MBh, 1, 215
Select a line for its word-by-word analysis.
सो ऽब्रवीद् अर्जुनं चैव वासुदेवं च सात्वतम् । (१।२)
so 'bravīd arjunaṃ caiva vāsudevaṃ ca sātvatam |
ब्राह्मणो बहुभोक्तास्मि भुञ्जे ऽपरिमितं सदा । (२।१)
brāhmaṇo bahubhoktāsmi bhuñje 'parimitaṃ sadā |
भिक्षे वार्ष्णेयपार्थौ वाम् एकां तृप्तिं प्रयच्छताम् ॥ (२।२)
bhikṣe vārṣṇeyapārthau vām ekāṃ tṛptiṃ prayacchatām ||
एवम् उक्तौ तम् अब्रूतां ततस्तौ कृष्णपाण्डवौ । (३।१)
evam uktau tam abrūtāṃ tatastau kṛṣṇapāṇḍavau |
केनान्नेन भवांस्तृप्येत् तस्यान्नस्य यतावहे ॥ (३।२)
kenānnena bhavāṃstṛpyet tasyānnasya yatāvahe ||
एवम् उक्तः स भगवान् अब्रवीत् तावुभौ ततः । (४।१)
evam uktaḥ sa bhagavān abravīt tāvubhau tataḥ |
भाषमाणौ तदा वीरौ किम् अन्नं क्रियताम् इति ॥ (४।२)
bhāṣamāṇau tadā vīrau kim annaṃ kriyatām iti ||
नाहम् अन्नं बुभुक्षे वै पावकं मां निबोधतम् । (५।१)
nāham annaṃ bubhukṣe vai pāvakaṃ māṃ nibodhatam |
यदन्नम् अनुरूपं मे तद् युवां सम्प्रयच्छतम् ॥ (५।२)
yadannam anurūpaṃ me tad yuvāṃ samprayacchatam ||
तं न शक्नोम्यहं दग्धुं रक्ष्यमाणं महात्मना ॥ (६।२)
taṃ na śaknomyahaṃ dagdhuṃ rakṣyamāṇaṃ mahātmanā ||
तत्र भूतान्यनेकानि रक्ष्यन्ते स्म प्रसङ्गतः । (८।१)
tatra bhūtānyanekāni rakṣyante sma prasaṅgataḥ |
तं दिधक्षुर् न शक्नोमि दग्धुं शक्रस्य तेजसा ॥ (८।३)
taṃ didhakṣur na śaknomi dagdhuṃ śakrasya tejasā ||
स मां प्रज्वलितं दृष्ट्वा मेघाम्भोभिः प्रवर्षति । (९।१)
sa māṃ prajvalitaṃ dṛṣṭvā meghāmbhobhiḥ pravarṣati |
ततो दग्धुं न शक्नोमि दिधक्षुर् दावम् ईप्सितम् ॥ (९।२)
tato dagdhuṃ na śaknomi didhakṣur dāvam īpsitam ||
स युवाभ्यां सहायाभ्याम् अस्त्रविद्भ्यां समागतः । (१०।१)
sa yuvābhyāṃ sahāyābhyām astravidbhyāṃ samāgataḥ |
दहेयं खाण्डवं दावम् एतद् अन्नं वृतं मया ॥ (१०।२)
daheyaṃ khāṇḍavaṃ dāvam etad annaṃ vṛtaṃ mayā ||
उत्तमास्त्रविदो सम्यक् सर्वतो वारयिष्यथः । (११।२)
uttamāstravido samyak sarvato vārayiṣyathaḥ |
किमर्थं भगवान् अग्निः खाण्डवं दग्धुम् इच्छति । (११।८)
kimarthaṃ bhagavān agniḥ khāṇḍavaṃ dagdhum icchati |
रक्ष्यमाणं महेन्द्रेण नानासत्त्वसमायुतम् । (११।९)
rakṣyamāṇaṃ mahendreṇa nānāsattvasamāyutam |
न ह्येतत् कारणं ब्रह्मन्न् अल्पं सम्प्रतिभाति मे । (११।१०)
na hyetat kāraṇaṃ brahmann alpaṃ sampratibhāti me |
यद् ददाह सुसंक्रुद्धः खाण्डवं हव्यवाहनः । (११।११)
yad dadāha susaṃkruddhaḥ khāṇḍavaṃ havyavāhanaḥ |
एतद् विस्तरशो ब्रह्मञ् श्रोतुम् इच्छामि तत्त्वतः । (११।१२)
etad vistaraśo brahmañ śrotum icchāmi tattvataḥ |
खाण्डवस्य यथा दाहः पुरा समभवन् मुने । (११।१३)
khāṇḍavasya yathā dāhaḥ purā samabhavan mune |
हन्त ते कथयिष्यामि पुराणम् ऋषिसंस्तुतम् । (११।१४)
hanta te kathayiṣyāmi purāṇam ṛṣisaṃstutam |
कथाम् इमां नरश्रेष्ठ खाण्डवस्य विनाशिनीम् । (११।१५)
kathām imāṃ naraśreṣṭha khāṇḍavasya vināśinīm |
श्वेतकिर् नाम विख्यातो बलविक्रमसंयुतः । (११।१७)
śvetakir nāma vikhyāto balavikramasaṃyutaḥ |
यज्वा दानपतिर् धीमान् यथा नान्यो ऽस्ति कश्चन । (११।१८)
yajvā dānapatir dhīmān yathā nānyo 'sti kaścana |
ईजे स च महासत्रैः क्रतुभिश्चाप्तदक्षिणैः । (११।१९)
īje sa ca mahāsatraiḥ kratubhiścāptadakṣiṇaiḥ |
तस्य नान्याभवद् बुद्धिर् दिवसे दिवसे नृप । (११।२०)
tasya nānyābhavad buddhir divase divase nṛpa |
सत्रे क्रियासमारम्भे दानेषु विविधेषु च । (११।२१)
satre kriyāsamārambhe dāneṣu vividheṣu ca |
तस्यैवं वर्तमानस्य कदाचित् कालपर्यये । (११।२२)
tasyaivaṃ vartamānasya kadācit kālaparyaye |
ऋत्विजो नाभ्यपद्यन्त समाहर्तुं महात्मनः । (११।२४)
ṛtvijo nābhyapadyanta samāhartuṃ mahātmanaḥ |
स तु राजाकरोद् यत्नं महान्तं ससुहृज्जनः । (११।२५)
sa tu rājākarod yatnaṃ mahāntaṃ sasuhṛjjanaḥ |
ऋत्विजो ऽनुनयामास भूयो भूयस्त्वतन्द्रितः । (११।२७)
ṛtvijo 'nunayāmāsa bhūyo bhūyastvatandritaḥ |
ते चास्य तम् अभिप्रायं न चक्रुर् अमितौजसः । (११।२८)
te cāsya tam abhiprāyaṃ na cakrur amitaujasaḥ |
स चाश्रमस्थान् राजर्षिस्तान् उवाच रुषान्वितः । (११।२९)
sa cāśramasthān rājarṣistān uvāca ruṣānvitaḥ |
यद्यहं पतितो विप्राः शुश्रूषायां न च स्थितः । (११।३०)
yadyahaṃ patito viprāḥ śuśrūṣāyāṃ na ca sthitaḥ |
आशु त्याज्यो ऽस्मि युष्माभिर् ब्राह्मणैश्च जुगुप्सितः । (११।३१)
āśu tyājyo 'smi yuṣmābhir brāhmaṇaiśca jugupsitaḥ |
तन् नार्हथ क्रतुश्रद्धां व्याघातयितुम् उत्तमाम् । (११।३२)
tan nārhatha kratuśraddhāṃ vyāghātayitum uttamām |
अस्थाने वा परित्यागं कर्तुं मे द्विजसत्तमाः । (११।३३)
asthāne vā parityāgaṃ kartuṃ me dvijasattamāḥ |
प्रपन्न एव वो विप्राः प्रसादं कर्तुम् अर्हथ । (११।३४)
prapanna eva vo viprāḥ prasādaṃ kartum arhatha |
सान्त्वदानादिभिर् वाक्यैस्तत्त्वतः कार्यवत्तया । (११।३५)
sāntvadānādibhir vākyaistattvataḥ kāryavattayā |
प्रसादयित्वा वक्ष्यामि यन् नः कार्यं द्विजोत्तमाः । (११।३६)
prasādayitvā vakṣyāmi yan naḥ kāryaṃ dvijottamāḥ |
अथवाहं परित्यक्तो भवद्भिर् द्वेषकारणात् । (११।३७)
athavāhaṃ parityakto bhavadbhir dveṣakāraṇāt |
ऋत्विजो ऽन्यान् गमिष्यामि याजनार्थं तपोधनाः । (११।३८)
ṛtvijo 'nyān gamiṣyāmi yājanārthaṃ tapodhanāḥ |
एतावद् उक्त्वा वचनं विरराम स पार्थिवः । (११।३९)
etāvad uktvā vacanaṃ virarāma sa pārthivaḥ |
ततस्ते याजकाः क्रुद्धास्तम् ऊचुर् नृपसत्तमम् । (११।४१)
tataste yājakāḥ kruddhāstam ūcur nṛpasattamam |
तव कर्माण्यजस्रं वै वर्तन्ते पार्थिवोत्तम । (११।४२)
tava karmāṇyajasraṃ vai vartante pārthivottama |
ततो वयं परिश्रान्ताः सततं कर्मवाहिनः । (११।४३)
tato vayaṃ pariśrāntāḥ satataṃ karmavāhinaḥ |
श्रमाद् अस्मात् परिश्रान्तान् स त्वं नस्त्यक्तुम् अर्हसि । (११।४४)
śramād asmāt pariśrāntān sa tvaṃ nastyaktum arhasi |
बुद्धिमोहं समास्थाय त्वरासंभावितो ऽनघ । (११।४५)
buddhimohaṃ samāsthāya tvarāsaṃbhāvito 'nagha |
गच्छ रुद्रसकाशं त्वं स हि त्वां याजयिष्यति । (११।४६)
gaccha rudrasakāśaṃ tvaṃ sa hi tvāṃ yājayiṣyati |
साधिक्षेपं वचः श्रुत्वा संक्रुद्धः श्वेतकिर् नृपः । (११।४७)
sādhikṣepaṃ vacaḥ śrutvā saṃkruddhaḥ śvetakir nṛpaḥ |
कैलासं पर्वतं गत्वा तप उग्रं समास्थितः । (११।४८)
kailāsaṃ parvataṃ gatvā tapa ugraṃ samāsthitaḥ |
ऊर्ध्वबाहुस्त्वनिमिषस्तिष्ठन् स्थाणुर् इवाचलः । (११।५३)
ūrdhvabāhustvanimiṣastiṣṭhan sthāṇur ivācalaḥ |
षण्मासान् अभवद् राजा श्वेतकिः सुसमाहितः । (११।५४)
ṣaṇmāsān abhavad rājā śvetakiḥ susamāhitaḥ |
तं तथा नृपशार्दूलं तप्यमानं महत् तपः । (११।५५)
taṃ tathā nṛpaśārdūlaṃ tapyamānaṃ mahat tapaḥ |
उवाच चैनं भगवान् स्निग्धगम्भीरया गिरा । (११।५७)
uvāca cainaṃ bhagavān snigdhagambhīrayā girā |
प्रीतो ऽस्मि राजशार्दूल तपसा ते परंतप । (११।५८)
prīto 'smi rājaśārdūla tapasā te paraṃtapa |
वरं वृणीष्व भद्रं ते यं त्वम् इच्छसि पार्थिव । (११।५९)
varaṃ vṛṇīṣva bhadraṃ te yaṃ tvam icchasi pārthiva |
एतच्छ्रुत्वा तु वचनं रुद्रस्यामिततेजसः । (११।६०)
etacchrutvā tu vacanaṃ rudrasyāmitatejasaḥ |
प्रणिपत्य महात्मानं राजर्षिः प्रत्यभाषत । (११।६१)
praṇipatya mahātmānaṃ rājarṣiḥ pratyabhāṣata |
यदि मे भगवान् प्रीतः सर्वलोकनमस्कृतः । (११।६२)
yadi me bhagavān prītaḥ sarvalokanamaskṛtaḥ |
एतच्छ्रुत्वा तु वचनं राज्ञा तेन प्रभाषितम् । (११।६४)
etacchrutvā tu vacanaṃ rājñā tena prabhāṣitam |
उवाच भगवान् प्रीतः स्मितपूर्वम् इदं वचः । (११।६५)
uvāca bhagavān prītaḥ smitapūrvam idaṃ vacaḥ |
नास्माकम् एतद्विषये वर्तते याजनं प्रति । (११।६६)
nāsmākam etadviṣaye vartate yājanaṃ prati |
त्वया च सुमहत् तप्तं तपो राजन् वरार्थिना । (११।६७)
tvayā ca sumahat taptaṃ tapo rājan varārthinā |
समा द्वादश राजेन्द्र ब्रह्मचारी समाहितः । (११।६९)
samā dvādaśa rājendra brahmacārī samāhitaḥ |
सततं त्वाज्यधाराभिर् यदि तर्पयसे ऽनलम् । (११।७०)
satataṃ tvājyadhārābhir yadi tarpayase 'nalam |
कामं प्रार्थयसे यं त्वं मत्तः प्राप्स्यसि तं नृप । (११।७१)
kāmaṃ prārthayase yaṃ tvaṃ mattaḥ prāpsyasi taṃ nṛpa |
एवम् उक्तस्तु रुद्रेण श्वेतकिर् मनुजाधिपः । (११।७२)
evam uktastu rudreṇa śvetakir manujādhipaḥ |
तथा चकार तत् सर्वं यथोक्तं शूलपाणिना । (११।७३)
tathā cakāra tat sarvaṃ yathoktaṃ śūlapāṇinā |
पूर्णे तु द्वादशे वर्षे पुनर् आयान् महेश्वरम् । (११।७४)
pūrṇe tu dvādaśe varṣe punar āyān maheśvaram |
दृष्ट्वैव च स राजानं शंकरो लोकभावनः । (११।७५)
dṛṣṭvaiva ca sa rājānaṃ śaṃkaro lokabhāvanaḥ |
तोषितो ऽहं नृपश्रेष्ठ त्वयेह स्वेन कर्मणा । (११।७७)
toṣito 'haṃ nṛpaśreṣṭha tvayeha svena karmaṇā |
याजनं ब्राह्मणानां तु विधिदृष्टं परंतप । (११।७८)
yājanaṃ brāhmaṇānāṃ tu vidhidṛṣṭaṃ paraṃtapa |
अतो ऽहं त्वां स्वयं नाद्य याजयामि परंतप । (११।७९)
ato 'haṃ tvāṃ svayaṃ nādya yājayāmi paraṃtapa |
ममांशस्तु क्षितितले महाभागो द्विजोत्तमः । (११।८०)
mamāṃśastu kṣititale mahābhāgo dvijottamaḥ |
दुर्वासा इति विख्यातः स हि त्वां याजयिष्यति । (११।८१)
durvāsā iti vikhyātaḥ sa hi tvāṃ yājayiṣyati |
मन्नियोगान् महातेजाः संभाराः संभ्रियन्तु ते । (११।८२)
manniyogān mahātejāḥ saṃbhārāḥ saṃbhriyantu te |
एतच्छ्रुत्वा तु वचनं रुद्रेण समुदाहृतम् । (११।८३)
etacchrutvā tu vacanaṃ rudreṇa samudāhṛtam |
स्वपुरं पुनर् आगम्य संभारान् पुनर् आर्जयत् । (११।८४)
svapuraṃ punar āgamya saṃbhārān punar ārjayat |
ततः संभृतसंभारो भूयो रुद्रम् उपागमत् । (११।८५)
tataḥ saṃbhṛtasaṃbhāro bhūyo rudram upāgamat |
त्वत्प्रसादान् महादेव श्वो मे दीक्षा भवेद् इति । (११।८७)
tvatprasādān mahādeva śvo me dīkṣā bhaved iti |
एतच्छ्रुत्वा तु वचनं तस्य राज्ञो महात्मनः । (११।८८)
etacchrutvā tu vacanaṃ tasya rājño mahātmanaḥ |
दुर्वाससं समाहूय रुद्रो वचनम् अब्रवीत् । (११।८९)
durvāsasaṃ samāhūya rudro vacanam abravīt |
एनं याजय विप्रेन्द्र मन्नियोगेन भूमिपम् । (११।९१)
enaṃ yājaya viprendra manniyogena bhūmipam |
बाढम् इत्येव वचनं रुद्रम् ऋषिर् उवाच ह । (११।९२)
bāḍham ityeva vacanaṃ rudram ṛṣir uvāca ha |
ततः सत्रं समभवत् तस्य राज्ञो महात्मनः । (११।९३)
tataḥ satraṃ samabhavat tasya rājño mahātmanaḥ |
यथाविधि यथाकालं यथोक्तं बहुदक्षिणम् । (११।९४)
yathāvidhi yathākālaṃ yathoktaṃ bahudakṣiṇam |
तस्मिन् परिसमाप्ते तु राज्ञः सत्रे महात्मनः । (११।९५)
tasmin parisamāpte tu rājñaḥ satre mahātmanaḥ |
दुर्वाससाभ्यनुज्ञाता विप्रतस्थुः स्म याजकाः । (११।९६)
durvāsasābhyanujñātā vipratasthuḥ sma yājakāḥ |
ये तत्र दीक्षिताः सर्वे सदस्याश्च महौजसः । (११।९७)
ye tatra dīkṣitāḥ sarve sadasyāśca mahaujasaḥ |
सो ऽपि राजा महाभागः स्वपुरं प्राविशत् तदा । (११।९८)
so 'pi rājā mahābhāgaḥ svapuraṃ prāviśat tadā |
तेजसा विप्रहीणश्च ग्लानिश्चैनं समाविशत् । (११।१००)
tejasā viprahīṇaśca glāniścainaṃ samāviśat |
स लक्षयित्वा चात्मानं तेजोहीनं हुताशनः । (११।१०१)
sa lakṣayitvā cātmānaṃ tejohīnaṃ hutāśanaḥ |
जगाम सदनं पुण्यं ब्रह्मणो लोकपूजितम् । (११।१०२)
jagāma sadanaṃ puṇyaṃ brahmaṇo lokapūjitam |
तत्र ब्राह्मणम् आसीनम् इदं वचनम् अब्रवीत् । (११।१०३)
tatra brāhmaṇam āsīnam idaṃ vacanam abravīt |
तेजसा विप्रहीणो ऽस्मि बलेन च जगत्पते । (११।१०४)
tejasā viprahīṇo 'smi balena ca jagatpate |
इच्छेयं त्वत्प्रसादेन स्वात्मनः प्रकृतिं स्थिराम् । (११।१०५)
iccheyaṃ tvatprasādena svātmanaḥ prakṛtiṃ sthirām |
एतच्छ्रुत्वा तु वचनं भगवान् सर्वलोककृत् । (११।१०६)
etacchrutvā tu vacanaṃ bhagavān sarvalokakṛt |
हव्यवाहम् इदं वाक्यम् उवाच प्रहसन्न् इव । (११।१०७)
havyavāham idaṃ vākyam uvāca prahasann iva |
त्वया द्वादश वर्षाणि वसोर् धाराहुतं हविः । (११।१०८)
tvayā dvādaśa varṣāṇi vasor dhārāhutaṃ haviḥ |
उपयुक्तं महाभाग तेन त्वां ग्लानिर् आविशत् । (११।१०९)
upayuktaṃ mahābhāga tena tvāṃ glānir āviśat |
मा गमस्त्वं व्यथां वह्ने प्रकृतिस्थो भविष्यसि । (११।१११)
mā gamastvaṃ vyathāṃ vahne prakṛtistho bhaviṣyasi |
पुरा देवनियोगेन यत् त्वया भस्मसात् कृतम् । (११।११२)
purā devaniyogena yat tvayā bhasmasāt kṛtam |
आलयं देवशत्रूणां सुघोरं खाण्डवं वनम् । (११।११३)
ālayaṃ devaśatrūṇāṃ sughoraṃ khāṇḍavaṃ vanam |
तत्र सर्वाणि सत्त्वानि निवसन्ति विभावसो । (११।११४)
tatra sarvāṇi sattvāni nivasanti vibhāvaso |
तेषां त्वं मेदसा तृप्तः प्रकृतिस्थो भविष्यसि । (११।११५)
teṣāṃ tvaṃ medasā tṛptaḥ prakṛtistho bhaviṣyasi |
गच्छ शीघ्रं प्रदग्धुं त्वं ततो मोक्ष्यसि किल्बिषात् । (११।११६)
gaccha śīghraṃ pradagdhuṃ tvaṃ tato mokṣyasi kilbiṣāt |
एतच्छ्रुत्वा तु वचनं परमेष्ठिमुखाच्च्युतम् । (११।११७)
etacchrutvā tu vacanaṃ parameṣṭhimukhāccyutam |
उत्तमं जवम् आस्थाय प्रदुद्राव हुताशनः । (११।११८)
uttamaṃ javam āsthāya pradudrāva hutāśanaḥ |
आगम्य खाण्डवं दावम् उत्तमं जवम् आस्थितः । (११।११९)
āgamya khāṇḍavaṃ dāvam uttamaṃ javam āsthitaḥ |
सहसा प्रज्वलत्यग्निः क्रुद्धो वायुसमीरितः । (११।१२०)
sahasā prajvalatyagniḥ kruddho vāyusamīritaḥ |
प्रदीप्तं खाण्डवं दृष्ट्वा ये स्म तत्र निवासिनः । (११।१२१)
pradīptaṃ khāṇḍavaṃ dṛṣṭvā ye sma tatra nivāsinaḥ |
परमं यत्नम् आतिष्ठन् पावकस्य प्रशान्तये । (११।१२२)
paramaṃ yatnam ātiṣṭhan pāvakasya praśāntaye |
करैस्तु करिणः शीघ्रं जलम् आदाय सत्वराः । (११।१२३)
karaistu kariṇaḥ śīghraṃ jalam ādāya satvarāḥ |
सिषिचुः पावकं क्रुद्धाः शतशो ऽथ सहस्रशः । (११।१२४)
siṣicuḥ pāvakaṃ kruddhāḥ śataśo 'tha sahasraśaḥ |
बहुशीर्षास्तथा नागाः शिरोभिर् जलवृष्टयः । (११।१२५)
bahuśīrṣāstathā nāgāḥ śirobhir jalavṛṣṭayaḥ |
मुमुचुः पावकाभ्याशे सत्वराः क्रोधमूर्छिताः । (११।१२६)
mumucuḥ pāvakābhyāśe satvarāḥ krodhamūrchitāḥ |
तथैवान्यानि सत्त्वानि नानाप्रहरणोद्यमैः । (११।१२७)
tathaivānyāni sattvāni nānāpraharaṇodyamaiḥ |
विलयं पावकं शीघ्रम् अनयन् भरतोत्तम । (११।१२८)
vilayaṃ pāvakaṃ śīghram anayan bharatottama |
अनेन तु प्रकारेण भूयो भूयश्च प्रज्वलन् । (११।१२९)
anena tu prakāreṇa bhūyo bhūyaśca prajvalan |
सप्तकृत्वः प्रशमितः खाण्डवे हव्यवाहनः । (११।१३०)
saptakṛtvaḥ praśamitaḥ khāṇḍave havyavāhanaḥ |
स तु नैराश्यम् आपन्नः सदा ग्लानिसमन्वितः । (११।१३१)
sa tu nairāśyam āpannaḥ sadā glānisamanvitaḥ |
पितामहम् उपागच्छत् संक्रुद्धो हव्यवाहनः । (११।१३२)
pitāmaham upāgacchat saṃkruddho havyavāhanaḥ |
तच्च सर्वं यथावृत्तं ब्रह्मणे संन्यवेदयत् । (११।१३३)
tacca sarvaṃ yathāvṛttaṃ brahmaṇe saṃnyavedayat |
उवाच चैनं भगवान् मुहूर्तं स विचिन्त्य तु । (११।१३४)
uvāca cainaṃ bhagavān muhūrtaṃ sa vicintya tu |
उपायः परिदृष्टो मे यथा त्वं धक्ष्यसे ऽनल । (११।१३५)
upāyaḥ paridṛṣṭo me yathā tvaṃ dhakṣyase 'nala |
खाण्डवं दावम् अद्यैव मिषतो ऽस्य शतक्रतोः । (११।१३६)
khāṇḍavaṃ dāvam adyaiva miṣato 'sya śatakratoḥ |
नरनारायणौ यौ तौ पूर्वदेवौ विभावसो । (११।१३७)
naranārāyaṇau yau tau pūrvadevau vibhāvaso |
सम्प्राप्तौ मानुषं लोकं कार्यार्थं हि दिवौकसाम् । (११।१३८)
samprāptau mānuṣaṃ lokaṃ kāryārthaṃ hi divaukasām |
अर्जुनं वासुदेवं च यौ तौ लोको ऽभिमन्यते । (११।१३९)
arjunaṃ vāsudevaṃ ca yau tau loko 'bhimanyate |
तावेतौ सहितौ वह्ने खाण्डवस्य समीपतः । (११।१४०)
tāvetau sahitau vahne khāṇḍavasya samīpataḥ |
तौ त्वं याचस्व साहाय्ये दाहार्थं खाण्डवस्य च । (११।१४१)
tau tvaṃ yācasva sāhāyye dāhārthaṃ khāṇḍavasya ca |
ततो धक्ष्यसि तं दावं रक्षितं त्रिदशैर् अपि । (११।१४२)
tato dhakṣyasi taṃ dāvaṃ rakṣitaṃ tridaśair api |
तौ तु सत्त्वानि सर्वाणि यत्नतो वारयिष्यतः । (११।१४३)
tau tu sattvāni sarvāṇi yatnato vārayiṣyataḥ |
देवराजं च सहितौ तत्र मे नास्ति संशयः । (११।१४४)
devarājaṃ ca sahitau tatra me nāsti saṃśayaḥ |
एतच्छ्रुत्वा तु वचनं त्वरितो हव्यवाहनः । (११।१४५)
etacchrutvā tu vacanaṃ tvarito havyavāhanaḥ |
कृष्णपार्थावुपागम्य यम् अर्थं त्वभ्यभाषत । (११।१४६)
kṛṣṇapārthāvupāgamya yam arthaṃ tvabhyabhāṣata |
तं ते कथितवान् अस्मि पूर्वम् एव नृपोत्तम ॥ (११।१४७)
taṃ te kathitavān asmi pūrvam eva nṛpottama ||
एवम् उक्ते प्रत्युवाच बीभत्सुर् जातवेदसम् । (१२।१)
evam ukte pratyuvāca bībhatsur jātavedasam |
दिधक्षुं खाण्डवं दावम् अकामस्य शतक्रतोः ॥ (१२।३)
didhakṣuṃ khāṇḍavaṃ dāvam akāmasya śatakratoḥ ||
उत्तमास्त्राणि मे सन्ति दिव्यानि च बहूनि च । (१३।१)
uttamāstrāṇi me santi divyāni ca bahūni ca |
यैर् अहं शक्नुयां योद्धुम् अपि वज्रधरान् बहून् ॥ (१३।२)
yair ahaṃ śaknuyāṃ yoddhum api vajradharān bahūn ||
धनुर् मे नास्ति भगवन् बाहुवीर्येण संमितम् । (१४।१)
dhanur me nāsti bhagavan bāhuvīryeṇa saṃmitam |
कुर्वतः समरे यत्नं वेगं यद् विषहेत मे ॥ (१४।२)
kurvataḥ samare yatnaṃ vegaṃ yad viṣaheta me ||
शरैश्च मे ऽर्थो बहुभिर् अक्षयैः क्षिप्रम् अस्यतः । (१५।१)
śaraiśca me 'rtho bahubhir akṣayaiḥ kṣipram asyataḥ |
उपासंगौ च मे न स्तः प्रतियोद्धुं पुरंदरम् । (१५।२)
upāsaṃgau ca me na staḥ pratiyoddhuṃ puraṃdaram |
न हि वोढुं रथः शक्तः शरान् मम यथेप्सितान् ॥ (१५।३)
na hi voḍhuṃ rathaḥ śaktaḥ śarān mama yathepsitān ||
अश्वांश्च दिव्यान् इच्छेयं पाण्डुरान् वातरंहसः । (१६।१)
aśvāṃśca divyān iccheyaṃ pāṇḍurān vātaraṃhasaḥ |
तथा कृष्णस्य वीर्येण नायुधं विद्यते समम् । (१७।१)
tathā kṛṣṇasya vīryeṇa nāyudhaṃ vidyate samam |
येन नागान् पिशाचांश्च निहन्यान् माधवो रणे ॥ (१७।२)
yena nāgān piśācāṃśca nihanyān mādhavo raṇe ||
उपायं कर्मणः सिद्धौ भगवन् वक्तुम् अर्हसि । (१८।१)
upāyaṃ karmaṇaḥ siddhau bhagavan vaktum arhasi |
पौरुषेण तु यत् कार्यं तत् कर्तारौ स्व पावक । (१९।१)
pauruṣeṇa tu yat kāryaṃ tat kartārau sva pāvaka |
Data courtesy of The Digital Corpus of Sanskrit.