MBh, 8, 12
Select a line for its word-by-word analysis.
यथा संशप्तकैः सार्धम् अर्जुनस्याभवद् रणः । (१।२)
yathā saṃśaptakaiḥ sārdham arjunasyābhavad raṇaḥ |
अन्येषां च मदीयानां पाण्डवैस् तद् ब्रवीहि मे ॥ (१।३)
anyeṣāṃ ca madīyānāṃ pāṇḍavais tad bravīhi me ||
शृणु राजन् यथावृत्तं संग्रामं ब्रुवतो मम । (२।२)
śṛṇu rājan yathāvṛttaṃ saṃgrāmaṃ bruvato mama |
वीराणां शत्रुभिः सार्धं देहपाप्मप्रणाशनम् ॥ (२।३)
vīrāṇāṃ śatrubhiḥ sārdhaṃ dehapāpmapraṇāśanam ||
पार्थः संशप्तकगणं प्रविश्यार्णवसंनिभम् । (३।१)
pārthaḥ saṃśaptakagaṇaṃ praviśyārṇavasaṃnibham |
शिरांस्य् उन्मथ्य वीराणां शितैर् भल्लैर् धनंजयः । (४।१)
śirāṃsy unmathya vīrāṇāṃ śitair bhallair dhanaṃjayaḥ |
पूर्णचन्द्राभवक्त्राणि स्वक्षिभ्रूदशनानि च । (४।२)
pūrṇacandrābhavaktrāṇi svakṣibhrūdaśanāni ca |
संतस्तार क्षितिं क्षिप्रं विनालैर् नलिनैर् इव ॥ (४।३)
saṃtastāra kṣitiṃ kṣipraṃ vinālair nalinair iva ||
सुवृत्तान् आयतान् पुष्टांश् चन्दनागुरुभूषितान् । (५।१)
suvṛttān āyatān puṣṭāṃś candanāgurubhūṣitān |
सायुधान् सतनुत्राणान् पञ्चास्योरगसंनिभान् । (५।२)
sāyudhān satanutrāṇān pañcāsyoragasaṃnibhān |
बाहून् क्षुरैर् अमित्राणां विचकर्तार्जुनो रणे ॥ (५।३)
bāhūn kṣurair amitrāṇāṃ vicakartārjuno raṇe ||
धुर्यान् धुर्यतरान् सूतान् ध्वजांश् चापानि सायकान् । (६।१)
dhuryān dhuryatarān sūtān dhvajāṃś cāpāni sāyakān |
पाणीन् अरत्नीन् असकृद् भल्लैश् चिछेद पाण्डवः ॥ (६।२)
pāṇīn aratnīn asakṛd bhallaiś cicheda pāṇḍavaḥ ||
द्विपान् हयान् रथांश् चैव सारोहान् अर्जुनो रणे । (७।१)
dvipān hayān rathāṃś caiva sārohān arjuno raṇe |
वाशितार्थम् अभिक्रुद्धा हुंकृत्वा चाभिदुद्रुवुः । (८।२)
vāśitārtham abhikruddhā huṃkṛtvā cābhidudruvuḥ |
निघ्नन्तम् अभिजघ्नुस् ते शरैः शृङ्गैर् इवर्षभाः ॥ (८।३)
nighnantam abhijaghnus te śaraiḥ śṛṅgair ivarṣabhāḥ ||
तस्य तेषां च तद् युद्धम् अभवल् लोमहर्षणम् । (९।१)
tasya teṣāṃ ca tad yuddham abhaval lomaharṣaṇam |
त्रैलोक्यविजये यादृग् दैत्यानां सह वज्रिणा ॥ (९।२)
trailokyavijaye yādṛg daityānāṃ saha vajriṇā ||
अस्त्रैर् अस्त्राणि संवार्य द्विषतां सर्वतो ऽर्जुनः । (१०।१)
astrair astrāṇi saṃvārya dviṣatāṃ sarvato 'rjunaḥ |
इषुभिर् बहुभिस् तूर्णं विद्ध्वा प्राणान् ररास सः ॥ (१०।२)
iṣubhir bahubhis tūrṇaṃ viddhvā prāṇān rarāsa saḥ ||
छिन्नत्रिवेणुचक्राक्षान् हतयोधाश्वसारथीन् । (११।१)
chinnatriveṇucakrākṣān hatayodhāśvasārathīn |
संछिन्नयोक्त्ररश्मीकान् वित्रिवेणून् विकूबरान् । (१२।१)
saṃchinnayoktraraśmīkān vitriveṇūn vikūbarān |
विध्वस्तबन्धुरयुगान् विशस्तायुधमण्डलान् । (१२।२)
vidhvastabandhurayugān viśastāyudhamaṇḍalān |
विस्मापयन् प्रेक्षणीयं द्विषतां भयवर्धनम् । (१३।१)
vismāpayan prekṣaṇīyaṃ dviṣatāṃ bhayavardhanam |
सिद्धदेवर्षिसंघाश् च चारणाश् चैव तुष्टुवुः । (१४।१)
siddhadevarṣisaṃghāś ca cāraṇāś caiva tuṣṭuvuḥ |
केशवार्जुनयोर् मूर्ध्नि प्राह वाक् चाशरीरिणी ॥ (१४।३)
keśavārjunayor mūrdhni prāha vāk cāśarīriṇī ||
चन्द्रार्कानिलवह्नीनां कान्तिदीप्तिबलद्युतीः । (१५।१)
candrārkānilavahnīnāṃ kāntidīptibaladyutīḥ |
यौ सदा बिभ्रतुर् वीरौ ताव् इमौ केशवार्जुनौ ॥ (१५।२)
yau sadā bibhratur vīrau tāv imau keśavārjunau ||
ब्रह्मेशानाव् इवाजय्यौ वीराव् एकरथे स्थितौ । (१६।१)
brahmeśānāv ivājayyau vīrāv ekarathe sthitau |
इत्य् एतन् महद् आश्चर्यं दृष्ट्वा श्रुत्वा च भारत । (१७।१)
ity etan mahad āścaryaṃ dṛṣṭvā śrutvā ca bhārata |
अश्वत्थामा सुसंयत्तः कृष्णाव् अभ्यद्रवद् रणे ॥ (१७।२)
aśvatthāmā susaṃyattaḥ kṛṣṇāv abhyadravad raṇe ||
अथ पाण्डवम् अस्यन्तं यमकालान्तकाञ् शरान् । (१८।१)
atha pāṇḍavam asyantaṃ yamakālāntakāñ śarān |
सेषुणा पाणिनाहूय हसन् द्रौणिर् अथाब्रवीत् ॥ (१८।२)
seṣuṇā pāṇināhūya hasan drauṇir athābravīt ||
यदि मां मन्यसे वीर प्राप्तम् अर्हम् इवातिथिम् । (१९।१)
yadi māṃ manyase vīra prāptam arham ivātithim |
ततः सर्वात्मनाद्य त्वं युद्धातिथ्यं प्रयच्छ मे ॥ (१९।२)
tataḥ sarvātmanādya tvaṃ yuddhātithyaṃ prayaccha me ||
बहु मेने ऽर्जुनो ऽऽत्मानम् इदं चाह जनार्दनम् ॥ (२०।२)
bahu mene 'rjuno ''tmānam idaṃ cāha janārdanam ||
संशप्तकाश् च मे वध्या द्रौणिर् आह्वयते च माम् । (२१।१)
saṃśaptakāś ca me vadhyā drauṇir āhvayate ca mām |
यद् अत्रानन्तरं प्राप्तं प्रशाधि त्वं महाभुज ॥ (२१।२)
yad atrānantaraṃ prāptaṃ praśādhi tvaṃ mahābhuja ||
एवम् उक्तो ऽवहत् पार्थं कृष्णो द्रोणात्मजान्तिकम् । (२२।१)
evam ukto 'vahat pārthaṃ kṛṣṇo droṇātmajāntikam |
जैत्रेण विधिनाहूतं वायुर् इन्द्रम् इवाध्वरे ॥ (२२।२)
jaitreṇa vidhināhūtaṃ vāyur indram ivādhvare ||
तम् आमन्त्र्यैकमनसा केशवो द्रौणिम् अब्रवीत् । (२३।१)
tam āmantryaikamanasā keśavo drauṇim abravīt |
अश्वत्थामन् स्थिरो भूत्वा प्रहराशु सहस्व च ॥ (२३।२)
aśvatthāman sthiro bhūtvā praharāśu sahasva ca ||
निर्वेष्टुं भर्तृपिण्डं हि कालो ऽयम् उपजीविनाम् । (२४।१)
nirveṣṭuṃ bhartṛpiṇḍaṃ hi kālo 'yam upajīvinām |
सूक्ष्मो विवादो विप्राणां स्थूलौ क्षात्रौ जयाजयौ ॥ (२४।२)
sūkṣmo vivādo viprāṇāṃ sthūlau kṣātrau jayājayau ||
यां न संक्षमसे मोहाद् दिव्यां पार्थस्य सत्क्रियाम् । (२५।१)
yāṃ na saṃkṣamase mohād divyāṃ pārthasya satkriyām |
ताम् आप्तुम् इच्छन् युध्यस्व स्थिरो भूत्वाद्य पाण्डवम् ॥ (२५।२)
tām āptum icchan yudhyasva sthiro bhūtvādya pāṇḍavam ||
इत्य् उक्तो वासुदेवेन तथेत्य् उक्त्वा द्विजोत्तमः । (२६।१)
ity ukto vāsudevena tathety uktvā dvijottamaḥ |
विव्याध केशवं षष्ट्या नाराचैर् अर्जुनं त्रिभिः ॥ (२६।२)
vivyādha keśavaṃ ṣaṣṭyā nārācair arjunaṃ tribhiḥ ||
तस्यार्जुनः सुसंक्रुद्धस् त्रिभिर् भल्लैः शरासनम् । (२७।१)
tasyārjunaḥ susaṃkruddhas tribhir bhallaiḥ śarāsanam |
चिछेदाथान्यद् आदत्त द्रौणिर् घोरतरं धनुः ॥ (२७।२)
cichedāthānyad ādatta drauṇir ghorataraṃ dhanuḥ ||
सज्यं कृत्वा निमेषात् तद् विव्याधार्जुनकेशवौ । (२८।१)
sajyaṃ kṛtvā nimeṣāt tad vivyādhārjunakeśavau |
त्रिभिः शरैर् वासुदेवं सहस्रेण च पाण्डवम् ॥ (२८।२)
tribhiḥ śarair vāsudevaṃ sahasreṇa ca pāṇḍavam ||
ससृजे द्रौणिर् आयस्तः संस्तभ्य च रणे ऽर्जुनम् ॥ (२९।२)
sasṛje drauṇir āyastaḥ saṃstabhya ca raṇe 'rjunam ||
इषुधेर् धनुषो ज्याया अङ्गुलीभ्यश् च मारिष । (३०।१)
iṣudher dhanuṣo jyāyā aṅgulībhyaś ca māriṣa |
बाह्वोः कराभ्याम् उरसो वदनघ्राणनेत्रतः ॥ (३०।२)
bāhvoḥ karābhyām uraso vadanaghrāṇanetrataḥ ||
कर्णाभ्यां शिरसो ऽङ्गेभ्यो लोमवर्त्मभ्य एव च । (३१।१)
karṇābhyāṃ śiraso 'ṅgebhyo lomavartmabhya eva ca |
रथध्वजेभ्यश् च शरा निष्पेतुर् ब्रह्मवादिनः ॥ (३१।२)
rathadhvajebhyaś ca śarā niṣpetur brahmavādinaḥ ||
तस्य नानदतः श्रुत्वा पाण्डवो ऽच्युतम् अब्रवीत् । (३३।१)
tasya nānadataḥ śrutvā pāṇḍavo 'cyutam abravīt |
पश्य माधव दौरात्म्यं द्रोणपुत्रस्य मां प्रति ॥ (३३।२)
paśya mādhava daurātmyaṃ droṇaputrasya māṃ prati ||
वधप्राप्तौ मन्यते नौ प्रवेश्य शरवेश्मनि । (३४।१)
vadhaprāptau manyate nau praveśya śaraveśmani |
एषो ऽस्य हन्मि संकल्पं शिक्षया च बलेन च ॥ (३४।२)
eṣo 'sya hanmi saṃkalpaṃ śikṣayā ca balena ca ||
अश्वत्थाम्नः शरान् अस्तांश् छित्त्वैकैकं त्रिधा त्रिधा । (३५।१)
aśvatthāmnaḥ śarān astāṃś chittvaikaikaṃ tridhā tridhā |
व्यधमद् भरतश्रेष्ठो नीहारम् इव मारुतः ॥ (३५।२)
vyadhamad bharataśreṣṭho nīhāram iva mārutaḥ ||
ततः संशप्तकान् भूयः साश्वसूतरथद्विपान् । (३६।१)
tataḥ saṃśaptakān bhūyaḥ sāśvasūtarathadvipān |
ध्वजपत्तिगणान् उग्रैर् बाणैर् विव्याध पाण्डवः ॥ (३६।२)
dhvajapattigaṇān ugrair bāṇair vivyādha pāṇḍavaḥ ||
ये ये ददृशिरे तत्र यद् यद् रूपं यथा यथा । (३७।१)
ye ye dadṛśire tatra yad yad rūpaṃ yathā yathā |
ते ते तत् तच्छरैर् व्याप्तं मेनिरे ऽऽत्मानम् एव च ॥ (३७।२)
te te tat taccharair vyāptaṃ menire ''tmānam eva ca ||
क्रोशे साग्रे स्थितान् घ्नन्ति द्विपांश् च पुरुषान् रणे ॥ (३८।२)
krośe sāgre sthitān ghnanti dvipāṃś ca puruṣān raṇe ||
भल्लैश् छिन्नाः कराः पेतुः करिणां मदकर्षिणाम् । (३९।१)
bhallaiś chinnāḥ karāḥ petuḥ kariṇāṃ madakarṣiṇām |
छिन्ना यथा परशुभिः प्रवृद्धाः शरदि द्रुमाः ॥ (३९।२)
chinnā yathā paraśubhiḥ pravṛddhāḥ śaradi drumāḥ ||
पश्चात् तु शैलवत् पेतुस् ते गजाः सह सादिभिः । (४०।१)
paścāt tu śailavat petus te gajāḥ saha sādibhiḥ |
गन्धर्वनगराकारान् विधिवत् कल्पितान् रथान् । (४१।१)
gandharvanagarākārān vidhivat kalpitān rathān |
विनीतजवनान्य् उक्तान् आस्थितान् युद्धदुर्मदान् ॥ (४१।२)
vinītajavanāny uktān āsthitān yuddhadurmadān ||
शरैर् विशकलीकुर्वन्न् अमित्रान् अभ्यवीवृषत् । (४२।१)
śarair viśakalīkurvann amitrān abhyavīvṛṣat |
अलंकृतान् अश्वसादीन् पत्तींश् चाहन् धनंजयः ॥ (४२।२)
alaṃkṛtān aśvasādīn pattīṃś cāhan dhanaṃjayaḥ ||
व्यशोषयत दुःशोषं तीव्रैः शरगभस्तिभिः ॥ (४३।२)
vyaśoṣayata duḥśoṣaṃ tīvraiḥ śaragabhastibhiḥ ||
पुनर् द्रौणिमहाशैलं नाराचैः सूर्यसंनिभैः । (४४।१)
punar drauṇimahāśailaṃ nārācaiḥ sūryasaṃnibhaiḥ |
निर्बिभेद महावेगैस् त्वरन् वज्रीव पर्वतम् ॥ (४४।२)
nirbibheda mahāvegais tvaran vajrīva parvatam ||
तम् आचार्यसुतः क्रुद्धः साश्वयन्तारम् आशुगैः । (४५।१)
tam ācāryasutaḥ kruddhaḥ sāśvayantāram āśugaiḥ |
युयुत्सुर् नाशकद् योद्धुं पार्थस् तान् अन्तराच्छिनत् ॥ (४५।२)
yuyutsur nāśakad yoddhuṃ pārthas tān antarācchinat ||
ततः परमसंक्रुद्धः काण्डकोशान् अवासृजत् । (४६।१)
tataḥ paramasaṃkruddhaḥ kāṇḍakośān avāsṛjat |
अथ संशप्तकांस् त्यक्त्वा पाण्डवो द्रौणिम् अभ्ययात् । (४७।१)
atha saṃśaptakāṃs tyaktvā pāṇḍavo drauṇim abhyayāt |
अपाङ्क्तेयम् इव त्यक्त्वा दाता पाङ्क्तेयम् अर्थिनम् ॥ (४७।२)
apāṅkteyam iva tyaktvā dātā pāṅkteyam arthinam ||
ततः समभवद् युद्धं शुक्राङ्गिरसवर्चसोः । (४८।१)
tataḥ samabhavad yuddhaṃ śukrāṅgirasavarcasoḥ |
नक्षत्रम् अभितो व्योम्नि शुक्राङ्गिरसयोर् इव ॥ (४८।२)
nakṣatram abhito vyomni śukrāṅgirasayor iva ||
संतापयन्ताव् अन्योन्यं दीप्तैः शरगभस्तिभिः । (४९।१)
saṃtāpayantāv anyonyaṃ dīptaiḥ śaragabhastibhiḥ |
लोकत्रासकराव् आस्तां विमार्गस्थौ ग्रहाव् इव ॥ (४९।२)
lokatrāsakarāv āstāṃ vimārgasthau grahāv iva ||
ततो ऽविध्यद् भ्रुवोर् मध्ये नाराचेनार्जुनो भृशम् । (५०।१)
tato 'vidhyad bhruvor madhye nārācenārjuno bhṛśam |
स तेन विबभौ द्रौणिर् ऊर्ध्वरश्मिर् यथा रविः ॥ (५०।२)
sa tena vibabhau drauṇir ūrdhvaraśmir yathā raviḥ ||
अथ कृष्णौ शरशतैर् अश्वत्थाम्नार्दितौ भृशम् । (५१।१)
atha kṛṣṇau śaraśatair aśvatthāmnārditau bhṛśam |
ततो ऽर्जुनः सर्वतोधारम् अस्त्रम् अवासृजद् वासुदेवाभिगुप्तः । (५२।१)
tato 'rjunaḥ sarvatodhāram astram avāsṛjad vāsudevābhiguptaḥ |
द्रौणायनिं चाभ्यहनत् पृषत्कैर् वज्राग्निवैवस्वतदण्डकल्पैः ॥ (५२।२)
drauṇāyaniṃ cābhyahanat pṛṣatkair vajrāgnivaivasvatadaṇḍakalpaiḥ ||
स केशवं चार्जुनं चातितेजा विव्याध मर्मस्व् अतिरौद्रकर्मा । (५३।१)
sa keśavaṃ cārjunaṃ cātitejā vivyādha marmasv atiraudrakarmā |
बाणैः सुमुक्तैर् अतितीव्रवेगैर् यैर् आहतो मृत्युर् अपि व्यथेत ॥ (५३।२)
bāṇaiḥ sumuktair atitīvravegair yair āhato mṛtyur api vyatheta ||
द्रौणेर् इषून् अर्जुनः संनिवार्य व्यायच्छतस् तद् द्विगुणैः सुपुङ्खैः । (५४।१)
drauṇer iṣūn arjunaḥ saṃnivārya vyāyacchatas tad dviguṇaiḥ supuṅkhaiḥ |
तं साश्वसूतध्वजम् एकवीरम् आवृत्य संशप्तकसैन्यम् आर्छत् ॥ (५४।२)
taṃ sāśvasūtadhvajam ekavīram āvṛtya saṃśaptakasainyam ārchat ||
धनूंषि बाणान् इषुधीर् धनुर्ज्याः पाणीन् भुजान् पाणिगतं च शस्त्रम् । (५५।१)
dhanūṃṣi bāṇān iṣudhīr dhanurjyāḥ pāṇīn bhujān pāṇigataṃ ca śastram |
छत्राणि केतूंस् तुरगान् अथैषां वस्त्राणि माल्यान्य् अथ भूषणानि ॥ (५५।२)
chatrāṇi ketūṃs turagān athaiṣāṃ vastrāṇi mālyāny atha bhūṣaṇāni ||
चर्माणि वर्माणि मनोरथांश् च प्रियाणि सर्वाणि शिरांसि चैव । (५६।१)
carmāṇi varmāṇi manorathāṃś ca priyāṇi sarvāṇi śirāṃsi caiva |
चिछेद पार्थो द्विषतां प्रमुक्तैर् बाणैः स्थितानाम् अपराङ्मुखानाम् ॥ (५६।२)
cicheda pārtho dviṣatāṃ pramuktair bāṇaiḥ sthitānām aparāṅmukhānām ||
सुकल्पिताः स्यन्दनवाजिनागाः समास्थिताः कृतयत्नैर् नृवीरैः । (५७।१)
sukalpitāḥ syandanavājināgāḥ samāsthitāḥ kṛtayatnair nṛvīraiḥ |
पार्थेरितैर् बाणगणैर् निरस्तास् तैर् एव सार्धं नृवरैर् निपेतुः ॥ (५७।२)
pārtheritair bāṇagaṇair nirastās tair eva sārdhaṃ nṛvarair nipetuḥ ||
पद्मार्कपूर्णेन्दुसमाननानि किरीटमालामुकुटोत्कटानि । (५८।१)
padmārkapūrṇendusamānanāni kirīṭamālāmukuṭotkaṭāni |
भल्लार्धचन्द्रक्षुरहिंसितानि प्रपेतुर् उर्व्यां नृशिरांस्य् अजस्रम् ॥ (५८।२)
bhallārdhacandrakṣurahiṃsitāni prapetur urvyāṃ nṛśirāṃsy ajasram ||
अथ द्विपैर् देवपतिद्विपाभैर् देवारिदर्पोल्बणमन्युदर्पैः । (५९।१)
atha dvipair devapatidvipābhair devāridarpolbaṇamanyudarpaiḥ |
कलिङ्गवङ्गाङ्गनिषादवीरा जिघांसवः पाण्डवम् अभ्यधावन् ॥ (५९।२)
kaliṅgavaṅgāṅganiṣādavīrā jighāṃsavaḥ pāṇḍavam abhyadhāvan ||
तेषां द्विपानां विचकर्त पार्थो वर्माणि मर्माणि करान् नियन्तॄन् । (६०।१)
teṣāṃ dvipānāṃ vicakarta pārtho varmāṇi marmāṇi karān niyantṝn |
ध्वजाः पताकाश् च ततः प्रपेतुर् वज्राहतानीव गिरेः शिरांसि ॥ (६०।२)
dhvajāḥ patākāś ca tataḥ prapetur vajrāhatānīva gireḥ śirāṃsi ||
तेषु प्ररुग्णेषु गुरोस् तनूजं बाणैः किरीटी नवसूर्यवर्णैः । (६१।१)
teṣu prarugṇeṣu guros tanūjaṃ bāṇaiḥ kirīṭī navasūryavarṇaiḥ |
प्रच्छादयामास महाभ्रजालैर् वायुः समुद्युक्तम् इवांशुमन्तम् ॥ (६१।२)
pracchādayāmāsa mahābhrajālair vāyuḥ samudyuktam ivāṃśumantam ||
ततो ऽर्जुनेषून् इषुभिर् निरस्य द्रौणिः शरैर् अर्जुनवासुदेवौ । (६२।१)
tato 'rjuneṣūn iṣubhir nirasya drauṇiḥ śarair arjunavāsudevau |
प्रच्छादयित्वा दिवि चन्द्रसूर्यौ ननाद सो ऽम्भोद इवातपान्ते ॥ (६२।२)
pracchādayitvā divi candrasūryau nanāda so 'mbhoda ivātapānte ||
तम् अर्जुनस् तांश् च पुनस् त्वदीयान् अभ्यर्दितस् तैर् अविकृत्तशस्त्रैः । (६३।१)
tam arjunas tāṃś ca punas tvadīyān abhyarditas tair avikṛttaśastraiḥ |
बाणान्धकारं सहसैव कृत्वा विव्याध सर्वान् इषुभिः सुपुङ्खैः ॥ (६३।२)
bāṇāndhakāraṃ sahasaiva kṛtvā vivyādha sarvān iṣubhiḥ supuṅkhaiḥ ||
नाप्य् आददत् संदधन् नैव मुञ्चन् बाणान् रणे ऽदृश्यत सव्यसाची । (६४।१)
nāpy ādadat saṃdadhan naiva muñcan bāṇān raṇe 'dṛśyata savyasācī |
हतांश् च नागांस् तुरगान् पदातीन् संस्यूतदेहान् ददृशू रथांश् च ॥ (६४।२)
hatāṃś ca nāgāṃs turagān padātīn saṃsyūtadehān dadṛśū rathāṃś ca ||
संधाय नाराचवरान् दशाशु द्रौणिस् त्वरन्न् एकम् इवोत्ससर्ज । (६५।१)
saṃdhāya nārācavarān daśāśu drauṇis tvarann ekam ivotsasarja |
तेषां च पञ्चार्जुनम् अभ्यविध्यन् पञ्चाच्युतं निर्बिभिदुः सुमुक्ताः ॥ (६५।२)
teṣāṃ ca pañcārjunam abhyavidhyan pañcācyutaṃ nirbibhiduḥ sumuktāḥ ||
तैर् आहतौ सर्वमनुष्यमुख्याव् असृक्क्षरन्तौ धनदेन्द्रकल्पौ । (६६।१)
tair āhatau sarvamanuṣyamukhyāv asṛkkṣarantau dhanadendrakalpau |
समाप्तविद्येन यथाभिभूतौ हतौ स्विद् एतौ किम् उ मेनिरे ऽन्ये ॥ (६६।२)
samāptavidyena yathābhibhūtau hatau svid etau kim u menire 'nye ||
अथार्जुनं प्राह दशार्हनाथः प्रमाद्यसे किं जहि योधम् एतम् । (६७।१)
athārjunaṃ prāha daśārhanāthaḥ pramādyase kiṃ jahi yodham etam |
कुर्याद्धि दोषं समुपेक्षितो ऽसौ कष्टो भवेद् व्याधिर् इवाक्रियावान् ॥ (६७।२)
kuryāddhi doṣaṃ samupekṣito 'sau kaṣṭo bhaved vyādhir ivākriyāvān ||
तथेति चोक्त्वाच्युतम् अप्रमादी द्रौणिं प्रयत्नाद् इषुभिस् ततक्ष । (६८।१)
tatheti coktvācyutam apramādī drauṇiṃ prayatnād iṣubhis tatakṣa |
छित्त्वाश्वरश्मींस् तुरगान् अविध्यत् ते तं रणाद् ऊहुर् अतीव दूरम् ॥ (६८।२)
chittvāśvaraśmīṃs turagān avidhyat te taṃ raṇād ūhur atīva dūram ||
आवृत्य नेयेष पुनस् तु युद्धं पार्थेन सार्धं मतिमान् विमृश्य । (६९।१)
āvṛtya neyeṣa punas tu yuddhaṃ pārthena sārdhaṃ matimān vimṛśya |
जानञ् जयं नियतं वृष्णिवीरे धनंजये चाङ्गिरसां वरिष्ठः ॥ (६९।२)
jānañ jayaṃ niyataṃ vṛṣṇivīre dhanaṃjaye cāṅgirasāṃ variṣṭhaḥ ||
प्रतीपकाये तु रणाद् अश्वत्थाम्नि हृते हयैः । (७०।१)
pratīpakāye tu raṇād aśvatthāmni hṛte hayaiḥ |
मन्त्रौषधिक्रियादानैर् व्याधौ देहाद् इवाहृते ॥ (७०।२)
mantrauṣadhikriyādānair vyādhau dehād ivāhṛte ||
संशप्तकान् अभिमुखौ प्रयातौ केशवार्जुनौ । (७१।१)
saṃśaptakān abhimukhau prayātau keśavārjunau |
Data courtesy of The Digital Corpus of Sanskrit.