महाभारतMahābhārata

MBh, 1, 158

158 of 1995 · 137 verses

Select a line for its word-by-word analysis.

1.1१.१

वैशंपायन उवाच । (१।१)

vaiśaṃpāyana uvāca

1.2१.२

गते भगवति व्यासे पाण्डवा हृष्टमानसाः । (१।२)

gate bhagavati vyāse pāṇḍavā hṛṣṭamānasāḥ |

1.3१.३

ते प्रतस्थुः पुरस्कृत्य मातरं पुरुषर्षभाः । (१।३)

te pratasthuḥ puraskṛtya mātaraṃ puruṣarṣabhāḥ |

1.4१.४

आमन्त्र्य ब्राह्मणं पूर्वम् अभिवाद्यानुमान्य च । (१।४)

āmantrya brāhmaṇaṃ pūrvam abhivādyānumānya ca |

1.5१.५

समैर् उदङ्मुखैर् मार्गैर् यथोद्दिष्टं परंतपाः ॥ (१।५)

samair udaṅmukhair mārgair yathoddiṣṭaṃ paraṃtapāḥ ||

2.1२.१

ते गच्छन्तस्त्वहोरात्रं तीर्थं सोमश्रवायणम् । (२।१)

te gacchantastvahorātraṃ tīrthaṃ somaśravāyaṇam |

2.2२.२

पाञ्चालनगरं प्रति । (२।२)

pāñcālanagaraṃ prati |

2.3२.३

अभ्याजग्मुर् लोकनदीं गङ्गां भागीरथीं प्रति । (२।३)

abhyājagmur lokanadīṃ gaṅgāṃ bhāgīrathīṃ prati |

2.4२.४

चन्द्रास्तमयवेलायाम् अर्धरात्रे समागमे । (२।४)

candrāstamayavelāyām ardharātre samāgame |

2.5२.५

वारि चैवानुमज्जन्तः । (२।५)

vāri caivānumajjantaḥ |

2.6२.६

आसेदुः पुरुषव्याघ्रा गङ्गायां पाण्डुनन्दनाः ॥ (२।६)

āseduḥ puruṣavyāghrā gaṅgāyāṃ pāṇḍunandanāḥ ||

3.1३.१

उल्मुकं तु समुद्यम्य तेषाम् अग्रे धनंजयः । (३।१)

ulmukaṃ tu samudyamya teṣām agre dhanaṃjayaḥ |

3.2३.२

प्रकाशार्थं ययौ तत्र रक्षार्थं च महायशाः ॥ (३।२)

prakāśārthaṃ yayau tatra rakṣārthaṃ ca mahāyaśāḥ ||

4.1४.१

तत्र गङ्गाजले रम्ये विविक्ते क्रीडयन् स्त्रियः । (४।१)

tatra gaṅgājale ramye vivikte krīḍayan striyaḥ |

4.2४.२

ईर्ष्युर् गन्धर्वराजः स्म जलक्रीडाम् उपागतः ॥ (४।२)

īrṣyur gandharvarājaḥ sma jalakrīḍām upāgataḥ ||

5.1५.१

शब्दं तेषां स शुश्राव नदीं समुपसर्पताम् । (५।१)

śabdaṃ teṣāṃ sa śuśrāva nadīṃ samupasarpatām |

5.2५.२

तेन शब्देन चाविष्टश्चुक्रोध बलवद् बली ॥ (५।२)

tena śabdena cāviṣṭaścukrodha balavad balī ||

6.1६.१

स दृष्ट्वा पाण्डवांस्तत्र सह मात्रा परंतपान् । (६।१)

sa dṛṣṭvā pāṇḍavāṃstatra saha mātrā paraṃtapān |

6.2६.२

विस्फारयन् धनुर् घोरम् इदं वचनम् अब्रवीत् ॥ (६।२)

visphārayan dhanur ghoram idaṃ vacanam abravīt ||

7.1७.१

संध्या संरज्यते घोरा पूर्वरात्रागमेषु या । (७।१)

saṃdhyā saṃrajyate ghorā pūrvarātrāgameṣu yā |

7.2७.२

अशीतिभिस्त्रुटैर् हीनं तं मुहूर्तं प्रचक्षते ॥ (७।२)

aśītibhistruṭair hīnaṃ taṃ muhūrtaṃ pracakṣate ||

8.1८.१

विहितं कामचाराणां यक्षगन्धर्वरक्षसाम् । (८।१)

vihitaṃ kāmacārāṇāṃ yakṣagandharvarakṣasām |

8.2८.२

शेषम् अन्यन् मनुष्याणां कामचारम् इह स्मृतम् ॥ (८।२)

śeṣam anyan manuṣyāṇāṃ kāmacāram iha smṛtam ||

9.1९.१

लोभात् प्रचारं चरतस्तासु वेलासु वै नरान् । (९।१)

lobhāt pracāraṃ caratastāsu velāsu vai narān |

9.2९.२

उपक्रान्ता निगृह्णीमो राक्षसैः सह बालिशान् ॥ (९।२)

upakrāntā nigṛhṇīmo rākṣasaiḥ saha bāliśān ||

10.1१०.१

ततो रात्रौ प्राप्नुवतो जलं ब्रह्मविदो जनाः । (१०।१)

tato rātrau prāpnuvato jalaṃ brahmavido janāḥ |

10.2१०.२

गर्हयन्ति नरान् सर्वान् बलस्थान् नृपतीन् अपि ॥ (१०।२)

garhayanti narān sarvān balasthān nṛpatīn api ||

11.1११.१

आरात् तिष्ठत मा मह्यं समीपम् उपसर्पत । (११।१)

ārāt tiṣṭhata mā mahyaṃ samīpam upasarpata |

11.2११.२

कस्मान् मां नाभिजानीत प्राप्तं भागीरथीजलम् ॥ (११।२)

kasmān māṃ nābhijānīta prāptaṃ bhāgīrathījalam ||

12.1१२.१

अङ्गारपर्णं गन्धर्वं वित्त मां स्वबलाश्रयम् । (१२।१)

aṅgāraparṇaṃ gandharvaṃ vitta māṃ svabalāśrayam |

12.2१२.२

अहं हि मानी चेर्ष्युश्च कुबेरस्य प्रियः सखा ॥ (१२।२)

ahaṃ hi mānī cerṣyuśca kuberasya priyaḥ sakhā ||

13.1१३.१

अङ्गारपर्णम् इति च ख्यातं वनम् इदं मम । (१३।१)

aṅgāraparṇam iti ca khyātaṃ vanam idaṃ mama |

13.2१३.२

अनु गङ्गां च वाकां च चित्रं यत्र वसाम्यहम् ॥ (१३।२)

anu gaṅgāṃ ca vākāṃ ca citraṃ yatra vasāmyaham ||

14.1१४.१

न कुणपाः शृङ्गिणो वा न देवा न च मानुषाः । (१४।१)

na kuṇapāḥ śṛṅgiṇo vā na devā na ca mānuṣāḥ |

14.2१४.२

इदं समुपसर्पन्ति तत् किं समुपसर्पथ ॥ (१४।२)

idaṃ samupasarpanti tat kiṃ samupasarpatha ||

15.1१५.१

अर्जुन उवाच । (१५।१)

arjuna uvāca

15.2१५.२

समुद्रे हिमवत्पार्श्वे नद्याम् अस्यां च दुर्मते । (१५।२)

samudre himavatpārśve nadyām asyāṃ ca durmate |

15.3१५.३

रात्रावहनि संधौ च कस्य कॢप्तः परिग्रहः । (१५।३)

rātrāvahani saṃdhau ca kasya kḷptaḥ parigrahaḥ |

15.4१५.४

भुक्तो वाप्यथवाभुक्तो रात्रावहनि खेचर । (१५।४)

bhukto vāpyathavābhukto rātrāvahani khecara |

15.5१५.५

न कालनियमो ह्यस्ति गङ्गां प्राप्य सरिद्वराम् ॥ (१५।५)

na kālaniyamo hyasti gaṅgāṃ prāpya saridvarām ||

16.1१६.१

वयं च शक्तिसम्पन्ना अकाले त्वाम् अधृष्णुमः । (१६।१)

vayaṃ ca śaktisampannā akāle tvām adhṛṣṇumaḥ |

16.2१६.२

अशक्ता हि क्षणे क्रूरे युष्मान् अर्चन्ति मानवाः ॥ (१६।२)

aśaktā hi kṣaṇe krūre yuṣmān arcanti mānavāḥ ||

17.1१७.१

पुरा हिमवतश्चैषा हेमशृङ्गाद् विनिःसृता । (१७।१)

purā himavataścaiṣā hemaśṛṅgād viniḥsṛtā |

17.2१७.२

गङ्गा गत्वा समुद्राम्भः सप्तधा प्रतिपद्यते । (१७।२)

gaṅgā gatvā samudrāmbhaḥ saptadhā pratipadyate |

17.3१७.३

गङ्गां च यमुनां चैव प्लक्षजातां सरस्वतीम् । (१७।३)

gaṅgāṃ ca yamunāṃ caiva plakṣajātāṃ sarasvatīm |

17.4१७.४

रथस्थां सरयूं चैव गोमतीं गण्डकीं तथा । (१७।४)

rathasthāṃ sarayūṃ caiva gomatīṃ gaṇḍakīṃ tathā |

17.5१७.५

अपर्युषितपापास्ते नदीः सप्त पिबन्ति ये ॥ (१७।५)

aparyuṣitapāpāste nadīḥ sapta pibanti ye ||

18.1१८.१

इयं भूत्वा चैकवप्रा शुचिर् आकाशगा पुनः । (१८।१)

iyaṃ bhūtvā caikavaprā śucir ākāśagā punaḥ |

18.2१८.२

देवेषु गङ्गा गन्धर्व प्राप्नोत्यलकनन्दताम् । (१८।२)

deveṣu gaṅgā gandharva prāpnotyalakanandatām |

18.3१८.३

वङ्क्षुर् भद्रा चोत्तरगा हिमवत्पदनिःसृता ॥ (१८।३)

vaṅkṣur bhadrā cottaragā himavatpadaniḥsṛtā ||

19.1१९.१

तथा पितॄन् वैतरणी दुस्तरा पापकर्मभिः । (१९।१)

tathā pitṝn vaitaraṇī dustarā pāpakarmabhiḥ |

19.2१९.२

गङ्गा भवति गन्धर्व यथा द्वैपायनो ऽब्रवीत् ॥ (१९।२)

gaṅgā bhavati gandharva yathā dvaipāyano 'bravīt ||

20.1२०.१

असंबाधा देवनदी स्वर्गसम्पादनी शुभा । (२०।१)

asaṃbādhā devanadī svargasampādanī śubhā |

20.2२०.२

कथम् इच्छसि तां रोद्धुं नैष धर्मः सनातनः ॥ (२०।२)

katham icchasi tāṃ roddhuṃ naiṣa dharmaḥ sanātanaḥ ||

21.1२१.१

अनिवार्यम् असंबाधं तव वाचा कथं वयम् । (२१।१)

anivāryam asaṃbādhaṃ tava vācā kathaṃ vayam |

21.2२१.२

न स्पृशेम यथाकामं पुण्यं भागीरथीजलम् ॥ (२१।२)

na spṛśema yathākāmaṃ puṇyaṃ bhāgīrathījalam ||

22.1२२.१

वैशंपायन उवाच । (२२।१)

vaiśaṃpāyana uvāca

22.2२२.२

अङ्गारपर्णस्तच्छ्रुत्वा क्रुद्ध आनम्य कार्मुकम् । (२२।२)

aṅgāraparṇastacchrutvā kruddha ānamya kārmukam |

22.3२२.३

मुमोच सायकान् दीप्तान् अहीन् आशीविषान् इव ॥ (२२।३)

mumoca sāyakān dīptān ahīn āśīviṣān iva ||

23.1२३.१

उल्मुकं भ्रामयंस्तूर्णं पाण्डवश्चर्म चोत्तमम् । (२३।१)

ulmukaṃ bhrāmayaṃstūrṇaṃ pāṇḍavaścarma cottamam |

23.2२३.२

व्यपोवाह शरांस्तस्य सर्वान् एव धनंजयः ॥ (२३।२)

vyapovāha śarāṃstasya sarvān eva dhanaṃjayaḥ ||

24.1२४.१

अर्जुन उवाच । (२४।१)

arjuna uvāca

24.2२४.२

बिभीषिकैषा गन्धर्व नास्त्रज्ञेषु प्रयुज्यते । (२४।२)

bibhīṣikaiṣā gandharva nāstrajñeṣu prayujyate |

24.3२४.३

अस्त्रज्ञेषु प्रयुक्तैषा फेनवत् प्रविलीयते ॥ (२४।३)

astrajñeṣu prayuktaiṣā phenavat pravilīyate ||

25.1२५.१

मानुषान् अति गन्धर्वान् सर्वान् गन्धर्व लक्षये । (२५।१)

mānuṣān ati gandharvān sarvān gandharva lakṣaye |

25.2२५.२

तस्माद् अस्त्रेण दिव्येन योत्स्ये ऽहं न तु मायया ॥ (२५।२)

tasmād astreṇa divyena yotsye 'haṃ na tu māyayā ||

26.1२६.१

पुरास्त्रम् इदम् आग्नेयं प्रादात् किल बृहस्पतिः । (२६।१)

purāstram idam āgneyaṃ prādāt kila bṛhaspatiḥ |

26.2२६.२

भरद्वाजस्य गन्धर्व गुरुपुत्रः शतक्रतोः ॥ (२६।२)

bharadvājasya gandharva guruputraḥ śatakratoḥ ||

27.1२७.१

भरद्वाजाद् अग्निवेश्यो ऽग्निवेश्याद् गुरुर् मम । (२७।१)

bharadvājād agniveśyo 'gniveśyād gurur mama |

27.2२७.२

स त्विदं मह्यम् अददाद् द्रोणो ब्राह्मणसत्तमः ॥ (२७।२)

sa tvidaṃ mahyam adadād droṇo brāhmaṇasattamaḥ ||

28.1२८.१

वैशंपायन उवाच । (२८।१)

vaiśaṃpāyana uvāca

28.2२८.२

इत्युक्त्वा पाण्डवः क्रुद्धो गन्धर्वाय मुमोच ह । (२८।२)

ityuktvā pāṇḍavaḥ kruddho gandharvāya mumoca ha |

28.3२८.३

प्रदीप्तम् अस्त्रम् आग्नेयं ददाहास्य रथं तु तत् ॥ (२८।३)

pradīptam astram āgneyaṃ dadāhāsya rathaṃ tu tat ||

29.1२९.१

विरथं विप्लुतं तं तु स गन्धर्वं महाबलम् । (२९।१)

virathaṃ viplutaṃ taṃ tu sa gandharvaṃ mahābalam |

29.2२९.२

अस्त्रतेजःप्रमूढं च प्रपतन्तम् अवाङ्मुखम् ॥ (२९।२)

astratejaḥpramūḍhaṃ ca prapatantam avāṅmukham ||

30.1३०.१

शिरोरुहेषु जग्राह माल्यवत्सु धनंजयः । (३०।१)

śiroruheṣu jagrāha mālyavatsu dhanaṃjayaḥ |

30.2३०.२

भ्रातॄन् प्रति चकर्षाथ सो ऽस्त्रपाताद् अचेतसम् ॥ (३०।२)

bhrātṝn prati cakarṣātha so 'strapātād acetasam ||

31.1३१.१

युधिष्ठिरं तस्य भार्या प्रपेदे शरणार्थिनी । (३१।१)

yudhiṣṭhiraṃ tasya bhāryā prapede śaraṇārthinī |

31.2३१.२

नाम्ना कुम्भीनसी नाम पतित्राणम् अभीप्सती ॥ (३१।२)

nāmnā kumbhīnasī nāma patitrāṇam abhīpsatī ||

32.1३२.१

गन्धर्व्युवाच । (३२।१)

gandharvyuvāca |

32.2३२.२

त्राहि त्वं मां महाराज पतिं चेमं विमुञ्च मे । (३२।२)

trāhi tvaṃ māṃ mahārāja patiṃ cemaṃ vimuñca me |

32.3३२.३

गन्धर्वीं शरणं प्राप्तां नाम्ना कुम्भीनसीं प्रभो । (३२।३)

gandharvīṃ śaraṇaṃ prāptāṃ nāmnā kumbhīnasīṃ prabho |

32.4३२.४

दीनं वाक्यं तु तच्छ्रुत्वा युधिष्ठिर उवाच ह । (३२।४)

dīnaṃ vākyaṃ tu tacchrutvā yudhiṣṭhira uvāca ha |

32.5३२.५

दृष्ट्वोवाच महाबाहुः फाल्गुनं वै युधिष्ठिरः । (३२।५)

dṛṣṭvovāca mahābāhuḥ phālgunaṃ vai yudhiṣṭhiraḥ |

32.6३२.६

दृष्ट्वानुग्रहभावाच्च पार्थः पार्थम् उवाच ह ॥ (३२।६)

dṛṣṭvānugrahabhāvācca pārthaḥ pārtham uvāca ha ||

33.1३३.१

युधिष्ठिर उवाच । (३३।१)

yudhiṣṭhira uvāca

33.2३३.२

युद्धे जितं यशोहीनं स्त्रीनाथम् अपराक्रमम् । (३३।२)

yuddhe jitaṃ yaśohīnaṃ strīnātham aparākramam |

33.3३३.३

को नु हन्याद् रिपुं त्वादृङ् मुञ्चेमं रिपुसूदन ॥ (३३।३)

ko nu hanyād ripuṃ tvādṛṅ muñcemaṃ ripusūdana ||

34.1३४.१

अर्जुन उवाच । (३४।१)

arjuna uvāca

34.2३४.२

अङ्गेमं प्रतिपद्यस्व गच्छ गन्धर्व मा शुचः । (३४।२)

aṅgemaṃ pratipadyasva gaccha gandharva mā śucaḥ |

34.3३४.३

प्रदिशत्यभयं ते ऽद्य कुरुराजो युधिष्ठिरः ॥ (३४।३)

pradiśatyabhayaṃ te 'dya kururājo yudhiṣṭhiraḥ ||

35.1३५.१

गन्धर्व उवाच । (३५।१)

gandharva uvāca

35.2३५.२

जितो ऽहं पूर्वकं नाम मुञ्चाम्यङ्गारपर्णताम् । (३५।२)

jito 'haṃ pūrvakaṃ nāma muñcāmyaṅgāraparṇatām |

35.3३५.३

न च श्लाघे बलेनाद्य न नाम्ना जनसंसदि ॥ (३५।३)

na ca ślāghe balenādya na nāmnā janasaṃsadi ||

36.1३६.१

साध्विमं लब्धवांल् लाभं यो ऽहं दिव्यास्त्रधारिणम् । (३६।१)

sādhvimaṃ labdhavāṃl lābhaṃ yo 'haṃ divyāstradhāriṇam |

36.2३६.२

गान्धर्व्या मायया योद्धुम् इच्छामि वयसा वरम् ॥ (३६।२)

gāndharvyā māyayā yoddhum icchāmi vayasā varam ||

37.1३७.१

अस्त्राग्निना विचित्रो ऽयं दग्धो मे रथ उत्तमः । (३७।१)

astrāgninā vicitro 'yaṃ dagdho me ratha uttamaḥ |

37.2३७.२

सो ऽहं चित्ररथो भूत्वा नाम्ना दग्धरथो ऽभवम् ॥ (३७।२)

so 'haṃ citraratho bhūtvā nāmnā dagdharatho 'bhavam ||

38.1३८.१

संभृता चैव विद्येयं तपसेह पुरा मया । (३८।१)

saṃbhṛtā caiva vidyeyaṃ tapaseha purā mayā |

38.2३८.२

निवेदयिष्ये ताम् अद्य प्राणदाया महात्मने ॥ (३८।२)

nivedayiṣye tām adya prāṇadāyā mahātmane ||

39.1३९.१

संस्तम्भितं हि तरसा जितं शरणम् आगतम् । (३९।१)

saṃstambhitaṃ hi tarasā jitaṃ śaraṇam āgatam |

39.2३९.२

यो ऽरिं संयोजयेत् प्राणैः कल्याणं किं न सो ऽर्हति ॥ (३९।२)

yo 'riṃ saṃyojayet prāṇaiḥ kalyāṇaṃ kiṃ na so 'rhati ||

40.1४०.१

चक्षुषी नाम विद्येयं यां सोमाय ददौ मनुः । (४०।१)

cakṣuṣī nāma vidyeyaṃ yāṃ somāya dadau manuḥ |

40.2४०.२

ददौ स विश्वावसवे मह्यं विश्वावसुर् ददौ ॥ (४०।२)

dadau sa viśvāvasave mahyaṃ viśvāvasur dadau ||

41.1४१.१

सेयं कापुरुषं प्राप्ता गुरुदत्ता प्रणश्यति । (४१।१)

seyaṃ kāpuruṣaṃ prāptā gurudattā praṇaśyati |

41.2४१.२

आगमो ऽस्या मया प्रोक्तो वीर्यं प्रतिनिबोध मे ॥ (४१।२)

āgamo 'syā mayā prokto vīryaṃ pratinibodha me ||

42.1४२.१

यच्चक्षुषा द्रष्टुम् इच्छेत् त्रिषु लोकेषु किंचन । (४२।१)

yaccakṣuṣā draṣṭum icchet triṣu lokeṣu kiṃcana |

42.2४२.२

तत् पश्येद् यादृशं चेच्छेत् तादृशं द्रष्टुम् अर्हति ॥ (४२।२)

tat paśyed yādṛśaṃ cecchet tādṛśaṃ draṣṭum arhati ||

43.1४३.१

समानपद्ये षण्मासान् स्थितो विद्यां लभेद् इमाम् । (४३।१)

samānapadye ṣaṇmāsān sthito vidyāṃ labhed imām |

43.2४३.२

अनुनेष्याम्यहं विद्यां स्वयं तुभ्यं व्रते कृते ॥ (४३।२)

anuneṣyāmyahaṃ vidyāṃ svayaṃ tubhyaṃ vrate kṛte ||

44.1४४.१

विद्यया ह्यनया राजन् वयं नृभ्यो विशेषिताः । (४४।१)

vidyayā hyanayā rājan vayaṃ nṛbhyo viśeṣitāḥ |

44.2४४.२

अविशिष्टाश्च देवानाम् अनुभावप्रवर्तिताः ॥ (४४।२)

aviśiṣṭāśca devānām anubhāvapravartitāḥ ||

45.1४५.१

गन्धर्वजानाम् अश्वानाम् अहं पुरुषसत्तम । (४५।१)

gandharvajānām aśvānām ahaṃ puruṣasattama |

45.2४५.२

भ्रातृभ्यस्तव पञ्चभ्यः पृथग् दाता शतं शतम् ॥ (४५।२)

bhrātṛbhyastava pañcabhyaḥ pṛthag dātā śataṃ śatam ||

46.1४६.१

देवगन्धर्ववाहास्ते दिव्यगन्धा मनोगमाः । (४६।१)

devagandharvavāhāste divyagandhā manogamāḥ |

46.2४६.२

क्षीणाः क्षीणा भवन्त्येते न हीयन्ते च रंहसः ॥ (४६।२)

kṣīṇāḥ kṣīṇā bhavantyete na hīyante ca raṃhasaḥ ||

47.1४७.१

पुरा कृतं महेन्द्रस्य वज्रं वृत्रनिबर्हणे । (४७।१)

purā kṛtaṃ mahendrasya vajraṃ vṛtranibarhaṇe |

47.2४७.२

दशधा शतधा चैव तच्छीर्णं वृत्रमूर्धनि ॥ (४७।२)

daśadhā śatadhā caiva tacchīrṇaṃ vṛtramūrdhani ||

48.1४८.१

ततो भागीकृतो देवैर् वज्रभाग उपास्यते । (४८।१)

tato bhāgīkṛto devair vajrabhāga upāsyate |

48.2४८.२

लोके यत् साधनं किंचित् सा वै वज्रतनुः स्मृता ॥ (४८।२)

loke yat sādhanaṃ kiṃcit sā vai vajratanuḥ smṛtā ||

49.1४९.१

वज्रपाणिर् ब्राह्मणः स्यात् क्षत्रं वज्ररथं स्मृतम् । (४९।१)

vajrapāṇir brāhmaṇaḥ syāt kṣatraṃ vajrarathaṃ smṛtam |

49.2४९.२

वैश्या वै दानवज्राश्च कर्मवज्रा यवीयसः ॥ (४९।२)

vaiśyā vai dānavajrāśca karmavajrā yavīyasaḥ ||

50.1५०.१

वज्रं क्षत्रस्य वाजिनोऽवध्या वाजिनः स्मृताः । (५०।१)

vajraṃ kṣatrasya vājino'vadhyā vājinaḥ smṛtāḥ |

50.2५०.२

रथाङ्गं वडवा सूते सूताश्चाश्वेषु ये मताः ॥ (५०।२)

rathāṅgaṃ vaḍavā sūte sūtāścāśveṣu ye matāḥ ||

51.1५१.१

कामवर्णाः कामजवाः कामतः समुपस्थिताः । (५१।१)

kāmavarṇāḥ kāmajavāḥ kāmataḥ samupasthitāḥ |

51.2५१.२

इमे गन्धर्वजाः कामं पूरयिष्यन्ति ते हयाः ॥ (५१।२)

ime gandharvajāḥ kāmaṃ pūrayiṣyanti te hayāḥ ||

52.1५२.१

अर्जुन उवाच । (५२।१)

arjuna uvāca

52.2५२.२

यदि प्रीतेन वा दत्तं संशये जीवितस्य वा । (५२।२)

yadi prītena vā dattaṃ saṃśaye jīvitasya vā |

52.3५२.३

विद्या वित्तं श्रुतं वापि न तद् गन्धर्व कामये ॥ (५२।३)

vidyā vittaṃ śrutaṃ vāpi na tad gandharva kāmaye ||

53.1५३.१

गन्धर्व उवाच । (५३।१)

gandharva uvāca

53.2५३.२

संयोगो वै प्रीतिकरः संसत्सु प्रतिदृश्यते । (५३।२)

saṃyogo vai prītikaraḥ saṃsatsu pratidṛśyate |

53.3५३.३

जीवितस्य प्रदानेन प्रीतो विद्यां ददामि ते ॥ (५३।३)

jīvitasya pradānena prīto vidyāṃ dadāmi te ||

54.1५४.१

त्वत्तो ह्यहं ग्रहीष्यामि अस्त्रम् आग्नेयम् उत्तमम् । (५४।१)

tvatto hyahaṃ grahīṣyāmi astram āgneyam uttamam |

54.2५४.२

तथैव सख्यं बीभत्सो चिराय भरतर्षभ ॥ (५४।२)

tathaiva sakhyaṃ bībhatso cirāya bharatarṣabha ||

55.1५५.१

अर्जुन उवाच । (५५।१)

arjuna uvāca

55.2५५.२

त्वत्तो ऽस्त्रेण वृणोम्यश्वान् संयोगः शाश्वतो ऽस्तु नौ । (५५।२)

tvatto 'streṇa vṛṇomyaśvān saṃyogaḥ śāśvato 'stu nau |

55.3५५.३

सखे तद् ब्रूहि गन्धर्व युष्मभ्यो यद् भयं त्यजेत् ॥ (५५।३)

sakhe tad brūhi gandharva yuṣmabhyo yad bhayaṃ tyajet ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 1, 158

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit