महाभारतMahābhārata

MBh, 13, 10

1691 of 1995 · 160 verses

Select a line for its word-by-word analysis.

1.1१.१

युधिष्ठिर उवाच । (१।१)

yudhiṣṭhira uvāca

1.2१.२

मित्रसौहृदभावेन उपदेशं करोति यः । (१।२)

mitrasauhṛdabhāvena upadeśaṃ karoti yaḥ |

1.3१.३

जात्यावरस्य राजर्षे दोषस्तस्य भवेन्न वा ॥ (१।३)

jātyāvarasya rājarṣe doṣastasya bhavenna vā ||

2.1२.१

एतद् इच्छामि तत्त्वेन व्याख्यातुं वै पितामह । (२।१)

etad icchāmi tattvena vyākhyātuṃ vai pitāmaha |

2.2२.२

सूक्ष्मा गतिर् हि धर्मस्य यत्र मुह्यन्ति मानवाः ॥ (२।२)

sūkṣmā gatir hi dharmasya yatra muhyanti mānavāḥ ||

3.1३.१

भीष्म उवाच । (३।१)

bhīṣma uvāca

3.2३.२

अत्र ते वर्तयिष्यामि शृणु राजन् यथागमम् । (३।२)

atra te vartayiṣyāmi śṛṇu rājan yathāgamam |

3.3३.३

ऋषीणां वदतां पूर्वं श्रुतम् आसीद् यथा मया ॥ (३।३)

ṛṣīṇāṃ vadatāṃ pūrvaṃ śrutam āsīd yathā mayā ||

4.1४.१

उपदेशो न कर्तव्यो जातिहीनस्य कस्यचित् । (४।१)

upadeśo na kartavyo jātihīnasya kasyacit |

4.2४.२

उपदेशे महान् दोष उपाध्यायस्य भाष्यते ॥ (४।२)

upadeśe mahān doṣa upādhyāyasya bhāṣyate ||

5.1५.१

निदर्शनम् इदं राजञ् शृणु मे भरतर्षभ । (५।१)

nidarśanam idaṃ rājañ śṛṇu me bharatarṣabha |

5.2५.२

दुरुक्तवचने राजन् यथा पूर्वं युधिष्ठिर । (५।२)

duruktavacane rājan yathā pūrvaṃ yudhiṣṭhira |

5.3५.३

ब्रह्माश्रमपदे वृत्तं पार्श्वे हिमवतः शुभे ॥ (५।३)

brahmāśramapade vṛttaṃ pārśve himavataḥ śubhe ||

6.1६.१

तत्राश्रमपदं पुण्यं नानावृक्षगणायुतम् । (६।१)

tatrāśramapadaṃ puṇyaṃ nānāvṛkṣagaṇāyutam |

6.2६.२

बहुगुल्मलताकीर्णं मृगद्विजनिषेवितम् ॥ (६।२)

bahugulmalatākīrṇaṃ mṛgadvijaniṣevitam ||

7.1७.१

सिद्धचारणसंघुष्टं रम्यं पुष्पितकाननम् । (७।१)

siddhacāraṇasaṃghuṣṭaṃ ramyaṃ puṣpitakānanam |

7.2७.२

व्रतिभिर् बहुभिः कीर्णं तापसैर् उपशोभितम् ॥ (७।२)

vratibhir bahubhiḥ kīrṇaṃ tāpasair upaśobhitam ||

8.1८.१

ब्राह्मणैश्च महाभागैः सूर्यज्वलनसंनिभैः । (८।१)

brāhmaṇaiśca mahābhāgaiḥ sūryajvalanasaṃnibhaiḥ |

8.2८.२

नियमव्रतसम्पन्नैः समाकीर्णं तपस्विभिः । (८।२)

niyamavratasampannaiḥ samākīrṇaṃ tapasvibhiḥ |

8.3८.३

दीक्षितैर् भरतश्रेष्ठ यताहारैः कृतात्मभिः ॥ (८।३)

dīkṣitair bharataśreṣṭha yatāhāraiḥ kṛtātmabhiḥ ||

9.1९.१

वेदाध्ययनघोषैश्च नादितं भरतर्षभ । (९।१)

vedādhyayanaghoṣaiśca nāditaṃ bharatarṣabha |

9.2९.२

वालखिल्यैश्च बहुभिर् यतिभिश्च निषेवितम् ॥ (९।२)

vālakhilyaiśca bahubhir yatibhiśca niṣevitam ||

10.1१०.१

तत्र कश्चित् समुत्साहं कृत्वा शूद्रो दयान्वितः । (१०।१)

tatra kaścit samutsāhaṃ kṛtvā śūdro dayānvitaḥ |

10.2१०.२

आगतो ह्याश्रमपदं पूजितश्च तपस्विभिः ॥ (१०।२)

āgato hyāśramapadaṃ pūjitaśca tapasvibhiḥ ||

11.1११.१

तांस्तु दृष्ट्वा मुनिगणान् देवकल्पान्महौजसः । (११।१)

tāṃstu dṛṣṭvā munigaṇān devakalpānmahaujasaḥ |

11.2११.२

वहतो विविधा दीक्षाः सम्प्रहृष्यत भारत ॥ (११।२)

vahato vividhā dīkṣāḥ samprahṛṣyata bhārata ||

12.1१२.१

अथास्य बुद्धिर् अभवत् तपस्ये भरतर्षभ । (१२।१)

athāsya buddhir abhavat tapasye bharatarṣabha |

12.2१२.२

ततो ऽब्रवीत् कुलपतिं पादौ संगृह्य भारत ॥ (१२।२)

tato 'bravīt kulapatiṃ pādau saṃgṛhya bhārata ||

13.1१३.१

भवत्प्रसादाद् इच्छामि धर्मं चर्तुं द्विजर्षभ । (१३।१)

bhavatprasādād icchāmi dharmaṃ cartuṃ dvijarṣabha |

13.2१३.२

तन्मां त्वं भगवन् वक्तुं प्रव्राजयितुम् अर्हसि ॥ (१३।२)

tanmāṃ tvaṃ bhagavan vaktuṃ pravrājayitum arhasi ||

14.1१४.१

वर्णावरो ऽहं भगवञ् शूद्रो जात्यास्मि सत्तम । (१४।१)

varṇāvaro 'haṃ bhagavañ śūdro jātyāsmi sattama |

14.2१४.२

शुश्रूषां कर्तुम् इच्छामि प्रपन्नाय प्रसीद मे ॥ (१४।२)

śuśrūṣāṃ kartum icchāmi prapannāya prasīda me ||

15.1१५.१

कुलपतिर् उवाच । (१५।१)

kulapatir uvāca

15.2१५.२

न शक्यम् इह शूद्रेण लिङ्गम् आश्रित्य वर्तितुम् । (१५।२)

na śakyam iha śūdreṇa liṅgam āśritya vartitum |

15.3१५.३

आस्यतां यदि ते बुद्धिः शुश्रूषानिरतो भव ॥ (१५।३)

āsyatāṃ yadi te buddhiḥ śuśrūṣānirato bhava ||

16.1१६.१

भीष्म उवाच । (१६।१)

bhīṣma uvāca

16.2१६.२

एवम् उक्तस्तु मुनिना स शूद्रो ऽचिन्तयन्नृप । (१६।२)

evam uktastu muninā sa śūdro 'cintayannṛpa |

16.3१६.३

कथम् अत्र मया कार्यं श्रद्धा धर्मे परा च मे । (१६।३)

katham atra mayā kāryaṃ śraddhā dharme parā ca me |

16.4१६.४

विज्ञातम् एवं भवतु करिष्ये प्रियम् आत्मनः ॥ (१६।४)

vijñātam evaṃ bhavatu kariṣye priyam ātmanaḥ ||

17.1१७.१

गत्वाश्रमपदाद् दूरम् उटजं कृतवांस्तु सः । (१७।१)

gatvāśramapadād dūram uṭajaṃ kṛtavāṃstu saḥ |

17.2१७.२

तत्र वेदिं च भूमिं च देवतायतनानि च । (१७।२)

tatra vediṃ ca bhūmiṃ ca devatāyatanāni ca |

17.3१७.३

निवेश्य भरतश्रेष्ठ नियमस्थो ऽभवत् सुखम् ॥ (१७।३)

niveśya bharataśreṣṭha niyamastho 'bhavat sukham ||

18.1१८.१

अभिषेकांश्च नियमान् देवतायतनेषु च । (१८।१)

abhiṣekāṃśca niyamān devatāyataneṣu ca |

18.2१८.२

बलिं च कृत्वा हुत्वा च देवतां चाप्यपूजयत् ॥ (१८।२)

baliṃ ca kṛtvā hutvā ca devatāṃ cāpyapūjayat ||

19.1१९.१

संकल्पनियमोपेतः फलाहारो जितेन्द्रियः । (१९।१)

saṃkalpaniyamopetaḥ phalāhāro jitendriyaḥ |

19.2१९.२

नित्यं संनिहिताभिश्च ओषधीभिः फलैस्तथा ॥ (१९।२)

nityaṃ saṃnihitābhiśca oṣadhībhiḥ phalaistathā ||

20.1२०.१

अतिथीन् पूजयामास यथावत् समुपागतान् । (२०।१)

atithīn pūjayāmāsa yathāvat samupāgatān |

20.2२०.२

एवं हि सुमहान् कालो व्यत्यक्रामत् स तस्य वै ॥ (२०।२)

evaṃ hi sumahān kālo vyatyakrāmat sa tasya vai ||

21.1२१.१

अथास्य मुनिर् आगच्छत् संगत्या वै तम् आश्रमम् । (२१।१)

athāsya munir āgacchat saṃgatyā vai tam āśramam |

21.2२१.२

सम्पूज्य स्वागतेनर्षिं विधिवत् पर्यतोषयत् ॥ (२१।२)

sampūjya svāgatenarṣiṃ vidhivat paryatoṣayat ||

22.1२२.१

अनुकूलाः कथाः कृत्वा यथावत् पर्यपृच्छत । (२२।१)

anukūlāḥ kathāḥ kṛtvā yathāvat paryapṛcchata |

22.2२२.२

ऋषिः परमतेजस्वी धर्मात्मा संयतेन्द्रियः ॥ (२२।२)

ṛṣiḥ paramatejasvī dharmātmā saṃyatendriyaḥ ||

23.1२३.१

एवं स बहुशस्तस्य शूद्रस्य भरतर्षभ । (२३।१)

evaṃ sa bahuśastasya śūdrasya bharatarṣabha |

23.2२३.२

सो ऽगच्छद् आश्रमम् ऋषिः शूद्रं द्रष्टुं नरर्षभ ॥ (२३।२)

so 'gacchad āśramam ṛṣiḥ śūdraṃ draṣṭuṃ nararṣabha ||

24.1२४.१

अथ तं तापसं शूद्रः सो ऽब्रवीद् भरतर्षभ । (२४।१)

atha taṃ tāpasaṃ śūdraḥ so 'bravīd bharatarṣabha |

24.2२४.२

पितृकार्यं करिष्यामि तत्र मे ऽनुग्रहं कुरु ॥ (२४।२)

pitṛkāryaṃ kariṣyāmi tatra me 'nugrahaṃ kuru ||

25.1२५.१

बाढम् इत्येव तं विप्र उवाच भरतर्षभ । (२५।१)

bāḍham ityeva taṃ vipra uvāca bharatarṣabha |

25.2२५.२

शुचिर् भूत्वा स शूद्रस्तु तस्यर्षेः पाद्यम् आनयत् ॥ (२५।२)

śucir bhūtvā sa śūdrastu tasyarṣeḥ pādyam ānayat ||

26.1२६.१

अथ दर्भांश्च वन्याश्च ओषधीर् भरतर्षभ । (२६।१)

atha darbhāṃśca vanyāśca oṣadhīr bharatarṣabha |

26.2२६.२

पवित्रम् आसनं चैव बृसीं च समुपानयत् ॥ (२६।२)

pavitram āsanaṃ caiva bṛsīṃ ca samupānayat ||

27.1२७.१

अथ दक्षिणम् आवृत्य बृसीं परमशीर्षिकाम् । (२७।१)

atha dakṣiṇam āvṛtya bṛsīṃ paramaśīrṣikām |

27.2२७.२

कृताम् अन्यायतो दृष्ट्वा ततस्तम् ऋषिर् अब्रवीत् ॥ (२७।२)

kṛtām anyāyato dṛṣṭvā tatastam ṛṣir abravīt ||

28.1२८.१

कुरुष्वैतां पूर्वशीर्षां भव चोदङ्मुखः शुचिः । (२८।१)

kuruṣvaitāṃ pūrvaśīrṣāṃ bhava codaṅmukhaḥ śuciḥ |

28.2२८.२

स च तत् कृतवाञ् शूद्रः सर्वं यद् ऋषिर् अब्रवीत् ॥ (२८।२)

sa ca tat kṛtavāñ śūdraḥ sarvaṃ yad ṛṣir abravīt ||

29.1२९.१

यथोपदिष्टं मेधावी दर्भादींस्तान् यथातथम् । (२९।१)

yathopadiṣṭaṃ medhāvī darbhādīṃstān yathātatham |

29.2२९.२

हव्यकव्यविधिं कृत्स्नम् उक्तं तेन तपस्विना ॥ (२९।२)

havyakavyavidhiṃ kṛtsnam uktaṃ tena tapasvinā ||

30.1३०.१

ऋषिणा पितृकार्ये च स च धर्मपथे स्थितः । (३०।१)

ṛṣiṇā pitṛkārye ca sa ca dharmapathe sthitaḥ |

30.2३०.२

पितृकार्ये कृते चापि विसृष्टः स जगाम ह ॥ (३०।२)

pitṛkārye kṛte cāpi visṛṣṭaḥ sa jagāma ha ||

31.1३१.१

अथ दीर्घस्य कालस्य स तप्यञ् शूद्रतापसः । (३१।१)

atha dīrghasya kālasya sa tapyañ śūdratāpasaḥ |

31.2३१.२

वने पञ्चत्वम् अगमत् सुकृतेन च तेन वै । (३१।२)

vane pañcatvam agamat sukṛtena ca tena vai |

31.3३१.३

अजायत महाराजराजवंशे महाद्युतिः ॥ (३१।३)

ajāyata mahārājarājavaṃśe mahādyutiḥ ||

32.1३२.१

तथैव स ऋषिस्तात कालधर्मम् अवाप्य ह । (३२।१)

tathaiva sa ṛṣistāta kāladharmam avāpya ha |

32.2३२.२

पुरोहितकुले विप्र आजातो भरतर्षभ ॥ (३२।२)

purohitakule vipra ājāto bharatarṣabha ||

33.1३३.१

एवं तौ तत्र सम्भूतावुभौ शूद्रमुनी तदा । (३३।१)

evaṃ tau tatra sambhūtāvubhau śūdramunī tadā |

33.2३३.२

क्रमेण वर्धितौ चापि विद्यासु कुशलावुभौ ॥ (३३।२)

krameṇa vardhitau cāpi vidyāsu kuśalāvubhau ||

34.1३४.१

अथर्ववेदे वेदे च बभूवर्षिः सुनिश्चितः । (३४।१)

atharvavede vede ca babhūvarṣiḥ suniścitaḥ |

34.2३४.२

कल्पप्रयोगे चोत्पन्ने ज्योतिषे च परं गतः । (३४।२)

kalpaprayoge cotpanne jyotiṣe ca paraṃ gataḥ |

34.3३४.३

सख्ये चापि परा प्रीतिस्तयोश्चापि व्यवर्धत ॥ (३४।३)

sakhye cāpi parā prītistayoścāpi vyavardhata ||

35.1३५.१

पितर्युपरते चापि कृतशौचः स भारत । (३५।१)

pitaryuparate cāpi kṛtaśaucaḥ sa bhārata |

35.2३५.२

अभिषिक्तः प्रकृतिभी राजपुत्रः स पार्थिवः । (३५।२)

abhiṣiktaḥ prakṛtibhī rājaputraḥ sa pārthivaḥ |

35.3३५.३

अभिषिक्तेन स ऋषिर् अभिषिक्तः पुरोहितः ॥ (३५।३)

abhiṣiktena sa ṛṣir abhiṣiktaḥ purohitaḥ ||

36.1३६.१

स तं पुरोधाय सुखम् अवसद् भरतर्षभ । (३६।१)

sa taṃ purodhāya sukham avasad bharatarṣabha |

36.2३६.२

राज्यं शशास धर्मेण प्रजाश्च परिपालयन् ॥ (३६।२)

rājyaṃ śaśāsa dharmeṇa prajāśca paripālayan ||

37.1३७.१

पुण्याहवाचने नित्यं धर्मकार्येषु चासकृत् । (३७।१)

puṇyāhavācane nityaṃ dharmakāryeṣu cāsakṛt |

37.2३७.२

उत्स्मयन् प्राहसच्चापि दृष्ट्वा राजा पुरोहितम् । (३७।२)

utsmayan prāhasaccāpi dṛṣṭvā rājā purohitam |

37.3३७.३

एवं स बहुशो राजन् पुरोधसम् उपाहसत् ॥ (३७।३)

evaṃ sa bahuśo rājan purodhasam upāhasat ||

38.1३८.१

लक्षयित्वा पुरोधास्तु बहुशस्तं नराधिपम् । (३८।१)

lakṣayitvā purodhāstu bahuśastaṃ narādhipam |

38.2३८.२

उत्स्मयन्तं च सततं दृष्ट्वासौ मन्युमान् अभूत् ॥ (३८।२)

utsmayantaṃ ca satataṃ dṛṣṭvāsau manyumān abhūt ||

39.1३९.१

अथ शून्ये पुरोधास्तु सह राज्ञा समागतः । (३९।१)

atha śūnye purodhāstu saha rājñā samāgataḥ |

39.2३९.२

कथाभिर् अनुकूलाभी राजानम् अभिरामयत् ॥ (३९।२)

kathābhir anukūlābhī rājānam abhirāmayat ||

40.1४०.१

ततो ऽब्रवीन्नरेन्द्रं स पुरोधा भरतर्षभ । (४०।१)

tato 'bravīnnarendraṃ sa purodhā bharatarṣabha |

40.2४०.२

वरम् इच्छाम्यहं त्वेकं त्वया दत्तं महाद्युते ॥ (४०।२)

varam icchāmyahaṃ tvekaṃ tvayā dattaṃ mahādyute ||

41.1४१.१

राजोवाच । (४१।१)

rājovāca |

41.2४१.२

वराणां ते शतं दद्यां किम् उतैकं द्विजोत्तम । (४१।२)

varāṇāṃ te śataṃ dadyāṃ kim utaikaṃ dvijottama |

41.3४१.३

स्नेहाच्च बहुमानाच्च नास्त्यदेयं हि मे तव ॥ (४१।३)

snehācca bahumānācca nāstyadeyaṃ hi me tava ||

42.1४२.१

पुरोहित उवाच । (४२।१)

purohita uvāca

42.2४२.२

एकं वै वरम् इच्छामि यदि तुष्टो ऽसि पार्थिव । (४२।२)

ekaṃ vai varam icchāmi yadi tuṣṭo 'si pārthiva |

42.3४२.३

यद् ददासि महाराज सत्यं तद् वद मानृतम् ॥ (४२।३)

yad dadāsi mahārāja satyaṃ tad vada mānṛtam ||

43.1४३.१

भीष्म उवाच । (४३।१)

bhīṣma uvāca

43.2४३.२

बाढम् इत्येव तं राजा प्रत्युवाच युधिष्ठिर । (४३।२)

bāḍham ityeva taṃ rājā pratyuvāca yudhiṣṭhira |

43.3४३.३

यदि ज्ञास्यामि वक्ष्यामि अजानन्न तु संवदे ॥ (४३।३)

yadi jñāsyāmi vakṣyāmi ajānanna tu saṃvade ||

44.1४४.१

पुरोहित उवाच । (४४।१)

purohita uvāca

44.2४४.२

पुण्याहवाचने नित्यं धर्मकृत्येषु चासकृत् । (४४।२)

puṇyāhavācane nityaṃ dharmakṛtyeṣu cāsakṛt |

44.3४४.३

शान्तिहोमेषु च सदा किं त्वं हससि वीक्ष्य माम् ॥ (४४।३)

śāntihomeṣu ca sadā kiṃ tvaṃ hasasi vīkṣya mām ||

45.1४५.१

सव्रीडं वै भवति हि मनो मे हसता त्वया । (४५।१)

savrīḍaṃ vai bhavati hi mano me hasatā tvayā |

45.2४५.२

कामया शापितो राजन्नान्यथा वक्तुम् अर्हसि ॥ (४५।२)

kāmayā śāpito rājannānyathā vaktum arhasi ||

46.1४६.१

भाव्यं हि कारणेनात्र न ते हास्यम् अकारणम् । (४६।१)

bhāvyaṃ hi kāraṇenātra na te hāsyam akāraṇam |

46.2४६.२

कौतूहलं मे सुभृशं तत्त्वेन कथयस्व मे ॥ (४६।२)

kautūhalaṃ me subhṛśaṃ tattvena kathayasva me ||

47.1४७.१

राजोवाच । (४७।१)

rājovāca |

47.2४७.२

एवम् उक्ते त्वया विप्र यद् अवाच्यं भवेद् अपि । (४७।२)

evam ukte tvayā vipra yad avācyaṃ bhaved api |

47.3४७.३

अवश्यम् एव वक्तव्यं शृणुष्वैकमना द्विज ॥ (४७।३)

avaśyam eva vaktavyaṃ śṛṇuṣvaikamanā dvija ||

48.1४८.१

पूर्वदेहे यथा वृत्तं तन्निबोध द्विजोत्तम । (४८।१)

pūrvadehe yathā vṛttaṃ tannibodha dvijottama |

48.2४८.२

जातिं स्मराम्यहं ब्रह्मन्न् अवधानेन मे शृणु ॥ (४८।२)

jātiṃ smarāmyahaṃ brahmann avadhānena me śṛṇu ||

49.1४९.१

शूद्रो ऽहम् अभवं पूर्वं तापसो भृशसंयुतः । (४९।१)

śūdro 'ham abhavaṃ pūrvaṃ tāpaso bhṛśasaṃyutaḥ |

49.2४९.२

ऋषिर् उग्रतपास्त्वं च तदाभूर् द्विजसत्तम ॥ (४९।२)

ṛṣir ugratapāstvaṃ ca tadābhūr dvijasattama ||

50.1५०.१

प्रीयता हि तदा ब्रह्मन्ममानुग्रहबुद्धिना । (५०।१)

prīyatā hi tadā brahmanmamānugrahabuddhinā |

50.2५०.२

पितृकार्ये त्वया पूर्वम् उपदेशः कृतो ऽनघ । (५०।२)

pitṛkārye tvayā pūrvam upadeśaḥ kṛto 'nagha |

50.3५०.३

बृस्यां दर्भेषु हव्ये च कव्ये च मुनिसत्तम ॥ (५०।३)

bṛsyāṃ darbheṣu havye ca kavye ca munisattama ||

51.1५१.१

एतेन कर्मदोषेण पुरोधास्त्वम् अजायथाः । (५१।१)

etena karmadoṣeṇa purodhāstvam ajāyathāḥ |

51.2५१.२

अहं राजा च विप्रेन्द्र पश्य कालस्य पर्ययम् । (५१।२)

ahaṃ rājā ca viprendra paśya kālasya paryayam |

51.3५१.३

मत्कृते ह्युपदेशेन त्वया प्राप्तम् इदं फलम् ॥ (५१।३)

matkṛte hyupadeśena tvayā prāptam idaṃ phalam ||

52.1५२.१

एतस्मात् कारणाद् ब्रह्मन् प्रहसे त्वां द्विजोत्तम । (५२।१)

etasmāt kāraṇād brahman prahase tvāṃ dvijottama |

52.2५२.२

न त्वां परिभवन् ब्रह्मन् प्रहसामि गुरुर् भवान् ॥ (५२।२)

na tvāṃ paribhavan brahman prahasāmi gurur bhavān ||

53.1५३.१

विपर्ययेण मे मन्युस्तेन संतप्यते मनः । (५३।१)

viparyayeṇa me manyustena saṃtapyate manaḥ |

53.2५३.२

जातिं स्मराम्यहं तुभ्यम् अतस्त्वां प्रहसामि वै ॥ (५३।२)

jātiṃ smarāmyahaṃ tubhyam atastvāṃ prahasāmi vai ||

54.1५४.१

एवं तवोग्रं हि तप उपदेशेन नाशितम् । (५४।१)

evaṃ tavograṃ hi tapa upadeśena nāśitam |

54.2५४.२

पुरोहितत्वम् उत्सृज्य यतस्व त्वं पुनर्भवे ॥ (५४।२)

purohitatvam utsṛjya yatasva tvaṃ punarbhave ||

55.1५५.१

इतस्त्वम् अधमाम् अन्यां मा योनिं प्राप्स्यसे द्विज । (५५।१)

itastvam adhamām anyāṃ mā yoniṃ prāpsyase dvija |

55.2५५.२

गृह्यतां द्रविणं विप्र पूतात्मा भव सत्तम ॥ (५५।२)

gṛhyatāṃ draviṇaṃ vipra pūtātmā bhava sattama ||

56.1५६.१

भीष्म उवाच । (५६।१)

bhīṣma uvāca

56.2५६.२

ततो विसृष्टो राज्ञा तु विप्रो दानान्यनेकशः । (५६।२)

tato visṛṣṭo rājñā tu vipro dānānyanekaśaḥ |

56.3५६.३

ब्राह्मणेभ्यो ददौ वित्तं भूमिं ग्रामांश्च सर्वशः ॥ (५६।३)

brāhmaṇebhyo dadau vittaṃ bhūmiṃ grāmāṃśca sarvaśaḥ ||

57.1५७.१

कृच्छ्राणि चीर्त्वा च ततो यथोक्तानि द्विजोत्तमः । (५७।१)

kṛcchrāṇi cīrtvā ca tato yathoktāni dvijottamaḥ |

57.2५७.२

तीर्थानि चाभिगत्वा वै दानानि विविधानि च ॥ (५७।२)

tīrthāni cābhigatvā vai dānāni vividhāni ca ||

58.1५८.१

दत्त्वा गाश्चैव विप्राणां पूतात्मा सो ऽभवद् द्विजः । (५८।१)

dattvā gāścaiva viprāṇāṃ pūtātmā so 'bhavad dvijaḥ |

58.2५८.२

तम् एव चाश्रमं गत्वा चचार विपुलं तपः ॥ (५८।२)

tam eva cāśramaṃ gatvā cacāra vipulaṃ tapaḥ ||

59.1५९.१

ततः सिद्धिं परां प्राप्तो ब्राह्मणो राजसत्तम । (५९।१)

tataḥ siddhiṃ parāṃ prāpto brāhmaṇo rājasattama |

59.2५९.२

संमतश्चाभवत् तेषाम् आश्रमे ऽऽश्रमवासिनाम् ॥ (५९।२)

saṃmataścābhavat teṣām āśrame ''śramavāsinām ||

60.1६०.१

एवं प्राप्तो महत् कृच्छ्रम् ऋषिः स नृपसत्तम । (६०।१)

evaṃ prāpto mahat kṛcchram ṛṣiḥ sa nṛpasattama |

60.2६०.२

ब्राह्मणेन न वक्तव्यं तस्माद् वर्णावरे जने ॥ (६०।२)

brāhmaṇena na vaktavyaṃ tasmād varṇāvare jane ||

61.1६१.१

वर्जयेद् उपदेशं च सदैव ब्राह्मणो नृप । (६१।१)

varjayed upadeśaṃ ca sadaiva brāhmaṇo nṛpa |

61.2६१.२

उपदेशं हि कुर्वाणो द्विजः कृच्छ्रम् अवाप्नुयात् ॥ (६१।२)

upadeśaṃ hi kurvāṇo dvijaḥ kṛcchram avāpnuyāt ||

62.1६२.१

एषितव्यं सदा वाचा नृपेण द्विजसत्तमात् । (६२।१)

eṣitavyaṃ sadā vācā nṛpeṇa dvijasattamāt |

62.2६२.२

न प्रवक्तव्यम् इह हि किंचिद् वर्णावरे जने ॥ (६२।२)

na pravaktavyam iha hi kiṃcid varṇāvare jane ||

63.1६३.१

ब्राह्मणाः क्षत्रिया वैश्यास्त्रयो वर्णा द्विजातयः । (६३।१)

brāhmaṇāḥ kṣatriyā vaiśyāstrayo varṇā dvijātayaḥ |

63.2६३.२

एतेषु कथयन् राजन् ब्राह्मणो न प्रदुष्यति ॥ (६३।२)

eteṣu kathayan rājan brāhmaṇo na praduṣyati ||

64.1६४.१

तस्मात् सद्भिर् न वक्तव्यं कस्यचित् किंचिद् अग्रतः । (६४।१)

tasmāt sadbhir na vaktavyaṃ kasyacit kiṃcid agrataḥ |

64.2६४.२

सूक्ष्मा गतिर् हि धर्मस्य दुर्ज्ञेया ह्यकृतात्मभिः ॥ (६४।२)

sūkṣmā gatir hi dharmasya durjñeyā hyakṛtātmabhiḥ ||

65.1६५.१

तस्मान्मौनानि मुनयो दीक्षां कुर्वन्ति चादृताः । (६५।१)

tasmānmaunāni munayo dīkṣāṃ kurvanti cādṛtāḥ |

65.2६५.२

दुरुक्तस्य भयाद् राजन् नानुभाषन्ति किंचन ॥ (६५।२)

duruktasya bhayād rājan nānubhāṣanti kiṃcana ||

66.1६६.१

धार्मिका गुणसम्पन्नाः सत्यार्जवपरायणाः । (६६।१)

dhārmikā guṇasampannāḥ satyārjavaparāyaṇāḥ |

66.2६६.२

दुरुक्तवाचाभिहताः प्राप्नुवन्तीह दुष्कृतम् ॥ (६६।२)

duruktavācābhihatāḥ prāpnuvantīha duṣkṛtam ||

67.1६७.१

उपदेशो न कर्तव्यः कदाचिद् अपि कस्यचित् । (६७।१)

upadeśo na kartavyaḥ kadācid api kasyacit |

67.2६७.२

उपदेशाद्धि तत् पापं ब्राह्मणः समवाप्नुयात् ॥ (६७।२)

upadeśāddhi tat pāpaṃ brāhmaṇaḥ samavāpnuyāt ||

68.1६८.१

विमृश्य तस्मात् प्राज्ञेन वक्तव्यं धर्मम् इच्छता । (६८।१)

vimṛśya tasmāt prājñena vaktavyaṃ dharmam icchatā |

68.2६८.२

सत्यानृतेन हि कृत उपदेशो हिनस्ति वै ॥ (६८।२)

satyānṛtena hi kṛta upadeśo hinasti vai ||

69.1६९.१

वक्तव्यम् इह पृष्टेन विनिश्चित्य विपर्ययम् । (६९।१)

vaktavyam iha pṛṣṭena viniścitya viparyayam |

69.2६९.२

स चोपदेशः कर्तव्यो येन धर्मम् अवाप्नुयात् ॥ (६९।२)

sa copadeśaḥ kartavyo yena dharmam avāpnuyāt ||

70.1७०.१

एतत् ते सर्वम् आख्यातम् उपदेशे कृते सति । (७०।१)

etat te sarvam ākhyātam upadeśe kṛte sati |

70.2७०.२

महान् क्लेशो हि भवति तस्मान्नोपदिशेत् क्वचित् ॥ (७०।२)

mahān kleśo hi bhavati tasmānnopadiśet kvacit ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 13, 10

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit