महाभारतMahābhārata

MBh, 8, 32

1182 of 1995 · 175 verses

Select a line for its word-by-word analysis.

1.1१.१

धृतराष्ट्र उवाच । (१।१)

dhṛtarāṣṭra uvāca

1.2१.२

तथा व्यूढेष्व् अनीकेषु संसक्तेषु च संजय । (१।२)

tathā vyūḍheṣv anīkeṣu saṃsakteṣu ca saṃjaya |

1.3१.३

संशप्तकान् कथं पार्थो गतः कर्णश् च पाण्डवान् ॥ (१।३)

saṃśaptakān kathaṃ pārtho gataḥ karṇaś ca pāṇḍavān ||

2.1२.१

एतद् विस्तरतो युद्धं प्रब्रूहि कुशलो ह्य् असि । (२।१)

etad vistarato yuddhaṃ prabrūhi kuśalo hy asi |

2.2२.२

न हि तृप्यामि वीराणां शृण्वानो विक्रमान् रणे ॥ (२।२)

na hi tṛpyāmi vīrāṇāṃ śṛṇvāno vikramān raṇe ||

3.1३.१

संजय उवाच । (३।१)

saṃjaya uvāca

3.2३.२

तत् स्थाने समवस्थाप्य प्रत्यमित्रं महाबलम् । (३।२)

tat sthāne samavasthāpya pratyamitraṃ mahābalam |

3.3३.३

अव्यूहतार्जुनो व्यूहं पुत्रस्य तव दुर्नये ॥ (३।३)

avyūhatārjuno vyūhaṃ putrasya tava durnaye ||

4.1४.१

तत् सादिनागकलिलं पदातिरथसंकुलम् । (४।१)

tat sādināgakalilaṃ padātirathasaṃkulam |

4.2४.२

धृष्टद्युम्नमुखैर् व्यूढम् अशोभत महद् बलम् ॥ (४।२)

dhṛṣṭadyumnamukhair vyūḍham aśobhata mahad balam ||

5.1५.१

पारावतसवर्णाश्वश् चन्द्रादित्यसमद्युतिः । (५।१)

pārāvatasavarṇāśvaś candrādityasamadyutiḥ |

5.2५.२

पार्षतः प्रबभौ धन्वी कालो विग्रहवान् इव ॥ (५।२)

pārṣataḥ prababhau dhanvī kālo vigrahavān iva ||

6.1६.१

पार्षतं त्व् अभि संतस्थुर् द्रौपदेया युयुत्सवः । (६।१)

pārṣataṃ tv abhi saṃtasthur draupadeyā yuyutsavaḥ |

6.2६.२

सानुगा भीमवपुषश् चन्द्रं तारागणा इव ॥ (६।२)

sānugā bhīmavapuṣaś candraṃ tārāgaṇā iva ||

7.1७.१

अथ व्यूढेष्व् अनीकेषु प्रेक्ष्य संशप्तकान् रणे । (७।१)

atha vyūḍheṣv anīkeṣu prekṣya saṃśaptakān raṇe |

7.2७.२

क्रुद्धो ऽर्जुनो ऽभिदुद्राव व्याक्षिपन् गाण्डिवं धनुः ॥ (७।२)

kruddho 'rjuno 'bhidudrāva vyākṣipan gāṇḍivaṃ dhanuḥ ||

8.1८.१

अथ संशप्तकाः पार्थम् अभ्यधावन् वधैषिणः । (८।१)

atha saṃśaptakāḥ pārtham abhyadhāvan vadhaiṣiṇaḥ |

8.2८.२

विजये कृतसंकल्पा मृत्युं कृत्वा निवर्तनम् ॥ (८।२)

vijaye kṛtasaṃkalpā mṛtyuṃ kṛtvā nivartanam ||

9.1९.१

तद् अश्वसंघबहुलं मत्तनागरथाकुलम् । (९।१)

tad aśvasaṃghabahulaṃ mattanāgarathākulam |

9.2९.२

पत्तिमच्छूरवीरौघैर् द्रुतम् अर्जुनम् आद्रवत् ॥ (९।२)

pattimacchūravīraughair drutam arjunam ādravat ||

10.1१०.१

स संप्रहारस् तुमुलस् तेषाम् आसीत् किरीटिना । (१०।१)

sa saṃprahāras tumulas teṣām āsīt kirīṭinā |

10.2१०.२

तस्यैव नः श्रुतो यादृङ् निवातकवचैः सह ॥ (१०।२)

tasyaiva naḥ śruto yādṛṅ nivātakavacaiḥ saha ||

11.1११.१

रथान् अश्वान् ध्वजान् नागान् पत्तीन् रथपतीन् अपि । (११।१)

rathān aśvān dhvajān nāgān pattīn rathapatīn api |

11.2११.२

इषून् धनूंषि खड्गांश् च चक्राणि च परश्वधान् ॥ (११।२)

iṣūn dhanūṃṣi khaḍgāṃś ca cakrāṇi ca paraśvadhān ||

12.1१२.१

सायुधान् उद्यतान् बाहून् उद्यतान्य् आयुधानि च । (१२।१)

sāyudhān udyatān bāhūn udyatāny āyudhāni ca |

12.2१२.२

चिछेद द्विषतां पार्थः शिरांसि च सहस्रशः ॥ (१२।२)

cicheda dviṣatāṃ pārthaḥ śirāṃsi ca sahasraśaḥ ||

13.1१३.१

तस्मिन् सैन्ये महावर्ते पातालावर्तसंनिभे । (१३।१)

tasmin sainye mahāvarte pātālāvartasaṃnibhe |

13.2१३.२

निमग्नं तं रथं मत्वा नेदुः संशप्तका मुदा ॥ (१३।२)

nimagnaṃ taṃ rathaṃ matvā neduḥ saṃśaptakā mudā ||

14.1१४.१

स पुरस्ताद् अरीन् हत्वा पश्चार्धेनोत्तरेण च । (१४।१)

sa purastād arīn hatvā paścārdhenottareṇa ca |

14.2१४.२

दक्षिणेन च बीभत्सुः क्रुद्धो रुद्रः पशून् इव ॥ (१४।२)

dakṣiṇena ca bībhatsuḥ kruddho rudraḥ paśūn iva ||

15.1१५.१

अथ पाञ्चालचेदीनां सृञ्जयानां च मारिष । (१५।१)

atha pāñcālacedīnāṃ sṛñjayānāṃ ca māriṣa |

15.2१५.२

त्वदीयैः सह संग्राम आसीत् परमदारुणः ॥ (१५।२)

tvadīyaiḥ saha saṃgrāma āsīt paramadāruṇaḥ ||

16.1१६.१

कृपश् च कृतवर्मा च शकुनिश् चापि सौबलः । (१६।१)

kṛpaś ca kṛtavarmā ca śakuniś cāpi saubalaḥ |

16.2१६.२

हृष्टसेनाः सुसंरब्धा रथानीकैः प्रहारिणः ॥ (१६।२)

hṛṣṭasenāḥ susaṃrabdhā rathānīkaiḥ prahāriṇaḥ ||

17.1१७.१

कोसलैः काशिमत्स्यैश् च कारूषैः केकयैर् अपि । (१७।१)

kosalaiḥ kāśimatsyaiś ca kārūṣaiḥ kekayair api |

17.2१७.२

शूरसेनैः शूरवीरैर् युयुधुर् युद्धदुर्मदाः ॥ (१७।२)

śūrasenaiḥ śūravīrair yuyudhur yuddhadurmadāḥ ||

18.1१८.१

तेषाम् अन्तकरं युद्धं देहपाप्मप्रणाशनम् । (१८।१)

teṣām antakaraṃ yuddhaṃ dehapāpmapraṇāśanam |

18.2१८.२

शूद्रविट्क्षत्रवीराणां धर्म्यं स्वर्ग्यं यशस्करम् ॥ (१८।२)

śūdraviṭkṣatravīrāṇāṃ dharmyaṃ svargyaṃ yaśaskaram ||

19.1१९.१

दुर्योधनो ऽपि सहितो भ्रातृभिर् भरतर्षभ । (१९।१)

duryodhano 'pi sahito bhrātṛbhir bharatarṣabha |

19.2१९.२

गुप्तः कुरुप्रवीरैश् च मद्राणां च महारथैः ॥ (१९।२)

guptaḥ kurupravīraiś ca madrāṇāṃ ca mahārathaiḥ ||

20.1२०.१

पाण्डवैः सहपाञ्चालैश् चेदिभिः सात्यकेन च । (२०।१)

pāṇḍavaiḥ sahapāñcālaiś cedibhiḥ sātyakena ca |

20.2२०.२

युध्यमानं रणे कर्णं कुरुवीरो ऽभ्यपालयत् ॥ (२०।२)

yudhyamānaṃ raṇe karṇaṃ kuruvīro 'bhyapālayat ||

21.1२१.१

कर्णो ऽपि निशितैर् बाणैर् विनिहत्य महाचमूम् । (२१।१)

karṇo 'pi niśitair bāṇair vinihatya mahācamūm |

21.2२१.२

प्रमृद्य च रथश्रेष्ठान् युधिष्ठिरम् अपीडयत् ॥ (२१।२)

pramṛdya ca rathaśreṣṭhān yudhiṣṭhiram apīḍayat ||

22.1२२.१

विपत्रायुधदेहासून् कृत्वा शत्रून् सहस्रशः । (२२।१)

vipatrāyudhadehāsūn kṛtvā śatrūn sahasraśaḥ |

22.2२२.२

युक्त्वा स्वर्गयशोभ्यां च स्वेभ्यो मुदम् उदावहत् ॥ (२२।२)

yuktvā svargayaśobhyāṃ ca svebhyo mudam udāvahat ||

23.1२३.१

धृतराष्ट्र उवाच । (२३।१)

dhṛtarāṣṭra uvāca

23.2२३.२

यत् तत् प्रविश्य पार्थानां सेनां कुर्वञ् जनक्षयम् । (२३।२)

yat tat praviśya pārthānāṃ senāṃ kurvañ janakṣayam |

23.3२३.३

कर्णो राजानम् अभ्यर्छत् तन् ममाचक्ष्व संजय ॥ (२३।३)

karṇo rājānam abhyarchat tan mamācakṣva saṃjaya ||

24.1२४.१

के च प्रवीराः पार्थानां युधि कर्णम् अवारयन् । (२४।१)

ke ca pravīrāḥ pārthānāṃ yudhi karṇam avārayan |

24.2२४.२

कांश् च प्रमथ्याधिरथिर् युधिष्ठिरम् अपीडयत् ॥ (२४।२)

kāṃś ca pramathyādhirathir yudhiṣṭhiram apīḍayat ||

25.1२५.१

संजय उवाच । (२५।१)

saṃjaya uvāca

25.2२५.२

धृष्टद्युम्नमुखान् पार्थान् दृष्ट्वा कर्णो व्यवस्थितान् । (२५।२)

dhṛṣṭadyumnamukhān pārthān dṛṣṭvā karṇo vyavasthitān |

25.3२५.३

समभ्यधावत् त्वरितः पाञ्चालाञ् शत्रुकर्शनः ॥ (२५।३)

samabhyadhāvat tvaritaḥ pāñcālāñ śatrukarśanaḥ ||

26.1२६.१

तं तूर्णम् अभिधावन्तं पाञ्चाला जितकाशिनः । (२६।१)

taṃ tūrṇam abhidhāvantaṃ pāñcālā jitakāśinaḥ |

26.2२६.२

प्रत्युद्ययुर् महाराज हंसा इव महार्णवम् ॥ (२६।२)

pratyudyayur mahārāja haṃsā iva mahārṇavam ||

27.1२७.१

ततः शङ्खसहस्राणां निस्वनो हृदयंगमः । (२७।१)

tataḥ śaṅkhasahasrāṇāṃ nisvano hṛdayaṃgamaḥ |

27.2२७.२

प्रादुरासीद् उभयतो भेरीशब्दश् च दारुणः ॥ (२७।२)

prādurāsīd ubhayato bherīśabdaś ca dāruṇaḥ ||

28.1२८.१

नानावादित्रनादश् च द्विपाश्वरथनिस्वनः । (२८।१)

nānāvāditranādaś ca dvipāśvarathanisvanaḥ |

28.2२८.२

सिंहनादश् च वीराणाम् अभवद् दारुणस् तदा ॥ (२८।२)

siṃhanādaś ca vīrāṇām abhavad dāruṇas tadā ||

29.1२९.१

साद्रिद्रुमार्णवा भूमिः सवाताम्बुदम् अम्बरम् । (२९।१)

sādridrumārṇavā bhūmiḥ savātāmbudam ambaram |

29.2२९.२

सार्केन्दुग्रहनक्षत्रा द्यौश् च व्यक्तं व्यघूर्णत ॥ (२९।२)

sārkendugrahanakṣatrā dyauś ca vyaktaṃ vyaghūrṇata ||

30.1३०.१

अति भूतानि तं शब्दं मेनिरे ऽति च विव्यथुः । (३०।१)

ati bhūtāni taṃ śabdaṃ menire 'ti ca vivyathuḥ |

30.2३०.२

यानि चाप्लवसत्त्वानि प्रायस् तानि मृतानि च ॥ (३०।२)

yāni cāplavasattvāni prāyas tāni mṛtāni ca ||

31.1३१.१

अथ कर्णो भृशं क्रुद्धः शीघ्रम् अस्त्रम् उदीरयन् । (३१।१)

atha karṇo bhṛśaṃ kruddhaḥ śīghram astram udīrayan |

31.2३१.२

जघान पाण्डवीं सेनाम् आसुरीं मघवान् इव ॥ (३१।२)

jaghāna pāṇḍavīṃ senām āsurīṃ maghavān iva ||

32.1३२.१

स पाण्डवरथांस् तूर्णं प्रविश्य विसृजञ् शरान् । (३२।१)

sa pāṇḍavarathāṃs tūrṇaṃ praviśya visṛjañ śarān |

32.2३२.२

प्रभद्रकाणां प्रवरान् अहनत् सप्तसप्ततिम् ॥ (३२।२)

prabhadrakāṇāṃ pravarān ahanat saptasaptatim ||

33.1३३.१

ततः सुपुङ्खैर् निशितै रथश्रेष्ठो रथेषुभिः । (३३।१)

tataḥ supuṅkhair niśitai rathaśreṣṭho ratheṣubhiḥ |

33.2३३.२

अवधीत् पञ्चविंशत्या पाञ्चालान् पञ्चविंशतिम् ॥ (३३।२)

avadhīt pañcaviṃśatyā pāñcālān pañcaviṃśatim ||

34.1३४.१

सुवर्णपुङ्खैर् नाराचैः परकायविदारणैः । (३४।१)

suvarṇapuṅkhair nārācaiḥ parakāyavidāraṇaiḥ |

34.2३४.२

चेदिकान् अवधीद् वीरः शतशो ऽथ सहस्रशः ॥ (३४।२)

cedikān avadhīd vīraḥ śataśo 'tha sahasraśaḥ ||

35.1३५.१

तं तथा समरे कर्म कुर्वाणम् अतिमानुषम् । (३५।१)

taṃ tathā samare karma kurvāṇam atimānuṣam |

35.2३५.२

परिवव्रुर् महाराज पाञ्चालानां रथव्रजाः ॥ (३५।२)

parivavrur mahārāja pāñcālānāṃ rathavrajāḥ ||

36.1३६.१

ततः संधाय विशिखान् पञ्च भारत दुःसहान् । (३६।१)

tataḥ saṃdhāya viśikhān pañca bhārata duḥsahān |

36.2३६.२

पाञ्चालान् अवधीत् पञ्च कर्णो वैकर्तनो वृषः ॥ (३६।२)

pāñcālān avadhīt pañca karṇo vaikartano vṛṣaḥ ||

37.1३७.१

भानुदेवं चित्रसेनं सेनाबिन्दुं च भारत । (३७।१)

bhānudevaṃ citrasenaṃ senābinduṃ ca bhārata |

37.2३७.२

तपनं शूरसेनं च पाञ्चालान् अवधीद् रणे ॥ (३७।२)

tapanaṃ śūrasenaṃ ca pāñcālān avadhīd raṇe ||

38.1३८.१

पाञ्चालेषु च शूरेषु वध्यमानेषु सायकैः । (३८।१)

pāñcāleṣu ca śūreṣu vadhyamāneṣu sāyakaiḥ |

38.2३८.२

हाहाकारो महान् आसीत् पाञ्चालानां महाहवे ॥ (३८।२)

hāhākāro mahān āsīt pāñcālānāṃ mahāhave ||

39.1३९.१

तेषां संकीर्यमाणानां हाहाकारकृता दिशः । (३९।१)

teṣāṃ saṃkīryamāṇānāṃ hāhākārakṛtā diśaḥ |

39.2३९.२

पुनर् एव च तान् कर्णो जघानाशु पतत्रिभिः ॥ (३९।२)

punar eva ca tān karṇo jaghānāśu patatribhiḥ ||

40.1४०.१

चक्ररक्षौ तु कर्णस्य पुत्रौ मारिष दुर्जयौ । (४०।१)

cakrarakṣau tu karṇasya putrau māriṣa durjayau |

40.2४०.२

सुषेणः सत्यसेनश् च त्यक्त्वा प्राणान् अयुध्यताम् ॥ (४०।२)

suṣeṇaḥ satyasenaś ca tyaktvā prāṇān ayudhyatām ||

41.1४१.१

पृष्ठगोपस् तु कर्णस्य ज्येष्ठः पुत्रो महारथः । (४१।१)

pṛṣṭhagopas tu karṇasya jyeṣṭhaḥ putro mahārathaḥ |

41.2४१.२

वृषसेनः स्वयं कर्णं पृष्ठतः पर्यपालयत् ॥ (४१।२)

vṛṣasenaḥ svayaṃ karṇaṃ pṛṣṭhataḥ paryapālayat ||

42.1४२.१

धृष्टद्युम्नः सात्यकिश् च द्रौपदेया वृकोदरः । (४२।१)

dhṛṣṭadyumnaḥ sātyakiś ca draupadeyā vṛkodaraḥ |

42.2४२.२

जनमेजयः शिखण्डी च प्रवीराश् च प्रभद्रकाः ॥ (४२।२)

janamejayaḥ śikhaṇḍī ca pravīrāś ca prabhadrakāḥ ||

43.1४३.१

चेदिकेकयपाञ्चाला यमौ मत्स्याश् च दंशिताः । (४३।१)

cedikekayapāñcālā yamau matsyāś ca daṃśitāḥ |

43.2४३.२

समभ्यधावन् राधेयं जिघांसन्तः प्रहारिणः ॥ (४३।२)

samabhyadhāvan rādheyaṃ jighāṃsantaḥ prahāriṇaḥ ||

44.1४४.१

त एनं विविधैः शस्त्रैः शरधाराभिर् एव च । (४४।१)

ta enaṃ vividhaiḥ śastraiḥ śaradhārābhir eva ca |

44.2४४.२

अभ्यवर्षन् विमृद्नन्तः प्रावृषीवाम्बुदा गिरिम् ॥ (४४।२)

abhyavarṣan vimṛdnantaḥ prāvṛṣīvāmbudā girim ||

45.1४५.१

पितरं तु परीप्सन्तः कर्णपुत्राः प्रहारिणः । (४५।१)

pitaraṃ tu parīpsantaḥ karṇaputrāḥ prahāriṇaḥ |

45.2४५.२

त्वदीयाश् चापरे राजन् वीरा वीरान् अवारयन् ॥ (४५।२)

tvadīyāś cāpare rājan vīrā vīrān avārayan ||

46.1४६.१

सुषेणो भीमसेनस्य छित्त्वा भल्लेन कार्मुकम् । (४६।१)

suṣeṇo bhīmasenasya chittvā bhallena kārmukam |

46.2४६.२

नाराचैः सप्तभिर् विद्ध्वा हृदि भीमं ननाद ह ॥ (४६।२)

nārācaiḥ saptabhir viddhvā hṛdi bhīmaṃ nanāda ha ||

47.1४७.१

अथान्यद् धनुर् आदाय सुदृढं भीमविक्रमः । (४७।१)

athānyad dhanur ādāya sudṛḍhaṃ bhīmavikramaḥ |

47.2४७.२

सज्यं वृकोदरः कृत्वा सुषेणस्याच्छिनद् धनुः ॥ (४७।२)

sajyaṃ vṛkodaraḥ kṛtvā suṣeṇasyācchinad dhanuḥ ||

48.1४८.१

विव्याध चैनं नवभिः क्रुद्धो नृत्यन्न् इवेषुभिः । (४८।१)

vivyādha cainaṃ navabhiḥ kruddho nṛtyann iveṣubhiḥ |

48.2४८.२

कर्णं च तूर्णं विव्याध त्रिसप्तत्या शितैः शरैः ॥ (४८।२)

karṇaṃ ca tūrṇaṃ vivyādha trisaptatyā śitaiḥ śaraiḥ ||

49.1४९.१

सत्यसेनं च दशभिः साश्वसूतध्वजायुधम् । (४९।१)

satyasenaṃ ca daśabhiḥ sāśvasūtadhvajāyudham |

49.2४९.२

पश्यतां सुहृदां मध्ये कर्णपुत्रम् अपातयत् ॥ (४९।२)

paśyatāṃ suhṛdāṃ madhye karṇaputram apātayat ||

50.1५०.१

क्षुरप्रणुन्नं तत् तस्य शिरश् चन्द्रनिभाननम् । (५०।१)

kṣurapraṇunnaṃ tat tasya śiraś candranibhānanam |

50.2५०.२

शुभदर्शनम् एवासीन् नालभ्रष्टम् इवाम्बुजम् ॥ (५०।२)

śubhadarśanam evāsīn nālabhraṣṭam ivāmbujam ||

51.1५१.१

हत्वा कर्णसुतं भीमस् तावकान् पुनर् आर्दयत् । (५१।१)

hatvā karṇasutaṃ bhīmas tāvakān punar ārdayat |

51.2५१.२

कृपहार्दिक्ययोश् छित्त्वा चापे ताव् अप्य् अथार्दयत् ॥ (५१।२)

kṛpahārdikyayoś chittvā cāpe tāv apy athārdayat ||

52.1५२.१

दुःशासनं त्रिभिर् विद्ध्वा शकुनिं षड्भिर् आयसैः । (५२।१)

duḥśāsanaṃ tribhir viddhvā śakuniṃ ṣaḍbhir āyasaiḥ |

52.2५२.२

उलूकं च पतत्रिं च चकार विरथाव् उभौ ॥ (५२।२)

ulūkaṃ ca patatriṃ ca cakāra virathāv ubhau ||

53.1५३.१

हे सुषेण हतो ऽसीति ब्रुवन्न् आदत्त सायकम् । (५३।१)

he suṣeṇa hato 'sīti bruvann ādatta sāyakam |

53.2५३.२

तम् अस्य कर्णश् चिछेद त्रिभिश् चैनम् अताडयत् ॥ (५३।२)

tam asya karṇaś cicheda tribhiś cainam atāḍayat ||

54.1५४.१

अथान्यम् अपि जग्राह सुपर्वाणं सुतेजनम् । (५४।१)

athānyam api jagrāha suparvāṇaṃ sutejanam |

54.2५४.२

सुषेणायासृजद् भीमस् तम् अप्य् अस्याच्छिनद् वृषः ॥ (५४।२)

suṣeṇāyāsṛjad bhīmas tam apy asyācchinad vṛṣaḥ ||

55.1५५.१

पुनः कर्णस् त्रिसप्तत्या भीमसेनं रथेषुभिः । (५५।१)

punaḥ karṇas trisaptatyā bhīmasenaṃ ratheṣubhiḥ |

55.2५५.२

पुत्रं परीप्सन् विव्याध क्रूरं क्रूरैर् जिघांसया ॥ (५५।२)

putraṃ parīpsan vivyādha krūraṃ krūrair jighāṃsayā ||

56.1५६.१

सुषेणस् तु धनुर् गृह्य भारसाधनम् उत्तमम् । (५६।१)

suṣeṇas tu dhanur gṛhya bhārasādhanam uttamam |

56.2५६.२

नकुलं पञ्चभिर् बाणैर् बाह्वोर् उरसि चार्दयत् ॥ (५६।२)

nakulaṃ pañcabhir bāṇair bāhvor urasi cārdayat ||

57.1५७.१

नकुलस् तं तु विंशत्या विद्ध्वा भारसहैर् दृढैः । (५७।१)

nakulas taṃ tu viṃśatyā viddhvā bhārasahair dṛḍhaiḥ |

57.2५७.२

ननाद बलवन् नादं कर्णस्य भयम् आदधत् ॥ (५७।२)

nanāda balavan nādaṃ karṇasya bhayam ādadhat ||

58.1५८.१

तं सुषेणो महाराज विद्ध्वा दशभिर् आशुगैः । (५८।१)

taṃ suṣeṇo mahārāja viddhvā daśabhir āśugaiḥ |

58.2५८.२

चिछेद च धनुः शीघ्रं क्षुरप्रेण महारथः ॥ (५८।२)

cicheda ca dhanuḥ śīghraṃ kṣurapreṇa mahārathaḥ ||

59.1५९.१

अथान्यद् धनुर् आदाय नकुलः क्रोधमूर्छितः । (५९।१)

athānyad dhanur ādāya nakulaḥ krodhamūrchitaḥ |

59.2५९.२

सुषेणं बहुभिर् बाणैर् वारयामास संयुगे ॥ (५९।२)

suṣeṇaṃ bahubhir bāṇair vārayāmāsa saṃyuge ||

60.1६०.१

स तु बाणैर् दिशो राजन्न् आच्छाद्य परवीरहा । (६०।१)

sa tu bāṇair diśo rājann ācchādya paravīrahā |

60.2६०.२

आजघ्ने सारथिं चास्य सुषेणं च ततस् त्रिभिः । (६०।२)

ājaghne sārathiṃ cāsya suṣeṇaṃ ca tatas tribhiḥ |

60.3६०.३

चिछेद चास्य सुदृढं धनुर् भल्लैस् त्रिभिस् त्रिधा ॥ (६०।३)

cicheda cāsya sudṛḍhaṃ dhanur bhallais tribhis tridhā ||

61.1६१.१

अथान्यद् धनुर् आदाय सुषेणः क्रोधमूर्छितः । (६१।१)

athānyad dhanur ādāya suṣeṇaḥ krodhamūrchitaḥ |

61.2६१.२

अविध्यन् नकुलं षष्ट्या सहदेवं च सप्तभिः ॥ (६१।२)

avidhyan nakulaṃ ṣaṣṭyā sahadevaṃ ca saptabhiḥ ||

62.1६२.१

तद् युद्धं सुमहद् घोरम् आसीद् देवासुरोपमम् । (६२।१)

tad yuddhaṃ sumahad ghoram āsīd devāsuropamam |

62.2६२.२

निघ्नतां सायकैस् तूर्णम् अन्योन्यस्य वधं प्रति ॥ (६२।२)

nighnatāṃ sāyakais tūrṇam anyonyasya vadhaṃ prati ||

63.1६३.१

सात्यकिर् वृषसेनस्य हत्वा सूतं त्रिभिः शरैः । (६३।१)

sātyakir vṛṣasenasya hatvā sūtaṃ tribhiḥ śaraiḥ |

63.2६३.२

धनुश् चिछेद भल्लेन जघानाश्वांश् च सप्तभिः । (६३।२)

dhanuś cicheda bhallena jaghānāśvāṃś ca saptabhiḥ |

63.3६३.३

ध्वजम् एकेषुणोन्मथ्य त्रिभिस् तं हृद्य् अताडयत् ॥ (६३।३)

dhvajam ekeṣuṇonmathya tribhis taṃ hṛdy atāḍayat ||

64.1६४.१

अथावसन्नः स्वरथे मुहूर्तात् पुनर् उत्थितः । (६४।१)

athāvasannaḥ svarathe muhūrtāt punar utthitaḥ |

64.2६४.२

अथो जिघांसुः शैनेयं खड्गचर्मभृद् अभ्ययात् ॥ (६४।२)

atho jighāṃsuḥ śaineyaṃ khaḍgacarmabhṛd abhyayāt ||

65.1६५.१

तस्य चाप्लवतः शीघ्रं वृषसेनस्य सात्यकिः । (६५।१)

tasya cāplavataḥ śīghraṃ vṛṣasenasya sātyakiḥ |

65.2६५.२

वराहकर्णैर् दशभिर् अविध्यद् असिचर्मणी ॥ (६५।२)

varāhakarṇair daśabhir avidhyad asicarmaṇī ||

66.1६६.१

दुःशासनस् तु तं दृष्ट्वा विरथं व्यायुधं कृतम् । (६६।१)

duḥśāsanas tu taṃ dṛṣṭvā virathaṃ vyāyudhaṃ kṛtam |

66.2६६.२

आरोप्य स्वरथे तूर्णम् अपोवाह रथान्तरम् ॥ (६६।२)

āropya svarathe tūrṇam apovāha rathāntaram ||

67.1६७.१

अथान्यं रथम् आस्थाय वृषसेनो महारथः । (६७।१)

athānyaṃ ratham āsthāya vṛṣaseno mahārathaḥ |

67.2६७.२

कर्णस्य युधि दुर्धर्षः पुनः पृष्ठम् अपालयत् ॥ (६७।२)

karṇasya yudhi durdharṣaḥ punaḥ pṛṣṭham apālayat ||

68.1६८.१

दुःशासनं तु शैनेयो नवैर् नवभिर् आशुगैः । (६८।१)

duḥśāsanaṃ tu śaineyo navair navabhir āśugaiḥ |

68.2६८.२

विसूताश्वरथं कृत्वा ललाटे त्रिभिर् आर्पयत् ॥ (६८।२)

visūtāśvarathaṃ kṛtvā lalāṭe tribhir ārpayat ||

69.1६९.१

स त्व् अन्यं रथम् आस्थाय विधिवत् कल्पितं पुनः । (६९।१)

sa tv anyaṃ ratham āsthāya vidhivat kalpitaṃ punaḥ |

69.2६९.२

युयुधे पाण्डुभिः सार्धं कर्णस्याप्याययन् बलम् ॥ (६९।२)

yuyudhe pāṇḍubhiḥ sārdhaṃ karṇasyāpyāyayan balam ||

70.1७०.१

धृष्टद्युम्नस् ततः कर्णम् अविध्यद् दशभिः शरैः । (७०।१)

dhṛṣṭadyumnas tataḥ karṇam avidhyad daśabhiḥ śaraiḥ |

70.2७०.२

द्रौपदेयास् त्रिसप्तत्या युयुधानस् तु सप्तभिः ॥ (७०।२)

draupadeyās trisaptatyā yuyudhānas tu saptabhiḥ ||

71.1७१.१

भीमसेनश् चतुःषष्ट्या सहदेवश् च पञ्चभिः । (७१।१)

bhīmasenaś catuḥṣaṣṭyā sahadevaś ca pañcabhiḥ |

71.2७१.२

नकुलस् त्रिंशता बाणैः शतानीकश् च सप्तभिः । (७१।२)

nakulas triṃśatā bāṇaiḥ śatānīkaś ca saptabhiḥ |

71.3७१.३

शिखण्डी दशभिर् वीरो धर्मराजः शतेन तु ॥ (७१।३)

śikhaṇḍī daśabhir vīro dharmarājaḥ śatena tu ||

72.1७२.१

एते चान्ये च राजेन्द्र प्रवीरा जयगृद्धिनः । (७२।१)

ete cānye ca rājendra pravīrā jayagṛddhinaḥ |

72.2७२.२

अभ्यर्दयन् महेष्वासं सूतपुत्रं महामृधे ॥ (७२।२)

abhyardayan maheṣvāsaṃ sūtaputraṃ mahāmṛdhe ||

73.1७३.१

तान् सूतपुत्रो विशिखैर् दशभिर् दशभिः शितैः । (७३।१)

tān sūtaputro viśikhair daśabhir daśabhiḥ śitaiḥ |

73.2७३.२

रथे चारु चरन् वीरः प्रत्यविध्यद् अरिंदमः ॥ (७३।२)

rathe cāru caran vīraḥ pratyavidhyad ariṃdamaḥ ||

74.1७४.१

तत्रास्त्रवीर्यं कर्णस्य लाघवं च महात्मनः । (७४।१)

tatrāstravīryaṃ karṇasya lāghavaṃ ca mahātmanaḥ |

74.2७४.२

अपश्याम महाराज तद् अद्भुतम् इवाभवत् ॥ (७४।२)

apaśyāma mahārāja tad adbhutam ivābhavat ||

75.1७५.१

न ह्य् आददानं ददृशुः संदधानं च सायकान् । (७५।१)

na hy ādadānaṃ dadṛśuḥ saṃdadhānaṃ ca sāyakān |

75.2७५.२

विमुञ्चन्तं च संरम्भाद् ददृशुस् ते महारथम् ॥ (७५।२)

vimuñcantaṃ ca saṃrambhād dadṛśus te mahāratham ||

76.1७६.१

द्यौर् वियद् भूर् दिशश् चाशु प्रणुन्ना निशितैः शरैः । (७६।१)

dyaur viyad bhūr diśaś cāśu praṇunnā niśitaiḥ śaraiḥ |

76.2७६.२

अरुणाभ्रावृताकारं तस्मिन् देशे बभौ वियत् ॥ (७६।२)

aruṇābhrāvṛtākāraṃ tasmin deśe babhau viyat ||

77.1७७.१

नृत्यन्न् इव हि राधेयश् चापहस्तः प्रतापवान् । (७७।१)

nṛtyann iva hi rādheyaś cāpahastaḥ pratāpavān |

77.2७७.२

यैर् विद्धः प्रत्यविध्यत् तान् एकैकं त्रिगुणैः शरैः ॥ (७७।२)

yair viddhaḥ pratyavidhyat tān ekaikaṃ triguṇaiḥ śaraiḥ ||

78.1७८.१

दशभिर् दशभिश् चैनान् पुनर् विद्ध्वा ननाद ह । (७८।१)

daśabhir daśabhiś cainān punar viddhvā nanāda ha |

78.2७८.२

साश्वसूतध्वजच्छत्रास् ततस् ते विवरं ददुः ॥ (७८।२)

sāśvasūtadhvajacchatrās tatas te vivaraṃ daduḥ ||

79.1७९.१

तान् प्रमृद्नन् महेष्वासान् राधेयः शरवृष्टिभिः । (७९।१)

tān pramṛdnan maheṣvāsān rādheyaḥ śaravṛṣṭibhiḥ |

79.2७९.२

राजानीकम् असंबाधं प्राविशच्छत्रुकर्शनः ॥ (७९।२)

rājānīkam asaṃbādhaṃ prāviśacchatrukarśanaḥ ||

80.1८०.१

स रथांस् त्रिशतान् हत्वा चेदीनाम् अनिवर्तिनाम् । (८०।१)

sa rathāṃs triśatān hatvā cedīnām anivartinām |

80.2८०.२

राधेयो निशितैर् बाणैस् ततो ऽभ्यार्छद् युधिष्ठिरम् ॥ (८०।२)

rādheyo niśitair bāṇais tato 'bhyārchad yudhiṣṭhiram ||

81.1८१.१

ततस् ते पाण्डवा राजञ् शिखण्डी च ससात्यकिः । (८१।१)

tatas te pāṇḍavā rājañ śikhaṇḍī ca sasātyakiḥ |

81.2८१.२

राधेयात् परिरक्षन्तो राजानं पर्यवारयन् ॥ (८१।२)

rādheyāt parirakṣanto rājānaṃ paryavārayan ||

82.1८२.१

तथैव तावकाः सर्वे कर्णं दुर्वारणं रणे । (८२।१)

tathaiva tāvakāḥ sarve karṇaṃ durvāraṇaṃ raṇe |

82.2८२.२

यत्ताः सेनामहेष्वासाः पर्यरक्षन्त सर्वशः ॥ (८२।२)

yattāḥ senāmaheṣvāsāḥ paryarakṣanta sarvaśaḥ ||

83.1८३.१

नानावादित्रघोषाश् च प्रादुरासन् विशां पते । (८३।१)

nānāvāditraghoṣāś ca prādurāsan viśāṃ pate |

83.2८३.२

सिंहनादश् च संजज्ञे शूराणाम् अनिवर्तिनाम् ॥ (८३।२)

siṃhanādaś ca saṃjajñe śūrāṇām anivartinām ||

84.1८४.१

ततः पुनः समाजग्मुर् अभीताः कुरुपाण्डवाः । (८४।१)

tataḥ punaḥ samājagmur abhītāḥ kurupāṇḍavāḥ |

84.2८४.२

युधिष्ठिरमुखाः पार्थाः सूतपुत्रमुखा वयम् ॥ (८४।२)

yudhiṣṭhiramukhāḥ pārthāḥ sūtaputramukhā vayam ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 8, 32

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit