महाभारतMahābhārata

MBh, 12, 37

1365 of 1995 · 90 verses

Select a line for its word-by-word analysis.

1.1१.१

वैशंपायन उवाच । (१।१)

vaiśaṃpāyana uvāca

1.2१.२

एवम् उक्तो भगवता धर्मराजो युधिष्ठिरः । (१।२)

evam ukto bhagavatā dharmarājo yudhiṣṭhiraḥ |

1.3१.३

चिन्तयित्वा मुहूर्तं तु प्रत्युवाच तपोधनम् ॥ (१।३)

cintayitvā muhūrtaṃ tu pratyuvāca tapodhanam ||

2.1२.१

किं भक्ष्यं किम् अभक्ष्यं च किं च देयं प्रशस्यते । (२।१)

kiṃ bhakṣyaṃ kim abhakṣyaṃ ca kiṃ ca deyaṃ praśasyate |

2.2२.२

किं च पात्रम् अपात्रं वा तन्मे ब्रूहि पितामह ॥ (२।२)

kiṃ ca pātram apātraṃ vā tanme brūhi pitāmaha ||

3.1३.१

व्यास उवाच । (३।१)

vyāsa uvāca

3.2३.२

अत्राप्युदाहरन्तीमम् इतिहासं पुरातनम् । (३।२)

atrāpyudāharantīmam itihāsaṃ purātanam |

3.3३.३

सिद्धानां चैव संवादं मनोश्चैव प्रजापतेः ॥ (३।३)

siddhānāṃ caiva saṃvādaṃ manoścaiva prajāpateḥ ||

4.1४.१

सिद्धास्तपोव्रतपराः समागम्य पुरा विभुम् । (४।१)

siddhāstapovrataparāḥ samāgamya purā vibhum |

4.2४.२

धर्मं पप्रच्छुर् आसीनम् आदिकाले प्रजापतिम् ॥ (४।२)

dharmaṃ papracchur āsīnam ādikāle prajāpatim ||

5.1५.१

कथम् अन्नं कथं दानं कथम् अध्ययनं तपः । (५।१)

katham annaṃ kathaṃ dānaṃ katham adhyayanaṃ tapaḥ |

5.2५.२

कार्याकार्यं च नः सर्वं शंस वै त्वं प्रजापते ॥ (५।२)

kāryākāryaṃ ca naḥ sarvaṃ śaṃsa vai tvaṃ prajāpate ||

6.1६.१

तैर् एवम् उक्तो भगवान्मनुः स्वायंभुवो ऽब्रवीत् । (६।१)

tair evam ukto bhagavānmanuḥ svāyaṃbhuvo 'bravīt |

6.2६.२

शुश्रूषध्वं यथावृत्तं धर्मं व्याससमासतः ॥ (६।२)

śuśrūṣadhvaṃ yathāvṛttaṃ dharmaṃ vyāsasamāsataḥ ||

7.1७.१

अदत्तस्यानुपादानं दानम् अध्ययनं तपः । (७।१)

adattasyānupādānaṃ dānam adhyayanaṃ tapaḥ |

7.2७.२

अहिंसा सत्यम् अक्रोधः क्षमेज्या धर्मलक्षणम् ॥ (७।२)

ahiṃsā satyam akrodhaḥ kṣamejyā dharmalakṣaṇam ||

8.1८.१

य एव धर्मः सो ऽधर्मो ऽदेशे ऽकाले प्रतिष्ठितः । (८।१)

ya eva dharmaḥ so 'dharmo 'deśe 'kāle pratiṣṭhitaḥ |

8.2८.२

आदानम् अनृतं हिंसा धर्मो व्यावस्थिकः स्मृतः ॥ (८।२)

ādānam anṛtaṃ hiṃsā dharmo vyāvasthikaḥ smṛtaḥ ||

9.1९.१

द्विविधौ चाप्युभावेतौ धर्माधर्मौ विजानताम् । (९।१)

dvividhau cāpyubhāvetau dharmādharmau vijānatām |

9.2९.२

अप्रवृत्तिः प्रवृत्तिश्च द्वैविध्यं लोकवेदयोः ॥ (९।२)

apravṛttiḥ pravṛttiśca dvaividhyaṃ lokavedayoḥ ||

10.1१०.१

अप्रवृत्तेर् अमर्त्यत्वं मर्त्यत्वं कर्मणः फलम् । (१०।१)

apravṛtter amartyatvaṃ martyatvaṃ karmaṇaḥ phalam |

10.2१०.२

अशुभस्याशुभं विद्याच्छुभस्य शुभम् एव च ॥ (१०।२)

aśubhasyāśubhaṃ vidyācchubhasya śubham eva ca ||

11.1११.१

एतयोश्चोभयोः स्यातां शुभाशुभतया तथा । (११।१)

etayoścobhayoḥ syātāṃ śubhāśubhatayā tathā |

11.2११.२

दैवं च दैवयुक्तं च प्राणश्च प्रलयश्च ह ॥ (११।२)

daivaṃ ca daivayuktaṃ ca prāṇaśca pralayaśca ha ||

12.1१२.१

अप्रेक्षापूर्वकरणाद् अशुभानां शुभं फलम् । (१२।१)

aprekṣāpūrvakaraṇād aśubhānāṃ śubhaṃ phalam |

12.2१२.२

ऊर्ध्वं भवति संदेहाद् इह दृष्टार्थम् एव वा । (१२।२)

ūrdhvaṃ bhavati saṃdehād iha dṛṣṭārtham eva vā |

12.3१२.३

अप्रेक्षापूर्वकरणात् प्रायश्चित्तं विधीयते ॥ (१२।३)

aprekṣāpūrvakaraṇāt prāyaścittaṃ vidhīyate ||

13.1१३.१

क्रोधमोहकृते चैव दृष्टान्तागमहेतुभिः । (१३।१)

krodhamohakṛte caiva dṛṣṭāntāgamahetubhiḥ |

13.2१३.२

शरीराणाम् उपक्लेशो मनसश्च प्रियाप्रिये । (१३।२)

śarīrāṇām upakleśo manasaśca priyāpriye |

13.3१३.३

तद् औषधैश्च मन्त्रैश्च प्रायश्चित्तैश्च शाम्यति ॥ (१३।३)

tad auṣadhaiśca mantraiśca prāyaścittaiśca śāmyati ||

14.1१४.१

जातिश्रेण्यधिवासानां कुलधर्मांश्च सर्वतः । (१४।१)

jātiśreṇyadhivāsānāṃ kuladharmāṃśca sarvataḥ |

14.2१४.२

वर्जयेन्न हि तं धर्मं येषां धर्मो न विद्यते ॥ (१४।२)

varjayenna hi taṃ dharmaṃ yeṣāṃ dharmo na vidyate ||

15.1१५.१

दश वा वेदशास्त्रज्ञास्त्रयो वा धर्मपाठकाः । (१५।१)

daśa vā vedaśāstrajñāstrayo vā dharmapāṭhakāḥ |

15.2१५.२

यद् ब्रूयुः कार्य उत्पन्ने स धर्मो धर्मसंशये ॥ (१५।२)

yad brūyuḥ kārya utpanne sa dharmo dharmasaṃśaye ||

16.1१६.१

अरुणा मृत्तिका चैव तथा चैव पिपीलकाः । (१६।१)

aruṇā mṛttikā caiva tathā caiva pipīlakāḥ |

16.2१६.२

श्लेष्मातकस्तथा विप्रैर् अभक्ष्यं विषम् एव च ॥ (१६।२)

śleṣmātakastathā viprair abhakṣyaṃ viṣam eva ca ||

17.1१७.१

अभक्ष्या ब्राह्मणैर् मत्स्याः शकलैर् ये विवर्जिताः । (१७।१)

abhakṣyā brāhmaṇair matsyāḥ śakalair ye vivarjitāḥ |

17.2१७.२

चतुष्पात् कच्छपाद् अन्यो मण्डूका जलजाश्च ये ॥ (१७।२)

catuṣpāt kacchapād anyo maṇḍūkā jalajāśca ye ||

18.1१८.१

भासा हंसाः सुपर्णाश्च चक्रवाका बकाः प्लवाः । (१८।१)

bhāsā haṃsāḥ suparṇāśca cakravākā bakāḥ plavāḥ |

18.2१८.२

कङ्को मद्गुश्च गृध्राश्च काकोलूकं तथैव च ॥ (१८।२)

kaṅko madguśca gṛdhrāśca kākolūkaṃ tathaiva ca ||

19.1१९.१

क्रव्यादाः पक्षिणः सर्वे चतुष्पादाश्च दंष्ट्रिणः । (१९।१)

kravyādāḥ pakṣiṇaḥ sarve catuṣpādāśca daṃṣṭriṇaḥ |

19.2१९.२

येषां चोभयतो दन्ताश्चतुर्दंष्ट्राश्च सर्वशः ॥ (१९।२)

yeṣāṃ cobhayato dantāścaturdaṃṣṭrāśca sarvaśaḥ ||

20.1२०.१

एडकाश्वखरोष्ट्रीणां सूतिकानां गवाम् अपि । (२०।१)

eḍakāśvakharoṣṭrīṇāṃ sūtikānāṃ gavām api |

20.2२०.२

मानुषीणां मृगीणां च न पिबेद् ब्राह्मणः पयः ॥ (२०।२)

mānuṣīṇāṃ mṛgīṇāṃ ca na pibed brāhmaṇaḥ payaḥ ||

21.1२१.१

प्रेतान्नं सूतिकान्नं च यच्च किंचिद् अनिर्दशम् । (२१।१)

pretānnaṃ sūtikānnaṃ ca yacca kiṃcid anirdaśam |

21.2२१.२

अभोज्यं चाप्यपेयं च धेन्वा दुग्धम् अनिर्दशम् ॥ (२१।२)

abhojyaṃ cāpyapeyaṃ ca dhenvā dugdham anirdaśam ||

22.1२२.१

तक्ष्णश् चर्मावकर्तुश्च पुंश्चल्या रजकस्य च । (२२।१)

takṣṇaś carmāvakartuśca puṃścalyā rajakasya ca |

22.2२२.२

चिकित्सकस्य यच्चान्नम् अभोज्यं रक्षिणस्तथा ॥ (२२।२)

cikitsakasya yaccānnam abhojyaṃ rakṣiṇastathā ||

23.1२३.१

गणग्रामाभिशस्तानां रङ्गस्त्रीजीविनश्च ये । (२३।१)

gaṇagrāmābhiśastānāṃ raṅgastrījīvinaśca ye |

23.2२३.२

परिवित्तिनपुंषां च बन्दिद्यूतविदां तथा ॥ (२३।२)

parivittinapuṃṣāṃ ca bandidyūtavidāṃ tathā ||

24.1२४.१

वार्यमाणाहृतं चान्नं शुक्तं पर्युषितं च यत् । (२४।१)

vāryamāṇāhṛtaṃ cānnaṃ śuktaṃ paryuṣitaṃ ca yat |

24.2२४.२

सुरानुगतम् उच्छिष्टम् अभोज्यं शेषितं च यत् ॥ (२४।२)

surānugatam ucchiṣṭam abhojyaṃ śeṣitaṃ ca yat ||

25.1२५.१

पिष्टमांसेक्षुशाकानां विकाराः पयसस्तथा । (२५।१)

piṣṭamāṃsekṣuśākānāṃ vikārāḥ payasastathā |

25.2२५.२

सक्तुधानाकरम्भाश्च नोपभोज्याश्चिरस्थिताः ॥ (२५।२)

saktudhānākarambhāśca nopabhojyāścirasthitāḥ ||

26.1२६.१

पायसं कृसरं मांसम् अपूपाश्च वृथा कृताः । (२६।१)

pāyasaṃ kṛsaraṃ māṃsam apūpāśca vṛthā kṛtāḥ |

26.2२६.२

अभोज्याश्चाप्यभक्ष्याश्च ब्राह्मणैर् गृहमेधिभिः ॥ (२६।२)

abhojyāścāpyabhakṣyāśca brāhmaṇair gṛhamedhibhiḥ ||

27.1२७.१

देवान् पितॄन्मनुष्यांश्च मुनीन् गृह्याश्च देवताः । (२७।१)

devān pitṝnmanuṣyāṃśca munīn gṛhyāśca devatāḥ |

27.2२७.२

पूजयित्वा ततः पश्चाद् गृहस्थो भोक्तुम् अर्हति ॥ (२७।२)

pūjayitvā tataḥ paścād gṛhastho bhoktum arhati ||

28.1२८.१

यथा प्रव्रजितो भिक्षुर् गृहस्थः स्वगृहे वसेत् । (२८।१)

yathā pravrajito bhikṣur gṛhasthaḥ svagṛhe vaset |

28.2२८.२

एवंवृत्तः प्रियैर् दारैः संवसन् धर्मम् आप्नुयात् ॥ (२८।२)

evaṃvṛttaḥ priyair dāraiḥ saṃvasan dharmam āpnuyāt ||

29.1२९.१

न दद्याद् यशसे दानं न भयान्नोपकारिणे । (२९।१)

na dadyād yaśase dānaṃ na bhayānnopakāriṇe |

29.2२९.२

न नृत्तगीतशीलेषु हासकेषु च धार्मिकः ॥ (२९।२)

na nṛttagītaśīleṣu hāsakeṣu ca dhārmikaḥ ||

30.1३०.१

न मत्ते नैव चोन्मत्ते न स्तेने न चिकित्सके । (३०।१)

na matte naiva conmatte na stene na cikitsake |

30.2३०.२

न वाग्घीने विवर्णे वा नाङ्गहीने न वामने ॥ (३०।२)

na vāgghīne vivarṇe vā nāṅgahīne na vāmane ||

31.1३१.१

न दुर्जने दौष्कुले वा व्रतैर् वा यो न संस्कृतः । (३१।१)

na durjane dauṣkule vā vratair vā yo na saṃskṛtaḥ |

31.2३१.२

अश्रोत्रिये मृतं दानं ब्राह्मणे ऽब्रह्मवादिनि ॥ (३१।२)

aśrotriye mṛtaṃ dānaṃ brāhmaṇe 'brahmavādini ||

32.1३२.१

असम्यक् चैव यद् दत्तम् असम्यक् च प्रतिग्रहः । (३२।१)

asamyak caiva yad dattam asamyak ca pratigrahaḥ |

32.2३२.२

उभयोः स्याद् अनर्थाय दातुर् आदातुर् एव च ॥ (३२।२)

ubhayoḥ syād anarthāya dātur ādātur eva ca ||

33.1३३.१

यथा खदिरम् आलम्ब्य शिलां वाप्यर्णवं तरन् । (३३।१)

yathā khadiram ālambya śilāṃ vāpyarṇavaṃ taran |

33.2३३.२

मज्जते मज्जते तद्वद् दाता यश्च प्रतीच्छकः ॥ (३३।२)

majjate majjate tadvad dātā yaśca pratīcchakaḥ ||

34.1३४.१

काष्ठैर् आर्द्रैर् यथा वह्निर् उपस्तीर्णो न दीप्यते । (३४।१)

kāṣṭhair ārdrair yathā vahnir upastīrṇo na dīpyate |

34.2३४.२

तपःस्वाध्यायचारित्रैर् एवं हीनः प्रतिग्रही ॥ (३४।२)

tapaḥsvādhyāyacāritrair evaṃ hīnaḥ pratigrahī ||

35.1३५.१

कपाले यद्वद् आपः स्युः श्वदृतौ वा यथा पयः । (३५।१)

kapāle yadvad āpaḥ syuḥ śvadṛtau vā yathā payaḥ |

35.2३५.२

आश्रयस्थानदोषेण वृत्तहीने तथा श्रुतम् ॥ (३५।२)

āśrayasthānadoṣeṇa vṛttahīne tathā śrutam ||

36.1३६.१

निर्मन्त्रो निर्व्रतो यः स्याद् अशास्त्रज्ञो ऽनसूयकः । (३६।१)

nirmantro nirvrato yaḥ syād aśāstrajño 'nasūyakaḥ |

36.2३६.२

अनुक्रोशात् प्रदातव्यं दीनेष्वेवं नरेष्वपि ॥ (३६।२)

anukrośāt pradātavyaṃ dīneṣvevaṃ nareṣvapi ||

37.1३७.१

न वै देयम् अनुक्रोशाद् दीनायाप्यपकारिणे । (३७।१)

na vai deyam anukrośād dīnāyāpyapakāriṇe |

37.2३७.२

आप्ताचरितम् इत्येव धर्म इत्येव वा पुनः ॥ (३७।२)

āptācaritam ityeva dharma ityeva vā punaḥ ||

38.1३८.१

निष्कारणं स्म तद् दत्तं ब्राह्मणे धर्मवर्जिते । (३८।१)

niṣkāraṇaṃ sma tad dattaṃ brāhmaṇe dharmavarjite |

38.2३८.२

भवेद् अपात्रदोषेण न मे ऽत्रास्ति विचारणा ॥ (३८।२)

bhaved apātradoṣeṇa na me 'trāsti vicāraṇā ||

39.1३९.१

यथा दारुमयो हस्ती यथा चर्ममयो मृगः । (३९।१)

yathā dārumayo hastī yathā carmamayo mṛgaḥ |

39.2३९.२

ब्राह्मणश्चानधीयानस्त्रयस्ते नामधारकाः ॥ (३९।२)

brāhmaṇaścānadhīyānastrayaste nāmadhārakāḥ ||

40.1४०.१

यथा षण्ढो ऽफलः स्त्रीषु यथा गौर् गवि चाफला । (४०।१)

yathā ṣaṇḍho 'phalaḥ strīṣu yathā gaur gavi cāphalā |

40.2४०.२

शकुनिर् वाप्यपक्षः स्यान्निर्मन्त्रो ब्राह्मणस्तथा ॥ (४०।२)

śakunir vāpyapakṣaḥ syānnirmantro brāhmaṇastathā ||

41.1४१.१

ग्रामधान्यं यथा शून्यं यथा कूपश्च निर्जलः । (४१।१)

grāmadhānyaṃ yathā śūnyaṃ yathā kūpaśca nirjalaḥ |

41.2४१.२

यथा हुतम् अनग्नौ च तथैव स्यान्निराकृतौ ॥ (४१।२)

yathā hutam anagnau ca tathaiva syānnirākṛtau ||

42.1४२.१

देवतानां पितॄणां च हव्यकव्यविनाशनः । (४२।१)

devatānāṃ pitṝṇāṃ ca havyakavyavināśanaḥ |

42.2४२.२

शत्रुर् अर्थहरो मूर्खो न लोकान् प्राप्तुम् अर्हति ॥ (४२।२)

śatrur arthaharo mūrkho na lokān prāptum arhati ||

43.1४३.१

एतत् ते कथितं सर्वं यथा वृत्तं युधिष्ठिर । (४३।१)

etat te kathitaṃ sarvaṃ yathā vṛttaṃ yudhiṣṭhira |

43.2४३.२

समासेन महद्ध्येतच्छ्रोतव्यं भरतर्षभ ॥ (४३।२)

samāsena mahaddhyetacchrotavyaṃ bharatarṣabha ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 12, 37

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit