महाभारतMahābhārata

MBh, 13, 24

1705 of 1995 · 209 verses

Select a line for its word-by-word analysis.

1.1१.१

युधिष्ठिर उवाच । (१।१)

yudhiṣṭhira uvāca

1.2१.२

श्राद्धकाले च दैवे च धर्मे चापि पितामह । (१।२)

śrāddhakāle ca daive ca dharme cāpi pitāmaha |

1.3१.३

इच्छामीह त्वयाख्यातं विहितं यत् सुरर्षिभिः ॥ (१।३)

icchāmīha tvayākhyātaṃ vihitaṃ yat surarṣibhiḥ ||

2.1२.१

भीष्म उवाच । (२।१)

bhīṣma uvāca

2.2२.२

दैवं पूर्वाह्णिके कुर्याद् अपराह्णे तु पैतृकम् । (२।२)

daivaṃ pūrvāhṇike kuryād aparāhṇe tu paitṛkam |

2.3२.३

मङ्गलाचारसम्पन्नः कृतशौचः प्रयत्नवान् ॥ (२।३)

maṅgalācārasampannaḥ kṛtaśaucaḥ prayatnavān ||

3.1३.१

मनुष्याणां तु मध्याह्ने प्रदद्याद् उपपत्तितः । (३।१)

manuṣyāṇāṃ tu madhyāhne pradadyād upapattitaḥ |

3.2३.२

कालहीनं तु यद् दानं तं भागं रक्षसां विदुः ॥ (३।२)

kālahīnaṃ tu yad dānaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ ||

4.1४.१

लङ्घितं चावलीढं च कलिपूर्वं च यत् कृतम् । (४।१)

laṅghitaṃ cāvalīḍhaṃ ca kalipūrvaṃ ca yat kṛtam |

4.2४.२

रजस्वलाभिर् दृष्टं च तं भागं रक्षसां विदुः ॥ (४।२)

rajasvalābhir dṛṣṭaṃ ca taṃ bhāgaṃ rakṣasāṃ viduḥ ||

5.1५.१

अवघुष्टं च यद् भुक्तम् अव्रतेन च भारत । (५।१)

avaghuṣṭaṃ ca yad bhuktam avratena ca bhārata |

5.2५.२

परामृष्टं शुना चैव तं भागं रक्षसां विदुः ॥ (५।२)

parāmṛṣṭaṃ śunā caiva taṃ bhāgaṃ rakṣasāṃ viduḥ ||

6.1६.१

केशकीटावपतितं क्षुतं श्वभिर् अवेक्षितम् । (६।१)

keśakīṭāvapatitaṃ kṣutaṃ śvabhir avekṣitam |

6.2६.२

रुदितं चावधूतं च तं भागं रक्षसां विदुः ॥ (६।२)

ruditaṃ cāvadhūtaṃ ca taṃ bhāgaṃ rakṣasāṃ viduḥ ||

7.1७.१

निर्ॐकारेण यद् भुक्तं सशस्त्रेण च भारत । (७।१)

niroṃkāreṇa yad bhuktaṃ saśastreṇa ca bhārata |

7.2७.२

दुरात्मना च यद् भुक्तं तं भागं रक्षसां विदुः ॥ (७।२)

durātmanā ca yad bhuktaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ ||

8.1८.१

परोच्छिष्टं च यद् भुक्तं परिभुक्तं च यद् भवेत् । (८।१)

parocchiṣṭaṃ ca yad bhuktaṃ paribhuktaṃ ca yad bhavet |

8.2८.२

दैवे पित्र्ये च सततं तं भागं रक्षसां विदुः ॥ (८।२)

daive pitrye ca satataṃ taṃ bhāgaṃ rakṣasāṃ viduḥ ||

9.1९.१

गर्हितं निन्दितं चैव परिविष्टं समन्युना । (९।१)

garhitaṃ ninditaṃ caiva pariviṣṭaṃ samanyunā |

9.2९.२

दैवं वाप्यथ वा पैत्र्यं तं भागं रक्षसां विदुः ॥ (९।२)

daivaṃ vāpyatha vā paitryaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ ||

10.1१०.१

मन्त्रहीनं क्रियाहीनं यच्छ्राद्धं परिविष्यते । (१०।१)

mantrahīnaṃ kriyāhīnaṃ yacchrāddhaṃ pariviṣyate |

10.2१०.२

त्रिभिर् वर्णैर् नरश्रेष्ठ तं भागं रक्षसां विदुः ॥ (१०।२)

tribhir varṇair naraśreṣṭha taṃ bhāgaṃ rakṣasāṃ viduḥ ||

11.1११.१

आज्याहुतिं विना चैव यत् किंचित् परिविष्यते । (११।१)

ājyāhutiṃ vinā caiva yat kiṃcit pariviṣyate |

11.2११.२

दुराचारैश्च यद् भुक्तं तं भागं रक्षसां विदुः ॥ (११।२)

durācāraiśca yad bhuktaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ ||

12.1१२.१

ये भागा रक्षसां प्रोक्तास्त उक्ता भरतर्षभ । (१२।१)

ye bhāgā rakṣasāṃ proktāsta uktā bharatarṣabha |

12.2१२.२

अत ऊर्ध्वं विसर्गस्य परीक्षां ब्राह्मणे शृणु ॥ (१२।२)

ata ūrdhvaṃ visargasya parīkṣāṃ brāhmaṇe śṛṇu ||

13.1१३.१

यावन्तः पतिता विप्रा जडोन्मत्तास्तथैव च । (१३।१)

yāvantaḥ patitā viprā jaḍonmattāstathaiva ca |

13.2१३.२

दैवे वाप्यथ वा पित्र्ये राजन्नार्हन्ति केतनम् ॥ (१३।२)

daive vāpyatha vā pitrye rājannārhanti ketanam ||

14.1१४.१

श्वित्री कुष्ठी च क्लीबश्च तथा यक्ष्महतश्च यः । (१४।१)

śvitrī kuṣṭhī ca klībaśca tathā yakṣmahataśca yaḥ |

14.2१४.२

अपस्मारी च यश्चान्धो राजन्नार्हन्ति सत्कृतिम् ॥ (१४।२)

apasmārī ca yaścāndho rājannārhanti satkṛtim ||

15.1१५.१

चिकित्सका देवलका वृथानियमधारिणः । (१५।१)

cikitsakā devalakā vṛthāniyamadhāriṇaḥ |

15.2१५.२

सोमविक्रयिणश्चैव श्राद्धे नार्हन्ति केतनम् ॥ (१५।२)

somavikrayiṇaścaiva śrāddhe nārhanti ketanam ||

16.1१६.१

गायना नर्तकाश्चैव प्लवका वादकास्तथा । (१६।१)

gāyanā nartakāścaiva plavakā vādakāstathā |

16.2१६.२

कथका योधकाश्चैव राजन्नार्हन्ति केतनम् ॥ (१६।२)

kathakā yodhakāścaiva rājannārhanti ketanam ||

17.1१७.१

होतारो वृषलानां च वृषलाध्यापकास्तथा । (१७।१)

hotāro vṛṣalānāṃ ca vṛṣalādhyāpakāstathā |

17.2१७.२

तथा वृषलशिष्याश्च राजन्नार्हन्ति केतनम् ॥ (१७।२)

tathā vṛṣalaśiṣyāśca rājannārhanti ketanam ||

18.1१८.१

अनुयोक्ता च यो विप्रो अनुयुक्तश्च भारत । (१८।१)

anuyoktā ca yo vipro anuyuktaśca bhārata |

18.2१८.२

नार्हतस्तावपि श्राद्धं ब्रह्मविक्रयिणौ हि तौ ॥ (१८।२)

nārhatastāvapi śrāddhaṃ brahmavikrayiṇau hi tau ||

19.1१९.१

अग्रणीर् यः कृतः पूर्वं वर्णावरपरिग्रहः । (१९।१)

agraṇīr yaḥ kṛtaḥ pūrvaṃ varṇāvaraparigrahaḥ |

19.2१९.२

ब्राह्मणः सर्वविद्यो ऽपि राजन्नार्हति केतनम् ॥ (१९।२)

brāhmaṇaḥ sarvavidyo 'pi rājannārhati ketanam ||

20.1२०.१

अनग्नयश्च ये विप्रा मृतनिर्यातकाश्च ये । (२०।१)

anagnayaśca ye viprā mṛtaniryātakāśca ye |

20.2२०.२

स्तेनाश्च पतिताश्चैव राजन्नार्हन्ति केतनम् ॥ (२०।२)

stenāśca patitāścaiva rājannārhanti ketanam ||

21.1२१.१

अपरिज्ञातपूर्वाश्च गणपूर्वाश्च भारत । (२१।१)

aparijñātapūrvāśca gaṇapūrvāśca bhārata |

21.2२१.२

पुत्रिकापूर्वपुत्राश्च श्राद्धे नार्हन्ति केतनम् ॥ (२१।२)

putrikāpūrvaputrāśca śrāddhe nārhanti ketanam ||

22.1२२.१

ऋणकर्ता च यो राजन् यश्च वार्धुषिको द्विजः । (२२।१)

ṛṇakartā ca yo rājan yaśca vārdhuṣiko dvijaḥ |

22.2२२.२

प्राणिविक्रयवृत्तिश्च राजन्नार्हन्ति केतनम् ॥ (२२।२)

prāṇivikrayavṛttiśca rājannārhanti ketanam ||

23.1२३.१

स्त्रीपूर्वाः काण्डपृष्ठाश्च यावन्तो भरतर्षभ । (२३।१)

strīpūrvāḥ kāṇḍapṛṣṭhāśca yāvanto bharatarṣabha |

23.2२३.२

अजपा ब्राह्मणाश्चैव श्राद्धे नार्हन्ति केतनम् ॥ (२३।२)

ajapā brāhmaṇāścaiva śrāddhe nārhanti ketanam ||

24.1२४.१

श्राद्धे दैवे च निर्दिष्टा ब्राह्मणा भरतर्षभ । (२४।१)

śrāddhe daive ca nirdiṣṭā brāhmaṇā bharatarṣabha |

24.2२४.२

दातुः प्रतिग्रहीतुश्च शृणुष्वानुग्रहं पुनः ॥ (२४।२)

dātuḥ pratigrahītuśca śṛṇuṣvānugrahaṃ punaḥ ||

25.1२५.१

चीर्णव्रता गुणैर् युक्ता भवेयुर् ये ऽपि कर्षकाः । (२५।१)

cīrṇavratā guṇair yuktā bhaveyur ye 'pi karṣakāḥ |

25.2२५.२

सावित्रीज्ञाः क्रियावन्तस्ते राजन् केतनक्षमाः ॥ (२५।२)

sāvitrījñāḥ kriyāvantaste rājan ketanakṣamāḥ ||

26.1२६.१

क्षात्रधर्मिणम् अप्याजौ केतयेत् कुलजं द्विजम् । (२६।१)

kṣātradharmiṇam apyājau ketayet kulajaṃ dvijam |

26.2२६.२

न त्वेव वणिजं तात श्राद्धेषु परिकल्पयेत् ॥ (२६।२)

na tveva vaṇijaṃ tāta śrāddheṣu parikalpayet ||

27.1२७.१

अग्निहोत्री च यो विप्रो ग्रामवासी च यो भवेत् । (२७।१)

agnihotrī ca yo vipro grāmavāsī ca yo bhavet |

27.2२७.२

अस्तेनश् चातिथिज्ञश्च स राजन् केतनक्षमः ॥ (२७।२)

astenaś cātithijñaśca sa rājan ketanakṣamaḥ ||

28.1२८.१

सावित्रीं जपते यस्तु त्रिकालं भरतर्षभ । (२८।१)

sāvitrīṃ japate yastu trikālaṃ bharatarṣabha |

28.2२८.२

भिक्षावृत्तिः क्रियावांश्च स राजन् केतनक्षमः ॥ (२८।२)

bhikṣāvṛttiḥ kriyāvāṃśca sa rājan ketanakṣamaḥ ||

29.1२९.१

उदितास्तमितो यश्च तथैवास्तमितोदितः । (२९।१)

uditāstamito yaśca tathaivāstamitoditaḥ |

29.2२९.२

अहिंस्रश्चाल्पदोषश्च स राजन् केतनक्षमः ॥ (२९।२)

ahiṃsraścālpadoṣaśca sa rājan ketanakṣamaḥ ||

30.1३०.१

अकल्कको ह्यतर्कश्च ब्राह्मणो भरतर्षभ । (३०।१)

akalkako hyatarkaśca brāhmaṇo bharatarṣabha |

30.2३०.२

ससंज्ञो भैक्ष्यवृत्तिश्च स राजन् केतनक्षमः ॥ (३०।२)

sasaṃjño bhaikṣyavṛttiśca sa rājan ketanakṣamaḥ ||

31.1३१.१

अव्रती कितवः स्तेनः प्राणिविक्रय्यथो वणिक् । (३१।१)

avratī kitavaḥ stenaḥ prāṇivikrayyatho vaṇik |

31.2३१.२

पश्चाच्च पीतवान् सोमं स राजन् केतनक्षमः ॥ (३१।२)

paścācca pītavān somaṃ sa rājan ketanakṣamaḥ ||

32.1३२.१

अर्जयित्वा धनं पूर्वं दारुणैः कृषिकर्मभिः । (३२।१)

arjayitvā dhanaṃ pūrvaṃ dāruṇaiḥ kṛṣikarmabhiḥ |

32.2३२.२

भवेत् सर्वातिथिः पश्चात् स राजन् केतनक्षमः ॥ (३२।२)

bhavet sarvātithiḥ paścāt sa rājan ketanakṣamaḥ ||

33.1३३.१

ब्रह्मविक्रयनिर्दिष्टं स्त्रिया यच्चार्जितं धनम् । (३३।१)

brahmavikrayanirdiṣṭaṃ striyā yaccārjitaṃ dhanam |

33.2३३.२

अदेयं पितृदेवेभ्यो यच्च क्लैब्याद् उपार्जितम् ॥ (३३।२)

adeyaṃ pitṛdevebhyo yacca klaibyād upārjitam ||

34.1३४.१

क्रियमाणे ऽपवर्गे तु यो द्विजो भरतर्षभ । (३४।१)

kriyamāṇe 'pavarge tu yo dvijo bharatarṣabha |

34.2३४.२

न व्याहरति यद् युक्तं तस्याधर्मो गवानृतम् ॥ (३४।२)

na vyāharati yad yuktaṃ tasyādharmo gavānṛtam ||

35.1३५.१

श्राद्धस्य ब्राह्मणः कालः प्राप्तं दधि घृतं तथा । (३५।१)

śrāddhasya brāhmaṇaḥ kālaḥ prāptaṃ dadhi ghṛtaṃ tathā |

35.2३५.२

सोमक्षयश्च मांसं च यद् आरण्यं युधिष्ठिर ॥ (३५।२)

somakṣayaśca māṃsaṃ ca yad āraṇyaṃ yudhiṣṭhira ||

36.1३६.१

श्राद्धापवर्गे विप्रस्य स्वधा वै स्वदिता भवेत् । (३६।१)

śrāddhāpavarge viprasya svadhā vai svaditā bhavet |

36.2३६.२

क्षत्रियस्याप्यथो ब्रूयात् प्रीयन्तां पितरस्त्विति ॥ (३६।२)

kṣatriyasyāpyatho brūyāt prīyantāṃ pitarastviti ||

37.1३७.१

अपवर्गे तु वैश्यस्य श्राद्धकर्मणि भारत । (३७।१)

apavarge tu vaiśyasya śrāddhakarmaṇi bhārata |

37.2३७.२

अक्षय्यम् अभिधातव्यं स्वस्ति शूद्रस्य भारत ॥ (३७।२)

akṣayyam abhidhātavyaṃ svasti śūdrasya bhārata ||

38.1३८.१

पुण्याहवाचनं दैवे ब्राह्मणस्य विधीयते । (३८।१)

puṇyāhavācanaṃ daive brāhmaṇasya vidhīyate |

38.2३८.२

एतद् एव निर्ॐकारं क्षत्रियस्य विधीयते । (३८।२)

etad eva niroṃkāraṃ kṣatriyasya vidhīyate |

38.3३८.३

वैश्यस्य चैव वक्तव्यं प्रीयन्तां देवता इति ॥ (३८।३)

vaiśyasya caiva vaktavyaṃ prīyantāṃ devatā iti ||

39.1३९.१

कर्मणाम् आनुपूर्वीं च विधिपूर्वकृतं शृणु । (३९।१)

karmaṇām ānupūrvīṃ ca vidhipūrvakṛtaṃ śṛṇu |

39.2३९.२

जातकर्मादिकान् सर्वांस्त्रिषु वर्णेषु भारत । (३९।२)

jātakarmādikān sarvāṃstriṣu varṇeṣu bhārata |

39.3३९.३

ब्रह्मक्षत्रे हि मन्त्रोक्ता वैश्यस्य च युधिष्ठिर ॥ (३९।३)

brahmakṣatre hi mantroktā vaiśyasya ca yudhiṣṭhira ||

40.1४०.१

विप्रस्य रशना मौञ्जी मौर्वी राजन्यगामिनी । (४०।१)

viprasya raśanā mauñjī maurvī rājanyagāminī |

40.2४०.२

बाल्वजीत्येव वैश्यस्य धर्म एष युधिष्ठिर ॥ (४०।२)

bālvajītyeva vaiśyasya dharma eṣa yudhiṣṭhira ||

41.1४१.१

दातुः प्रतिग्रहीतुश्च धर्माधर्माविमौ शृणु । (४१।१)

dātuḥ pratigrahītuśca dharmādharmāvimau śṛṇu |

41.2४१.२

ब्राह्मणस्यानृते ऽधर्मः प्रोक्तः पातकसंज्ञितः । (४१।२)

brāhmaṇasyānṛte 'dharmaḥ proktaḥ pātakasaṃjñitaḥ |

41.3४१.३

चतुर्गुणः क्षत्रियस्य वैश्यस्याष्टगुणः स्मृतः ॥ (४१।३)

caturguṇaḥ kṣatriyasya vaiśyasyāṣṭaguṇaḥ smṛtaḥ ||

42.1४२.१

नान्यत्र ब्राह्मणो ऽश्नीयात् पूर्वं विप्रेण केतितः । (४२।१)

nānyatra brāhmaṇo 'śnīyāt pūrvaṃ vipreṇa ketitaḥ |

42.2४२.२

यवीयान् पशुहिंसायां तुल्यधर्मो भवेत् स हि ॥ (४२।२)

yavīyān paśuhiṃsāyāṃ tulyadharmo bhavet sa hi ||

43.1४३.१

अथ राजन्यवैश्याभ्यां यद्यश्नीयात् तु केतितः । (४३।१)

atha rājanyavaiśyābhyāṃ yadyaśnīyāt tu ketitaḥ |

43.2४३.२

यवीयान् पशुहिंसायां भागार्धं समवाप्नुयात् ॥ (४३।२)

yavīyān paśuhiṃsāyāṃ bhāgārdhaṃ samavāpnuyāt ||

44.1४४.१

दैवं वाप्यथ वा पित्र्यं यो ऽश्नीयाद् ब्राह्मणादिषु । (४४।१)

daivaṃ vāpyatha vā pitryaṃ yo 'śnīyād brāhmaṇādiṣu |

44.2४४.२

अस्नातो ब्राह्मणो राजंस्तस्याधर्मो गवानृतम् ॥ (४४।२)

asnāto brāhmaṇo rājaṃstasyādharmo gavānṛtam ||

45.1४५.१

आशौचो ब्राह्मणो राजन् यो ऽश्नीयाद् ब्राह्मणादिषु । (४५।१)

āśauco brāhmaṇo rājan yo 'śnīyād brāhmaṇādiṣu |

45.2४५.२

ज्ञानपूर्वम् अथो लोभात् तस्याधर्मो गवानृतम् ॥ (४५।२)

jñānapūrvam atho lobhāt tasyādharmo gavānṛtam ||

46.1४६.१

अन्नेनान्नं च यो लिप्सेत् कर्मार्थं चैव भारत । (४६।१)

annenānnaṃ ca yo lipset karmārthaṃ caiva bhārata |

46.2४६.२

आमन्त्रयति राजेन्द्र तस्याधर्मो ऽनृतं स्मृतम् ॥ (४६।२)

āmantrayati rājendra tasyādharmo 'nṛtaṃ smṛtam ||

47.1४७.१

अवेदव्रतचारित्रास् त्रिभिर् वर्णैर् युधिष्ठिर । (४७।१)

avedavratacāritrās tribhir varṇair yudhiṣṭhira |

47.2४७.२

मन्त्रवत् परिविष्यन्ते तेष्वधर्मो गवानृतम् ॥ (४७।२)

mantravat pariviṣyante teṣvadharmo gavānṛtam ||

48.1४८.१

युधिष्ठिर उवाच । (४८।१)

yudhiṣṭhira uvāca

48.2४८.२

पित्र्यं वाप्यथ वा दैवं दीयते यत् पितामह । (४८।२)

pitryaṃ vāpyatha vā daivaṃ dīyate yat pitāmaha |

48.3४८.३

एतद् इच्छाम्यहं श्रोतुं दत्तं येषु महाफलम् ॥ (४८।३)

etad icchāmyahaṃ śrotuṃ dattaṃ yeṣu mahāphalam ||

49.1४९.१

भीष्म उवाच । (४९।१)

bhīṣma uvāca

49.2४९.२

येषां दाराः प्रतीक्षन्ते सुवृष्टिम् इव कर्षकाः । (४९।२)

yeṣāṃ dārāḥ pratīkṣante suvṛṣṭim iva karṣakāḥ |

49.3४९.३

उच्छेषपरिशेषं हि तान् भोजय युधिष्ठिर ॥ (४९।३)

uccheṣapariśeṣaṃ hi tān bhojaya yudhiṣṭhira ||

50.1५०.१

चारित्रनियता राजन् ये कृशाः कृशवृत्तयः । (५०।१)

cāritraniyatā rājan ye kṛśāḥ kṛśavṛttayaḥ |

50.2५०.२

अर्थिनश्चोपगच्छन्ति तेषु दत्तं महाफलम् ॥ (५०।२)

arthinaścopagacchanti teṣu dattaṃ mahāphalam ||

51.1५१.१

तद्भक्तास्तद्गृहा राजंस्तद्धनास्तदपाश्रयाः । (५१।१)

tadbhaktāstadgṛhā rājaṃstaddhanāstadapāśrayāḥ |

51.2५१.२

अर्थिनश्च भवन्त्यर्थे तेषु दत्तं महाफलम् ॥ (५१।२)

arthinaśca bhavantyarthe teṣu dattaṃ mahāphalam ||

52.1५२.१

तस्करेभ्यः परेभ्यो वा ये भयार्ता युधिष्ठिर । (५२।१)

taskarebhyaḥ parebhyo vā ye bhayārtā yudhiṣṭhira |

52.2५२.२

अर्थिनो भोक्तुम् इच्छन्ति तेषु दत्तं महाफलम् ॥ (५२।२)

arthino bhoktum icchanti teṣu dattaṃ mahāphalam ||

53.1५३.१

अकल्ककस्य विप्रस्य भैक्षोत्करकृतात्मनः । (५३।१)

akalkakasya viprasya bhaikṣotkarakṛtātmanaḥ |

53.2५३.२

बटवो यस्य भिक्षन्ति तेभ्यो दत्तं महाफलम् ॥ (५३।२)

baṭavo yasya bhikṣanti tebhyo dattaṃ mahāphalam ||

54.1५४.१

हृतस्वा हृतदाराश्च ये विप्रा देशसंप्लवे । (५४।१)

hṛtasvā hṛtadārāśca ye viprā deśasaṃplave |

54.2५४.२

अर्थार्थम् अभिगच्छन्ति तेभ्यो दत्तं महाफलम् ॥ (५४।२)

arthārtham abhigacchanti tebhyo dattaṃ mahāphalam ||

55.1५५.१

व्रतिनो नियमस्थाश्च ये विप्राः श्रुतसंमताः । (५५।१)

vratino niyamasthāśca ye viprāḥ śrutasaṃmatāḥ |

55.2५५.२

तत्समाप्त्यर्थम् इच्छन्ति तेषु दत्तं महाफलम् ॥ (५५।२)

tatsamāptyartham icchanti teṣu dattaṃ mahāphalam ||

56.1५६.१

अव्युत्क्रान्ताश्च धर्मेषु पाषण्डसमयेषु च । (५६।१)

avyutkrāntāśca dharmeṣu pāṣaṇḍasamayeṣu ca |

56.2५६.२

कृशप्राणाः कृशधनास्तेषु दत्तं महाफलम् ॥ (५६।२)

kṛśaprāṇāḥ kṛśadhanāsteṣu dattaṃ mahāphalam ||

57.1५७.१

कृतसर्वस्वहरणा निर्दोषाः प्रभविष्णुभिः । (५७।१)

kṛtasarvasvaharaṇā nirdoṣāḥ prabhaviṣṇubhiḥ |

57.2५७.२

स्पृहयन्ति च भुक्तान्नं तेषु दत्तं महाफलम् ॥ (५७।२)

spṛhayanti ca bhuktānnaṃ teṣu dattaṃ mahāphalam ||

58.1५८.१

तपस्विनस्तपोनिष्ठास्तेषां भैक्षचराश्च ये । (५८।१)

tapasvinastaponiṣṭhāsteṣāṃ bhaikṣacarāśca ye |

58.2५८.२

अर्थिनः किंचिद् इच्छन्ति तेषु दत्तं महाफलम् ॥ (५८।२)

arthinaḥ kiṃcid icchanti teṣu dattaṃ mahāphalam ||

59.1५९.१

महाफलविधिर् दाने श्रुतस्ते भरतर्षभ । (५९।१)

mahāphalavidhir dāne śrutaste bharatarṣabha |

59.2५९.२

निरयं येन गच्छन्ति स्वर्गं चैव हि तच्छृणु ॥ (५९।२)

nirayaṃ yena gacchanti svargaṃ caiva hi tacchṛṇu ||

60.1६०.१

गुर्वर्थं वाभयार्थं वा वर्जयित्वा युधिष्ठिर । (६०।१)

gurvarthaṃ vābhayārthaṃ vā varjayitvā yudhiṣṭhira |

60.2६०.२

ये ऽनृतं कथयन्ति स्म ते वै निरयगामिनः ॥ (६०।२)

ye 'nṛtaṃ kathayanti sma te vai nirayagāminaḥ ||

61.1६१.१

परदाराभिहर्तारः परदाराभिमर्शिनः । (६१।१)

paradārābhihartāraḥ paradārābhimarśinaḥ |

61.2६१.२

परदारप्रयोक्तारस्ते वै निरयगामिनः ॥ (६१।२)

paradāraprayoktāraste vai nirayagāminaḥ ||

62.1६२.१

ये परस्वापहर्तारः परस्वानां च नाशकाः । (६२।१)

ye parasvāpahartāraḥ parasvānāṃ ca nāśakāḥ |

62.2६२.२

सूचकाश्च परेषां ये ते वै निरयगामिनः ॥ (६२।२)

sūcakāśca pareṣāṃ ye te vai nirayagāminaḥ ||

63.1६३.१

प्रपाणां च सभानां च संक्रमाणां च भारत । (६३।१)

prapāṇāṃ ca sabhānāṃ ca saṃkramāṇāṃ ca bhārata |

63.2६३.२

अगाराणां च भेत्तारो नरा निरयगामिनः ॥ (६३।२)

agārāṇāṃ ca bhettāro narā nirayagāminaḥ ||

64.1६४.१

अनाथां प्रमदां बालां वृद्धां भीतां तपस्विनीम् । (६४।१)

anāthāṃ pramadāṃ bālāṃ vṛddhāṃ bhītāṃ tapasvinīm |

64.2६४.२

वञ्चयन्ति नरा ये च ते वै निरयगामिनः ॥ (६४।२)

vañcayanti narā ye ca te vai nirayagāminaḥ ||

65.1६५.१

वृत्तिच्छेदं गृहच्छेदं दारच्छेदं च भारत । (६५।१)

vṛtticchedaṃ gṛhacchedaṃ dāracchedaṃ ca bhārata |

65.2६५.२

मित्रच्छेदं तथाशायास्ते वै निरयगामिनः ॥ (६५।२)

mitracchedaṃ tathāśāyāste vai nirayagāminaḥ ||

66.1६६.१

सूचकाः संधिभेत्तारः परवृत्त्युपजीवकाः । (६६।१)

sūcakāḥ saṃdhibhettāraḥ paravṛttyupajīvakāḥ |

66.2६६.२

अकृतज्ञाश्च मित्राणां ते वै निरयगामिनः ॥ (६६।२)

akṛtajñāśca mitrāṇāṃ te vai nirayagāminaḥ ||

67.1६७.१

पाषण्डा दूषकाश्चैव समयानां च दूषकाः । (६७।१)

pāṣaṇḍā dūṣakāścaiva samayānāṃ ca dūṣakāḥ |

67.2६७.२

ये प्रत्यवसिताश्चैव ते वै निरयगामिनः ॥ (६७।२)

ye pratyavasitāścaiva te vai nirayagāminaḥ ||

68.1६८.१

कृताशं कृतनिर्वेशं कृतभक्तं कृतश्रमम् । (६८।१)

kṛtāśaṃ kṛtanirveśaṃ kṛtabhaktaṃ kṛtaśramam |

68.2६८.२

भेदैर् ये व्यपकर्षन्ति ते वै निरयगामिनः ॥ (६८।२)

bhedair ye vyapakarṣanti te vai nirayagāminaḥ ||

69.1६९.१

पर्यश्नन्ति च ये दारान् अग्निभृत्यातिथींस्तथा । (६९।१)

paryaśnanti ca ye dārān agnibhṛtyātithīṃstathā |

69.2६९.२

उत्सन्नपितृदेवेज्यास्ते वै निरयगामिनः ॥ (६९।२)

utsannapitṛdevejyāste vai nirayagāminaḥ ||

70.1७०.१

वेदविक्रयिणश्चैव वेदानां चैव दूषकाः । (७०।१)

vedavikrayiṇaścaiva vedānāṃ caiva dūṣakāḥ |

70.2७०.२

वेदानां लेखकाश्चैव ते वै निरयगामिनः ॥ (७०।२)

vedānāṃ lekhakāścaiva te vai nirayagāminaḥ ||

71.1७१.१

चातुराश्रम्यबाह्याश्च श्रुतिबाह्याश्च ये नराः । (७१।१)

cāturāśramyabāhyāśca śrutibāhyāśca ye narāḥ |

71.2७१.२

विकर्मभिश्च जीवन्ति ते वै निरयगामिनः ॥ (७१।२)

vikarmabhiśca jīvanti te vai nirayagāminaḥ ||

72.1७२.१

केशविक्रयिका राजन् विषविक्रयिकाश्च ये । (७२।१)

keśavikrayikā rājan viṣavikrayikāśca ye |

72.2७२.२

क्षीरविक्रयिकाश्चैव ते वै निरयगामिनः ॥ (७२।२)

kṣīravikrayikāścaiva te vai nirayagāminaḥ ||

73.1७३.१

ब्राह्मणानां गवां चैव कन्यानां च युधिष्ठिर । (७३।१)

brāhmaṇānāṃ gavāṃ caiva kanyānāṃ ca yudhiṣṭhira |

73.2७३.२

ये ऽन्तरं यान्ति कार्येषु ते वै निरयगामिनः ॥ (७३।२)

ye 'ntaraṃ yānti kāryeṣu te vai nirayagāminaḥ ||

74.1७४.१

शस्त्रविक्रयकाश्चैव कर्तारश्च युधिष्ठिर । (७४।१)

śastravikrayakāścaiva kartāraśca yudhiṣṭhira |

74.2७४.२

शल्यानां धनुषां चैव ते वै निरयगामिनः ॥ (७४।२)

śalyānāṃ dhanuṣāṃ caiva te vai nirayagāminaḥ ||

75.1७५.१

शल्यैर् वा शङ्कुभिर् वापि श्वभ्रैर् वा भरतर्षभ । (७५।१)

śalyair vā śaṅkubhir vāpi śvabhrair vā bharatarṣabha |

75.2७५.२

ये मार्गम् अनुरुन्धन्ति ते वै निरयगामिनः ॥ (७५।२)

ye mārgam anurundhanti te vai nirayagāminaḥ ||

76.1७६.१

उपाध्यायांश्च भृत्यांश्च भक्तांश्च भरतर्षभ । (७६।१)

upādhyāyāṃśca bhṛtyāṃśca bhaktāṃśca bharatarṣabha |

76.2७६.२

ये त्यजन्त्यसमर्थांस्तांस्ते वै निरयगामिनः ॥ (७६।२)

ye tyajantyasamarthāṃstāṃste vai nirayagāminaḥ ||

77.1७७.१

अप्राप्तदमकाश् चैव नासानां वेधकास्तथा । (७७।१)

aprāptadamakāś caiva nāsānāṃ vedhakāstathā |

77.2७७.२

बन्धकाश्च पशूनां ये ते वै निरयगामिनः ॥ (७७।२)

bandhakāśca paśūnāṃ ye te vai nirayagāminaḥ ||

78.1७८.१

अगोप्तारश्छलद्रव्या बलिषड्भागतत्पराः । (७८।१)

agoptāraśchaladravyā baliṣaḍbhāgatatparāḥ |

78.2७८.२

समर्थाश्चाप्यदातारस्ते वै निरयगामिनः ॥ (७८।२)

samarthāścāpyadātāraste vai nirayagāminaḥ ||

79.1७९.१

क्षान्तान् दान्तांस्तथा प्राज्ञान् दीर्घकालं सहोषितान् । (७९।१)

kṣāntān dāntāṃstathā prājñān dīrghakālaṃ sahoṣitān |

79.2७९.२

त्यजन्ति कृतकृत्या ये ते वै निरयगामिनः ॥ (७९।२)

tyajanti kṛtakṛtyā ye te vai nirayagāminaḥ ||

80.1८०.१

बालानाम् अथ वृद्धानां दासानां चैव ये नराः । (८०।१)

bālānām atha vṛddhānāṃ dāsānāṃ caiva ye narāḥ |

80.2८०.२

अदत्त्वा भक्षयन्त्यग्रे ते वै निरयगामिनः ॥ (८०।२)

adattvā bhakṣayantyagre te vai nirayagāminaḥ ||

81.1८१.१

एते पूर्वर्षिभिर् दृष्टाः प्रोक्ता निरयगामिनः । (८१।१)

ete pūrvarṣibhir dṛṣṭāḥ proktā nirayagāminaḥ |

81.2८१.२

भागिनः स्वर्गलोकस्य वक्ष्यामि भरतर्षभ ॥ (८१।२)

bhāginaḥ svargalokasya vakṣyāmi bharatarṣabha ||

82.1८२.१

सर्वेष्वेव तु कार्येषु दैवपूर्वेषु भारत । (८२।१)

sarveṣveva tu kāryeṣu daivapūrveṣu bhārata |

82.2८२.२

हन्ति पुत्रान् पशून् कृत्स्नान् ब्राह्मणातिक्रमः कृतः ॥ (८२।२)

hanti putrān paśūn kṛtsnān brāhmaṇātikramaḥ kṛtaḥ ||

83.1८३.१

दानेन तपसा चैव सत्येन च युधिष्ठिर । (८३।१)

dānena tapasā caiva satyena ca yudhiṣṭhira |

83.2८३.२

ये धर्मम् अनुवर्तन्ते ते नराः स्वर्गगामिनः ॥ (८३।२)

ye dharmam anuvartante te narāḥ svargagāminaḥ ||

84.1८४.१

शुश्रूषाभिस्तपोभिश्च श्रुतम् आदाय भारत । (८४।१)

śuśrūṣābhistapobhiśca śrutam ādāya bhārata |

84.2८४.२

ये प्रतिग्रहनिःस्नेहास्ते नराः स्वर्गगामिनः ॥ (८४।२)

ye pratigrahaniḥsnehāste narāḥ svargagāminaḥ ||

85.1८५.१

भयात् पापात् तथाबाधाद् दारिद्र्याद् व्याधिधर्षणात् । (८५।१)

bhayāt pāpāt tathābādhād dāridryād vyādhidharṣaṇāt |

85.2८५.२

यत्कृते प्रतिमुच्यन्ते ते नराः स्वर्गगामिनः ॥ (८५।२)

yatkṛte pratimucyante te narāḥ svargagāminaḥ ||

86.1८६.१

क्षमावन्तश्च धीराश्च धर्मकार्येषु चोत्थिताः । (८६।१)

kṣamāvantaśca dhīrāśca dharmakāryeṣu cotthitāḥ |

86.2८६.२

मङ्गलाचारयुक्ताश्च ते नराः स्वर्गगामिनः ॥ (८६।२)

maṅgalācārayuktāśca te narāḥ svargagāminaḥ ||

87.1८७.१

निवृत्ता मधुमांसेभ्यः परदारेभ्य एव च । (८७।१)

nivṛttā madhumāṃsebhyaḥ paradārebhya eva ca |

87.2८७.२

निवृत्ताश्चैव मद्येभ्यस्ते नराः स्वर्गगामिनः ॥ (८७।२)

nivṛttāścaiva madyebhyaste narāḥ svargagāminaḥ ||

88.1८८.१

आश्रमाणां च कर्तारः कुलानां चैव भारत । (८८।१)

āśramāṇāṃ ca kartāraḥ kulānāṃ caiva bhārata |

88.2८८.२

देशानां नगराणां च ते नराः स्वर्गगामिनः ॥ (८८।२)

deśānāṃ nagarāṇāṃ ca te narāḥ svargagāminaḥ ||

89.1८९.१

वस्त्राभरणदातारो भक्षपानान्नदास्तथा । (८९।१)

vastrābharaṇadātāro bhakṣapānānnadāstathā |

89.2८९.२

कुटुम्बानां च दातारस्ते नराः स्वर्गगामिनः ॥ (८९।२)

kuṭumbānāṃ ca dātāraste narāḥ svargagāminaḥ ||

90.1९०.१

सर्वहिंसानिवृत्ताश्च नराः सर्वसहाश्च ये । (९०।१)

sarvahiṃsānivṛttāśca narāḥ sarvasahāśca ye |

90.2९०.२

सर्वस्याश्रयभूताश्च ते नराः स्वर्गगामिनः ॥ (९०।२)

sarvasyāśrayabhūtāśca te narāḥ svargagāminaḥ ||

91.1९१.१

मातरं पितरं चैव शुश्रूषन्ति जितेन्द्रियाः । (९१।१)

mātaraṃ pitaraṃ caiva śuśrūṣanti jitendriyāḥ |

91.2९१.२

भ्रातॄणां चैव सस्नेहास्ते नराः स्वर्गगामिनः ॥ (९१।२)

bhrātṝṇāṃ caiva sasnehāste narāḥ svargagāminaḥ ||

92.1९२.१

आढ्याश्च बलवन्तश्च यौवनस्थाश्च भारत । (९२।१)

āḍhyāśca balavantaśca yauvanasthāśca bhārata |

92.2९२.२

ये वै जितेन्द्रिया धीरास्ते नराः स्वर्गगामिनः ॥ (९२।२)

ye vai jitendriyā dhīrāste narāḥ svargagāminaḥ ||

93.1९३.१

अपराद्धेषु सस्नेहा मृदवो मित्रवत्सलाः । (९३।१)

aparāddheṣu sasnehā mṛdavo mitravatsalāḥ |

93.2९३.२

आराधनसुखाश्चापि ते नराः स्वर्गगामिनः ॥ (९३।२)

ārādhanasukhāścāpi te narāḥ svargagāminaḥ ||

94.1९४.१

सहस्रपरिवेष्टारस्तथैव च सहस्रदाः । (९४।१)

sahasrapariveṣṭārastathaiva ca sahasradāḥ |

94.2९४.२

त्रातारश्च सहस्राणां पुरुषाः स्वर्गगामिनः ॥ (९४।२)

trātāraśca sahasrāṇāṃ puruṣāḥ svargagāminaḥ ||

95.1९५.१

सुवर्णस्य च दातारो गवां च भरतर्षभ । (९५।१)

suvarṇasya ca dātāro gavāṃ ca bharatarṣabha |

95.2९५.२

यानानां वाहनानां च ते नराः स्वर्गगामिनः ॥ (९५।२)

yānānāṃ vāhanānāṃ ca te narāḥ svargagāminaḥ ||

96.1९६.१

वैवाहिकानां कन्यानां प्रेष्याणां च युधिष्ठिर । (९६।१)

vaivāhikānāṃ kanyānāṃ preṣyāṇāṃ ca yudhiṣṭhira |

96.2९६.२

दातारो वाससां चैव ते नराः स्वर्गगामिनः ॥ (९६।२)

dātāro vāsasāṃ caiva te narāḥ svargagāminaḥ ||

97.1९७.१

विहारावसथोद्यानकूपारामसभाप्रदाः । (९७।१)

vihārāvasathodyānakūpārāmasabhāpradāḥ |

97.2९७.२

वप्राणां चैव कर्तारस्ते नराः स्वर्गगामिनः ॥ (९७।२)

vaprāṇāṃ caiva kartāraste narāḥ svargagāminaḥ ||

98.1९८.१

निवेशनानां क्षेत्राणां वसतीनां च भारत । (९८।१)

niveśanānāṃ kṣetrāṇāṃ vasatīnāṃ ca bhārata |

98.2९८.२

दातारः प्रार्थितानां च ते नराः स्वर्गगामिनः ॥ (९८।२)

dātāraḥ prārthitānāṃ ca te narāḥ svargagāminaḥ ||

99.1९९.१

रसानाम् अथ बीजानां धान्यानां च युधिष्ठिर । (९९।१)

rasānām atha bījānāṃ dhānyānāṃ ca yudhiṣṭhira |

99.2९९.२

स्वयम् उत्पाद्य दातारः पुरुषाः स्वर्गगामिनः ॥ (९९।२)

svayam utpādya dātāraḥ puruṣāḥ svargagāminaḥ ||

100.1१००.१

यस्मिन् कस्मिन् कुले जाता बहुपुत्राः शतायुषः । (१००।१)

yasmin kasmin kule jātā bahuputrāḥ śatāyuṣaḥ |

100.2१००.२

सानुक्रोशा जितक्रोधाः पुरुषाः स्वर्गगामिनः ॥ (१००।२)

sānukrośā jitakrodhāḥ puruṣāḥ svargagāminaḥ ||

101.1१०१.१

एतद् उक्तम् अमुत्रार्थं दैवं पित्र्यं च भारत । (१०१।१)

etad uktam amutrārthaṃ daivaṃ pitryaṃ ca bhārata |

101.2१०१.२

धर्माधर्मौ च दानस्य यथा पूर्वर्षिभिः कृतौ ॥ (१०१।२)

dharmādharmau ca dānasya yathā pūrvarṣibhiḥ kṛtau ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 13, 24

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit