MBh, 2, 47
Select a line for its word-by-word analysis.
यन्मया पाण्डवानां तु दृष्टं तच्छृणु भारत । (१।२)
yanmayā pāṇḍavānāṃ tu dṛṣṭaṃ tacchṛṇu bhārata |
आहृतं भूमिपालैर् हि वसु मुख्यं ततस्ततः ॥ (१।३)
āhṛtaṃ bhūmipālair hi vasu mukhyaṃ tatastataḥ ||
न विन्दे दृढम् आत्मानं दृष्ट्वाहं तद् अरेर् धनम् । (२।१)
na vinde dṛḍham ātmānaṃ dṛṣṭvāhaṃ tad arer dhanam |
ऐडांश्चैलान् वार्षदंशाञ् जातरूपपरिष्कृतान् । (३।१)
aiḍāṃścailān vārṣadaṃśāñ jātarūpapariṣkṛtān |
प्रावाराजिनमुख्यांश्च काम्बोजः प्रददौ वसु ॥ (३।२)
prāvārājinamukhyāṃśca kāmbojaḥ pradadau vasu ||
अश्वांस्तित्तिरिकल्माषांस्त्रिशतं शुकनासिकान् । (४।१)
aśvāṃstittirikalmāṣāṃstriśataṃ śukanāsikān |
उष्ट्रवामीस्त्रिशतं च पुष्टाः पीलुशमीङ्गुदैः ॥ (४।२)
uṣṭravāmīstriśataṃ ca puṣṭāḥ pīluśamīṅgudaiḥ ||
प्रीत्यर्थं ते महाभागा धर्मराज्ञो महात्मनः । (५।२)
prītyarthaṃ te mahābhāgā dharmarājño mahātmanaḥ |
त्रिखर्वं बलिम् आदाय द्वारि तिष्ठन्ति वारिताः ॥ (५।३)
trikharvaṃ balim ādāya dvāri tiṣṭhanti vāritāḥ ||
श्यामास्तन्व्यो दीर्घकेश्यो हेमाभरणभूषिताः । (७।२)
śyāmāstanvyo dīrghakeśyo hemābharaṇabhūṣitāḥ |
शूद्रा विप्रोत्तमार्हाणि राङ्कवान्यजिनानि च ॥ (७।३)
śūdrā viprottamārhāṇi rāṅkavānyajināni ca ||
इन्द्रकृष्टैर् वर्तयन्ति धान्यैर् नदीमुखैश्च ये । (९।१)
indrakṛṣṭair vartayanti dhānyair nadīmukhaiśca ye |
ते वैरामाः पारदाश्च वङ्गाश्च कितवैः सह । (१०।१)
te vairāmāḥ pāradāśca vaṅgāśca kitavaiḥ saha |
अजाविकं गोहिरण्यं खरोष्ट्रं फलजं मधु । (११।१)
ajāvikaṃ gohiraṇyaṃ kharoṣṭraṃ phalajaṃ madhu |
कम्बलान् विविधांश्चैव द्वारि तिष्ठन्ति वारिताः ॥ (११।२)
kambalān vividhāṃścaiva dvāri tiṣṭhanti vāritāḥ ||
प्राग्ज्योतिषाधिपः शूरो म्लेच्छानाम् अधिपो बली । (१२।१)
prāgjyotiṣādhipaḥ śūro mlecchānām adhipo balī |
बलिं च कृत्स्नम् आदाय द्वारि तिष्ठति वारितः ॥ (१३।२)
baliṃ ca kṛtsnam ādāya dvāri tiṣṭhati vāritaḥ ||
अश्मसारमयं भाण्डं शुद्धदन्तत्सरून् असीन् । (१४।१)
aśmasāramayaṃ bhāṇḍaṃ śuddhadantatsarūn asīn |
प्राग्ज्योतिषो ऽथ तद् दत्त्वा भगदत्तो ऽव्रजत् तदा ॥ (१४।२)
prāgjyotiṣo 'tha tad dattvā bhagadatto 'vrajat tadā ||
द्व्यक्षांस्त्र्यक्षांल् ललाटाक्षान्नानादिग्भ्यः समागतान् । (१५।१)
dvyakṣāṃstryakṣāṃl lalāṭākṣānnānādigbhyaḥ samāgatān |
औष्णीषान् अनिवासांश्च बाहुकान् पुरुषादकान् ॥ (१५।२)
auṣṇīṣān anivāsāṃśca bāhukān puruṣādakān ||
एकपादांश्च तत्राहम् अपश्यं द्वारि वारितान् । (१६।१)
ekapādāṃśca tatrāham apaśyaṃ dvāri vāritān |
बल्यर्थं ददतस्तस्मै हिरण्यं रजतं बहु ॥ (१६।२)
balyarthaṃ dadatastasmai hiraṇyaṃ rajataṃ bahu ||
तथैवेन्द्रायुधनिभान् संध्याभ्रसदृशान् अपि ॥ (१७।२)
tathaivendrāyudhanibhān saṃdhyābhrasadṛśān api ||
अनेकवर्णान् आरण्यान् गृहीत्वाश्वान्मनोजवान् । (१८।१)
anekavarṇān āraṇyān gṛhītvāśvānmanojavān |
जातरूपम् अनर्घ्यं च ददुस्तस्यैकपादकाः ॥ (१८।२)
jātarūpam anarghyaṃ ca dadustasyaikapādakāḥ ||
चीनान् हूणाञ् शकान् ओड्रान् पर्वतान्तरवासिनः । (१९।१)
cīnān hūṇāñ śakān oḍrān parvatāntaravāsinaḥ |
वार्ष्णेयान् हारहूणांश्च कृष्णान् हैमवतांस्तथा ॥ (१९।२)
vārṣṇeyān hārahūṇāṃśca kṛṣṇān haimavatāṃstathā ||
न पारयाम्यभिगतान् विविधान् द्वारि वारितान् । (२०।१)
na pārayāmyabhigatān vividhān dvāri vāritān |
आहार्षुर् दशसाहस्रान् विनीतान् दिक्षु विश्रुतान् ॥ (२१।२)
āhārṣur daśasāhasrān vinītān dikṣu viśrutān ||
प्रमाणरागस्पर्शाढ्यं बाह्लीचीनसमुद्भवम् । (२२।१)
pramāṇarāgasparśāḍhyaṃ bāhlīcīnasamudbhavam |
और्णं च राङ्कवं चैव कीटजं पट्टजं तथा ॥ (२२।२)
aurṇaṃ ca rāṅkavaṃ caiva kīṭajaṃ paṭṭajaṃ tathā ||
कुट्टीकृतं तथैवान्यत् कमलाभं सहस्रशः । (२३।१)
kuṭṭīkṛtaṃ tathaivānyat kamalābhaṃ sahasraśaḥ |
श्लक्ष्णं वस्त्रम् अकार्पासम् आविकं मृदु चाजिनम् ॥ (२३।२)
ślakṣṇaṃ vastram akārpāsam āvikaṃ mṛdu cājinam ||
निशितांश्चैव दीर्घासीन् ऋष्टिशक्तिपरश्वधान् । (२४।१)
niśitāṃścaiva dīrghāsīn ṛṣṭiśaktiparaśvadhān |
रसान् गन्धांश्च विविधान् रत्नानि च सहस्रशः । (२५।१)
rasān gandhāṃśca vividhān ratnāni ca sahasraśaḥ |
बलिं च कृत्स्नम् आदाय द्वारि तिष्ठन्ति वारिताः ॥ (२५।२)
baliṃ ca kṛtsnam ādāya dvāri tiṣṭhanti vāritāḥ ||
शकास्तुखाराः कङ्काश्च रोमशाः शृङ्गिणो नराः । (२६।१)
śakāstukhārāḥ kaṅkāśca romaśāḥ śṛṅgiṇo narāḥ |
महागमान् दूरगमान् गणितान् अर्बुदं हयान् ॥ (२६।२)
mahāgamān dūragamān gaṇitān arbudaṃ hayān ||
बलिम् आदाय विविधं द्वारि तिष्ठन्ति वारिताः ॥ (२७।२)
balim ādāya vividhaṃ dvāri tiṣṭhanti vāritāḥ ||
हयैर् विनीतैः सम्पन्नान् वैयाघ्रपरिवारणान् ॥ (२९।२)
hayair vinītaiḥ sampannān vaiyāghraparivāraṇān ||
विचित्रांश्च परिस्तोमान् रत्नानि च सहस्रशः । (३०।१)
vicitrāṃśca paristomān ratnāni ca sahasraśaḥ |
नाराचान् अर्धनाराचाञ् शस्त्राणि विविधानि च ॥ (३०।२)
nārācān ardhanārācāñ śastrāṇi vividhāni ca ||
एतद् दत्त्वा महद् द्रव्यं पूर्वदेशाधिपो नृपः । (३१।१)
etad dattvā mahad dravyaṃ pūrvadeśādhipo nṛpaḥ |
प्रविष्टो यज्ञसदनं पाण्डवस्य महात्मनः ॥ (३१।२)
praviṣṭo yajñasadanaṃ pāṇḍavasya mahātmanaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.