महाभारतMahābhārata

MBh, 10, 7

1290 of 1995 · 136 verses

Select a line for its word-by-word analysis.

1.1१.१

संजय उवाच । (१।१)

saṃjaya uvāca

1.2१.२

स एवं चिन्तयित्वा तु द्रोणपुत्रो विशां पते । (१।२)

sa evaṃ cintayitvā tu droṇaputro viśāṃ pate |

1.3१.३

अवतीर्य रथोपस्थाद् दध्यौ सम्प्रयतः स्थितः ॥ (१।३)

avatīrya rathopasthād dadhyau samprayataḥ sthitaḥ ||

2.1२.१

द्रौणिर् उवाच । (२।१)

drauṇir uvāca

2.2२.२

उग्रं स्थाणुं शिवं रुद्रं शर्वम् ईशानम् ईश्वरम् । (२।२)

ugraṃ sthāṇuṃ śivaṃ rudraṃ śarvam īśānam īśvaram |

2.3२.३

गिरिशं वरदं देवं भवं भावनम् अव्ययम् ॥ (२।३)

giriśaṃ varadaṃ devaṃ bhavaṃ bhāvanam avyayam ||

3.1३.१

शितिकण्ठम् अजं शक्रं क्रथं क्रतुहरं हरम् । (३।१)

śitikaṇṭham ajaṃ śakraṃ krathaṃ kratuharaṃ haram |

3.2३.२

विश्वरूपं विरूपाक्षं बहुरूपम् उमापतिम् ॥ (३।२)

viśvarūpaṃ virūpākṣaṃ bahurūpam umāpatim ||

4.1४.१

श्मशानवासिनं दृप्तं महागणपतिं प्रभुम् । (४।१)

śmaśānavāsinaṃ dṛptaṃ mahāgaṇapatiṃ prabhum |

4.2४.२

खट्वाङ्गधारिणं मुण्डं जटिलं ब्रह्मचारिणम् ॥ (४।२)

khaṭvāṅgadhāriṇaṃ muṇḍaṃ jaṭilaṃ brahmacāriṇam ||

5.1५.१

मनसाप्यसुचिन्त्येन दुष्करेणाल्पचेतसा । (५।१)

manasāpyasucintyena duṣkareṇālpacetasā |

5.2५.२

सो ऽहम् आत्मोपहारेण यक्ष्ये त्रिपुरघातिनम् ॥ (५।२)

so 'ham ātmopahāreṇa yakṣye tripuraghātinam ||

6.1६.१

स्तुतं स्तुत्यं स्तूयमानम् अमोघं चर्मवाससम् । (६।१)

stutaṃ stutyaṃ stūyamānam amoghaṃ carmavāsasam |

6.2६.२

विलोहितं नीलकण्ठम् अपृक्तं दुर्निवारणम् ॥ (६।२)

vilohitaṃ nīlakaṇṭham apṛktaṃ durnivāraṇam ||

7.1७.१

शुक्रं विश्वसृजं ब्रह्म ब्रह्मचारिणम् एव च । (७।१)

śukraṃ viśvasṛjaṃ brahma brahmacāriṇam eva ca |

7.2७.२

व्रतवन्तं तपोनित्यम् अनन्तं तपतां गतिम् ॥ (७।२)

vratavantaṃ taponityam anantaṃ tapatāṃ gatim ||

8.1८.१

बहुरूपं गणाध्यक्षं त्र्यक्षं पारिषदप्रियम् । (८।१)

bahurūpaṃ gaṇādhyakṣaṃ tryakṣaṃ pāriṣadapriyam |

8.2८.२

गणाध्यक्षेक्षितमुखं गौरीहृदयवल्लभम् ॥ (८।२)

gaṇādhyakṣekṣitamukhaṃ gaurīhṛdayavallabham ||

9.1९.१

कुमारपितरं पिङ्गं गोवृषोत्तमवाहनम् । (९।१)

kumārapitaraṃ piṅgaṃ govṛṣottamavāhanam |

9.2९.२

तनुवाससम् अत्युग्रम् उमाभूषणतत्परम् ॥ (९।२)

tanuvāsasam atyugram umābhūṣaṇatatparam ||

10.1१०.१

परं परेभ्यः परमं परं यस्मान्न विद्यते । (१०।१)

paraṃ parebhyaḥ paramaṃ paraṃ yasmānna vidyate |

10.2१०.२

इष्वस्त्रोत्तमभर्तारं दिगन्तं चैव दक्षिणम् ॥ (१०।२)

iṣvastrottamabhartāraṃ digantaṃ caiva dakṣiṇam ||

11.1११.१

हिरण्यकवचं देवं चन्द्रमौलिविभूषितम् । (११।१)

hiraṇyakavacaṃ devaṃ candramaulivibhūṣitam |

11.2११.२

प्रपद्ये शरणं देवं परमेण समाधिना ॥ (११।२)

prapadye śaraṇaṃ devaṃ parameṇa samādhinā ||

12.1१२.१

इमां चाप्यापदं घोरां तराम्यद्य सुदुस्तराम् । (१२।१)

imāṃ cāpyāpadaṃ ghorāṃ tarāmyadya sudustarām |

12.2१२.२

सर्वभूतोपहारेण यक्ष्ये ऽहं शुचिना शुचिम् ॥ (१२।२)

sarvabhūtopahāreṇa yakṣye 'haṃ śucinā śucim ||

13.1१३.१

इति तस्य व्यवसितं ज्ञात्वा त्यागात्मकं मनः । (१३।१)

iti tasya vyavasitaṃ jñātvā tyāgātmakaṃ manaḥ |

13.2१३.२

पुरस्तात् काञ्चनी वेदिः प्रादुरासीन्महात्मनः ॥ (१३।२)

purastāt kāñcanī vediḥ prādurāsīnmahātmanaḥ ||

14.1१४.१

तस्यां वेद्यां तदा राजंश्चित्रभानुर् अजायत । (१४।१)

tasyāṃ vedyāṃ tadā rājaṃścitrabhānur ajāyata |

14.2१४.२

द्यां दिशो विदिशः खं च ज्वालाभिर् अभिपूरयन् ॥ (१४।२)

dyāṃ diśo vidiśaḥ khaṃ ca jvālābhir abhipūrayan ||

15.1१५.१

दीप्तास्यनयनाश्चात्र नैकपादशिरोभुजाः । (१५।१)

dīptāsyanayanāścātra naikapādaśirobhujāḥ |

15.2१५.२

द्विपशैलप्रतीकाशाः प्रादुरासन्महाननाः ॥ (१५।२)

dvipaśailapratīkāśāḥ prādurāsanmahānanāḥ ||

16.1१६.१

श्ववराहोष्ट्ररूपाश्च हयगोमायुगोमुखाः । (१६।१)

śvavarāhoṣṭrarūpāśca hayagomāyugomukhāḥ |

16.2१६.२

ऋक्षमार्जारवदना व्याघ्रद्वीपिमुखास्तथा ॥ (१६।२)

ṛkṣamārjāravadanā vyāghradvīpimukhāstathā ||

17.1१७.१

काकवक्त्राः प्लवमुखाः शुकवक्त्रास्तथैव च । (१७।१)

kākavaktrāḥ plavamukhāḥ śukavaktrāstathaiva ca |

17.2१७.२

महाजगरवक्त्राश्च हंसवक्त्राः सितप्रभाः ॥ (१७।२)

mahājagaravaktrāśca haṃsavaktrāḥ sitaprabhāḥ ||

18.1१८.१

दार्वाघाटमुखाश्चैव चाषवक्त्राश्च भारत । (१८।१)

dārvāghāṭamukhāścaiva cāṣavaktrāśca bhārata |

18.2१८.२

कूर्मनक्रमुखाश्चैव शिशुमारमुखास्तथा ॥ (१८।२)

kūrmanakramukhāścaiva śiśumāramukhāstathā ||

19.1१९.१

महामकरवक्त्राश्च तिमिवक्त्रास्तथैव च । (१९।१)

mahāmakaravaktrāśca timivaktrāstathaiva ca |

19.2१९.२

हरिवक्त्राः क्रौञ्चमुखाः कपोतेभमुखास्तथा ॥ (१९।२)

harivaktrāḥ krauñcamukhāḥ kapotebhamukhāstathā ||

20.1२०.१

पारावतमुखाश्चैव मद्गुवक्त्रास्तथैव च । (२०।१)

pārāvatamukhāścaiva madguvaktrāstathaiva ca |

20.2२०.२

पाणिकर्णाः सहस्राक्षास्तथैव च शतोदराः ॥ (२०।२)

pāṇikarṇāḥ sahasrākṣāstathaiva ca śatodarāḥ ||

21.1२१.१

निर्मांसाः कोकवक्त्राश्च श्येनवक्त्राश्च भारत । (२१।१)

nirmāṃsāḥ kokavaktrāśca śyenavaktrāśca bhārata |

21.2२१.२

तथैवाशिरसो राजन्न् ऋक्षवक्त्राश्च भीषणाः ॥ (२१।२)

tathaivāśiraso rājann ṛkṣavaktrāśca bhīṣaṇāḥ ||

22.1२२.१

प्रदीप्तनेत्रजिह्वाश्च ज्वालावक्त्रास्तथैव च । (२२।१)

pradīptanetrajihvāśca jvālāvaktrāstathaiva ca |

22.2२२.२

मेषवक्त्रास्तथैवान्ये तथा छागमुखा नृप ॥ (२२।२)

meṣavaktrāstathaivānye tathā chāgamukhā nṛpa ||

23.1२३.१

शङ्खाभाः शङ्खवक्त्राश्च शङ्खकर्णास्तथैव च । (२३।१)

śaṅkhābhāḥ śaṅkhavaktrāśca śaṅkhakarṇāstathaiva ca |

23.2२३.२

शङ्खमालापरिकराः शङ्खध्वनिसमस्वनाः ॥ (२३।२)

śaṅkhamālāparikarāḥ śaṅkhadhvanisamasvanāḥ ||

24.1२४.१

जटाधराः पञ्चशिखास्तथा मुण्डाः कृशोदराः । (२४।१)

jaṭādharāḥ pañcaśikhāstathā muṇḍāḥ kṛśodarāḥ |

24.2२४.२

चतुर्दंष्ट्राश्चतुर्जिह्वाः शङ्कुकर्णाः किरीटिनः ॥ (२४।२)

caturdaṃṣṭrāścaturjihvāḥ śaṅkukarṇāḥ kirīṭinaḥ ||

25.1२५.१

मौलीधराश्च राजेन्द्र तथाकुञ्चितमूर्धजाः । (२५।१)

maulīdharāśca rājendra tathākuñcitamūrdhajāḥ |

25.2२५.२

उष्णीषिणो मुकुटिनश्चारुवक्त्राः स्वलंकृताः ॥ (२५।२)

uṣṇīṣiṇo mukuṭinaścāruvaktrāḥ svalaṃkṛtāḥ ||

26.1२६.१

पद्मोत्पलापीडधरास्तथा कुमुदधारिणः । (२६।१)

padmotpalāpīḍadharāstathā kumudadhāriṇaḥ |

26.2२६.२

माहात्म्येन च संयुक्ताः शतशो ऽथ सहस्रशः ॥ (२६।२)

māhātmyena ca saṃyuktāḥ śataśo 'tha sahasraśaḥ ||

27.1२७.१

शतघ्नीचक्रहस्ताश्च तथा मुसलपाणयः । (२७।१)

śataghnīcakrahastāśca tathā musalapāṇayaḥ |

27.2२७.२

भुशुण्डीपाशहस्ताश्च गदाहस्ताश्च भारत ॥ (२७।२)

bhuśuṇḍīpāśahastāśca gadāhastāśca bhārata ||

28.1२८.१

पृष्ठेषु बद्धेषुधयश्चित्रबाणा रणोत्कटाः । (२८।१)

pṛṣṭheṣu baddheṣudhayaścitrabāṇā raṇotkaṭāḥ |

28.2२८.२

सध्वजाः सपताकाश्च सघण्टाः सपरश्वधाः ॥ (२८।२)

sadhvajāḥ sapatākāśca saghaṇṭāḥ saparaśvadhāḥ ||

29.1२९.१

महापाशोद्यतकरास्तथा लगुडपाणयः । (२९।१)

mahāpāśodyatakarāstathā laguḍapāṇayaḥ |

29.2२९.२

स्थूणाहस्ताः खड्गहस्ताः सर्पोच्छ्रितकिरीटिनः । (२९।२)

sthūṇāhastāḥ khaḍgahastāḥ sarpocchritakirīṭinaḥ |

29.3२९.३

महासर्पाङ्गदधराश्चित्राभरणधारिणः ॥ (२९।३)

mahāsarpāṅgadadharāścitrābharaṇadhāriṇaḥ ||

30.1३०.१

रजोध्वस्ताः पङ्कदिग्धाः सर्वे शुक्लाम्बरस्रजः । (३०।१)

rajodhvastāḥ paṅkadigdhāḥ sarve śuklāmbarasrajaḥ |

30.2३०.२

नीलाङ्गाः कमलाङ्गाश्च मुण्डवक्त्रास्तथैव च ॥ (३०।२)

nīlāṅgāḥ kamalāṅgāśca muṇḍavaktrāstathaiva ca ||

31.1३१.१

भेरीशङ्खमृदङ्गांस्ते झर्झरानकगोमुखान् । (३१।१)

bherīśaṅkhamṛdaṅgāṃste jharjharānakagomukhān |

31.2३१.२

अवादयन् पारिषदाः प्रहृष्टाः कनकप्रभाः ॥ (३१।२)

avādayan pāriṣadāḥ prahṛṣṭāḥ kanakaprabhāḥ ||

32.1३२.१

गायमानास्तथैवान्ये नृत्यमानास्तथापरे । (३२।१)

gāyamānāstathaivānye nṛtyamānāstathāpare |

32.2३२.२

लङ्घयन्तः प्लवन्तश्च वल्गन्तश्च महाबलाः ॥ (३२।२)

laṅghayantaḥ plavantaśca valgantaśca mahābalāḥ ||

33.1३३.१

धावन्तो जवनाश्चण्डाः पवनोद्धूतमूर्धजाः । (३३।१)

dhāvanto javanāścaṇḍāḥ pavanoddhūtamūrdhajāḥ |

33.2३३.२

मत्ता इव महानागा विनदन्तो मुहुर् मुहुः ॥ (३३।२)

mattā iva mahānāgā vinadanto muhur muhuḥ ||

34.1३४.१

सुभीमा घोररूपाश्च शूलपट्टिशपाणयः । (३४।१)

subhīmā ghorarūpāśca śūlapaṭṭiśapāṇayaḥ |

34.2३४.२

नानाविरागवसनाश् चित्रमाल्यानुलेपनाः ॥ (३४।२)

nānāvirāgavasanāś citramālyānulepanāḥ ||

35.1३५.१

रत्नचित्राङ्गदधराः समुद्यतकरास्तथा । (३५।१)

ratnacitrāṅgadadharāḥ samudyatakarāstathā |

35.2३५.२

हन्तारो द्विषतां शूराः प्रसह्यासह्यविक्रमाः ॥ (३५।२)

hantāro dviṣatāṃ śūrāḥ prasahyāsahyavikramāḥ ||

36.1३६.१

पातारो ऽसृग्वसाद्यानां मांसान्त्रकृतभोजनाः । (३६।१)

pātāro 'sṛgvasādyānāṃ māṃsāntrakṛtabhojanāḥ |

36.2३६.२

चूडालाः कर्णिकालाश्च प्रकृशाः पिठरोदराः ॥ (३६।२)

cūḍālāḥ karṇikālāśca prakṛśāḥ piṭharodarāḥ ||

37.1३७.१

अतिह्रस्वातिदीर्घाश्च प्रबलाश्चातिभैरवाः । (३७।१)

atihrasvātidīrghāśca prabalāścātibhairavāḥ |

37.2३७.२

विकटाः काललम्बोष्ठा बृहच्छेफास्थिपिण्डिकाः ॥ (३७।२)

vikaṭāḥ kālalamboṣṭhā bṛhacchephāsthipiṇḍikāḥ ||

38.1३८.१

महार्हनानामुकुटा मुण्डाश्च जटिलाः परे । (३८।१)

mahārhanānāmukuṭā muṇḍāśca jaṭilāḥ pare |

38.2३८.२

सार्केन्दुग्रहनक्षत्रां द्यां कुर्युर् ये महीतले ॥ (३८।२)

sārkendugrahanakṣatrāṃ dyāṃ kuryur ye mahītale ||

39.1३९.१

उत्सहेरंश्च ये हन्तुं भूतग्रामं चतुर्विधम् । (३९।१)

utsaheraṃśca ye hantuṃ bhūtagrāmaṃ caturvidham |

39.2३९.२

ये च वीतभया नित्यं हरस्य भ्रुकुटीभटाः ॥ (३९।२)

ye ca vītabhayā nityaṃ harasya bhrukuṭībhaṭāḥ ||

40.1४०.१

कामकारकराः सिद्धास्त्रैलोक्यस्येश्वरेश्वराः । (४०।१)

kāmakārakarāḥ siddhāstrailokyasyeśvareśvarāḥ |

40.2४०.२

नित्यानन्दप्रमुदिता वागीशा वीतमत्सराः ॥ (४०।२)

nityānandapramuditā vāgīśā vītamatsarāḥ ||

41.1४१.१

प्राप्याष्टगुणम् ऐश्वर्यं ये न यान्ति च विस्मयम् । (४१।१)

prāpyāṣṭaguṇam aiśvaryaṃ ye na yānti ca vismayam |

41.2४१.२

येषां विस्मयते नित्यं भगवान् कर्मभिर् हरः ॥ (४१।२)

yeṣāṃ vismayate nityaṃ bhagavān karmabhir haraḥ ||

42.1४२.१

मनोवाक्कर्मभिर् भक्तैर् नित्यम् आराधितश्च यैः । (४२।१)

manovākkarmabhir bhaktair nityam ārādhitaśca yaiḥ |

42.2४२.२

मनोवाक्कर्मभिर् भक्तान् पाति पुत्रान् इवौरसान् ॥ (४२।२)

manovākkarmabhir bhaktān pāti putrān ivaurasān ||

43.1४३.१

पिबन्तो ऽसृग्वसास्त्वन्ये क्रुद्धा ब्रह्मद्विषां सदा । (४३।१)

pibanto 'sṛgvasāstvanye kruddhā brahmadviṣāṃ sadā |

43.2४३.२

चतुर्विंशात्मकं सोमं ये पिबन्ति च नित्यदा ॥ (४३।२)

caturviṃśātmakaṃ somaṃ ye pibanti ca nityadā ||

44.1४४.१

श्रुतेन ब्रह्मचर्येण तपसा च दमेन च । (४४।१)

śrutena brahmacaryeṇa tapasā ca damena ca |

44.2४४.२

ये समाराध्य शूलाङ्कं भवसायुज्यम् आगताः ॥ (४४।२)

ye samārādhya śūlāṅkaṃ bhavasāyujyam āgatāḥ ||

45.1४५.१

यैर् आत्मभूतैर् भगवान् पार्वत्या च महेश्वरः । (४५।१)

yair ātmabhūtair bhagavān pārvatyā ca maheśvaraḥ |

45.2४५.२

सह भूतगणान् भुङ्क्ते भूतभव्यभवत्प्रभुः ॥ (४५।२)

saha bhūtagaṇān bhuṅkte bhūtabhavyabhavatprabhuḥ ||

46.1४६.१

नानाविचित्रहसितक्ष्वेडितोत्क्रुष्टगर्जितैः । (४६।१)

nānāvicitrahasitakṣveḍitotkruṣṭagarjitaiḥ |

46.2४६.२

संनादयन्तस्ते विश्वम् अश्वत्थामानम् अभ्ययुः ॥ (४६।२)

saṃnādayantaste viśvam aśvatthāmānam abhyayuḥ ||

47.1४७.१

संस्तुवन्तो महादेवं भाः कुर्वाणाः सुवर्चसः । (४७।१)

saṃstuvanto mahādevaṃ bhāḥ kurvāṇāḥ suvarcasaḥ |

47.2४७.२

विवर्धयिषवो द्रौणेर् महिमानं महात्मनः ॥ (४७।२)

vivardhayiṣavo drauṇer mahimānaṃ mahātmanaḥ ||

48.1४८.१

जिज्ञासमानास्तत्तेजः सौप्तिकं च दिदृक्षवः । (४८।१)

jijñāsamānāstattejaḥ sauptikaṃ ca didṛkṣavaḥ |

48.2४८.२

भीमोग्रपरिघालातशूलपट्टिशपाणयः । (४८।२)

bhīmograparighālātaśūlapaṭṭiśapāṇayaḥ |

48.3४८.३

घोररूपाः समाजग्मुर् भूतसंघाः समन्ततः ॥ (४८।३)

ghorarūpāḥ samājagmur bhūtasaṃghāḥ samantataḥ ||

49.1४९.१

जनयेयुर् भयं ये स्म त्रैलोक्यस्यापि दर्शनात् । (४९।१)

janayeyur bhayaṃ ye sma trailokyasyāpi darśanāt |

49.2४९.२

तान् प्रेक्षमाणो ऽपि व्यथां न चकार महाबलः ॥ (४९।२)

tān prekṣamāṇo 'pi vyathāṃ na cakāra mahābalaḥ ||

50.1५०.१

अथ द्रौणिर् धनुष्पाणिर् बद्धगोधाङ्गुलित्रवान् । (५०।१)

atha drauṇir dhanuṣpāṇir baddhagodhāṅgulitravān |

50.2५०.२

स्वयम् एवात्मनात्मानम् उपहारम् उपाहरत् ॥ (५०।२)

svayam evātmanātmānam upahāram upāharat ||

51.1५१.१

धनूंषि समिधस्तत्र पवित्राणि शिताः शराः । (५१।१)

dhanūṃṣi samidhastatra pavitrāṇi śitāḥ śarāḥ |

51.2५१.२

हविर् आत्मवतश्चात्मा तस्मिन् भारत कर्मणि ॥ (५१।२)

havir ātmavataścātmā tasmin bhārata karmaṇi ||

52.1५२.१

ततः सौम्येन मन्त्रेण द्रोणपुत्रः प्रतापवान् । (५२।१)

tataḥ saumyena mantreṇa droṇaputraḥ pratāpavān |

52.2५२.२

उपहारं महामन्युर् अथात्मानम् उपाहरत् ॥ (५२।२)

upahāraṃ mahāmanyur athātmānam upāharat ||

53.1५३.१

तं रुद्रं रौद्रकर्माणं रौद्रैः कर्मभिर् अच्युतम् । (५३।१)

taṃ rudraṃ raudrakarmāṇaṃ raudraiḥ karmabhir acyutam |

53.2५३.२

अभिष्टुत्य महात्मानम् इत्युवाच कृताञ्जलिः ॥ (५३।२)

abhiṣṭutya mahātmānam ityuvāca kṛtāñjaliḥ ||

54.1५४.१

इमम् आत्मानम् अद्याहं जातम् आङ्गिरसे कुले । (५४।१)

imam ātmānam adyāhaṃ jātam āṅgirase kule |

54.2५४.२

अग्नौ जुहोमि भगवन् प्रतिगृह्णीष्व मां बलिम् ॥ (५४।२)

agnau juhomi bhagavan pratigṛhṇīṣva māṃ balim ||

55.1५५.१

भवद्भक्त्या महादेव परमेण समाधिना । (५५।१)

bhavadbhaktyā mahādeva parameṇa samādhinā |

55.2५५.२

अस्याम् आपदि विश्वात्मन्न् उपाकुर्मि तवाग्रतः ॥ (५५।२)

asyām āpadi viśvātmann upākurmi tavāgrataḥ ||

56.1५६.१

त्वयि सर्वाणि भूतानि सर्वभूतेषु चासि वै । (५६।१)

tvayi sarvāṇi bhūtāni sarvabhūteṣu cāsi vai |

56.2५६.२

गुणानां हि प्रधानानाम् एकत्वं त्वयि तिष्ठति ॥ (५६।२)

guṇānāṃ hi pradhānānām ekatvaṃ tvayi tiṣṭhati ||

57.1५७.१

सर्वभूताशय विभो हविर्भूतम् उपस्थितम् । (५७।१)

sarvabhūtāśaya vibho havirbhūtam upasthitam |

57.2५७.२

प्रतिगृहाण मां देव यद्यशक्याः परे मया ॥ (५७।२)

pratigṛhāṇa māṃ deva yadyaśakyāḥ pare mayā ||

58.1५८.१

इत्युक्त्वा द्रौणिर् आस्थाय तां वेदीं दीप्तपावकाम् । (५८।१)

ityuktvā drauṇir āsthāya tāṃ vedīṃ dīptapāvakām |

58.2५८.२

संत्यक्तात्मा समारुह्य कृष्णवर्त्मन्युपाविशत् ॥ (५८।२)

saṃtyaktātmā samāruhya kṛṣṇavartmanyupāviśat ||

59.1५९.१

तम् ऊर्ध्वबाहुं निश्चेष्टं दृष्ट्वा हविर् उपस्थितम् । (५९।१)

tam ūrdhvabāhuṃ niśceṣṭaṃ dṛṣṭvā havir upasthitam |

59.2५९.२

अब्रवीद् भगवान् साक्षान्महादेवो हसन्न् इव ॥ (५९।२)

abravīd bhagavān sākṣānmahādevo hasann iva ||

60.1६०.१

सत्यशौचार्जवत्यागैस्तपसा नियमेन च । (६०।१)

satyaśaucārjavatyāgaistapasā niyamena ca |

60.2६०.२

क्षान्त्या भक्त्या च धृत्या च बुद्ध्या च वचसा तथा ॥ (६०।२)

kṣāntyā bhaktyā ca dhṛtyā ca buddhyā ca vacasā tathā ||

61.1६१.१

यथावद् अहम् आराद्धः कृष्णेनाक्लिष्टकर्मणा । (६१।१)

yathāvad aham ārāddhaḥ kṛṣṇenākliṣṭakarmaṇā |

61.2६१.२

तस्माद् इष्टतमः कृष्णाद् अन्यो मम न विद्यते ॥ (६१।२)

tasmād iṣṭatamaḥ kṛṣṇād anyo mama na vidyate ||

62.1६२.१

कुर्वता तस्य संमानं त्वां च जिज्ञासता मया । (६२।१)

kurvatā tasya saṃmānaṃ tvāṃ ca jijñāsatā mayā |

62.2६२.२

पाञ्चालाः सहसा गुप्ता मायाश्च बहुशः कृताः ॥ (६२।२)

pāñcālāḥ sahasā guptā māyāśca bahuśaḥ kṛtāḥ ||

63.1६३.१

कृतस्तस्यैष संमानः पाञ्चालान् रक्षता मया । (६३।१)

kṛtastasyaiṣa saṃmānaḥ pāñcālān rakṣatā mayā |

63.2६३.२

अभिभूतास्तु कालेन नैषाम् अद्यास्ति जीवितम् ॥ (६३।२)

abhibhūtāstu kālena naiṣām adyāsti jīvitam ||

64.1६४.१

एवम् उक्त्वा महेष्वासं भगवान् आत्मनस्तनुम् । (६४।१)

evam uktvā maheṣvāsaṃ bhagavān ātmanastanum |

64.2६४.२

आविवेश ददौ चास्मै विमलं खड्गम् उत्तमम् ॥ (६४।२)

āviveśa dadau cāsmai vimalaṃ khaḍgam uttamam ||

65.1६५.१

अथाविष्टो भगवता भूयो जज्वाल तेजसा । (६५।१)

athāviṣṭo bhagavatā bhūyo jajvāla tejasā |

65.2६५.२

वर्ष्मवांश्चाभवद् युद्धे देवसृष्टेन तेजसा ॥ (६५।२)

varṣmavāṃścābhavad yuddhe devasṛṣṭena tejasā ||

66.1६६.१

तम् अदृश्यानि भूतानि रक्षांसि च समाद्रवन् । (६६।१)

tam adṛśyāni bhūtāni rakṣāṃsi ca samādravan |

66.2६६.२

अभितः शत्रुशिबिरं यान्तं साक्षाद् इवेश्वरम् ॥ (६६।२)

abhitaḥ śatruśibiraṃ yāntaṃ sākṣād iveśvaram ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 10, 7

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit