MBh, 3, 175
Select a line for its word-by-word analysis.
पौलस्त्यं य आह्वयद् युद्धे धनदं बलदर्पितः । (२।१)
paulastyaṃ ya āhvayad yuddhe dhanadaṃ baladarpitaḥ |
नलिन्यां कदनं कृत्वा वराणां यक्षरक्षसाम् ॥ (२।२)
nalinyāṃ kadanaṃ kṛtvā varāṇāṃ yakṣarakṣasām ||
एतद् इच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ॥ (३।२)
etad icchāmyahaṃ śrotuṃ paraṃ kautūhalaṃ hi me ||
बह्वाश्चर्ये वने तेषां वसताम् उग्रधन्विनाम् । (४।२)
bahvāścarye vane teṣāṃ vasatām ugradhanvinām |
प्राप्तानाम् आश्रमाद् राजन् राजर्षेर् वृषपर्वणः ॥ (४।३)
prāptānām āśramād rājan rājarṣer vṛṣaparvaṇaḥ ||
स ददर्श शुभान् देशान् गिरेर् हिमवतस् तदा । (६।१)
sa dadarśa śubhān deśān girer himavatas tadā |
चकोरैश् चक्रवाकैश्च पक्षिभिर् जीवजीवकैः । (७।१)
cakoraiś cakravākaiśca pakṣibhir jīvajīvakaiḥ |
कोकिलैर् भृङ्गराजैश्च तत्र तत्र विनादितान् ॥ (७।२)
kokilair bhṛṅgarājaiśca tatra tatra vināditān ||
नित्यपुष्पफलैर् वृक्षैर् हिमसंस्पर्शकोमलैः । (८।१)
nityapuṣpaphalair vṛkṣair himasaṃsparśakomalaiḥ |
सलिलैर् हिमसंस्पर्शैर् हंसकारण्डवायुतैः ॥ (९।२)
salilair himasaṃsparśair haṃsakāraṇḍavāyutaiḥ ||
विध्यन् मृगाञ्शरैः शुद्धैश् चचार सुमहाबलः ॥ (११।२)
vidhyan mṛgāñśaraiḥ śuddhaiś cacāra sumahābalaḥ ||
गिरिदुर्गे समापन्नं कायेनावृत्य कन्दरम् ॥ (१२।२)
giridurge samāpannaṃ kāyenāvṛtya kandaram ||
पर्वताभोगवर्ष्माणं भोगैश् चन्द्रार्कमण्डलैः । (१३।१)
parvatābhogavarṣmāṇaṃ bhogaiś candrārkamaṇḍalaiḥ |
चित्राङ्गम् अजिनैश् चित्रैर् हरिद्रासदृशच्छविम् ॥ (१३।२)
citrāṅgam ajinaiś citrair haridrāsadṛśacchavim ||
दीप्ताक्षेणातिताम्रेण लिहन्तं सृक्किणी मुहुः ॥ (१४।२)
dīptākṣeṇātitāmreṇa lihantaṃ sṛkkiṇī muhuḥ ||
निःश्वासक्ष्वेडनादेन भर्त्सयन्तम् इव स्थितम् ॥ (१५।२)
niḥśvāsakṣveḍanādena bhartsayantam iva sthitam ||
स भीमं सहसाभ्येत्य पृदाकुः क्षुधितो भृशम् । (१६।१)
sa bhīmaṃ sahasābhyetya pṛdākuḥ kṣudhito bhṛśam |
जग्राहाजगरो ग्राहो भुजयोर् उभयोर् बलात् ॥ (१६।२)
jagrāhājagaro grāho bhujayor ubhayor balāt ||
तेन संस्पृष्टमात्रस्य भीमसेनस्य वै तदा । (१७।१)
tena saṃspṛṣṭamātrasya bhīmasenasya vai tadā |
तद् बलं भीमसेनस्य भुजयोर् असमं परैः ॥ (१८।२)
tad balaṃ bhīmasenasya bhujayor asamaṃ paraiḥ ||
विस्फुरञ्शनकैर् भीमो न शशाक विचेष्टितुम् ॥ (१९।२)
visphurañśanakair bhīmo na śaśāka viceṣṭitum ||
गृहीतो व्यजहात् सत्त्वं वरदानेन मोहितः ॥ (२०।२)
gṛhīto vyajahāt sattvaṃ varadānena mohitaḥ ||
स हि प्रयत्नम् अकरोत् तीव्रम् आत्मविमोक्षणे । (२१।१)
sa hi prayatnam akarot tīvram ātmavimokṣaṇe |
न चैनम् अशकद् वीरः कथंचित् प्रतिबाधितुम् ॥ (२१।२)
na cainam aśakad vīraḥ kathaṃcit pratibādhitum ||
Data courtesy of The Digital Corpus of Sanskrit.