MBh, 13, 106
Select a line for its word-by-word analysis.
स्वदारतुष्टिश्चोक्ता ते फलं दानस्य चैव यत् ॥ (१।३)
svadāratuṣṭiścoktā te phalaṃ dānasya caiva yat ||
तपसो यत् परं ते ऽद्य तन्मे व्याख्यातुम् अर्हसि ॥ (२।२)
tapaso yat paraṃ te 'dya tanme vyākhyātum arhasi ||
ऋषिलोकं च सो ऽगच्छद् भगीरथ इति श्रुतिः ॥ (५।२)
ṛṣilokaṃ ca so 'gacchad bhagīratha iti śrutiḥ ||
तं दृष्ट्वा स वचः प्राह ब्रह्मा राजन् भगीरथम् । (६।१)
taṃ dṛṣṭvā sa vacaḥ prāha brahmā rājan bhagīratham |
निःशङ्कम् अन्नम् अददं ब्राह्मणेभ्यः शतं सहस्राणि सदैव दानम् । (८।२)
niḥśaṅkam annam adadaṃ brāhmaṇebhyaḥ śataṃ sahasrāṇi sadaiva dānam |
ब्राह्मं व्रतं नित्यम् आस्थाय विद्धि न त्वेवाहं तस्य फलाद् इहागाम् ॥ (८।३)
brāhmaṃ vrataṃ nityam āsthāya viddhi na tvevāhaṃ tasya phalād ihāgām ||
दशैकरात्रान् दश पञ्चरात्रान् एकादशैकादशकान् क्रतूंश्च । (९।१)
daśaikarātrān daśa pañcarātrān ekādaśaikādaśakān kratūṃśca |
ज्योतिष्टोमानां च शतं यद् इष्टं फलेन तेनापि च नागतो ऽहम् ॥ (९।२)
jyotiṣṭomānāṃ ca śataṃ yad iṣṭaṃ phalena tenāpi ca nāgato 'ham ||
यच्चावसं जाह्नवीतीरनित्यः शतं समास्तप्यमानस्तपो ऽहम् । (१०।१)
yaccāvasaṃ jāhnavītīranityaḥ śataṃ samāstapyamānastapo 'ham |
अदां च तत्राश्वतरीसहस्रं नारीपुरं न च तेनाहम् आगाम् ॥ (१०।२)
adāṃ ca tatrāśvatarīsahasraṃ nārīpuraṃ na ca tenāham āgām ||
पुष्करेषु द्विजातिभ्यः प्रादां गाश्च सहस्रशः ॥ (११।२)
puṣkareṣu dvijātibhyaḥ prādāṃ gāśca sahasraśaḥ ||
सुवर्णचन्द्रोडुपधारिणीनां कन्योत्तमानाम् अददं स्रग्विणीनाम् । (१२।१)
suvarṇacandroḍupadhāriṇīnāṃ kanyottamānām adadaṃ sragviṇīnām |
षष्टिं सहस्राणि विभूषितानां जाम्बूनदैर् आभरणैर् न तेन ॥ (१२।२)
ṣaṣṭiṃ sahasrāṇi vibhūṣitānāṃ jāmbūnadair ābharaṇair na tena ||
दशार्बुदान्यददं गोसवेज्यास्व् एकैकशो दश गा लोकनाथ । (१३।१)
daśārbudānyadadaṃ gosavejyāsv ekaikaśo daśa gā lokanātha |
समानवत्साः पयसा समन्विताः सुवर्णकांस्योपदुहा न तेन ॥ (१३।२)
samānavatsāḥ payasā samanvitāḥ suvarṇakāṃsyopaduhā na tena ||
गृष्टीनां क्षीरदात्रीणां रोहिणीनां न तेन च ॥ (१४।२)
gṛṣṭīnāṃ kṣīradātrīṇāṃ rohiṇīnāṃ na tena ca ||
दोग्ध्रीणां वै गवां चैव प्रयुतानि दशैव ह । (१५।१)
dogdhrīṇāṃ vai gavāṃ caiva prayutāni daśaiva ha |
प्रादां दशगुणं ब्रह्मन्न च तेनाहम् आगतः ॥ (१५।२)
prādāṃ daśaguṇaṃ brahmanna ca tenāham āgataḥ ||
कोटीश्च काञ्चनस्याष्टौ प्रादां ब्रह्मन् दश त्वहम् । (१७।१)
koṭīśca kāñcanasyāṣṭau prādāṃ brahman daśa tvaham |
एकैकस्मिन् क्रतौ तेन फलेनाहं न चागतः ॥ (१७।२)
ekaikasmin kratau tena phalenāhaṃ na cāgataḥ ||
प्रादां हेमस्रजां ब्रह्मन् कोटीर् दश च सप्त च ॥ (१८।२)
prādāṃ hemasrajāṃ brahman koṭīr daśa ca sapta ca ||
ईषादन्तान्महाकायान् काञ्चनस्रग्विभूषितान् । (१९।१)
īṣādantānmahākāyān kāñcanasragvibhūṣitān |
पत्नीमतः सहस्राणि प्रायच्छं दश सप्त च ॥ (१९।२)
patnīmataḥ sahasrāṇi prāyacchaṃ daśa sapta ca ||
सप्त चान्यानि युक्तानि वाजिभिः समलंकृतैः ॥ (२०।३)
sapta cānyāni yuktāni vājibhiḥ samalaṃkṛtaiḥ ||
दक्षिणावयवाः केचिद् वेदैर् ये संप्रकीर्तिताः । (२१।१)
dakṣiṇāvayavāḥ kecid vedair ye saṃprakīrtitāḥ |
सहस्रं निष्ककण्ठानाम् अददं दक्षिणाम् अहम् ॥ (२२।२)
sahasraṃ niṣkakaṇṭhānām adadaṃ dakṣiṇām aham ||
विजित्य नृपतीन् सर्वान्मखैर् इष्ट्वा पितामह । (२३।१)
vijitya nṛpatīn sarvānmakhair iṣṭvā pitāmaha |
स्रोतश्च यावद् गङ्गायाश्छन्नम् आसीज्जगत्पते । (२४।१)
srotaśca yāvad gaṅgāyāśchannam āsījjagatpate |
दक्षिणाभिः प्रवृत्ताभिर् मम नागां च तत्कृते ॥ (२४।२)
dakṣiṇābhiḥ pravṛttābhir mama nāgāṃ ca tatkṛte ||
वरं ग्रामशतं चाहम् एकैकस्य त्रिधाददम् । (२५।२)
varaṃ grāmaśataṃ cāham ekaikasya tridhādadam |
दीर्घकालं हिमवति गङ्गायाश्च दुरुत्सहाम् । (२६।१)
dīrghakālaṃ himavati gaṅgāyāśca durutsahām |
मूर्ध्ना धारां महादेवः शिरसा याम् अधारयत् । (२६।२)
mūrdhnā dhārāṃ mahādevaḥ śirasā yām adhārayat |
शम्याक्षेपैर् अयजं यच्च देवान् सद्यस्कानाम् अयुतैश्चापि यत् तत् । (२७।१)
śamyākṣepair ayajaṃ yacca devān sadyaskānām ayutaiścāpi yat tat |
त्रयोदशद्वादशाहांश्च देव सपौण्डरीकान्न च तेषां फलेन ॥ (२७।२)
trayodaśadvādaśāhāṃśca deva sapauṇḍarīkānna ca teṣāṃ phalena ||
अष्टौ सहस्राणि ककुद्मिनाम् अहं शुक्लर्षभाणाम् अददं ब्राह्मणेभ्यः । (२८।१)
aṣṭau sahasrāṇi kakudminām ahaṃ śuklarṣabhāṇām adadaṃ brāhmaṇebhyaḥ |
एकैकं वै काञ्चनं शृङ्गम् एभ्यः पत्नीश्चैषाम् अददं निष्ककण्ठीः ॥ (२८।२)
ekaikaṃ vai kāñcanaṃ śṛṅgam ebhyaḥ patnīścaiṣām adadaṃ niṣkakaṇṭhīḥ ||
धनधान्यसमृद्धांश्च ग्रामाञ्शतसहस्रशः ॥ (२९।२)
dhanadhānyasamṛddhāṃśca grāmāñśatasahasraśaḥ ||
शतं शतानां गृष्टीनाम् अददं चाप्यतन्द्रितः । (३०।१)
śataṃ śatānāṃ gṛṣṭīnām adadaṃ cāpyatandritaḥ |
इष्ट्वानेकैर् महायज्ञैर् ब्राह्मणेभ्यो न तेन च ॥ (३०।२)
iṣṭvānekair mahāyajñair brāhmaṇebhyo na tena ca ||
एकादशाहैर् अयजं सदक्षिणैर् द्विर्द्वादशाहैर् अश्वमेधैश्च देव । (३१।१)
ekādaśāhair ayajaṃ sadakṣiṇair dvirdvādaśāhair aśvamedhaiśca deva |
आर्कायणैः षोडशभिश्च ब्रह्मंस्तेषां फलेनेह न चागतो ऽस्मि ॥ (३१।२)
ārkāyaṇaiḥ ṣoḍaśabhiśca brahmaṃsteṣāṃ phaleneha na cāgato 'smi ||
निष्कैककण्ठम् अददं योजनायतं तद् विस्तीर्णं काञ्चनपादपानाम् । (३२।१)
niṣkaikakaṇṭham adadaṃ yojanāyataṃ tad vistīrṇaṃ kāñcanapādapānām |
वनं चूतानां रत्नविभूषितानां न चैव तेषाम् आगतो ऽहं फलेन ॥ (३२।२)
vanaṃ cūtānāṃ ratnavibhūṣitānāṃ na caiva teṣām āgato 'haṃ phalena ||
तुरायणं हि व्रतम् अप्रधृष्यम् अक्रोधनो ऽकरवं त्रिंशतो ऽब्दान् । (३३।१)
turāyaṇaṃ hi vratam apradhṛṣyam akrodhano 'karavaṃ triṃśato 'bdān |
शतं गवाम् अष्ट शतानि चैव दिने दिने ह्यददं ब्राह्मणेभ्यः ॥ (३३।२)
śataṃ gavām aṣṭa śatāni caiva dine dine hyadadaṃ brāhmaṇebhyaḥ ||
पयस्विनीनाम् अथ रोहिणीनां तथैव चाप्यनडुहां लोकनाथ । (३४।१)
payasvinīnām atha rohiṇīnāṃ tathaiva cāpyanaḍuhāṃ lokanātha |
प्रादां नित्यं ब्राह्मणेभ्यः सुरेश नेहागतस्तेन फलेन चाहम् ॥ (३४।२)
prādāṃ nityaṃ brāhmaṇebhyaḥ sureśa nehāgatastena phalena cāham ||
त्रिंशद् अग्निम् अहं ब्रह्मन्न् अयजं यच्च नित्यदा । (३५।१)
triṃśad agnim ahaṃ brahmann ayajaṃ yacca nityadā |
अष्टाभिः सर्वमेधैश्च नरमेधैश्च सप्तभिः ॥ (३५।२)
aṣṭābhiḥ sarvamedhaiśca naramedhaiśca saptabhiḥ ||
दशभिर् विश्वजिद्भिश्च शतैर् अष्टादशोत्तरैः । (३६।१)
daśabhir viśvajidbhiśca śatair aṣṭādaśottaraiḥ |
सरय्वां बाहुदायां च गङ्गायाम् अथ नैमिषे । (३७।१)
sarayvāṃ bāhudāyāṃ ca gaṅgāyām atha naimiṣe |
इन्द्रेण गुह्यं निहितं वै गुहायां यद् भार्गवस्तपसेहाभ्यविन्दत् । (३८।१)
indreṇa guhyaṃ nihitaṃ vai guhāyāṃ yad bhārgavastapasehābhyavindat |
जाज्वल्यमानम् उशनस्तेजसेह तत् साधयामास महं वरेण्यम् ॥ (३८।२)
jājvalyamānam uśanastejaseha tat sādhayāmāsa mahaṃ vareṇyam ||
ततो मे ब्राह्मणास्तुष्टास्तस्मिन् कर्मणि साधिते । (३९।१)
tato me brāhmaṇāstuṣṭāstasmin karmaṇi sādhite |
उक्तस्तैर् अस्मि गच्छ त्वं ब्रह्मलोकम् इति प्रभो ॥ (३९।३)
uktastair asmi gaccha tvaṃ brahmalokam iti prabho ||
प्रीतेनोक्तः सहस्रेण ब्राह्मणानाम् अहं प्रभो । (४०।१)
prītenoktaḥ sahasreṇa brāhmaṇānām ahaṃ prabho |
इमं लोकम् अनुप्राप्तो मा भूत् ते ऽत्र विचारणा ॥ (४०।२)
imaṃ lokam anuprāpto mā bhūt te 'tra vicāraṇā ||
कामं यथावद् विहितं विधात्रा पृष्टेन वाच्यं तु मया यथावत् । (४१।१)
kāmaṃ yathāvad vihitaṃ vidhātrā pṛṣṭena vācyaṃ tu mayā yathāvat |
तपो हि नान्यच्चानशनान्मतं मे नमो ऽस्तु ते देववर प्रसीद ॥ (४१।२)
tapo hi nānyaccānaśanānmataṃ me namo 'stu te devavara prasīda ||
इत्युक्तवन्तं तं ब्रह्मा राजानं स्म भगीरथम् । (४२।२)
ityuktavantaṃ taṃ brahmā rājānaṃ sma bhagīratham |
Data courtesy of The Digital Corpus of Sanskrit.