महाभारतMahābhārata

MBh, 12, 226

1554 of 1995 · 77 verses

Select a line for its word-by-word analysis.

1.1१.१

व्यास उवाच । (१।१)

vyāsa uvāca

1.2१.२

भूतग्रामे नियुक्तं यत् तद् एतत् कीर्तितं मया । (१।२)

bhūtagrāme niyuktaṃ yat tad etat kīrtitaṃ mayā |

1.3१.३

ब्राह्मणस्य तु यत् कृत्यं तत् ते वक्ष्यामि पृच्छते ॥ (१।३)

brāhmaṇasya tu yat kṛtyaṃ tat te vakṣyāmi pṛcchate ||

2.1२.१

जातकर्मप्रभृत्यस्य कर्मणां दक्षिणावताम् । (२।१)

jātakarmaprabhṛtyasya karmaṇāṃ dakṣiṇāvatām |

2.2२.२

क्रिया स्याद् आ समावृत्तेर् आचार्ये वेदपारगे ॥ (२।२)

kriyā syād ā samāvṛtter ācārye vedapārage ||

3.1३.१

अधीत्य वेदान् अखिलान् गुरुशुश्रूषणे रतः । (३।१)

adhītya vedān akhilān guruśuśrūṣaṇe rataḥ |

3.2३.२

गुरूणाम् अनृणो भूत्वा समावर्तेत यज्ञवित् ॥ (३।२)

gurūṇām anṛṇo bhūtvā samāvarteta yajñavit ||

4.1४.१

आचार्येणाभ्यनुज्ञातश्चतुर्णाम् एकम् आश्रमम् । (४।१)

ācāryeṇābhyanujñātaścaturṇām ekam āśramam |

4.2४.२

आ विमोक्षाच्छरीरस्य सो ऽनुतिष्ठेद् यथाविधि ॥ (४।२)

ā vimokṣāccharīrasya so 'nutiṣṭhed yathāvidhi ||

5.1५.१

प्रजासर्गेण दारैश्च ब्रह्मचर्येण वा पुनः । (५।१)

prajāsargeṇa dāraiśca brahmacaryeṇa vā punaḥ |

5.2५.२

वने गुरुसकाशे वा यतिधर्मेण वा पुनः ॥ (५।२)

vane gurusakāśe vā yatidharmeṇa vā punaḥ ||

6.1६.१

गृहस्थस्त्वेव सर्वेषां चतुर्णां मूलम् उच्यते । (६।१)

gṛhasthastveva sarveṣāṃ caturṇāṃ mūlam ucyate |

6.2६.२

तत्र पक्वकषायो हि दान्तः सर्वत्र सिध्यति ॥ (६।२)

tatra pakvakaṣāyo hi dāntaḥ sarvatra sidhyati ||

7.1७.१

प्रजावाञ् श्रोत्रियो यज्वा मुक्तो दिव्यैस्त्रिभिर् ऋणैः । (७।१)

prajāvāñ śrotriyo yajvā mukto divyaistribhir ṛṇaiḥ |

7.2७.२

अथान्यान् आश्रमान् पश्चात् पूतो गच्छति कर्मभिः ॥ (७।२)

athānyān āśramān paścāt pūto gacchati karmabhiḥ ||

8.1८.१

यत् पृथिव्यां पुण्यतमं विद्यास्थानं तदावसेत् । (८।१)

yat pṛthivyāṃ puṇyatamaṃ vidyāsthānaṃ tadāvaset |

8.2८.२

यतेत तस्मिन् प्रामाण्यं गन्तुं यशसि चोत्तमे ॥ (८।२)

yateta tasmin prāmāṇyaṃ gantuṃ yaśasi cottame ||

9.1९.१

तपसा वा सुमहता विद्यानां पारणेन वा । (९।१)

tapasā vā sumahatā vidyānāṃ pāraṇena vā |

9.2९.२

इज्यया वा प्रदानैर् वा विप्राणां वर्धते यशः ॥ (९।२)

ijyayā vā pradānair vā viprāṇāṃ vardhate yaśaḥ ||

10.1१०.१

यावद् अस्य भवत्यस्मिंल् लोके कीर्तिर् यशस्करी । (१०।१)

yāvad asya bhavatyasmiṃl loke kīrtir yaśaskarī |

10.2१०.२

तावत् पुण्यकृतांल् लोकान् अनन्तान् पुरुषो ऽश्नुते ॥ (१०।२)

tāvat puṇyakṛtāṃl lokān anantān puruṣo 'śnute ||

11.1११.१

अध्यापयेद् अधीयीत याजयेत यजेत च । (११।१)

adhyāpayed adhīyīta yājayeta yajeta ca |

11.2११.२

न वृथा प्रतिगृह्णीयान्न च दद्यात् कथंचन ॥ (११।२)

na vṛthā pratigṛhṇīyānna ca dadyāt kathaṃcana ||

12.1१२.१

याज्यतः शिष्यतो वापि कन्यया वा धनं महत् । (१२।१)

yājyataḥ śiṣyato vāpi kanyayā vā dhanaṃ mahat |

12.2१२.२

यद्यागच्छेद् यजेद् दद्यान्नैको ऽश्नीयात् कथंचन ॥ (१२।२)

yadyāgacched yajed dadyānnaiko 'śnīyāt kathaṃcana ||

13.1१३.१

गृहम् आवसतो ह्यस्य नान्यत् तीर्थं प्रतिग्रहात् । (१३।१)

gṛham āvasato hyasya nānyat tīrthaṃ pratigrahāt |

13.2१३.२

देवर्षिपितृगुर्वर्थं वृद्धातुरबुभुक्षताम् ॥ (१३।२)

devarṣipitṛgurvarthaṃ vṛddhāturabubhukṣatām ||

14.1१४.१

अन्तर्हिताभितप्तानां यथाशक्ति बुभूषताम् । (१४।१)

antarhitābhitaptānāṃ yathāśakti bubhūṣatām |

14.2१४.२

द्रव्याणाम् अतिशक्त्यापि देयम् एषां कृताद् अपि ॥ (१४।२)

dravyāṇām atiśaktyāpi deyam eṣāṃ kṛtād api ||

15.1१५.१

अर्हताम् अनुरूपाणां नादेयं ह्यस्ति किंचन । (१५।१)

arhatām anurūpāṇāṃ nādeyaṃ hyasti kiṃcana |

15.2१५.२

उच्चैःश्रवसम् अप्यश्वं प्रापणीयं सतां विदुः ॥ (१५।२)

uccaiḥśravasam apyaśvaṃ prāpaṇīyaṃ satāṃ viduḥ ||

16.1१६.१

अनुनीय तथा काव्यः सत्यसंधो महाव्रतः । (१६।१)

anunīya tathā kāvyaḥ satyasaṃdho mahāvrataḥ |

16.2१६.२

स्वैः प्राणैर् ब्राह्मणप्राणान् परित्राय दिवं गतः ॥ (१६।२)

svaiḥ prāṇair brāhmaṇaprāṇān paritrāya divaṃ gataḥ ||

17.1१७.१

रन्तिदेवश्च सांकृत्यो वसिष्ठाय महात्मने । (१७।१)

rantidevaśca sāṃkṛtyo vasiṣṭhāya mahātmane |

17.2१७.२

अपः प्रदाय शीतोष्णा नाकपृष्ठे महीयते ॥ (१७।२)

apaḥ pradāya śītoṣṇā nākapṛṣṭhe mahīyate ||

18.1१८.१

आत्रेयश्चन्द्रदमयोर् अर्हतोर् विविधं धनम् । (१८।१)

ātreyaścandradamayor arhator vividhaṃ dhanam |

18.2१८.२

दत्त्वा लोकान् ययौ धीमान् अनन्तान् स महीपतिः ॥ (१८।२)

dattvā lokān yayau dhīmān anantān sa mahīpatiḥ ||

19.1१९.१

शिबिरौशीनरो ऽङ्गानि सुतं च प्रियम् औरसम् । (१९।१)

śibirauśīnaro 'ṅgāni sutaṃ ca priyam aurasam |

19.2१९.२

ब्राह्मणार्थम् उपाकृत्य नाकपृष्ठम् इतो गतः ॥ (१९।२)

brāhmaṇārtham upākṛtya nākapṛṣṭham ito gataḥ ||

20.1२०.१

प्रतर्दनः काशिपतिः प्रदाय नयने स्वके । (२०।१)

pratardanaḥ kāśipatiḥ pradāya nayane svake |

20.2२०.२

ब्राह्मणायातुलां कीर्तिम् इह चामुत्र चाश्नुते ॥ (२०।२)

brāhmaṇāyātulāṃ kīrtim iha cāmutra cāśnute ||

21.1२१.१

दिव्यं मृष्टशलाकं तु सौवर्णं परमर्द्धिमत् । (२१।१)

divyaṃ mṛṣṭaśalākaṃ tu sauvarṇaṃ paramarddhimat |

21.2२१.२

छत्रं देवावृधो दत्त्वा सराष्ट्रो ऽभ्यपतद् दिवम् ॥ (२१।२)

chatraṃ devāvṛdho dattvā sarāṣṭro 'bhyapatad divam ||

22.1२२.१

सांकृतिश्च तथात्रेयः शिष्येभ्यो ब्रह्म निर्गुणम् । (२२।१)

sāṃkṛtiśca tathātreyaḥ śiṣyebhyo brahma nirguṇam |

22.2२२.२

उपदिश्य महातेजा गतो लोकान् अनुत्तमान् ॥ (२२।२)

upadiśya mahātejā gato lokān anuttamān ||

23.1२३.१

अम्बरीषो गवां दत्त्वा ब्राह्मणेभ्यः प्रतापवान् । (२३।१)

ambarīṣo gavāṃ dattvā brāhmaṇebhyaḥ pratāpavān |

23.2२३.२

अर्बुदानि दशैकं च सराष्ट्रो ऽभ्यपतद् दिवम् ॥ (२३।२)

arbudāni daśaikaṃ ca sarāṣṭro 'bhyapatad divam ||

24.1२४.१

सावित्री कुण्डले दिव्ये शरीरं जनमेजयः । (२४।१)

sāvitrī kuṇḍale divye śarīraṃ janamejayaḥ |

24.2२४.२

ब्राह्मणार्थे परित्यज्य जग्मतुर् लोकम् उत्तमम् ॥ (२४।२)

brāhmaṇārthe parityajya jagmatur lokam uttamam ||

25.1२५.१

सर्वरत्नं वृषादर्भो युवनाश्वः प्रियाः स्त्रियः । (२५।१)

sarvaratnaṃ vṛṣādarbho yuvanāśvaḥ priyāḥ striyaḥ |

25.2२५.२

रम्यम् आवसथं चैव दत्त्वामुं लोकम् आस्थितः ॥ (२५।२)

ramyam āvasathaṃ caiva dattvāmuṃ lokam āsthitaḥ ||

26.1२६.१

निमी राष्ट्रं च वैदेहो जामदग्न्यो वसुंधराम् । (२६।१)

nimī rāṣṭraṃ ca vaideho jāmadagnyo vasuṃdharām |

26.2२६.२

ब्राह्मणेभ्यो ददौ चापि गयश्चोर्वीं सपत्तनाम् ॥ (२६।२)

brāhmaṇebhyo dadau cāpi gayaścorvīṃ sapattanām ||

27.1२७.१

अवर्षति च पर्जन्ये सर्वभूतानि चासकृत् । (२७।१)

avarṣati ca parjanye sarvabhūtāni cāsakṛt |

27.2२७.२

वसिष्ठो जीवयामास प्रजापतिर् इव प्रजाः ॥ (२७।२)

vasiṣṭho jīvayāmāsa prajāpatir iva prajāḥ ||

28.1२८.१

करंधमस्य पुत्रस्तु मरुत्तो नृपतिस्तथा । (२८।१)

karaṃdhamasya putrastu marutto nṛpatistathā |

28.2२८.२

कन्याम् अङ्गिरसे दत्त्वा दिवम् आशु जगाम ह ॥ (२८।२)

kanyām aṅgirase dattvā divam āśu jagāma ha ||

29.1२९.१

ब्रह्मदत्तश्च पाञ्चाल्यो राजा बुद्धिमतां वरः । (२९।१)

brahmadattaśca pāñcālyo rājā buddhimatāṃ varaḥ |

29.2२९.२

निधिं शङ्खं द्विजाग्र्येभ्यो दत्त्वा लोकान् अवाप्तवान् ॥ (२९।२)

nidhiṃ śaṅkhaṃ dvijāgryebhyo dattvā lokān avāptavān ||

30.1३०.१

राजा मित्रसहश्चापि वसिष्ठाय महात्मने । (३०।१)

rājā mitrasahaścāpi vasiṣṭhāya mahātmane |

30.2३०.२

मदयन्तीं प्रियां दत्त्वा तया सह दिवं गतः ॥ (३०।२)

madayantīṃ priyāṃ dattvā tayā saha divaṃ gataḥ ||

31.1३१.१

सहस्रजिच्च राजर्षिः प्राणान् इष्टान्महायशाः । (३१।१)

sahasrajicca rājarṣiḥ prāṇān iṣṭānmahāyaśāḥ |

31.2३१.२

ब्राह्मणार्थे परित्यज्य गतो लोकान् अनुत्तमान् ॥ (३१।२)

brāhmaṇārthe parityajya gato lokān anuttamān ||

32.1३२.१

सर्वकामैश्च सम्पूर्णं दत्त्वा वेश्म हिरण्मयम् । (३२।१)

sarvakāmaiśca sampūrṇaṃ dattvā veśma hiraṇmayam |

32.2३२.२

मुद्गलाय गतः स्वर्गं शतद्युम्नो महीपतिः ॥ (३२।२)

mudgalāya gataḥ svargaṃ śatadyumno mahīpatiḥ ||

33.1३३.१

नाम्ना च द्युतिमान्नाम शाल्वराजः प्रतापवान् । (३३।१)

nāmnā ca dyutimānnāma śālvarājaḥ pratāpavān |

33.2३३.२

दत्त्वा राज्यम् ऋचीकाय गतो लोकान् अनुत्तमान् ॥ (३३।२)

dattvā rājyam ṛcīkāya gato lokān anuttamān ||

34.1३४.१

मदिराश्वश्च राजर्षिर् दत्त्वा कन्यां सुमध्यमाम् । (३४।१)

madirāśvaśca rājarṣir dattvā kanyāṃ sumadhyamām |

34.2३४.२

हिरण्यहस्ताय गतो लोकान् देवैर् अभिष्टुतान् ॥ (३४।२)

hiraṇyahastāya gato lokān devair abhiṣṭutān ||

35.1३५.१

लोमपादश्च राजर्षिः शान्तां दत्त्वा सुतां प्रभुः । (३५।१)

lomapādaśca rājarṣiḥ śāntāṃ dattvā sutāṃ prabhuḥ |

35.2३५.२

ऋश्यशृङ्गाय विपुलैः सर्वकामैर् अयुज्यत ॥ (३५।२)

ṛśyaśṛṅgāya vipulaiḥ sarvakāmair ayujyata ||

36.1३६.१

दत्त्वा शतसहस्रं तु गवां राजा प्रसेनजित् । (३६।१)

dattvā śatasahasraṃ tu gavāṃ rājā prasenajit |

36.2३६.२

सवत्सानां महातेजा गतो लोकान् अनुत्तमान् ॥ (३६।२)

savatsānāṃ mahātejā gato lokān anuttamān ||

37.1३७.१

एते चान्ये च बहवो दानेन तपसा च ह । (३७।१)

ete cānye ca bahavo dānena tapasā ca ha |

37.2३७.२

महात्मानो गताः स्वर्गं शिष्टात्मानो जितेन्द्रियाः ॥ (३७।२)

mahātmāno gatāḥ svargaṃ śiṣṭātmāno jitendriyāḥ ||

38.1३८.१

तेषां प्रतिष्ठिता कीर्तिर् यावत् स्थास्यति मेदिनी । (३८।१)

teṣāṃ pratiṣṭhitā kīrtir yāvat sthāsyati medinī |

38.2३८.२

दानयज्ञप्रजासर्गैर् एते हि दिवम् आप्नुवन् ॥ (३८।२)

dānayajñaprajāsargair ete hi divam āpnuvan ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 12, 226

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit