महाभारतMahābhārata

MBh, 3, 164

462 of 1995 · 123 verses

Select a line for its word-by-word analysis.

1.1१.१

अर्जुन उवाच । (१।१)

arjuna uvāca

1.2१.२

ततस् ताम् अवसं प्रीतो रजनीं तत्र भारत । (१।२)

tatas tām avasaṃ prīto rajanīṃ tatra bhārata |

1.3१.३

प्रसादाद् देवदेवस्य त्र्यम्बकस्य महात्मनः ॥ (१।३)

prasādād devadevasya tryambakasya mahātmanaḥ ||

2.1२.१

व्युषितो रजनीं चाहं कृत्वा पूर्वाह्णिकक्रियाम् । (२।१)

vyuṣito rajanīṃ cāhaṃ kṛtvā pūrvāhṇikakriyām |

2.2२.२

अपश्यं तं द्विजश्रेष्ठं दृष्टवान् अस्मि यं पुरा ॥ (२।२)

apaśyaṃ taṃ dvijaśreṣṭhaṃ dṛṣṭavān asmi yaṃ purā ||

3.1३.१

तस्मै चाहं यथावृत्तं सर्वम् एव न्यवेदयम् । (३।१)

tasmai cāhaṃ yathāvṛttaṃ sarvam eva nyavedayam |

3.2३.२

भगवन्तं महादेवं समेतो ऽस्मीति भारत ॥ (३।२)

bhagavantaṃ mahādevaṃ sameto 'smīti bhārata ||

4.1४.१

स माम् उवाच राजेन्द्र प्रीयमाणो द्विजोत्तमः । (४।१)

sa mām uvāca rājendra prīyamāṇo dvijottamaḥ |

4.2४.२

दृष्टस् त्वया महादेवो यथा नान्येन केनचित् ॥ (४।२)

dṛṣṭas tvayā mahādevo yathā nānyena kenacit ||

5.1५.१

समेत्य लोकपालैस् तु सर्वैर् वैवस्वतादिभिः । (५।१)

sametya lokapālais tu sarvair vaivasvatādibhiḥ |

5.2५.२

द्रष्टास्यनघ देवेन्द्रं स च ते ऽस्त्राणि दास्यति ॥ (५।२)

draṣṭāsyanagha devendraṃ sa ca te 'strāṇi dāsyati ||

6.1६.१

एवम् उक्त्वा स मां राजन्न् आश्लिष्य च पुनः पुनः । (६।१)

evam uktvā sa māṃ rājann āśliṣya ca punaḥ punaḥ |

6.2६.२

अगच्छत् स यथाकामं ब्राह्मणः सूर्यसंनिभः ॥ (६।२)

agacchat sa yathākāmaṃ brāhmaṇaḥ sūryasaṃnibhaḥ ||

7.1७.१

अथापराह्णे तस्याह्नः प्रावात् पुण्यः समीरणः । (७।१)

athāparāhṇe tasyāhnaḥ prāvāt puṇyaḥ samīraṇaḥ |

7.2७.२

पुनर् नवम् इमं लोकं कुर्वन्न् इव सपत्नहन् ॥ (७।२)

punar navam imaṃ lokaṃ kurvann iva sapatnahan ||

8.1८.१

दिव्यानि चैव माल्यानि सुगन्धीनि नवानि च । (८।१)

divyāni caiva mālyāni sugandhīni navāni ca |

8.2८.२

शैशिरस्य गिरेः पादे प्रादुरासन् समीपतः ॥ (८।२)

śaiśirasya gireḥ pāde prādurāsan samīpataḥ ||

9.1९.१

वादित्राणि च दिव्यानि सुघोषाणि समन्ततः । (९।१)

vāditrāṇi ca divyāni sughoṣāṇi samantataḥ |

9.2९.२

स्तुतयश् चेन्द्रसंयुक्ता अश्रूयन्त मनोहराः ॥ (९।२)

stutayaś cendrasaṃyuktā aśrūyanta manoharāḥ ||

10.1१०.१

गणाश् चाप्सरसां तत्र गन्धर्वाणां तथैव च । (१०।१)

gaṇāś cāpsarasāṃ tatra gandharvāṇāṃ tathaiva ca |

10.2१०.२

पुरस्ताद् देवदेवस्य जगुर् गीतानि सर्वशः ॥ (१०।२)

purastād devadevasya jagur gītāni sarvaśaḥ ||

11.1११.१

मरुतां च गणास् तत्र देवयानैर् उपागमन् । (११।१)

marutāṃ ca gaṇās tatra devayānair upāgaman |

11.2११.२

महेन्द्रानुचरा ये च देवसद्मनिवासिनः ॥ (११।२)

mahendrānucarā ye ca devasadmanivāsinaḥ ||

12.1१२.१

ततो मरुत्वान् हरिभिर् युक्तैर् वाहैः स्वलंकृतैः । (१२।१)

tato marutvān haribhir yuktair vāhaiḥ svalaṃkṛtaiḥ |

12.2१२.२

शचीसहायस् तत्रायात् सह सर्वैस् तदामरैः ॥ (१२।२)

śacīsahāyas tatrāyāt saha sarvais tadāmaraiḥ ||

13.1१३.१

एतस्मिन्न् एव काले तु कुबेरो नरवाहनः । (१३।१)

etasminn eva kāle tu kubero naravāhanaḥ |

13.2१३.२

दर्शयामास मां राजंल्लक्ष्म्या परमया युतः ॥ (१३।२)

darśayāmāsa māṃ rājaṃllakṣmyā paramayā yutaḥ ||

14.1१४.१

दक्षिणस्यां दिशि यमं प्रत्यपश्यं व्यवस्थितम् । (१४।१)

dakṣiṇasyāṃ diśi yamaṃ pratyapaśyaṃ vyavasthitam |

14.2१४.२

वरुणं देवराजं च यथास्थानम् अवस्थितम् ॥ (१४।२)

varuṇaṃ devarājaṃ ca yathāsthānam avasthitam ||

15.1१५.१

ते माम् ऊचुर् महाराज सान्त्वयित्वा सुरर्षभाः । (१५।१)

te mām ūcur mahārāja sāntvayitvā surarṣabhāḥ |

15.2१५.२

सव्यसाचिन् समीक्षस्व लोकपालान् अवस्थितान् ॥ (१५।२)

savyasācin samīkṣasva lokapālān avasthitān ||

16.1१६.१

सुरकार्यार्थसिद्ध्यर्थं दृष्टवान् असि शंकरम् । (१६।१)

surakāryārthasiddhyarthaṃ dṛṣṭavān asi śaṃkaram |

16.2१६.२

अस्मत्तो ऽपि गृहाण त्वम् अस्त्राणीति समन्ततः ॥ (१६।२)

asmatto 'pi gṛhāṇa tvam astrāṇīti samantataḥ ||

17.1१७.१

ततो ऽहं प्रयतो भूत्वा प्रणिपत्य सुरर्षभान् । (१७।१)

tato 'haṃ prayato bhūtvā praṇipatya surarṣabhān |

17.2१७.२

प्रत्यगृह्णं तदास्त्राणि महान्ति विधिवत् प्रभो ॥ (१७।२)

pratyagṛhṇaṃ tadāstrāṇi mahānti vidhivat prabho ||

18.1१८.१

गृहीतास्त्रस् ततो देवैर् अनुज्ञातो ऽस्मि भारत । (१८।१)

gṛhītāstras tato devair anujñāto 'smi bhārata |

18.2१८.२

अथ देवा ययुः सर्वे यथागतम् अरिंदम ॥ (१८।२)

atha devā yayuḥ sarve yathāgatam ariṃdama ||

19.1१९.१

मघवान् अपि देवेशो रथम् आरुह्य सुप्रभम् । (१९।१)

maghavān api deveśo ratham āruhya suprabham |

19.2१९.२

उवाच भगवान् वाक्यं स्मयन्न् इव सुरारिहा ॥ (१९।२)

uvāca bhagavān vākyaṃ smayann iva surārihā ||

20.1२०.१

पुरैवागमनाद् अस्माद् वेदाहं त्वां धनंजय । (२०।१)

puraivāgamanād asmād vedāhaṃ tvāṃ dhanaṃjaya |

20.2२०.२

अतः परं त्वहं वै त्वां दर्शये भरतर्षभ ॥ (२०।२)

ataḥ paraṃ tvahaṃ vai tvāṃ darśaye bharatarṣabha ||

21.1२१.१

त्वया हि तीर्थेषु पुरा समाप्लावः कृतो ऽसकृत् । (२१।१)

tvayā hi tīrtheṣu purā samāplāvaḥ kṛto 'sakṛt |

21.2२१.२

तपश्चेदं पुरा तप्तं स्वर्गं गन्तासि पाण्डव ॥ (२१।२)

tapaścedaṃ purā taptaṃ svargaṃ gantāsi pāṇḍava ||

22.1२२.१

भूयश् चैव तु तप्तव्यं तपः परमदारुणम् । (२२।१)

bhūyaś caiva tu taptavyaṃ tapaḥ paramadāruṇam |

22.2२२.२

उवाच भगवान् सर्वं तपसश्चोपपादनम् ॥ (२२।२)

uvāca bhagavān sarvaṃ tapasaścopapādanam ||

23.1२३.१

मातलिर् मन्नियोगात् त्वां त्रिदिवं प्रापयिष्यति । (२३।१)

mātalir manniyogāt tvāṃ tridivaṃ prāpayiṣyati |

23.2२३.२

विदितस् त्वं हि देवानाम् ऋषीणां च महात्मनाम् ॥ (२३।२)

viditas tvaṃ hi devānām ṛṣīṇāṃ ca mahātmanām ||

24.1२४.१

ततो ऽहम् अब्रुवं शक्रं प्रसीद भगवन् मम । (२४।१)

tato 'ham abruvaṃ śakraṃ prasīda bhagavan mama |

24.2२४.२

आचार्यं वरये त्वाहम् अस्त्रार्थं त्रिदशेश्वर ॥ (२४।२)

ācāryaṃ varaye tvāham astrārthaṃ tridaśeśvara ||

25.1२५.१

इन्द्र उवाच । (२५।१)

indra uvāca

25.2२५.२

क्रूरं कर्मास्त्रवित् तात करिष्यसि परंतप । (२५।२)

krūraṃ karmāstravit tāta kariṣyasi paraṃtapa |

25.3२५.३

यदर्थम् अस्त्राणीप्सुस् त्वं तं कामं पाण्डवाप्नुहि ॥ (२५।३)

yadartham astrāṇīpsus tvaṃ taṃ kāmaṃ pāṇḍavāpnuhi ||

26.1२६.१

अर्जुन उवाच । (२६।१)

arjuna uvāca

26.2२६.२

ततो ऽहम् अब्रुवं नाहं दिव्यान्यस्त्राणि शत्रुहन् । (२६।२)

tato 'ham abruvaṃ nāhaṃ divyānyastrāṇi śatruhan |

26.3२६.३

मानुषेषु प्रयोक्ष्यामि विनास्त्रप्रतिघातनम् ॥ (२६।३)

mānuṣeṣu prayokṣyāmi vināstrapratighātanam ||

27.1२७.१

तानि दिव्यानि मे ऽस्त्राणि प्रयच्छ विबुधाधिप । (२७।१)

tāni divyāni me 'strāṇi prayaccha vibudhādhipa |

27.2२७.२

लोकांश्चास्त्रजितान् पश्चाल्लभेयं सुरपुंगव ॥ (२७।२)

lokāṃścāstrajitān paścāllabheyaṃ surapuṃgava ||

28.1२८.१

इन्द्र उवाच । (२८।१)

indra uvāca

28.2२८.२

परीक्षार्थं मयैतत् ते वाक्यम् उक्तं धनंजय । (२८।२)

parīkṣārthaṃ mayaitat te vākyam uktaṃ dhanaṃjaya |

28.3२८.३

ममात्मजस्य वचनं सूपपन्नम् इदं तव ॥ (२८।३)

mamātmajasya vacanaṃ sūpapannam idaṃ tava ||

29.1२९.१

शिक्ष मे भवनं गत्वा सर्वाण्यस्त्राणि भारत । (२९।१)

śikṣa me bhavanaṃ gatvā sarvāṇyastrāṇi bhārata |

29.2२९.२

वायोर् अग्नेर् वसुभ्यो ऽथ वरुणात् समरुद्गणात् ॥ (२९।२)

vāyor agner vasubhyo 'tha varuṇāt samarudgaṇāt ||

30.1३०.१

साध्यं पैतामहं चैव गन्धर्वोरगरक्षसाम् । (३०।१)

sādhyaṃ paitāmahaṃ caiva gandharvoragarakṣasām |

30.2३०.२

वैष्णवानि च सर्वाणि नैरृतानि तथैव च । (३०।२)

vaiṣṇavāni ca sarvāṇi nairṛtāni tathaiva ca |

30.3३०.३

मद्गतानि च यानीह सर्वास्त्राणि कुरूद्वह ॥ (३०।३)

madgatāni ca yānīha sarvāstrāṇi kurūdvaha ||

31.1३१.१

अर्जुन उवाच । (३१।१)

arjuna uvāca

31.2३१.२

एवम् उक्त्वा तु मां शक्रस् तत्रैवान्तरधीयत । (३१।२)

evam uktvā tu māṃ śakras tatraivāntaradhīyata |

31.3३१.३

अथापश्यं हरियुजं रथम् ऐन्द्रम् उपस्थितम् । (३१।३)

athāpaśyaṃ hariyujaṃ ratham aindram upasthitam |

31.4३१.४

दिव्यं मायामयं पुण्यं यत्तं मातलिना नृप ॥ (३१।४)

divyaṃ māyāmayaṃ puṇyaṃ yattaṃ mātalinā nṛpa ||

32.1३२.१

लोकपालेषु यातेषु माम् उवाचाथ मातलिः । (३२।१)

lokapāleṣu yāteṣu mām uvācātha mātaliḥ |

32.2३२.२

द्रष्टुम् इच्छति शक्रस् त्वां देवराजो महाद्युते ॥ (३२।२)

draṣṭum icchati śakras tvāṃ devarājo mahādyute ||

33.1३३.१

संसिद्धस् त्वं महाबाहो कुरु कार्यम् अनुत्तमम् । (३३।१)

saṃsiddhas tvaṃ mahābāho kuru kāryam anuttamam |

33.2३३.२

पश्य पुण्यकृतां लोकान् सशरीरो दिवं व्रज ॥ (३३।२)

paśya puṇyakṛtāṃ lokān saśarīro divaṃ vraja ||

34.1३४.१

इत्युक्तो ऽहं मातलिना गिरिम् आमन्त्र्य शैशिरम् । (३४।१)

ityukto 'haṃ mātalinā girim āmantrya śaiśiram |

34.2३४.२

प्रदक्षिणम् उपावृत्य समारोहं रथोत्तमम् ॥ (३४।२)

pradakṣiṇam upāvṛtya samārohaṃ rathottamam ||

35.1३५.१

चोदयामास स हयान् मनोमारुतरंहसः । (३५।१)

codayāmāsa sa hayān manomārutaraṃhasaḥ |

35.2३५.२

मातलिर् हयशास्त्रज्ञो यथावद् भूरिदक्षिणः ॥ (३५।२)

mātalir hayaśāstrajño yathāvad bhūridakṣiṇaḥ ||

36.1३६.१

अवैक्षत च मे वक्त्रं स्थितस्याथ स सारथिः । (३६।१)

avaikṣata ca me vaktraṃ sthitasyātha sa sārathiḥ |

36.2३६.२

तथा भ्रान्ते रथे राजन् विस्मितश् चेदम् अब्रवीत् ॥ (३६।२)

tathā bhrānte rathe rājan vismitaś cedam abravīt ||

37.1३७.१

अत्यद्भुतम् इदं मे ऽद्य विचित्रं प्रतिभाति माम् । (३७।१)

atyadbhutam idaṃ me 'dya vicitraṃ pratibhāti mām |

37.2३७.२

यद् आस्थितो रथं दिव्यं पदा न चलितो भवान् ॥ (३७।२)

yad āsthito rathaṃ divyaṃ padā na calito bhavān ||

38.1३८.१

देवराजो ऽपि हि मया नित्यम् अत्रोपलक्षितः । (३८।१)

devarājo 'pi hi mayā nityam atropalakṣitaḥ |

38.2३८.२

विचलन् प्रथमोत्पाते हयानां भरतर्षभ ॥ (३८।२)

vicalan prathamotpāte hayānāṃ bharatarṣabha ||

39.1३९.१

त्वं पुनः स्थित एवात्र रथे भ्रान्ते कुरूद्वह । (३९।१)

tvaṃ punaḥ sthita evātra rathe bhrānte kurūdvaha |

39.2३९.२

अतिशक्रम् इदं सत्त्वं तवेति प्रतिभाति मे ॥ (३९।२)

atiśakram idaṃ sattvaṃ taveti pratibhāti me ||

40.1४०.१

इत्युक्त्वाकाशम् आविश्य मातलिर् विबुधालयान् । (४०।१)

ityuktvākāśam āviśya mātalir vibudhālayān |

40.2४०.२

दर्शयामास मे राजन् विमानानि च भारत ॥ (४०।२)

darśayāmāsa me rājan vimānāni ca bhārata ||

41.1४१.१

नन्दनादीनि देवानां वनानि बहुलान्युत । (४१।१)

nandanādīni devānāṃ vanāni bahulānyuta |

41.2४१.२

दर्शयामास मे प्रीत्या मातलिः शक्रसारथिः ॥ (४१।२)

darśayāmāsa me prītyā mātaliḥ śakrasārathiḥ ||

42.1४२.१

ततः शक्रस्य भवनम् अपश्यम् अमरावतीम् । (४२।१)

tataḥ śakrasya bhavanam apaśyam amarāvatīm |

42.2४२.२

दिव्यैः कामफलैर् वृक्षै रत्नैश् च समलंकृताम् ॥ (४२।२)

divyaiḥ kāmaphalair vṛkṣai ratnaiś ca samalaṃkṛtām ||

43.1४३.१

न तां भासयते सूर्यो न शीतोष्णे न च क्लमः । (४३।१)

na tāṃ bhāsayate sūryo na śītoṣṇe na ca klamaḥ |

43.2४३.२

रजः पङ्को न च तमस् तत्रास्ति न जरा नृप ॥ (४३।२)

rajaḥ paṅko na ca tamas tatrāsti na jarā nṛpa ||

44.1४४.१

न तत्र शोको दैन्यं वा वैवर्ण्यं चोपलक्ष्यते । (४४।१)

na tatra śoko dainyaṃ vā vaivarṇyaṃ copalakṣyate |

44.2४४.२

दिवौकसां महाराज न च ग्लानिर् अरिंदम ॥ (४४।२)

divaukasāṃ mahārāja na ca glānir ariṃdama ||

45.1४५.१

न क्रोधलोभौ तत्रास्ताम् अशुभं च विशां पते । (४५।१)

na krodhalobhau tatrāstām aśubhaṃ ca viśāṃ pate |

45.2४५.२

नित्यतुष्टाश्च हृष्टाश्च प्राणिनः सुरवेश्मनि ॥ (४५।२)

nityatuṣṭāśca hṛṣṭāśca prāṇinaḥ suraveśmani ||

46.1४६.१

नित्यपुष्पफलास् तत्र पादपा हरितच्छदाः । (४६।१)

nityapuṣpaphalās tatra pādapā haritacchadāḥ |

46.2४६.२

पुष्करिण्यश्च विविधाः पद्मसौगन्धिकायुताः ॥ (४६।२)

puṣkariṇyaśca vividhāḥ padmasaugandhikāyutāḥ ||

47.1४७.१

शीतस् तत्र ववौ वायुः सुगन्धो जीवनः शुचिः । (४७।१)

śītas tatra vavau vāyuḥ sugandho jīvanaḥ śuciḥ |

47.2४७.२

सर्वरत्नविचित्रा च भूमिः पुष्पविभूषिता ॥ (४७।२)

sarvaratnavicitrā ca bhūmiḥ puṣpavibhūṣitā ||

48.1४८.१

मृगद्विजाश् च बहवो रुचिरा मधुरस्वराः । (४८।१)

mṛgadvijāś ca bahavo rucirā madhurasvarāḥ |

48.2४८.२

विमानयायिनश्चात्र दृश्यन्ते बहवो ऽमराः ॥ (४८।२)

vimānayāyinaścātra dṛśyante bahavo 'marāḥ ||

49.1४९.१

ततो ऽपश्यं वसून् रुद्रान् साध्यांश्च समरुद्गणान् । (४९।१)

tato 'paśyaṃ vasūn rudrān sādhyāṃśca samarudgaṇān |

49.2४९.२

आदित्यान् अश्विनौ चैव तान् सर्वान् प्रत्यपूजयम् ॥ (४९।२)

ādityān aśvinau caiva tān sarvān pratyapūjayam ||

50.1५०.१

ते मां वीर्येण यशसा तेजसा च बलेन च । (५०।१)

te māṃ vīryeṇa yaśasā tejasā ca balena ca |

50.2५०.२

अस्त्रैश्चाप्यन्वजानन्त संग्रामविजयेन च ॥ (५०।२)

astraiścāpyanvajānanta saṃgrāmavijayena ca ||

51.1५१.१

प्रविश्य तां पुरीं रम्यां देवगन्धर्वसेविताम् । (५१।१)

praviśya tāṃ purīṃ ramyāṃ devagandharvasevitām |

51.2५१.२

देवराजं सहस्राक्षम् उपातिष्ठं कृताञ्जलिः ॥ (५१।२)

devarājaṃ sahasrākṣam upātiṣṭhaṃ kṛtāñjaliḥ ||

52.1५२.१

ददावर्धासनं प्रीतः शक्रो मे ददतां वरः । (५२।१)

dadāvardhāsanaṃ prītaḥ śakro me dadatāṃ varaḥ |

52.2५२.२

बहुमानाच्च गात्राणि पस्पर्श मम वासवः ॥ (५२।२)

bahumānācca gātrāṇi pasparśa mama vāsavaḥ ||

53.1५३.१

तत्राहं देवगन्धर्वैः सहितो भूरिदक्षिण । (५३।१)

tatrāhaṃ devagandharvaiḥ sahito bhūridakṣiṇa |

53.2५३.२

अस्त्रार्थम् अवसं स्वर्गे कुर्वाणो ऽस्त्राणि भारत ॥ (५३।२)

astrārtham avasaṃ svarge kurvāṇo 'strāṇi bhārata ||

54.1५४.१

विश्वावसोश् च मे पुत्रश् चित्रसेनो ऽभवत् सखा । (५४।१)

viśvāvasoś ca me putraś citraseno 'bhavat sakhā |

54.2५४.२

स च गान्धर्वम् अखिलं ग्राहयामास मां नृप ॥ (५४।२)

sa ca gāndharvam akhilaṃ grāhayāmāsa māṃ nṛpa ||

55.1५५.१

ततो ऽहम् अवसं राजन् गृहीतास्त्रः सुपूजितः । (५५।१)

tato 'ham avasaṃ rājan gṛhītāstraḥ supūjitaḥ |

55.2५५.२

सुखं शक्रस्य भवने सर्वकामसमन्वितः ॥ (५५।२)

sukhaṃ śakrasya bhavane sarvakāmasamanvitaḥ ||

56.1५६.१

शृण्वन् वै गीतशब्दं च तूर्यशब्दं च पुष्कलम् । (५६।१)

śṛṇvan vai gītaśabdaṃ ca tūryaśabdaṃ ca puṣkalam |

56.2५६.२

पश्यंश् चाप्सरसः श्रेष्ठा नृत्यमानाः परंतप ॥ (५६।२)

paśyaṃś cāpsarasaḥ śreṣṭhā nṛtyamānāḥ paraṃtapa ||

57.1५७.१

तत् सर्वम् अनवज्ञाय तथ्यं विज्ञाय भारत । (५७।१)

tat sarvam anavajñāya tathyaṃ vijñāya bhārata |

57.2५७.२

अत्यर्थं प्रतिगृह्याहम् अस्त्रेष्वेव व्यवस्थितः ॥ (५७।२)

atyarthaṃ pratigṛhyāham astreṣveva vyavasthitaḥ ||

58.1५८.१

ततो ऽतुष्यत् सहस्राक्षस् तेन कामेन मे विभुः । (५८।१)

tato 'tuṣyat sahasrākṣas tena kāmena me vibhuḥ |

58.2५८.२

एवं मे वसतो राजन्न् एष कालो ऽत्यगाद् दिवि ॥ (५८।२)

evaṃ me vasato rājann eṣa kālo 'tyagād divi ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 3, 164

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit