महाभारतMahābhārata

MBh, 8, 15

1165 of 1995 · 89 verses

Select a line for its word-by-word analysis.

1.1१.१

धृतराष्ट्र उवाच । (१।१)

dhṛtarāṣṭra uvāca

1.2१.२

प्रोक्तस् त्वया पूर्वम् एव प्रवीरो लोकविश्रुतः । (१।२)

proktas tvayā pūrvam eva pravīro lokaviśrutaḥ |

1.3१.३

न त्व् अस्य कर्म संग्रामे त्वया संजय कीर्तितम् ॥ (१।३)

na tv asya karma saṃgrāme tvayā saṃjaya kīrtitam ||

2.1२.१

तस्य विस्तरतो ब्रूहि प्रवीरस्याद्य विक्रमम् । (२।१)

tasya vistarato brūhi pravīrasyādya vikramam |

2.2२.२

शिक्षां प्रभावं वीर्यं च प्रमाणं दर्पम् एव च ॥ (२।२)

śikṣāṃ prabhāvaṃ vīryaṃ ca pramāṇaṃ darpam eva ca ||

3.1३.१

संजय उवाच । (३।१)

saṃjaya uvāca

3.2३.२

द्रोणभीष्मकृपद्रौणिकर्णार्जुनजनार्दनान् । (३।२)

droṇabhīṣmakṛpadrauṇikarṇārjunajanārdanān |

3.3३.३

समाप्तविद्यान् धनुषि श्रेष्ठान् यान् मन्यसे युधि ॥ (३।३)

samāptavidyān dhanuṣi śreṣṭhān yān manyase yudhi ||

4.1४.१

तुल्यता कर्णभीष्माभ्याम् आत्मनो येन दृश्यते । (४।१)

tulyatā karṇabhīṣmābhyām ātmano yena dṛśyate |

4.2४.२

वासुदेवार्जुनाभ्यां च न्यूनतां नात्मनीच्छति ॥ (४।२)

vāsudevārjunābhyāṃ ca nyūnatāṃ nātmanīcchati ||

5.1५.१

स पाण्ड्यो नृपतिश्रेष्ठः सर्वशस्त्रभृतां वरः । (५।१)

sa pāṇḍyo nṛpatiśreṣṭhaḥ sarvaśastrabhṛtāṃ varaḥ |

5.2५.२

कर्णस्यानीकम् अवधीत् परिभूत इवान्तकः ॥ (५।२)

karṇasyānīkam avadhīt paribhūta ivāntakaḥ ||

6.1६.१

तद् उदीर्णरथाश्वं च पत्तिप्रवरकुञ्जरम् । (६।१)

tad udīrṇarathāśvaṃ ca pattipravarakuñjaram |

6.2६.२

कुलालचक्रवद् भ्रान्तं पाण्ड्येनाधिष्ठितं बलम् ॥ (६।२)

kulālacakravad bhrāntaṃ pāṇḍyenādhiṣṭhitaṃ balam ||

7.1७.१

व्यश्वसूतध्वजरथान् विप्रविद्धायुधान् रिपून् । (७।१)

vyaśvasūtadhvajarathān vipraviddhāyudhān ripūn |

7.2७.२

सम्यग् अस्तैः शरैः पाण्ड्यो वायुर् मेघान् इवाक्षिपत् ॥ (७।२)

samyag astaiḥ śaraiḥ pāṇḍyo vāyur meghān ivākṣipat ||

8.1८.१

द्विरदान् प्रहतप्रोथान् विपताकध्वजायुधान् । (८।१)

dviradān prahataprothān vipatākadhvajāyudhān |

8.2८.२

सपादरक्षान् अवधीद् वज्रेणारीन् इवारिहा ॥ (८।२)

sapādarakṣān avadhīd vajreṇārīn ivārihā ||

9.1९.१

सशक्तिप्रासतूणीरान् अश्वारोहान् हयान् अपि । (९।१)

saśaktiprāsatūṇīrān aśvārohān hayān api |

9.2९.२

पुलिन्दखशबाह्लीकान् निषादान् ध्रकतङ्गणान् ॥ (९।२)

pulindakhaśabāhlīkān niṣādān dhrakataṅgaṇān ||

10.1१०.१

दाक्षिणात्यांश् च भोजांश् च क्रूरान् संग्रामकर्कशान् । (१०।१)

dākṣiṇātyāṃś ca bhojāṃś ca krūrān saṃgrāmakarkaśān |

10.2१०.२

विशस्त्रकवचान् बाणैः कृत्वा पाण्ड्यो ऽकरोद् व्यसून् ॥ (१०।२)

viśastrakavacān bāṇaiḥ kṛtvā pāṇḍyo 'karod vyasūn ||

11.1११.१

चतुरङ्गं बलं बाणैर् निघ्नन्तं पाण्ड्यम् आहवे । (११।१)

caturaṅgaṃ balaṃ bāṇair nighnantaṃ pāṇḍyam āhave |

11.2११.२

दृष्ट्वा द्रौणिर् असंभ्रान्तम् असंभ्रान्ततरो ऽभ्ययात् ॥ (११।२)

dṛṣṭvā drauṇir asaṃbhrāntam asaṃbhrāntataro 'bhyayāt ||

12.1१२.१

आभाष्य चैनं मधुरम् अभिनृत्यन्न् अभीतवत् । (१२।१)

ābhāṣya cainaṃ madhuram abhinṛtyann abhītavat |

12.2१२.२

प्राह प्रहरतां श्रेष्ठः स्मितपूर्वं समाह्वयन् ॥ (१२।२)

prāha praharatāṃ śreṣṭhaḥ smitapūrvaṃ samāhvayan ||

13.1१३.१

राजन् कमलपत्राक्ष प्रधानायुधवाहन । (१३।१)

rājan kamalapatrākṣa pradhānāyudhavāhana |

13.2१३.२

वज्रसंहननप्रख्य प्रधानबलपौरुष ॥ (१३।२)

vajrasaṃhananaprakhya pradhānabalapauruṣa ||

14.1१४.१

मुष्टिश्लिष्टायुधाभ्यां च व्यायताभ्यां महद् धनुः । (१४।१)

muṣṭiśliṣṭāyudhābhyāṃ ca vyāyatābhyāṃ mahad dhanuḥ |

14.2१४.२

दोर्भ्यां विस्फारयन् भासि महाजलदवद् भृशम् ॥ (१४।२)

dorbhyāṃ visphārayan bhāsi mahājaladavad bhṛśam ||

15.1१५.१

शरवर्षैर् महावेगैर् अमित्रान् अभिवर्षतः । (१५।१)

śaravarṣair mahāvegair amitrān abhivarṣataḥ |

15.2१५.२

मद् अन्यं नानुपश्यामि प्रतिवीरं तवाहवे ॥ (१५।२)

mad anyaṃ nānupaśyāmi prativīraṃ tavāhave ||

16.1१६.१

रथद्विरदपत्त्यश्वान् एकः प्रमथसे बहून् । (१६।१)

rathadviradapattyaśvān ekaḥ pramathase bahūn |

16.2१६.२

मृगसंघान् इवारण्ये विभीर् भीमबलो हरिः ॥ (१६।२)

mṛgasaṃghān ivāraṇye vibhīr bhīmabalo hariḥ ||

17.1१७.१

महता रथघोषेण दिवं भूमिं च नादयन् । (१७।१)

mahatā rathaghoṣeṇa divaṃ bhūmiṃ ca nādayan |

17.2१७.२

वर्षान्ते सस्यहा पीथो भाभिर् आपूरयन्न् इव ॥ (१७।२)

varṣānte sasyahā pītho bhābhir āpūrayann iva ||

18.1१८.१

संस्पृशानः शरांस् तीक्ष्णांस् तूणाद् आशीविषोपमान् । (१८।१)

saṃspṛśānaḥ śarāṃs tīkṣṇāṃs tūṇād āśīviṣopamān |

18.2१८.२

मयैवैकेन युध्यस्व त्र्यम्बकेणान्धको यथा ॥ (१८।२)

mayaivaikena yudhyasva tryambakeṇāndhako yathā ||

19.1१९.१

एवम् उक्तस् तथेत्य् उक्त्वा प्रहरेति च ताडितः । (१९।१)

evam uktas tathety uktvā prahareti ca tāḍitaḥ |

19.2१९.२

कर्णिना द्रोणतनयं विव्याध मलयध्वजः ॥ (१९।२)

karṇinā droṇatanayaṃ vivyādha malayadhvajaḥ ||

20.1२०.१

मर्मभेदिभिर् अत्युग्रैर् बाणैर् अग्निशिखोपमैः । (२०।१)

marmabhedibhir atyugrair bāṇair agniśikhopamaiḥ |

20.2२०.२

स्मयन्न् अभ्यहनद् द्रौणिः पाण्ड्यम् आचार्यसत्तमः ॥ (२०।२)

smayann abhyahanad drauṇiḥ pāṇḍyam ācāryasattamaḥ ||

21.1२१.१

ततो नवापरांस् तीक्ष्णान् नाराचान् कङ्कवाससः । (२१।१)

tato navāparāṃs tīkṣṇān nārācān kaṅkavāsasaḥ |

21.2२१.२

गत्या दशम्या संयुक्तान् अश्वत्थामा व्यवासृजत् ॥ (२१।२)

gatyā daśamyā saṃyuktān aśvatthāmā vyavāsṛjat ||

22.1२२.१

तेषां पञ्चाच्छिनत् पाण्ड्यः पञ्चभिर् निशितैः शरैः । (२२।१)

teṣāṃ pañcācchinat pāṇḍyaḥ pañcabhir niśitaiḥ śaraiḥ |

22.2२२.२

चत्वारो ऽभ्याहनन् वाहान् आशु ते व्यसवो ऽभवन् ॥ (२२।२)

catvāro 'bhyāhanan vāhān āśu te vyasavo 'bhavan ||

23.1२३.१

अथ द्रोणसुतस्येषूंस् तांश् छित्त्वा निशितैः शरैः । (२३।१)

atha droṇasutasyeṣūṃs tāṃś chittvā niśitaiḥ śaraiḥ |

23.2२३.२

धनुर्ज्यां विततां पाण्ड्यश् चिछेदादित्यवर्चसः ॥ (२३।२)

dhanurjyāṃ vitatāṃ pāṇḍyaś cichedādityavarcasaḥ ||

24.1२४.१

विज्यं धनुर् अथाधिज्यं कृत्वा द्रौणिर् अमित्रहा । (२४।१)

vijyaṃ dhanur athādhijyaṃ kṛtvā drauṇir amitrahā |

24.2२४.२

ततः शरसहस्राणि प्रेषयामास पाण्ड्यतः । (२४।२)

tataḥ śarasahasrāṇi preṣayāmāsa pāṇḍyataḥ |

24.3२४.३

इषुसंबाधम् आकाशम् अकरोद् दिश एव च ॥ (२४।३)

iṣusaṃbādham ākāśam akarod diśa eva ca ||

25.1२५.१

ततस् तान् अस्यतः सर्वान् द्रौणेर् बाणान् महात्मनः । (२५।१)

tatas tān asyataḥ sarvān drauṇer bāṇān mahātmanaḥ |

25.2२५.२

जानानो ऽप्य् अक्षयान् पाण्ड्यो ऽशातयत् पुरुषर्षभः ॥ (२५।२)

jānāno 'py akṣayān pāṇḍyo 'śātayat puruṣarṣabhaḥ ||

26.1२६.१

प्रहितांस् तान् प्रयत्नेन छित्त्वा द्रौणेर् इषून् अरिः । (२६।१)

prahitāṃs tān prayatnena chittvā drauṇer iṣūn ariḥ |

26.2२६.२

चक्ररक्षौ ततस् तस्य प्राणुदन् निशितैः शरैः ॥ (२६।२)

cakrarakṣau tatas tasya prāṇudan niśitaiḥ śaraiḥ ||

27.1२७.१

अथारेर् लाघवं दृष्ट्वा मण्डलीकृतकार्मुकः । (२७।१)

athārer lāghavaṃ dṛṣṭvā maṇḍalīkṛtakārmukaḥ |

27.2२७.२

प्रास्यद् द्रोणसुतो बाणान् वृष्टिं पूषानुजो यथा ॥ (२७।२)

prāsyad droṇasuto bāṇān vṛṣṭiṃ pūṣānujo yathā ||

28.1२८.१

अष्टाव् अष्टगवान्य् ऊहुः शकटानि यद् आयुधम् । (२८।१)

aṣṭāv aṣṭagavāny ūhuḥ śakaṭāni yad āyudham |

28.2२८.२

अह्नस् तद् अष्टभागेन द्रौणिश् चिक्षेप मारिष ॥ (२८।२)

ahnas tad aṣṭabhāgena drauṇiś cikṣepa māriṣa ||

29.1२९.१

तम् अन्तकम् इव क्रुद्धम् अन्तकालान्तकोपमम् । (२९।१)

tam antakam iva kruddham antakālāntakopamam |

29.2२९.२

ये ये ददृशिरे तत्र विसंज्ञाः प्रायशो ऽभवन् ॥ (२९।२)

ye ye dadṛśire tatra visaṃjñāḥ prāyaśo 'bhavan ||

30.1३०.१

पर्जन्य इव घर्मान्ते वृष्ट्या साद्रिद्रुमां महीम् । (३०।१)

parjanya iva gharmānte vṛṣṭyā sādridrumāṃ mahīm |

30.2३०.२

आचार्यपुत्रस् तां सेनां बाणवृष्ट्याभ्यवीवृषत् ॥ (३०।२)

ācāryaputras tāṃ senāṃ bāṇavṛṣṭyābhyavīvṛṣat ||

31.1३१.१

द्रौणिपर्जन्यमुक्तां तां बाणवृष्टिं सुदुःसहाम् । (३१।१)

drauṇiparjanyamuktāṃ tāṃ bāṇavṛṣṭiṃ suduḥsahām |

31.2३१.२

वायव्यास्त्रेण स क्षिप्रं रुद्ध्वा पाण्ड्यानिलो ऽनदत् ॥ (३१।२)

vāyavyāstreṇa sa kṣipraṃ ruddhvā pāṇḍyānilo 'nadat ||

32.1३२.१

तस्य नानदतः केतुं चन्दनागुरुभूषितम् । (३२।१)

tasya nānadataḥ ketuṃ candanāgurubhūṣitam |

32.2३२.२

मलयप्रतिमं द्रौणिश् छित्त्वाश्वांश् चतुरो ऽहनत् ॥ (३२।२)

malayapratimaṃ drauṇiś chittvāśvāṃś caturo 'hanat ||

33.1३३.१

सूतम् एकेषुणा हत्वा महाजलदनिस्वनम् । (३३।१)

sūtam ekeṣuṇā hatvā mahājaladanisvanam |

33.2३३.२

धनुश् छित्त्वार्धचन्द्रेण व्यधमत् तिलशो रथम् ॥ (३३।२)

dhanuś chittvārdhacandreṇa vyadhamat tilaśo ratham ||

34.1३४.१

अस्त्रैर् अस्त्राणि संवार्य छित्त्वा सर्वायुधानि च । (३४।१)

astrair astrāṇi saṃvārya chittvā sarvāyudhāni ca |

34.2३४.२

प्राप्तम् अप्य् अहितं द्रौणिर् न जघान रणेप्सया ॥ (३४।२)

prāptam apy ahitaṃ drauṇir na jaghāna raṇepsayā ||

35.1३५.१

हतेश्वरो दन्तिवरः सुकल्पितस् त्वराभिसृष्टः प्रतिशर्मगो बली । (३५।१)

hateśvaro dantivaraḥ sukalpitas tvarābhisṛṣṭaḥ pratiśarmago balī |

35.2३५.२

तम् अध्यतिष्ठन् मलयेश्वरो महान् यथाद्रिशृङ्गं हरिर् उन्नदंस् तथा ॥ (३५।२)

tam adhyatiṣṭhan malayeśvaro mahān yathādriśṛṅgaṃ harir unnadaṃs tathā ||

36.1३६.१

स तोमरं भास्कररश्मिसंनिभं बलास्त्रसर्गोत्तमयत्नमन्युभिः । (३६।१)

sa tomaraṃ bhāskararaśmisaṃnibhaṃ balāstrasargottamayatnamanyubhiḥ |

36.2३६.२

ससर्ज शीघ्रं प्रतिपीडयन् गजं गुरोः सुतायाद्रिपतीश्वरो नदन् ॥ (३६।२)

sasarja śīghraṃ pratipīḍayan gajaṃ guroḥ sutāyādripatīśvaro nadan ||

37.1३७.१

मणिप्रतानोत्तमवज्रहाटकैर् अलंकृतं चांशुकमाल्यमौक्तिकैः । (३७।१)

maṇipratānottamavajrahāṭakair alaṃkṛtaṃ cāṃśukamālyamauktikaiḥ |

37.2३७.२

हतो ऽस्य् असाव् इत्य् असकृन् मुदा नदन् पराभिनद् द्रौणिवराङ्गभूषणम् ॥ (३७।२)

hato 'sy asāv ity asakṛn mudā nadan parābhinad drauṇivarāṅgabhūṣaṇam ||

38.1३८.१

तद् अर्कचन्द्रग्रहपावकत्विषं भृशाभिघातात् पतितं विचूर्णितम् । (३८।१)

tad arkacandragrahapāvakatviṣaṃ bhṛśābhighātāt patitaṃ vicūrṇitam |

38.2३८.२

महेन्द्रवज्राभिहतं महावनं यथाद्रिशृङ्गं धरणीतले तथा ॥ (३८।२)

mahendravajrābhihataṃ mahāvanaṃ yathādriśṛṅgaṃ dharaṇītale tathā ||

39.1३९.१

ततः प्रजज्वाल परेण मन्युना पदाहतो नागपतिर् यथा तथा । (३९।१)

tataḥ prajajvāla pareṇa manyunā padāhato nāgapatir yathā tathā |

39.2३९.२

समादधे चान्तकदण्डसंनिभान् इषून् अमित्रान्तकरांश् चतुर्दश ॥ (३९।२)

samādadhe cāntakadaṇḍasaṃnibhān iṣūn amitrāntakarāṃś caturdaśa ||

40.1४०.१

द्विपस्य पादाग्रकरान् स पञ्चभिर् नृपस्य बाहू च शिरो ऽथ च त्रिभिः । (४०।१)

dvipasya pādāgrakarān sa pañcabhir nṛpasya bāhū ca śiro 'tha ca tribhiḥ |

40.2४०.२

जघान षड्भिः षड् ऋतूत्तमत्विषः स पाण्ड्यराजानुचरान् महारथान् ॥ (४०।२)

jaghāna ṣaḍbhiḥ ṣaḍ ṛtūttamatviṣaḥ sa pāṇḍyarājānucarān mahārathān ||

41.1४१.१

सुदीर्घवृत्तौ वरचन्दनोक्षितौ सुवर्णमुक्तामणिवज्रभूषितौ । (४१।१)

sudīrghavṛttau varacandanokṣitau suvarṇamuktāmaṇivajrabhūṣitau |

41.2४१.२

भुजौ धरायां पतितौ नृपस्य तौ विवेष्टतुस् तार्क्ष्यहताव् इवोरगौ ॥ (४१।२)

bhujau dharāyāṃ patitau nṛpasya tau viveṣṭatus tārkṣyahatāv ivoragau ||

42.1४२.१

शिरश् च तत् पूर्णशशिप्रभाननं सरोषताम्रायतनेत्रम् उन्नसम् । (४२।१)

śiraś ca tat pūrṇaśaśiprabhānanaṃ saroṣatāmrāyatanetram unnasam |

42.2४२.२

क्षितौ विबभ्राज पतत् सकुण्डलं विशाखयोर् मध्यगतः शशी यथा ॥ (४२।२)

kṣitau vibabhrāja patat sakuṇḍalaṃ viśākhayor madhyagataḥ śaśī yathā ||

43.1४३.१

समाप्तविद्यं तु गुरोः सुतं नृपः समाप्तकर्माणम् उपेत्य ते सुतः । (४३।१)

samāptavidyaṃ tu guroḥ sutaṃ nṛpaḥ samāptakarmāṇam upetya te sutaḥ |

43.2४३.२

सुहृद्वृतो ऽत्यर्थम् अपूजयन् मुदा जिते बलौ विष्णुम् इवामरेश्वरः ॥ (४३।२)

suhṛdvṛto 'tyartham apūjayan mudā jite balau viṣṇum ivāmareśvaraḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 8, 15

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit