महाभारतMahābhārata

MBh, 1, 134

134 of 1995 · 110 verses

Select a line for its word-by-word analysis.

1.1१.१

वैशंपायन उवाच । (१।१)

vaiśaṃpāyana uvāca

1.2१.२

ततः सर्वाः प्रकृतयो नगराद् वारणावतात् । (१।२)

tataḥ sarvāḥ prakṛtayo nagarād vāraṇāvatāt |

1.3१.३

सर्वमङ्गलसंयुक्ता यथाशास्त्रम् अतन्द्रिताः ॥ (१।३)

sarvamaṅgalasaṃyuktā yathāśāstram atandritāḥ ||

2.1२.१

श्रुत्वागतान् पाण्डुपुत्रान् नानायानैः सहस्रशः । (२।१)

śrutvāgatān pāṇḍuputrān nānāyānaiḥ sahasraśaḥ |

2.2२.२

अभिजग्मुर् नरश्रेष्ठाञ् श्रुत्वैव परया मुदा ॥ (२।२)

abhijagmur naraśreṣṭhāñ śrutvaiva parayā mudā ||

3.1३.१

ते समासाद्य कौन्तेयान् वारणावतका जनाः । (३।१)

te samāsādya kaunteyān vāraṇāvatakā janāḥ |

3.2३.२

कृत्वा जयाशिषः सर्वे परिवार्योपतस्थिरे ॥ (३।२)

kṛtvā jayāśiṣaḥ sarve parivāryopatasthire ||

4.1४.१

तैर् वृतः पुरुषव्याघ्रो धर्मराजो युधिष्ठिरः । (४।१)

tair vṛtaḥ puruṣavyāghro dharmarājo yudhiṣṭhiraḥ |

4.2४.२

विबभौ देवसंकाशो वज्रपाणिर् इवामरैः ॥ (४।२)

vibabhau devasaṃkāśo vajrapāṇir ivāmaraiḥ ||

5.1५.१

सत्कृतास्ते तु पौरैश्च पौरान् सत्कृत्य चानघाः । (५।१)

satkṛtāste tu pauraiśca paurān satkṛtya cānaghāḥ |

5.2५.२

अलंकृतं जनाकीर्णं विविशुर् वारणावतम् ॥ (५।२)

alaṃkṛtaṃ janākīrṇaṃ viviśur vāraṇāvatam ||

6.1६.१

ते प्रविश्य पुरं वीरास्तूर्णं जग्मुर् अथो गृहान् । (६।१)

te praviśya puraṃ vīrāstūrṇaṃ jagmur atho gṛhān |

6.2६.२

ब्राह्मणानां महीपाल रतानां स्वेषु कर्मसु ॥ (६।२)

brāhmaṇānāṃ mahīpāla ratānāṃ sveṣu karmasu ||

7.1७.१

नगराधिकृतानां च गृहाणि रथिनां तथा । (७।१)

nagarādhikṛtānāṃ ca gṛhāṇi rathināṃ tathā |

7.2७.२

उपतस्थुर् नरश्रेष्ठा वैश्यशूद्रगृहान् अपि ॥ (७।२)

upatasthur naraśreṣṭhā vaiśyaśūdragṛhān api ||

8.1८.१

अर्चिताश्च नरैः पौरैः पाण्डवा भरतर्षभाः । (८।१)

arcitāśca naraiḥ pauraiḥ pāṇḍavā bharatarṣabhāḥ |

8.2८.२

जग्मुर् आवसथं पश्चात् पुरोचनपुरस्कृताः ॥ (८।२)

jagmur āvasathaṃ paścāt purocanapuraskṛtāḥ ||

9.1९.१

तेभ्यो भक्ष्यान्नपानानि शयनानि शुभानि च । (९।१)

tebhyo bhakṣyānnapānāni śayanāni śubhāni ca |

9.2९.२

आसनानि च मुख्यानि प्रददौ स पुरोचनः ॥ (९।२)

āsanāni ca mukhyāni pradadau sa purocanaḥ ||

10.1१०.१

तत्र ते सत्कृतास्तेन सुमहार्हपरिच्छदाः । (१०।१)

tatra te satkṛtāstena sumahārhaparicchadāḥ |

10.2१०.२

उपास्यमानाः पुरुषैर् ऊषुः पुरनिवासिभिः ॥ (१०।२)

upāsyamānāḥ puruṣair ūṣuḥ puranivāsibhiḥ ||

11.1११.१

दशरात्रोषितानां तु तत्र तेषां पुरोचनः । (११।१)

daśarātroṣitānāṃ tu tatra teṣāṃ purocanaḥ |

11.2११.२

निवेदयामास गृहं शिवाख्यम् अशिवं तदा ॥ (११।२)

nivedayāmāsa gṛhaṃ śivākhyam aśivaṃ tadā ||

12.1१२.१

तत्र ते पुरुषव्याघ्रा विविशुः सपरिच्छदाः । (१२।१)

tatra te puruṣavyāghrā viviśuḥ saparicchadāḥ |

12.2१२.२

पुरोचनस्य वचनात् कैलासम् इव गुह्यकाः ॥ (१२।२)

purocanasya vacanāt kailāsam iva guhyakāḥ ||

13.1१३.१

तत् त्वगारम् अभिप्रेक्ष्य सर्वधर्मविशारदः । (१३।१)

tat tvagāram abhiprekṣya sarvadharmaviśāradaḥ |

13.2१३.२

उवाचाग्नेयम् इत्येवं भीमसेनं युधिष्ठिरः । (१३।२)

uvācāgneyam ityevaṃ bhīmasenaṃ yudhiṣṭhiraḥ |

13.3१३.३

जिघ्रन् सोम्य वसागन्धं सर्पिर् जतुविमिश्रितम् ॥ (१३।३)

jighran somya vasāgandhaṃ sarpir jatuvimiśritam ||

14.1१४.१

कृतं हि व्यक्तम् आग्नेयम् इदं वेश्म परंतप । (१४।१)

kṛtaṃ hi vyaktam āgneyam idaṃ veśma paraṃtapa |

14.2१४.२

मृद् एषा व्यक्तम् आग्नेयैर् द्रव्यैर् मिश्रस्य वेश्मनः । (१४।२)

mṛd eṣā vyaktam āgneyair dravyair miśrasya veśmanaḥ |

14.3१४.३

शणसर्जरसं व्यक्तम् आनीतं गृहकर्मणि । (१४।३)

śaṇasarjarasaṃ vyaktam ānītaṃ gṛhakarmaṇi |

14.4१४.४

मुञ्जबल्वजवंशादि द्रव्यं सर्वं घृतोक्षितम् । (१४।४)

muñjabalvajavaṃśādi dravyaṃ sarvaṃ ghṛtokṣitam |

14.5१४.५

शणबल्वजकार्पासवंशदारुकटान्यपि । (१४।५)

śaṇabalvajakārpāsavaṃśadārukaṭānyapi |

14.6१४.६

आग्नेयान्यत्र क्षिप्तानि परितो वेश्मनस्तथा ॥ (१४।६)

āgneyānyatra kṣiptāni parito veśmanastathā ||

15.1१५.१

शिल्पिभिः सुकृतं ह्याप्तैर् विनीतैर् वेश्मकर्मणि । (१५।१)

śilpibhiḥ sukṛtaṃ hyāptair vinītair veśmakarmaṇi |

15.2१५.२

विश्वस्तं माम् अयं पापो दग्धुकामः पुरोचनः । (१५।२)

viśvastaṃ mām ayaṃ pāpo dagdhukāmaḥ purocanaḥ |

15.3१५.३

तथा हि वर्तते मन्दः सुयोधनवशे स्थितः ॥ (१५।३)

tathā hi vartate mandaḥ suyodhanavaśe sthitaḥ ||

16.1१६.१

इमां तु तां महाबुद्धिर् विदुरो दृष्टवांस्तदा । (१६।१)

imāṃ tu tāṃ mahābuddhir viduro dṛṣṭavāṃstadā |

16.2१६.२

आपदं तेन मां पार्थ स संबोधितवान् पुरा । (१६।२)

āpadaṃ tena māṃ pārtha sa saṃbodhitavān purā |

16.3१६.३

आग्नेयं रुचिरं वेश्म कारितं दृश्यते शुभम् । (१६।३)

āgneyaṃ ruciraṃ veśma kāritaṃ dṛśyate śubham |

16.4१६.४

अस्माकं भागधेयेन विदुरेण महात्मना ॥ (१६।४)

asmākaṃ bhāgadheyena vidureṇa mahātmanā ||

17.1१७.१

ते वयं बोधितास्तेन बुद्धवन्तो ऽशिवं गृहम् । (१७।१)

te vayaṃ bodhitāstena buddhavanto 'śivaṃ gṛham |

17.2१७.२

नित्यम् अस्मद्धितैषिणा । (१७।२)

nityam asmaddhitaiṣiṇā |

17.3१७.३

पित्रा कनीयसा स्नेहात् । (१७।३)

pitrā kanīyasā snehāt |

17.4१७.४

आचार्यैः सुकृतं गूढैर् दुर्योधनवशानुगैः ॥ (१७।४)

ācāryaiḥ sukṛtaṃ gūḍhair duryodhanavaśānugaiḥ ||

18.1१८.१

भीम उवाच । (१८।१)

bhīma uvāca

18.2१८.२

यद् इदं गृहम् आग्नेयं विहितं मन्यते भवान् । (१८।२)

yad idaṃ gṛham āgneyaṃ vihitaṃ manyate bhavān |

18.3१८.३

पुरोचनम् इमं दग्ध्वा गम्यते वारणावतान् । (१८।३)

purocanam imaṃ dagdhvā gamyate vāraṇāvatān |

18.4१८.४

तत्रैव साधु गच्छामो यत्र पूर्वोषिता वयम् । (१८।४)

tatraiva sādhu gacchāmo yatra pūrvoṣitā vayam |

18.5१८.५

दर्शयित्वा पृथग् गन्तुं न कार्यं प्रतिभाति मे । (१८।५)

darśayitvā pṛthag gantuṃ na kāryaṃ pratibhāti me |

18.6१८.६

अशुभं वा शुभं वापि तैर् वसाम सहैव तु । (१८।६)

aśubhaṃ vā śubhaṃ vāpi tair vasāma sahaiva tu |

18.7१८.७

अद्य प्रभृति चास्मासु गतेषु भयविह्वलः । (१८।७)

adya prabhṛti cāsmāsu gateṣu bhayavihvalaḥ |

18.8१८.८

रूढमूलो भवेद् राज्ये धार्तराष्ट्रो जनेश्वरः । (१८।८)

rūḍhamūlo bhaved rājye dhārtarāṣṭro janeśvaraḥ |

18.9१८.९

तदीयं च भवेद् राज्यं तदीयाः स्युः प्रजा इमाः । (१८।९)

tadīyaṃ ca bhaved rājyaṃ tadīyāḥ syuḥ prajā imāḥ |

18.10१८.१०

तस्मात् सहैव वत्स्यामो गलन्यस्तपदा वयम् । (१८।१०)

tasmāt sahaiva vatsyāmo galanyastapadā vayam |

18.11१८.११

अस्माकं कालम् आसाद्य राज्यम् आच्छिद्य शत्रुतः । (१८।११)

asmākaṃ kālam āsādya rājyam ācchidya śatrutaḥ |

18.12१८.१२

अर्धं पैतृकम् अस्माकं सुखं भोक्ष्याम शाश्वतम् । (१८।१२)

ardhaṃ paitṛkam asmākaṃ sukhaṃ bhokṣyāma śāśvatam |

18.13१८.१३

धृतराष्ट्रवचो ऽस्माभिः किमर्थम् अनुमन्यते । (१८।१३)

dhṛtarāṣṭravaco 'smābhiḥ kimartham anumanyate |

18.14१८.१४

तेभ्यो भीत्यान्यथा गन्तुं दौर्बल्यं ते कुतो नृप । (१८।१४)

tebhyo bhītyānyathā gantuṃ daurbalyaṃ te kuto nṛpa |

18.15१८.१५

आपत्सु रक्षितास्माकं विदुरो ऽस्ति महामतिः । (१८।१५)

āpatsu rakṣitāsmākaṃ viduro 'sti mahāmatiḥ |

18.16१८.१६

मध्यस्थ एव गाङ्गेयो राज्यभोगपराङ्मुखः । (१८।१६)

madhyastha eva gāṅgeyo rājyabhogaparāṅmukhaḥ |

18.17१८.१७

बाह्लिकप्रमुखा वृद्धा मध्यस्था एव सर्वदा । (१८।१७)

bāhlikapramukhā vṛddhā madhyasthā eva sarvadā |

18.18१८.१८

अस्मदीयो भवेद् द्रोणः फल्गुनप्रेमसंयुतः । (१८।१८)

asmadīyo bhaved droṇaḥ phalgunapremasaṃyutaḥ |

18.19१८.१९

तस्मात् सहैव वस्तव्यं न गन्तव्यं पृथङ् नृप । (१८।१९)

tasmāt sahaiva vastavyaṃ na gantavyaṃ pṛthaṅ nṛpa |

18.20१८.२०

अथवास्मासु ते कुर्युः किम् अशक्ताः पराक्रमैः । (१८।२०)

athavāsmāsu te kuryuḥ kim aśaktāḥ parākramaiḥ |

18.21१८.२१

क्षुद्राः कपटिनो धूर्ता जाग्रत्सु मनुजेश्वर । (१८।२१)

kṣudrāḥ kapaṭino dhūrtā jāgratsu manujeśvara |

18.22१८.२२

किं न कुर्युः पुरा मह्यं किं न दत्तं पुरा विषम् । (१८।२२)

kiṃ na kuryuḥ purā mahyaṃ kiṃ na dattaṃ purā viṣam |

18.23१८.२३

आशीविषैर् महाघोरैः सर्पैस्तैः किं न दंशितः । (१८।२३)

āśīviṣair mahāghoraiḥ sarpaistaiḥ kiṃ na daṃśitaḥ |

18.24१८.२४

प्रमाणकोट्यां संनह्य निद्रापरवशे मयि । (१८।२४)

pramāṇakoṭyāṃ saṃnahya nidrāparavaśe mayi |

18.25१८.२५

सर्पैर् दृष्टिविषैर् घोरैर् गङ्गायां शूलसंततौ । (१८।२५)

sarpair dṛṣṭiviṣair ghorair gaṅgāyāṃ śūlasaṃtatau |

18.26१८.२६

किं तैर् न पातितो भूप तदा किं मृतवाहनम् । (१८।२६)

kiṃ tair na pātito bhūpa tadā kiṃ mṛtavāhanam |

18.27१८.२७

आपत्सु च सुघोरासु दुष्प्रयुक्तासु पापिभिः । (१८।२७)

āpatsu ca sughorāsu duṣprayuktāsu pāpibhiḥ |

18.28१८.२८

अस्मान् अरक्षद् यो देवो जगद् यस्य वशे स्थितम् । (१८।२८)

asmān arakṣad yo devo jagad yasya vaśe sthitam |

18.29१८.२९

चराचरात्मकं सो ऽद्य यातः क्व नु नृपोत्तम । (१८।२९)

carācarātmakaṃ so 'dya yātaḥ kva nu nṛpottama |

18.30१८.३०

यावत् सोढव्यम् अस्माभिस्तावत् सोढास्मि यत्नतः । (१८।३०)

yāvat soḍhavyam asmābhistāvat soḍhāsmi yatnataḥ |

18.31१८.३१

यदा न रक्ष्यते ऽस्माभिस्तदा पश्याम नो हितम् । (१८।३१)

yadā na rakṣyate 'smābhistadā paśyāma no hitam |

18.32१८.३२

किं द्रष्टव्यं तदास्माभिर् विगृह्य तरसा बलात् । (१८।३२)

kiṃ draṣṭavyaṃ tadāsmābhir vigṛhya tarasā balāt |

18.33१८.३३

सान्त्ववादेन दानेन भेदेनापि यतामहे । (१८।३३)

sāntvavādena dānena bhedenāpi yatāmahe |

18.34१८.३४

अर्धराज्यस्य संप्राप्त्यै ततो दण्डः प्रशस्यते । (१८।३४)

ardharājyasya saṃprāptyai tato daṇḍaḥ praśasyate |

18.35१८.३५

तस्मात् सहैव वस्तव्यं तन्मनोऽर्पितशल्यवत् । (१८।३५)

tasmāt sahaiva vastavyaṃ tanmano'rpitaśalyavat |

18.36१८.३६

दर्शयित्वा पृथग् वापि न गन्तव्यं सुभीतवत् ॥ (१८।३६)

darśayitvā pṛthag vāpi na gantavyaṃ subhītavat ||

19.1१९.१

युधिष्ठिर उवाच । (१९।१)

yudhiṣṭhira uvāca

19.2१९.२

इह यत्तैर् निराकारैर् वस्तव्यम् इति रोचये । (१९।२)

iha yattair nirākārair vastavyam iti rocaye |

19.3१९.३

इति किं त्वयम् एतावान् किम् अतः परम् आपतत् । (१९।३)

iti kiṃ tvayam etāvān kim ataḥ param āpatat |

19.4१९.४

विचारयन्तो जाग्रन्तः प्राणिभिर् हितकाङ्क्षिभिः । (१९।४)

vicārayanto jāgrantaḥ prāṇibhir hitakāṅkṣibhiḥ |

19.5१९.५

इहैव वस्तव्यम् इति मन्मनो रोचते ऽनुज । (१९।५)

ihaiva vastavyam iti manmano rocate 'nuja |

19.6१९.६

नष्टैर् इव विचिन्वद्भिर् गतिम् इष्टां ध्रुवाम् इतः । (१९।६)

naṣṭair iva vicinvadbhir gatim iṣṭāṃ dhruvām itaḥ |

19.7१९.७

इतः परं ते किं कुर्युर् जिज्ञासद्भिर् अभीतवत् ॥ (१९।७)

itaḥ paraṃ te kiṃ kuryur jijñāsadbhir abhītavat ||

20.1२०.१

यदि विन्देत चाकारम् अस्माकं हि पुरोचनः । (२०।१)

yadi vindeta cākāram asmākaṃ hi purocanaḥ |

20.2२०.२

शीघ्रकारी ततो भूत्वा प्रसह्यापि दहेत नः ॥ (२०।२)

śīghrakārī tato bhūtvā prasahyāpi daheta naḥ ||

21.1२१.१

नायं बिभेत्युपक्रोशाद् अधर्माद् वा पुरोचनः । (२१।१)

nāyaṃ bibhetyupakrośād adharmād vā purocanaḥ |

21.2२१.२

तथा हि वर्तते मन्दः सुयोधनमते स्थितः ॥ (२१।२)

tathā hi vartate mandaḥ suyodhanamate sthitaḥ ||

22.1२२.१

अपि चेह प्रदग्धेषु भीष्मो ऽस्मासु पितामहः । (२२।१)

api ceha pradagdheṣu bhīṣmo 'smāsu pitāmahaḥ |

22.2२२.२

कोपं कुर्यात् किमर्थं वा कौरवान् कोपयेत सः । (२२।२)

kopaṃ kuryāt kimarthaṃ vā kauravān kopayeta saḥ |

22.3२२.३

अथवापीह दग्धेषु भीष्मो ऽस्माकं पितामहः । (२२।३)

athavāpīha dagdheṣu bhīṣmo 'smākaṃ pitāmahaḥ |

22.4२२.४

धर्म इत्येव कुप्येत तथान्ये कुरुपुंगवाः । (२२।४)

dharma ityeva kupyeta tathānye kurupuṃgavāḥ |

22.5२२.५

उपपन्नं तु दग्धेषु कुलवंशानुकीर्तिताः । (२२।५)

upapannaṃ tu dagdheṣu kulavaṃśānukīrtitāḥ |

22.6२२.६

कुप्येरन् यदि धर्मज्ञास्तथान्ये कुरुपुंगवाः ॥ (२२।६)

kupyeran yadi dharmajñāstathānye kurupuṃgavāḥ ||

23.1२३.१

वयं तु यदि दाहस्य बिभ्यतः प्रद्रवेम हि । (२३।१)

vayaṃ tu yadi dāhasya bibhyataḥ pradravema hi |

23.2२३.२

स्पशैर् नो घातयेत् सर्वान् राज्यलुब्धः सुयोधनः ॥ (२३।२)

spaśair no ghātayet sarvān rājyalubdhaḥ suyodhanaḥ ||

24.1२४.१

अपदस्थान् पदे तिष्ठन्न् अपक्षान् पक्षसंस्थितः । (२४।१)

apadasthān pade tiṣṭhann apakṣān pakṣasaṃsthitaḥ |

24.2२४.२

हीनकोशान् महाकोशः प्रयोगैर् घातयेद् ध्रुवम् ॥ (२४।२)

hīnakośān mahākośaḥ prayogair ghātayed dhruvam ||

25.1२५.१

तद् अस्माभिर् इमं पापं तं च पापं सुयोधनम् । (२५।१)

tad asmābhir imaṃ pāpaṃ taṃ ca pāpaṃ suyodhanam |

25.2२५.२

वञ्चयद्भिर् निवस्तव्यं छन्नवासं क्वचित् क्वचित् ॥ (२५।२)

vañcayadbhir nivastavyaṃ channavāsaṃ kvacit kvacit ||

26.1२६.१

ते वयं मृगयाशीलाश्चराम वसुधाम् इमाम् । (२६।१)

te vayaṃ mṛgayāśīlāścarāma vasudhām imām |

26.2२६.२

तथा नो विदिता मार्गा भविष्यन्ति पलायताम् ॥ (२६।२)

tathā no viditā mārgā bhaviṣyanti palāyatām ||

27.1२७.१

भौमं च बिलम् अद्यैव करवाम सुसंवृतम् । (२७।१)

bhaumaṃ ca bilam adyaiva karavāma susaṃvṛtam |

27.2२७.२

गूढोच्छ्वसान् न नस्तत्र हुताशः सम्प्रधक्ष्यति ॥ (२७।२)

gūḍhocchvasān na nastatra hutāśaḥ sampradhakṣyati ||

28.1२८.१

वसतो ऽत्र यथा चास्मान् न बुध्येत पुरोचनः । (२८।१)

vasato 'tra yathā cāsmān na budhyeta purocanaḥ |

28.2२८.२

पौरो वापि जनः कश्चित् तथा कार्यम् अतन्द्रितैः ॥ (२८।२)

pauro vāpi janaḥ kaścit tathā kāryam atandritaiḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 1, 134

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit