मं प्रमुखतः कृत्वा कृपं चाचार्यसत्तमम् । (१२।३)
bhīṣmaṃ pramukhataḥ kṛtvā kṛpaṃ cācāryasattamam |
कुरून् अन्यांश्च सचिवान् आदाय नगराद् बहिः । (१२।५)
kurūn anyāṃśca sacivān ādāya nagarād bahiḥ |
रङ्गभूमिं समासाद्य ब्राह्मणैः सहितो नृपः ॥ (१२।६)
raṅgabhūmiṃ samāsādya brāhmaṇaiḥ sahito nṛpaḥ ||
शातकुम्भमयं दिव्यं प्रेक्षागारम् उपागमत् ॥ (१३।२)
śātakumbhamayaṃ divyaṃ prekṣāgāram upāgamat ||
स्त्रियश्च सर्वा या राज्ञः सप्रेष्याः सपरिच्छदाः । (१४।२)
striyaśca sarvā yā rājñaḥ sapreṣyāḥ saparicchadāḥ |
हर्षाद् आरुरुहुर् मञ्चान् मेरुं देवस्त्रियो यथा ॥ (१४।३)
harṣād āruruhur mañcān meruṃ devastriyo yathā ||
ब्राह्मणक्षत्रियाद्यं च चातुर्वर्ण्यं पुराद् द्रुतम् । (१५।१)
brāhmaṇakṣatriyādyaṃ ca cāturvarṇyaṃ purād drutam |
दर्शनेप्सु समभ्यागात् कुमाराणां कृतास्त्रताम् । (१५।२)
darśanepsu samabhyāgāt kumārāṇāṃ kṛtāstratām |
क्षणेनैकस्थतां तत्र दर्शनेप्सु जगाम ह ॥ (१५।३)
kṣaṇenaikasthatāṃ tatra darśanepsu jagāma ha ||
महार्णव इव क्षुब्धः समाजः सो ऽभवत् तदा ॥ (१६।२)
mahārṇava iva kṣubdhaḥ samājaḥ so 'bhavat tadā ||
शुक्लकेशः सितश्मश्रुः शुक्लमाल्यानुलेपनः ॥ (१७।२)
śuklakeśaḥ sitaśmaśruḥ śuklamālyānulepanaḥ ||
रङ्गमध्यं तदाचार्यः सपुत्रः प्रविवेश ह । (१८।१)
raṅgamadhyaṃ tadācāryaḥ saputraḥ praviveśa ha |
ब्राह्मणांश्चात्र मन्त्रज्ञान् वाचयामास मङ्गलम् । (१९।२)
brāhmaṇāṃścātra mantrajñān vācayāmāsa maṅgalam |
प्रददौ दक्षिणां राजा द्रोणस्य च कृपस्य च ॥ (१९।४)
pradadau dakṣiṇāṃ rājā droṇasya ca kṛpasya ca ||
विविशुर् विविधं गृह्य शस्त्रोपकरणं नराः ॥ (२०।२)
viviśur vividhaṃ gṛhya śastropakaraṇaṃ narāḥ ||
अनुज्येष्ठं च ते तत्र युधिष्ठिरपुरोगमाः । (२२।१)
anujyeṣṭhaṃ ca te tatra yudhiṣṭhirapurogamāḥ |
रङ्गमध्ये स्थितं द्रोणम् अभिवाद्य नरर्षभाः । (२२।२)
raṅgamadhye sthitaṃ droṇam abhivādya nararṣabhāḥ |
चक्रुः पूजां यथान्यायं द्रोणस्य च कृपस्य च । (२२।३)
cakruḥ pūjāṃ yathānyāyaṃ droṇasya ca kṛpasya ca |
आशीर्भिश्च प्रयुक्ताभिः सर्वे संहृष्टमानसाः । (२२।४)
āśīrbhiśca prayuktābhiḥ sarve saṃhṛṣṭamānasāḥ |
अभिवाद्य पुनः शस्त्रान् बलिपुष्पैः समर्चितान् । (२२।५)
abhivādya punaḥ śastrān balipuṣpaiḥ samarcitān |
रक्तचन्दनसंमिश्रैः स्वयम् अर्चन्त कौरवाः । (२२।६)
raktacandanasaṃmiśraiḥ svayam arcanta kauravāḥ |
सर्वे रक्तपताकाश्च सर्वे रक्तान्तलोचनाः । (२२।८)
sarve raktapatākāśca sarve raktāntalocanāḥ |
द्रोणेन समनुज्ञाताः गृह्य शस्त्रं परंतपाः । (२२।९)
droṇena samanujñātāḥ gṛhya śastraṃ paraṃtapāḥ |
धनूंषि पूर्वं संगृह्य तप्तकाञ्चनभूषिताः । (२२।१०)
dhanūṃṣi pūrvaṃ saṃgṛhya taptakāñcanabhūṣitāḥ |
सज्जानि विविधाकाराः शरैः संधाय कौरवाः । (२२।११)
sajjāni vividhākārāḥ śaraiḥ saṃdhāya kauravāḥ |
ज्याघोषतलघोषं च कृत्वा भूतान्यपूजयन् । (२२।१२)
jyāghoṣatalaghoṣaṃ ca kṛtvā bhūtānyapūjayan |
शस्त्रमार्गान् यथोत्सृष्टांश्चेरुः सर्वे नरर्षभाः । (२२।१३)
śastramārgān yathotsṛṣṭāṃśceruḥ sarve nararṣabhāḥ |
चक्रुर् अस्त्रं महावीर्याः कुमाराः परमाद्भुतम् । (२२।१४)
cakrur astraṃ mahāvīryāḥ kumārāḥ paramādbhutam |
केषांचित् पुष्पमुकुटे निपतन्ति स्म सायकाः । (२२।१६)
keṣāṃcit puṣpamukuṭe nipatanti sma sāyakāḥ |
केचिल् लक्ष्याणि विविधैर् बाणैर् आहतलक्षणैः । (२२।१७)
kecil lakṣyāṇi vividhair bāṇair āhatalakṣaṇaiḥ |
विव्यधुर् लाघवोत्सृष्टैर् गुरूणि च लघूनि च ॥ (२२।१८)
vivyadhur lāghavotsṛṣṭair gurūṇi ca laghūni ca ||
मनुजा धृष्टम् अपरे वीक्षांचक्रुः सविस्मयाः ॥ (२३।२)
manujā dhṛṣṭam apare vīkṣāṃcakruḥ savismayāḥ ||
ते स्म लक्ष्याणि विविधुर् बाणैर् नामाङ्कशोभितैः । (२४।१)
te sma lakṣyāṇi vividhur bāṇair nāmāṅkaśobhitaiḥ |
विविधैर् लाघवोत्सृष्टैर् उह्यन्तो वाजिभिर् द्रुतम् ॥ (२४।२)
vividhair lāghavotsṛṣṭair uhyanto vājibhir drutam ||
गन्धर्वनगराकारं प्रेक्ष्य ते विस्मिताभवन् ॥ (२५।२)
gandharvanagarākāraṃ prekṣya te vismitābhavan ||
विस्मयोत्फुल्लनयनाः साधु साध्विति भारत ॥ (२६।२)
vismayotphullanayanāḥ sādhu sādhviti bhārata ||
कृत्वा धनुषि ते मार्गान् रथचर्यासु चासकृत् । (२७।१)
kṛtvā dhanuṣi te mārgān rathacaryāsu cāsakṛt |
गजपृष्ठे ऽश्वपृष्ठे च नियुद्धे च महाबलाः ॥ (२७।२)
gajapṛṣṭhe 'śvapṛṣṭhe ca niyuddhe ca mahābalāḥ ||
त्सरुमार्गान् यथोद्दिष्टांश्चेरुः सर्वासु भूमिषु ॥ (२८।२)
tsarumārgān yathoddiṣṭāṃśceruḥ sarvāsu bhūmiṣu ||
लाघवं सौष्ठवं शोभां स्थिरत्वं दृढमुष्टिताम् । (२९।१)
lāghavaṃ sauṣṭhavaṃ śobhāṃ sthiratvaṃ dṛḍhamuṣṭitām |
ददृशुस्तत्र सर्वेषां प्रयोगे खड्गचर्मणाम् ॥ (२९।२)
dadṛśustatra sarveṣāṃ prayoge khaḍgacarmaṇām ||
बद्धकक्ष्यौ महाबाहू पौरुषे पर्यवस्थितौ । (३१।१)
baddhakakṣyau mahābāhū pauruṣe paryavasthitau |
विदुरो धृतराष्ट्राय गान्धार्यै पाण्डवारणिः । (३३।१)
viduro dhṛtarāṣṭrāya gāndhāryai pāṇḍavāraṇiḥ |
न्यवेदयेतां तत् सर्वं कुमाराणां विचेष्टितम् ॥ (३३।२)
nyavedayetāṃ tat sarvaṃ kumārāṇāṃ viceṣṭitam ||
Data courtesy of The Digital Corpus of Sanskrit.