MBh, 4, 26
Select a line for its word-by-word analysis.
अथाब्रवीन्महावीर्यो द्रोणस्तत्त्वार्थदर्शिवान् । (१।२)
athābravīnmahāvīryo droṇastattvārthadarśivān |
शूराश्च कृतविद्याश्च बुद्धिमन्तो जितेन्द्रियाः । (२।१)
śūrāśca kṛtavidyāśca buddhimanto jitendriyāḥ |
धर्मज्ञाश्च कृतज्ञाश्च धर्मराजम् अनुव्रताः ॥ (२।२)
dharmajñāśca kṛtajñāśca dharmarājam anuvratāḥ ||
नीतिधर्मार्थतत्त्वज्ञं पितृवच्च समाहितम् । (३।१)
nītidharmārthatattvajñaṃ pitṛvacca samāhitam |
धर्मे स्थितं सत्यधृतिं ज्येष्ठं ज्येष्ठापचायिनम् ॥ (३।२)
dharme sthitaṃ satyadhṛtiṃ jyeṣṭhaṃ jyeṣṭhāpacāyinam ||
अजातशत्रुं ह्रीमन्तं तं च भ्रातॄन् अनुव्रतम् ॥ (४।२)
ajātaśatruṃ hrīmantaṃ taṃ ca bhrātṝn anuvratam ||
तेषां तथा विधेयानां निभृतानां महात्मनाम् । (५।१)
teṣāṃ tathā vidheyānāṃ nibhṛtānāṃ mahātmanām |
किमर्थं नीतिमान् पार्थः श्रेयो नैषां करिष्यति ॥ (५।२)
kimarthaṃ nītimān pārthaḥ śreyo naiṣāṃ kariṣyati ||
तस्माद् यत्नात् प्रतीक्षन्ते कालस्योदयम् आगतम् । (६।१)
tasmād yatnāt pratīkṣante kālasyodayam āgatam |
न हि ते नाशम् ऋच्छेयुर् इति पश्याम्यहं धिया ॥ (६।२)
na hi te nāśam ṛccheyur iti paśyāmyahaṃ dhiyā ||
सांप्रतं चैव यत् कार्यं तच्च क्षिप्रम् अकालिकम् । (७।१)
sāṃprataṃ caiva yat kāryaṃ tacca kṣipram akālikam |
क्रियतां साधु संचिन्त्य वासश्चैषां प्रचिन्त्यताम् ॥ (७।२)
kriyatāṃ sādhu saṃcintya vāsaścaiṣāṃ pracintyatām ||
यथावत् पाण्डुपुत्राणां सर्वार्थेषु धृतात्मनाम् । (८।१)
yathāvat pāṇḍuputrāṇāṃ sarvārtheṣu dhṛtātmanām |
दुर्ज्ञेयाः खलु शूरास्ते अपापास्तपसा वृताः ॥ (८।२)
durjñeyāḥ khalu śūrāste apāpāstapasā vṛtāḥ ||
शुद्धात्मा गुणवान् पार्थः सत्यवान्नीतिमाञ् शुचिः । (९।१)
śuddhātmā guṇavān pārthaḥ satyavānnītimāñ śuciḥ |
तेजोराशिर् असंख्येयो गृह्णीयाद् अपि चक्षुषी ॥ (९।२)
tejorāśir asaṃkhyeyo gṛhṇīyād api cakṣuṣī ||
विज्ञाय क्रियतां तस्माद् भूयश्च मृगयामहे । (१०।१)
vijñāya kriyatāṃ tasmād bhūyaśca mṛgayāmahe |
ब्राह्मणैश्चारकैः सिद्धैर् ये चान्ये तद्विदो जनाः ॥ (१०।२)
brāhmaṇaiścārakaiḥ siddhair ye cānye tadvido janāḥ ||
Data courtesy of The Digital Corpus of Sanskrit.