महाभारतMahābhārata

MBh, 1, 116

116 of 1995 · 253 verses

Select a line for its word-by-word analysis.

1.1१.१

वैशंपायन उवाच । (१।१)

vaiśaṃpāyana uvāca

1.2१.२

दर्शनीयांस्ततः पुत्रान् पाण्डुः पञ्च महावने । (१।२)

darśanīyāṃstataḥ putrān pāṇḍuḥ pañca mahāvane |

1.3१.३

तान् पश्यन् पर्वते रेमे स्वबाहुबलपालितान् ॥ (१।३)

tān paśyan parvate reme svabāhubalapālitān ||

2.1२.१

सुपुष्पितवने काले कदाचिन् मधुमाधवे । (२।१)

supuṣpitavane kāle kadācin madhumādhave |

2.2२.२

पूर्णे चतुर्दशे वर्षे फल्गुनस्य च धीमतः । (२।२)

pūrṇe caturdaśe varṣe phalgunasya ca dhīmataḥ |

2.3२.३

तदा उत्तरफल्गुन्यां प्रवृत्ते स्वस्तिवाचने । (२।३)

tadā uttaraphalgunyāṃ pravṛtte svastivācane |

2.4२.४

रक्षणे विस्मृता कुन्ती व्यग्रा ब्राह्मणभोजने । (२।४)

rakṣaṇe vismṛtā kuntī vyagrā brāhmaṇabhojane |

2.5२.५

पुरोहितेन सह सा ब्राह्मणान् पर्यवेषयत् । (२।५)

purohitena saha sā brāhmaṇān paryaveṣayat |

2.6२.६

तस्मिन् काले समाहूय माद्रीं मदनमोहितः । (२।६)

tasmin kāle samāhūya mādrīṃ madanamohitaḥ |

2.7२.७

भूतसंमोहने राजा सभार्यो व्यचरद् वनम् ॥ (२।७)

bhūtasaṃmohane rājā sabhāryo vyacarad vanam ||

3.1३.१

पलाशैस्तिलकैश्चूतैश्चम्पकैः पारिभद्रकैः । (३।१)

palāśaistilakaiścūtaiścampakaiḥ pāribhadrakaiḥ |

3.2३.२

अन्यैश्च बहुभिर् वृक्षैः फलपुष्पसमृद्धिभिः । (३।२)

anyaiśca bahubhir vṛkṣaiḥ phalapuṣpasamṛddhibhiḥ |

3.3३.३

कर्णिकारैर् अशोकैश्च केशरैर् अतिमुक्तकैः । (३।३)

karṇikārair aśokaiśca keśarair atimuktakaiḥ |

3.4३.४

तदा कुरबकैश्चैव मत्तभ्रमरकूजितैः । (३।४)

tadā kurabakaiścaiva mattabhramarakūjitaiḥ |

3.5३.५

चूतैर् मञ्जिरिभिश्चैव पारिजातवनैर् अपि । (३।५)

cūtair mañjiribhiścaiva pārijātavanair api |

3.6३.६

परपुष्टोपसंघुष्टसंगीतैः षट्पदैर् अपि । (३।६)

parapuṣṭopasaṃghuṣṭasaṃgītaiḥ ṣaṭpadair api |

3.7३.७

जम्बूदुम्बरसैहुण्डैर् वटैर् आम्रातकैर् धवैः । (३।७)

jambūdumbarasaihuṇḍair vaṭair āmrātakair dhavaiḥ |

3.8३.८

नीपार्जुनकदम्बैश्च बदरैर् नागकेसरैः । (३।८)

nīpārjunakadambaiśca badarair nāgakesaraiḥ |

3.9३.९

तमालैर् बिल्वकैस्तालैः पनसैर् वनकिंशुकैः । (३।९)

tamālair bilvakaistālaiḥ panasair vanakiṃśukaiḥ |

3.10३.१०

मत्तभ्रमरसंगीतकोकिलस्वनमिश्रितम् । (३।१०)

mattabhramarasaṃgītakokilasvanamiśritam |

3.11३.११

हिन्तालकदलीशालैः पनसैर् वनकिंशुकैः । (३।११)

hintālakadalīśālaiḥ panasair vanakiṃśukaiḥ |

3.12३.१२

बकुलैस्तिलकैस्तालैः पनसैर् वनकिंशुकैः ॥ (३।१२)

bakulaistilakaistālaiḥ panasair vanakiṃśukaiḥ ||

4.1४.१

जलस्थानैश्च विविधैः पद्मिनीभिश्च शोभितम् । (४।१)

jalasthānaiśca vividhaiḥ padminībhiśca śobhitam |

4.2४.२

नानाविहंगसंघुष्टं परपुष्टनिनादितम् । (४।२)

nānāvihaṃgasaṃghuṣṭaṃ parapuṣṭanināditam |

4.3४.३

समीक्ष्य च ततस्तत्र रम्यं कुसुमितं द्रुमम् । (४।३)

samīkṣya ca tatastatra ramyaṃ kusumitaṃ drumam |

4.4४.४

पाण्डोर् वनं तु सम्प्रेक्ष्य प्रजज्ञे हृदि मन्मथः । (४।४)

pāṇḍor vanaṃ tu samprekṣya prajajñe hṛdi manmathaḥ |

4.5४.५

मत्तभ्रमरसंगीतं कोकिलस्वनमिश्रितम् । (४।५)

mattabhramarasaṃgītaṃ kokilasvanamiśritam |

4.6४.६

गायमानैस्तु गन्धर्वैः पुरा नागपुरे यथा ॥ (४।६)

gāyamānaistu gandharvaiḥ purā nāgapure yathā ||

5.1५.१

प्रहृष्टमनसं तत्र विहरन्तं यथामरम् । (५।१)

prahṛṣṭamanasaṃ tatra viharantaṃ yathāmaram |

5.2५.२

तं माद्र्यनुजगामैका वसनं बिभ्रती शुभम् ॥ (५।२)

taṃ mādryanujagāmaikā vasanaṃ bibhratī śubham ||

6.1६.१

समीक्षमाणः स तु तां वयःस्थां तनुवाससम् । (६।१)

samīkṣamāṇaḥ sa tu tāṃ vayaḥsthāṃ tanuvāsasam |

6.2६.२

तस्य कामः प्रववृधे गहने ऽग्निर् इवोत्थितः ॥ (६।२)

tasya kāmaḥ pravavṛdhe gahane 'gnir ivotthitaḥ ||

7.1७.१

रहस्यात्मसमां दृष्ट्वा राजा राजीवलोचनाम् । (७।१)

rahasyātmasamāṃ dṛṣṭvā rājā rājīvalocanām |

7.2७.२

न शशाक नियन्तुं तं कामं कामबलात्कृतः । (७।२)

na śaśāka niyantuṃ taṃ kāmaṃ kāmabalātkṛtaḥ |

7.3७.३

अथ सो ऽष्टादशे वर्षे ऋतौ माद्रीम् अलंकृताम् । (७।३)

atha so 'ṣṭādaśe varṣe ṛtau mādrīm alaṃkṛtām |

7.4७.४

आजुहाव ततः पाण्डुः परीतात्मा यशस्विनीम् ॥ (७।४)

ājuhāva tataḥ pāṇḍuḥ parītātmā yaśasvinīm ||

8.1८.१

तत एनां बलाद् राजा निजग्राह रहोगताम् । (८।१)

tata enāṃ balād rājā nijagrāha rahogatām |

8.2८.२

वार्यमाणस्तया देव्या विस्फुरन्त्या यथाबलम् ॥ (८।२)

vāryamāṇastayā devyā visphurantyā yathābalam ||

9.1९.१

स तु कामपरीतात्मा तं शापं नान्वबुध्यत । (९।१)

sa tu kāmaparītātmā taṃ śāpaṃ nānvabudhyata |

9.2९.२

माद्रीं मैथुनधर्मेण गच्छमानो बलाद् इव ॥ (९।२)

mādrīṃ maithunadharmeṇa gacchamāno balād iva ||

10.1१०.१

जीवितान्ताय कौरव्यो मन्मथस्य वशं गतः । (१०।१)

jīvitāntāya kauravyo manmathasya vaśaṃ gataḥ |

10.2१०.२

शापजं भयम् उत्सृज्य जगामैव बलात् प्रियाम् ॥ (१०।२)

śāpajaṃ bhayam utsṛjya jagāmaiva balāt priyām ||

11.1११.१

तस्य कामात्मनो बुद्धिः साक्षात् कालेन मोहिता । (११।१)

tasya kāmātmano buddhiḥ sākṣāt kālena mohitā |

11.2११.२

सम्प्रमथ्येन्द्रियग्रामं प्रनष्टा सह चेतसा ॥ (११।२)

sampramathyendriyagrāmaṃ pranaṣṭā saha cetasā ||

12.1१२.१

स तया सह संगम्य भार्यया कुरुनन्दन । (१२।१)

sa tayā saha saṃgamya bhāryayā kurunandana |

12.2१२.२

पाण्डुः परमधर्मात्मा युयुजे कालधर्मणा । (१२।२)

pāṇḍuḥ paramadharmātmā yuyuje kāladharmaṇā |

12.3१२.३

क्षणेनाभ्यपतद् राजा राजधानीं यमस्य वै ॥ (१२।३)

kṣaṇenābhyapatad rājā rājadhānīṃ yamasya vai ||

13.1१३.१

ततो माद्री समालिङ्ग्य राजानं गतचेतसम् । (१३।१)

tato mādrī samāliṅgya rājānaṃ gatacetasam |

13.2१३.२

मुमोच दुःखजं शब्दं पुनः पुनर् अतीव ह । (१३।२)

mumoca duḥkhajaṃ śabdaṃ punaḥ punar atīva ha |

13.3१३.३

तं श्रुत्वा करुणं शब्दं सहसोत्पतितं तदा ॥ (१३।३)

taṃ śrutvā karuṇaṃ śabdaṃ sahasotpatitaṃ tadā ||

14.1१४.१

सह पुत्रैस्ततः कुन्ती माद्रीपुत्रौ च पाण्डवौ । (१४।१)

saha putraistataḥ kuntī mādrīputrau ca pāṇḍavau |

14.2१४.२

आजग्मुः सहितास्तत्र यत्र राजा तथागतः ॥ (१४।२)

ājagmuḥ sahitāstatra yatra rājā tathāgataḥ ||

15.1१५.१

ततो माद्र्यब्रवीद् राजन्न् आर्ता कुन्तीम् इदं वचः । (१५।१)

tato mādryabravīd rājann ārtā kuntīm idaṃ vacaḥ |

15.2१५.२

एकैव त्वम् इहागच्छ तिष्ठन्त्वत्रैव दारकाः ॥ (१५।२)

ekaiva tvam ihāgaccha tiṣṭhantvatraiva dārakāḥ ||

16.1१६.१

तच्छ्रुत्वा वचनं तस्यास्तत्रैवावार्य दारकान् । (१६।१)

tacchrutvā vacanaṃ tasyāstatraivāvārya dārakān |

16.2१६.२

हताहम् इति विक्रुश्य सहसोपजगाम ह ॥ (१६।२)

hatāham iti vikruśya sahasopajagāma ha ||

17.1१७.१

दृष्ट्वा पाण्डुं च माद्रीं च शयानौ धरणीतले । (१७।१)

dṛṣṭvā pāṇḍuṃ ca mādrīṃ ca śayānau dharaṇītale |

17.2१७.२

कुन्ती शोकपरीताङ्गी विललाप सुदुःखिता ॥ (१७।२)

kuntī śokaparītāṅgī vilalāpa suduḥkhitā ||

18.1१८.१

रक्ष्यमाणो मया नित्यं वीरः सततम् आत्मवान् । (१८।१)

rakṣyamāṇo mayā nityaṃ vīraḥ satatam ātmavān |

18.2१८.२

कथं त्वम् अभ्यतिक्रान्तः शापं जानन् वनौकसः ॥ (१८।२)

kathaṃ tvam abhyatikrāntaḥ śāpaṃ jānan vanaukasaḥ ||

19.1१९.१

ननु नाम त्वया माद्रि रक्षितव्यो जनाधिपः । (१९।१)

nanu nāma tvayā mādri rakṣitavyo janādhipaḥ |

19.2१९.२

सा कथं लोभितवती विजने त्वं नराधिपम् । (१९।२)

sā kathaṃ lobhitavatī vijane tvaṃ narādhipam |

19.3१९.३

माद्री । (१९।३)

mādrī |

19.4१९.४

विधिना चोदितस्यास्य मां दृष्ट्वा विजने वने । (१९।४)

vidhinā coditasyāsya māṃ dṛṣṭvā vijane vane |

19.5१९.५

अचिन्तयित्वा तच्छापं प्रहर्षः समजायत ॥ (१९।५)

acintayitvā tacchāpaṃ praharṣaḥ samajāyata ||

20.1२०.१

कथं दीनस्य सततं त्वाम् आसाद्य रहोगताम् । (२०।१)

kathaṃ dīnasya satataṃ tvām āsādya rahogatām |

20.2२०.२

तं विचिन्तयतः शापं प्रहर्षः समजायत ॥ (२०।२)

taṃ vicintayataḥ śāpaṃ praharṣaḥ samajāyata ||

21.1२१.१

धन्या त्वम् असि बाह्लीकि मत्तो भाग्यतरा तथा । (२१।१)

dhanyā tvam asi bāhlīki matto bhāgyatarā tathā |

21.2२१.२

दृष्टवत्यसि यद् वक्त्रं प्रहृष्टस्य महीपतेः ॥ (२१।२)

dṛṣṭavatyasi yad vaktraṃ prahṛṣṭasya mahīpateḥ ||

22.1२२.१

माद्र्युवाच । (२२।१)

mādryuvāca |

22.2२२.२

विलोभ्यमानेन मया वार्यमाणेन चासकृत् । (२२।२)

vilobhyamānena mayā vāryamāṇena cāsakṛt |

22.3२२.३

आत्मा न वारितो ऽनेन सत्यं दिष्टं चिकीर्षुणा । (२२।३)

ātmā na vārito 'nena satyaṃ diṣṭaṃ cikīrṣuṇā |

22.4२२.४

वैशंपायनः । (२२।४)

vaiśaṃpāyanaḥ |

22.5२२.५

कुन्ती । (२२।५)

kuntī |

22.6२२.६

वैशंपायनः । (२२।६)

vaiśaṃpāyanaḥ |

22.7२२.७

युधिष्ठिरः । (२२।७)

yudhiṣṭhiraḥ |

22.8२२.८

भीमः । (२२।८)

bhīmaḥ |

22.9२२.९

वैशंपायनः । (२२।९)

vaiśaṃpāyanaḥ |

22.10२२.१०

अर्जुनः । (२२।१०)

arjunaḥ |

22.11२२.११

वैशंपायनः । (२२।११)

vaiśaṃpāyanaḥ |

22.12२२.१२

यमौ । (२२।१२)

yamau |

22.13२२.१३

वैशंपायनः । (२२।१३)

vaiśaṃpāyanaḥ |

22.14२२.१४

तस्यास्तद् वचनं श्रुत्वा कुन्ती शोकाग्निदीपिता । (२२।१४)

tasyāstad vacanaṃ śrutvā kuntī śokāgnidīpitā |

22.15२२.१५

पपात सहसा भूमौ छिन्नमूल इव द्रुमः । (२२।१५)

papāta sahasā bhūmau chinnamūla iva drumaḥ |

22.16२२.१६

निश्चेष्टा पतिता भूमौ मोहे न तु चचाल सा । (२२।१६)

niśceṣṭā patitā bhūmau mohe na tu cacāla sā |

22.17२२.१७

तस्मिन् क्षणे कृतस्नानम् अमलाम्बरसंवृतम् । (२२।१७)

tasmin kṣaṇe kṛtasnānam amalāmbarasaṃvṛtam |

22.18२२.१८

अलंकारकृतं पाण्डुं शयानं शयने शुभे । (२२।१८)

alaṃkārakṛtaṃ pāṇḍuṃ śayānaṃ śayane śubhe |

22.19२२.१९

कुन्तीम् उत्थाप्य माद्री तु मोहेनाविष्टचेतनाम् । (२२।१९)

kuntīm utthāpya mādrī tu mohenāviṣṭacetanām |

22.20२२.२०

एह्येहीति च तां कुन्तीं दर्शयामास कौरवम् । (२२।२०)

ehyehīti ca tāṃ kuntīṃ darśayāmāsa kauravam |

22.21२२.२१

पादयोः पतिता कुन्ती पुनर् उत्थाय भूमिपम् । (२२।२१)

pādayoḥ patitā kuntī punar utthāya bhūmipam |

22.22२२.२२

रक्तचन्दनदिग्धाङ्गं महारजतवाससम् । (२२।२२)

raktacandanadigdhāṅgaṃ mahārajatavāsasam |

22.23२२.२३

सस्मितेन तु वक्त्रेण गदन्तम् इव भारतीम् । (२२।२३)

sasmitena tu vaktreṇa gadantam iva bhāratīm |

22.24२२.२४

परिरभ्य तदा मोहाद् विललापाकुलेन्द्रिया । (२२।२४)

parirabhya tadā mohād vilalāpākulendriyā |

22.25२२.२५

माद्री चापि समालिङ्ग्य राजानं विललाप सा । (२२।२५)

mādrī cāpi samāliṅgya rājānaṃ vilalāpa sā |

22.26२२.२६

तं तथाशायिनं पाण्डुम् ऋषयः सह चारणैः । (२२।२६)

taṃ tathāśāyinaṃ pāṇḍum ṛṣayaḥ saha cāraṇaiḥ |

22.27२२.२७

अभ्येत्य सहिताः सर्वे शोकाद् अश्रूण्यवर्तयन् । (२२।२७)

abhyetya sahitāḥ sarve śokād aśrūṇyavartayan |

22.28२२.२८

अस्तं गतम् इवादित्यं संशुष्कम् इव सागरम् । (२२।२८)

astaṃ gatam ivādityaṃ saṃśuṣkam iva sāgaram |

22.29२२.२९

दृष्ट्वा पाण्डुं नरव्याघ्रं शोचन्ति स्म महर्षयः । (२२।२९)

dṛṣṭvā pāṇḍuṃ naravyāghraṃ śocanti sma maharṣayaḥ |

22.30२२.३०

समानशोका ऋषयः पाण्डवाश्च बुभूविरे । (२२।३०)

samānaśokā ṛṣayaḥ pāṇḍavāśca bubhūvire |

22.31२२.३१

ते समाश्वासिते विप्रैर् विलेपतुर् अनिन्दिते । (२२।३१)

te samāśvāsite viprair vilepatur anindite |

22.32२२.३२

हा राजन् कस्य नौ हित्वा गच्छसि त्रिदशालयम् । (२२।३२)

hā rājan kasya nau hitvā gacchasi tridaśālayam |

22.33२२.३३

हा राजन् मम मन्दायाः कथं माद्रीं समेत्य वै । (२२।३३)

hā rājan mama mandāyāḥ kathaṃ mādrīṃ sametya vai |

22.34२२.३४

निधनं प्राप्तवान् राजन् मद्भाग्यपरिसंक्षयात् । (२२।३४)

nidhanaṃ prāptavān rājan madbhāgyaparisaṃkṣayāt |

22.35२२.३५

युधिष्ठिरं भीमसेनम् अर्जुनं च यमावुभौ । (२२।३५)

yudhiṣṭhiraṃ bhīmasenam arjunaṃ ca yamāvubhau |

22.36२२.३६

कस्मात् पुत्रान् प्रियान् हित्वा प्रयातो ऽसि विशां पते । (२२।३६)

kasmāt putrān priyān hitvā prayāto 'si viśāṃ pate |

22.37२२.३७

नूनं त्वां त्रिदशा देवाः प्रतिनन्दन्ति भारत । (२२।३७)

nūnaṃ tvāṃ tridaśā devāḥ pratinandanti bhārata |

22.38२२.३८

यथा हि तप उग्रं ते चरितं विप्रसंसदि । (२२।३८)

yathā hi tapa ugraṃ te caritaṃ viprasaṃsadi |

22.39२२.३९

आवाभ्यां सहितो राजन् गमिष्यसि दिवं शुभम् । (२२।३९)

āvābhyāṃ sahito rājan gamiṣyasi divaṃ śubham |

22.40२२.४०

आजमीढाजमीढानां कर्मणा चरितां गतिम् । (२२।४०)

ājamīḍhājamīḍhānāṃ karmaṇā caritāṃ gatim |

22.41२२.४१

ननु नाम सहावाभ्यां गमिष्यामीति नस्त्वया । (२२।४१)

nanu nāma sahāvābhyāṃ gamiṣyāmīti nastvayā |

22.42२२.४२

प्रतिज्ञातं कुरुश्रेष्ठ यदासि वनम् आगतः । (२२।४२)

pratijñātaṃ kuruśreṣṭha yadāsi vanam āgataḥ |

22.43२२.४३

आवाभ्यां त्वेव सहितो गमिष्यसि विशां पते । (२२।४३)

āvābhyāṃ tveva sahito gamiṣyasi viśāṃ pate |

22.44२२.४४

मुहूर्तं क्षम्यतां राजन्न् आरोक्ष्यावश्चितां तव । (२२।४४)

muhūrtaṃ kṣamyatāṃ rājann ārokṣyāvaścitāṃ tava |

22.45२२.४५

विलपित्वा भृशं त्वेवं निःसंज्ञे पतिते भुवि । (२२।४५)

vilapitvā bhṛśaṃ tvevaṃ niḥsaṃjñe patite bhuvi |

22.46२२.४६

यथा विद्धे हते मृग्यौ लुब्धैर् वनगते तथा । (२२।४६)

yathā viddhe hate mṛgyau lubdhair vanagate tathā |

22.47२२.४७

युधिष्ठिरमुखाः सर्वे पाण्डवा वेदपारगाः । (२२।४७)

yudhiṣṭhiramukhāḥ sarve pāṇḍavā vedapāragāḥ |

22.48२२.४८

ते ऽप्यागत्य पितुर् मूले निःसंज्ञाः पतिता भुवि । (२२।४८)

te 'pyāgatya pitur mūle niḥsaṃjñāḥ patitā bhuvi |

22.49२२.४९

पाण्डोः पादौ परिष्वज्य विलपन्ति स्म पाण्डवाः । (२२।४९)

pāṇḍoḥ pādau pariṣvajya vilapanti sma pāṇḍavāḥ |

22.50२२.५०

हा विनष्टाः स्म तातेति हा विनाथा भवामहे । (२२।५०)

hā vinaṣṭāḥ sma tāteti hā vināthā bhavāmahe |

22.51२२.५१

त्वद्विहीना महाप्राज्ञ कथं वर्ताम बालकाः । (२२।५१)

tvadvihīnā mahāprājña kathaṃ vartāma bālakāḥ |

22.52२२.५२

लोकनाथस्य पुत्राः स्मो न सनाथा भवामहे । (२२।५२)

lokanāthasya putrāḥ smo na sanāthā bhavāmahe |

22.53२२.५३

क्षणेनैव महाराज अहो लोकस्य चित्रता । (२२।५३)

kṣaṇenaiva mahārāja aho lokasya citratā |

22.54२२.५४

नास्मद्विधा राजपुत्रा अधन्याः सन्ति भारत । (२२।५४)

nāsmadvidhā rājaputrā adhanyāḥ santi bhārata |

22.55२२.५५

त्वद्विनाशाच्च राजेन्द्र राज्यप्रस्खलनात् तथा । (२२।५५)

tvadvināśācca rājendra rājyapraskhalanāt tathā |

22.56२२.५६

बान्धवानाम् अथाज्ञानात् प्राप्ताः स्म व्यसनं वयम् । (२२।५६)

bāndhavānām athājñānāt prāptāḥ sma vyasanaṃ vayam |

22.57२२.५७

किं करिष्यामहे राजन् कर्तव्यं नः प्रसीदताम् । (२२।५७)

kiṃ kariṣyāmahe rājan kartavyaṃ naḥ prasīdatām |

22.58२२.५८

हित्वा राज्यं च भोगांश्च शतशृङ्गनिवासिना । (२२।५८)

hitvā rājyaṃ ca bhogāṃśca śataśṛṅganivāsinā |

22.59२२.५९

त्वया लब्धाः स्म राजेन्द्र महता तपसा वयम् । (२२।५९)

tvayā labdhāḥ sma rājendra mahatā tapasā vayam |

22.60२२.६०

हित्वा मानं वनं गत्वा स्वयम् आहृत्य भक्षणम् । (२२।६०)

hitvā mānaṃ vanaṃ gatvā svayam āhṛtya bhakṣaṇam |

22.61२२.६१

शाकमूलफलैर् वन्यैर् भरणं वै त्वया कृतम् । (२२।६१)

śākamūlaphalair vanyair bharaṇaṃ vai tvayā kṛtam |

22.62२२.६२

पुत्रान् उत्पाद्य पितरो यम् इच्छन्ति महात्मनः । (२२।६२)

putrān utpādya pitaro yam icchanti mahātmanaḥ |

22.63२२.६३

त्रिवर्गफलम् इच्छन्तस्तस्य कालो ऽयम् आगतः । (२२।६३)

trivargaphalam icchantastasya kālo 'yam āgataḥ |

22.64२२.६४

अभुक्त्वैव फलं राजन् गन्तुं नार्हसि भारत । (२२।६४)

abhuktvaiva phalaṃ rājan gantuṃ nārhasi bhārata |

22.65२२.६५

इत्येवम् उक्त्वा पितरं भीमो ऽपि विललाप ह । (२२।६५)

ityevam uktvā pitaraṃ bhīmo 'pi vilalāpa ha |

22.66२२.६६

प्रणष्टं भारतं वंशं पाण्डुना पुनर् उद्धृतम् । (२२।६६)

praṇaṣṭaṃ bhārataṃ vaṃśaṃ pāṇḍunā punar uddhṛtam |

22.67२२.६७

तस्मिंस्तपोवनगते नष्टं राज्यं सराष्ट्रकम् । (२२।६७)

tasmiṃstapovanagate naṣṭaṃ rājyaṃ sarāṣṭrakam |

22.68२२.६८

पुनर् निस्तारितं क्षत्रं पाण्डुपुत्रैर् महात्मभिः । (२२।६८)

punar nistāritaṃ kṣatraṃ pāṇḍuputrair mahātmabhiḥ |

22.69२२.६९

एतच्छ्रुत्वा तु मोदित्वा गन्तुम् अर्हसि कौरव । (२२।६९)

etacchrutvā tu moditvā gantum arhasi kaurava |

22.70२२.७०

इत्येवम् उक्त्वा पितरं विललाप धनंजयः । (२२।७०)

ityevam uktvā pitaraṃ vilalāpa dhanaṃjayaḥ |

22.71२२.७१

दुःसंचयं तपः कृत्वा लब्ध्वा नौ भरतर्षभ । (२२।७१)

duḥsaṃcayaṃ tapaḥ kṛtvā labdhvā nau bharatarṣabha |

22.72२२.७२

पुत्रलाभस्य महतः शुश्रूषादिफलं त्वया । (२२।७२)

putralābhasya mahataḥ śuśrūṣādiphalaṃ tvayā |

22.73२२.७३

न चावाप्तं किंचिद् एव राज्यं पित्रा यथा पुरा । (२२।७३)

na cāvāptaṃ kiṃcid eva rājyaṃ pitrā yathā purā |

22.74२२.७४

एवम् उक्त्वा यमौ चापि विलेपतुर् अथातुरौ ॥ (२२।७४)

evam uktvā yamau cāpi vilepatur athāturau ||

23.1२३.१

कुन्त्युवाच । (२३।१)

kuntyuvāca |

23.2२३.२

अहं ज्येष्ठा धर्मपत्नी ज्येष्ठं धर्मफलं मम । (२३।२)

ahaṃ jyeṣṭhā dharmapatnī jyeṣṭhaṃ dharmaphalaṃ mama |

23.3२३.३

अवश्यं भाविनो भावान् मा मां माद्रि निवर्तय ॥ (२३।३)

avaśyaṃ bhāvino bhāvān mā māṃ mādri nivartaya ||

24.1२४.१

अन्वेष्यामीह भर्तारम् अहं प्रेतवशं गतम् । (२४।१)

anveṣyāmīha bhartāram ahaṃ pretavaśaṃ gatam |

24.2२४.२

उत्तिष्ठ त्वं विसृज्यैनम् इमान् रक्षस्व दारकान् । (२४।२)

uttiṣṭha tvaṃ visṛjyainam imān rakṣasva dārakān |

24.3२४.३

वैशंपायनः । (२४।३)

vaiśaṃpāyanaḥ |

24.4२४.४

अवाप्य पुत्रांल्लब्धात्मा वीरपत्नीत्वम् अर्थये । (२४।४)

avāpya putrāṃllabdhātmā vīrapatnītvam arthaye |

24.5२४.५

मद्रराजसुता कुन्तीम् इदं वचनम् अब्रवीत् ॥ (२४।५)

madrarājasutā kuntīm idaṃ vacanam abravīt ||

25.1२५.१

माद्र्युवाच । (२५।१)

mādryuvāca |

25.2२५.२

अहम् एवानुयास्यामि भर्तारम् अपलायिनम् । (२५।२)

aham evānuyāsyāmi bhartāram apalāyinam |

25.3२५.३

न हि तृप्तास्मि कामानां तज्ज्येष्ठा अनुमन्यताम् ॥ (२५।३)

na hi tṛptāsmi kāmānāṃ tajjyeṣṭhā anumanyatām ||

26.1२६.१

मां चाभिगम्य क्षीणो ऽयं कामाद् भरतसत्तमः । (२६।१)

māṃ cābhigamya kṣīṇo 'yaṃ kāmād bharatasattamaḥ |

26.2२६.२

तम् उच्छिन्द्याम् अस्य कामं कथं नु यमसादने । (२६।२)

tam ucchindyām asya kāmaṃ kathaṃ nu yamasādane |

26.3२६.३

मम हेतोर् गतो राजा दिवं राजर्षिसत्तमः । (२६।३)

mama hetor gato rājā divaṃ rājarṣisattamaḥ |

26.4२६.४

न चैव तादृशी बुद्धिर् बान्धवाश्च न तादृशाः । (२६।४)

na caiva tādṛśī buddhir bāndhavāśca na tādṛśāḥ |

26.5२६.५

न चोत्सहे धारयितुं प्राणान् भर्तृविनाकृता । (२६।५)

na cotsahe dhārayituṃ prāṇān bhartṛvinākṛtā |

26.6२६.६

तस्मात् तम् अनुयास्यामि यान्तं वैवस्वतक्षयम् ॥ (२६।६)

tasmāt tam anuyāsyāmi yāntaṃ vaivasvatakṣayam ||

27.1२७.१

न चाप्यहं वर्तयन्ती निर्विशेषं सुतेषु ते । (२७।१)

na cāpyahaṃ vartayantī nirviśeṣaṃ suteṣu te |

27.2२७.२

वृत्तिम् आर्ये चरिष्यामि स्पृशेद् एनस्तथा हि माम् । (२७।२)

vṛttim ārye cariṣyāmi spṛśed enastathā hi mām |

27.3२७.३

त्वं तु मत्सुतयोर् नित्यं त्वत्सुतेषु समा सदा ॥ (२७।३)

tvaṃ tu matsutayor nityaṃ tvatsuteṣu samā sadā ||

28.1२८.१

तस्मान् मे सुतयोः कुन्ति वर्तितव्यं स्वपुत्रवत् । (२८।१)

tasmān me sutayoḥ kunti vartitavyaṃ svaputravat |

28.2२८.२

मां हि कामयमानो ऽयं राजा प्रेतवशं गतः । (२८।२)

māṃ hi kāmayamāno 'yaṃ rājā pretavaśaṃ gataḥ |

28.3२८.३

अन्वेष्यामि च भर्तारं व्रजन्तं यमसादनम् ॥ (२८।३)

anveṣyāmi ca bhartāraṃ vrajantaṃ yamasādanam ||

29.1२९.१

राज्ञः शरीरेण सह ममापीदं कलेवरम् । (२९।१)

rājñaḥ śarīreṇa saha mamāpīdaṃ kalevaram |

29.2२९.२

दग्धव्यं सुप्रतिच्छन्नम् एतद् आर्ये प्रियं कुरु ॥ (२९।२)

dagdhavyaṃ supraticchannam etad ārye priyaṃ kuru ||

30.1३०.१

दारकेष्वप्रमत्ता च भवेथाश्च हिता मम । (३०।१)

dārakeṣvapramattā ca bhavethāśca hitā mama |

30.2३०.२

अतो ऽन्यन् न प्रपश्यामि संदेष्टव्यं हि किंचन । (३०।२)

ato 'nyan na prapaśyāmi saṃdeṣṭavyaṃ hi kiṃcana |

30.3३०.३

तस्यास्तद् वचनं श्रुत्वा कुन्ती शोकाग्निदीपिता । (३०।३)

tasyāstad vacanaṃ śrutvā kuntī śokāgnidīpitā |

30.4३०.४

पपात सहसा भूमौ छिन्नमूल इव द्रुमः । (३०।४)

papāta sahasā bhūmau chinnamūla iva drumaḥ |

30.5३०.५

निश्चेष्टा पतिता भूमौ मोहेनैव चचाल सा । (३०।५)

niśceṣṭā patitā bhūmau mohenaiva cacāla sā |

30.6३०.६

तस्मिन् क्षणे कृतस्नानं महदम्बरसंवृतम् । (३०।६)

tasmin kṣaṇe kṛtasnānaṃ mahadambarasaṃvṛtam |

30.7३०.७

अलंकारकृतं पाण्डुं शयानं शयने शुभे । (३०।७)

alaṃkārakṛtaṃ pāṇḍuṃ śayānaṃ śayane śubhe |

30.8३०.८

कुन्तीम् उत्थाप्य माद्री तु मोहेनाविष्टचेतनाम् । (३०।८)

kuntīm utthāpya mādrī tu mohenāviṣṭacetanām |

30.9३०.९

एह्येहि कुन्ति मा रोदीः दर्शयामि स्वकौतुकम् । (३०।९)

ehyehi kunti mā rodīḥ darśayāmi svakautukam |

30.10३०.१०

पादयोः पतिता कुन्ती पुनर् उत्थाय भूमिपम् । (३०।१०)

pādayoḥ patitā kuntī punar utthāya bhūmipam |

30.11३०.११

रक्तचन्दनदिग्धाङ्गं महारजतवाससम् । (३०।११)

raktacandanadigdhāṅgaṃ mahārajatavāsasam |

30.12३०.१२

वैशंपायनः । (३०।१२)

vaiśaṃpāyanaḥ |

30.13३०.१३

कुन्ती । (३०।१३)

kuntī |

30.14३०.१४

माद्री । (३०।१४)

mādrī |

30.15३०.१५

वैशंपायनः । (३०।१५)

vaiśaṃpāyanaḥ |

30.16३०.१६

ऋषयस्तान् समाश्वास्य पाण्डवान् सत्यविक्रमान् । (३०।१६)

ṛṣayastān samāśvāsya pāṇḍavān satyavikramān |

30.17३०.१७

ऊचुः कुन्तीं च माद्रीं च समाश्वास्य तपस्विनः । (३०।१७)

ūcuḥ kuntīṃ ca mādrīṃ ca samāśvāsya tapasvinaḥ |

30.18३०.१८

सुभगे बालपुत्रे तु न मर्तव्यं कथंचन । (३०।१८)

subhage bālaputre tu na martavyaṃ kathaṃcana |

30.19३०.१९

पाण्डवांश्चापि नेष्यामः कुरुराष्ट्रं परंतपान् । (३०।१९)

pāṇḍavāṃścāpi neṣyāmaḥ kururāṣṭraṃ paraṃtapān |

30.20३०.२०

अधर्मेष्वर्थजातेषु धृतराष्ट्रश्च लोभवान् । (३०।२०)

adharmeṣvarthajāteṣu dhṛtarāṣṭraśca lobhavān |

30.21३०.२१

स कदाचिन् न वर्तेत पाण्डवेषु यथाविधि । (३०।२१)

sa kadācin na varteta pāṇḍaveṣu yathāvidhi |

30.22३०.२२

कुन्त्याश्च वृष्णयो नाथाः कुन्तिभोजस्तथैव च । (३०।२२)

kuntyāśca vṛṣṇayo nāthāḥ kuntibhojastathaiva ca |

30.23३०.२३

माद्र्याश्च बलिनां श्रेष्ठः शल्यो भ्राता महारथः । (३०।२३)

mādryāśca balināṃ śreṣṭhaḥ śalyo bhrātā mahārathaḥ |

30.24३०.२४

भर्त्रा तु मरणं सार्धं फलवन् नात्र संशयः । (३०।२४)

bhartrā tu maraṇaṃ sārdhaṃ phalavan nātra saṃśayaḥ |

30.25३०.२५

युवाभ्यां दुष्करं चैतद् वदन्ति द्विजपुंगवाः । (३०।२५)

yuvābhyāṃ duṣkaraṃ caitad vadanti dvijapuṃgavāḥ |

30.26३०.२६

मृते भर्तरि साध्वी स्त्री ब्रह्मचर्ये व्यवस्थिता । (३०।२६)

mṛte bhartari sādhvī strī brahmacarye vyavasthitā |

30.27३०.२७

यमैश्च नियमैः श्रान्ता मनोवाक्कायजैः शुभैः । (३०।२७)

yamaiśca niyamaiḥ śrāntā manovākkāyajaiḥ śubhaiḥ |

30.28३०.२८

भर्तारं चिन्तयन्ती सा भर्तारं निस्तरेच्छुभा । (३०।२८)

bhartāraṃ cintayantī sā bhartāraṃ nistarecchubhā |

30.29३०.२९

तारितश्चापि भर्ता स्याद् आत्मा पुत्रैस्तथैव च । (३०।२९)

tāritaścāpi bhartā syād ātmā putraistathaiva ca |

30.30३०.३०

तस्माज्जीवितम् एवैतद् युवयोर् विद्म शोभनम् । (३०।३०)

tasmājjīvitam evaitad yuvayor vidma śobhanam |

30.31३०.३१

यथा पाण्डोस्तु निर्देशस्तथा विप्रगणस्य च । (३०।३१)

yathā pāṇḍostu nirdeśastathā vipragaṇasya ca |

30.32३०.३२

आज्ञा शिरसि निक्षिप्ता करिष्यामि च तत् तथा । (३०।३२)

ājñā śirasi nikṣiptā kariṣyāmi ca tat tathā |

30.33३०.३३

यद् आहुर् भगवन्तो हि तन् मन्ये शोभनं परम् । (३०।३३)

yad āhur bhagavanto hi tan manye śobhanaṃ param |

30.34३०.३४

भर्तुश्च मम पुत्राणां मम चैव न संशयः । (३०।३४)

bhartuśca mama putrāṇāṃ mama caiva na saṃśayaḥ |

30.35३०.३५

कुन्ती समर्था पुत्राणां योगक्षेमस्य धारणे । (३०।३५)

kuntī samarthā putrāṇāṃ yogakṣemasya dhāraṇe |

30.36३०.३६

अस्या हि न समा बुद्ध्या यद्यपि स्याद् अरुन्धती । (३०।३६)

asyā hi na samā buddhyā yadyapi syād arundhatī |

30.37३०.३७

कुन्त्याश्च वृष्णयो नाथा कुन्तिभोजस्तथैव च । (३०।३७)

kuntyāśca vṛṣṇayo nāthā kuntibhojastathaiva ca |

30.38३०.३८

नाहं त्वम् इव पुत्राणां समर्था धारणे तथा । (३०।३८)

nāhaṃ tvam iva putrāṇāṃ samarthā dhāraṇe tathā |

30.39३०.३९

साहं भर्तारम् अन्विष्ये संतृप्ता न त्वहं तथा । (३०।३९)

sāhaṃ bhartāram anviṣye saṃtṛptā na tvahaṃ tathā |

30.40३०.४०

भर्तृलोकस्य तु ज्येष्ठा देवी माम् अनुमन्यताम् । (३०।४०)

bhartṛlokasya tu jyeṣṭhā devī mām anumanyatām |

30.41३०.४१

धर्मज्ञस्य कृतज्ञस्य सत्यसंधस्य धीमतः । (३०।४१)

dharmajñasya kṛtajñasya satyasaṃdhasya dhīmataḥ |

30.42३०.४२

पादौ परिचरिष्यामि तथार्याद्यनुमन्यताम् । (३०।४२)

pādau paricariṣyāmi tathāryādyanumanyatām |

30.43३०.४३

एवम् उक्त्वा महाराज मद्रराजसुता शुभा । (३०।४३)

evam uktvā mahārāja madrarājasutā śubhā |

30.44३०.४४

ददौ कुन्त्यै यमौ माद्री शिरसाभिप्रणम्य च । (३०।४४)

dadau kuntyai yamau mādrī śirasābhipraṇamya ca |

30.45३०.४५

अभिवाद्य महर्षीन् सा परिष्वज्य च पाण्डवान् । (३०।४५)

abhivādya maharṣīn sā pariṣvajya ca pāṇḍavān |

30.46३०.४६

मूर्ध्न्युपाघ्राय बहुशः पार्थान् आत्मसुतौ तथा । (३०।४६)

mūrdhnyupāghrāya bahuśaḥ pārthān ātmasutau tathā |

30.47३०.४७

हस्ते युधिष्ठिरं गृह्य माद्री वाक्यम् अभाषत । (३०।४७)

haste yudhiṣṭhiraṃ gṛhya mādrī vākyam abhāṣata |

30.48३०.४८

कुन्ती माता अहं धात्री युष्माकं तु पिता मृतः । (३०।४८)

kuntī mātā ahaṃ dhātrī yuṣmākaṃ tu pitā mṛtaḥ |

30.49३०.४९

युधिष्ठिरः पिता ज्येष्ठश्चतुर्णां धर्मतः सदा । (३०।४९)

yudhiṣṭhiraḥ pitā jyeṣṭhaścaturṇāṃ dharmataḥ sadā |

30.50३०.५०

वृद्धाद्युपासनासक्ताः सत्यधर्मपरायणाः । (३०।५०)

vṛddhādyupāsanāsaktāḥ satyadharmaparāyaṇāḥ |

30.51३०.५१

तादृशा न विनश्यन्ति नैव यान्ति पराभवम् । (३०।५१)

tādṛśā na vinaśyanti naiva yānti parābhavam |

30.52३०.५२

तस्मात् सर्वे कुरुध्वं वै गुरुवृत्तिम् अतन्द्रिताः । (३०।५२)

tasmāt sarve kurudhvaṃ vai guruvṛttim atandritāḥ |

30.53३०.५३

ऋषीणां च पृथायाश्च नमस्कृत्य पुनः पुनः । (३०।५३)

ṛṣīṇāṃ ca pṛthāyāśca namaskṛtya punaḥ punaḥ |

30.54३०.५४

आयासकृपणा माद्री प्रत्युवाच पृथां ततः । (३०।५४)

āyāsakṛpaṇā mādrī pratyuvāca pṛthāṃ tataḥ |

30.55३०.५५

धन्या त्वम् असि वार्ष्णेयि नास्ति स्त्री सदृशी त्वया । (३०।५५)

dhanyā tvam asi vārṣṇeyi nāsti strī sadṛśī tvayā |

30.56३०.५६

वीर्यं तेजश्च योगं च माहात्म्यं च यशस्विनाम् । (३०।५६)

vīryaṃ tejaśca yogaṃ ca māhātmyaṃ ca yaśasvinām |

30.57३०.५७

कुन्ति द्रक्ष्यसि पुत्राणां पञ्चानाम् अमितौजसाम् । (३०।५७)

kunti drakṣyasi putrāṇāṃ pañcānām amitaujasām |

30.58३०.५८

ऋषीणां संनिधौ यैषा मया वाग् अभ्युदीरिता । (३०।५८)

ṛṣīṇāṃ saṃnidhau yaiṣā mayā vāg abhyudīritā |

30.59३०.५९

दिदृक्षमाणया स्वर्गं न ममैषा वृथा भवेत् । (३०।५९)

didṛkṣamāṇayā svargaṃ na mamaiṣā vṛthā bhavet |

30.60३०.६०

आर्या चाप्यभिवाद्या च मम पूज्या च सर्वतः । (३०।६०)

āryā cāpyabhivādyā ca mama pūjyā ca sarvataḥ |

30.61३०.६१

ज्येष्ठा वरिष्ठा त्वं देवि भूषिता स्वगुणैः शुभैः । (३०।६१)

jyeṣṭhā variṣṭhā tvaṃ devi bhūṣitā svaguṇaiḥ śubhaiḥ |

30.62३०.६२

अभ्यनुज्ञातुम् इच्छामि त्वया यादवनन्दिनि । (३०।६२)

abhyanujñātum icchāmi tvayā yādavanandini |

30.63३०.६३

धर्मं स्वर्गं च कीर्तिं च त्वत्कृते ऽहम् अवाप्नुयाम् । (३०।६३)

dharmaṃ svargaṃ ca kīrtiṃ ca tvatkṛte 'ham avāpnuyām |

30.64३०.६४

यथा तथा विधत्स्वेह मा च कार्षीर् विचारणाम् । (३०।६४)

yathā tathā vidhatsveha mā ca kārṣīr vicāraṇām |

30.65३०.६५

बाष्पसंदिग्धया वाचा कुन्त्युवाच यशस्विनी । (३०।६५)

bāṣpasaṃdigdhayā vācā kuntyuvāca yaśasvinī |

30.66३०.६६

अनुज्ञातासि कल्याणि त्रिदिवे संगमो ऽस्तु ते । (३०।६६)

anujñātāsi kalyāṇi tridive saṃgamo 'stu te |

30.67३०.६७

भर्त्रा सह विशालाक्षि क्षिप्रम् अद्यैव भामिनि । (३०।६७)

bhartrā saha viśālākṣi kṣipram adyaiva bhāmini |

30.68३०.६८

संगता स्वर्गलोके त्वं रमेथाः शाश्वतीः समाः । (३०।६८)

saṃgatā svargaloke tvaṃ ramethāḥ śāśvatīḥ samāḥ |

30.69३०.६९

ततः पुरोहितः स्नात्वा प्रेतकर्मणि पारगः । (३०।६९)

tataḥ purohitaḥ snātvā pretakarmaṇi pāragaḥ |

30.70३०.७०

हिरण्यशकलान् आज्यं तिलान् दधि च तण्डुलान् । (३०।७०)

hiraṇyaśakalān ājyaṃ tilān dadhi ca taṇḍulān |

30.71३०.७१

उदकुम्भं सपरशुं समनीय तपस्विभिः । (३०।७१)

udakumbhaṃ saparaśuṃ samanīya tapasvibhiḥ |

30.72३०.७२

अश्वमेधाग्निम् आहृत्य यथान्यायं समन्ततः । (३०।७२)

aśvamedhāgnim āhṛtya yathānyāyaṃ samantataḥ |

30.73३०.७३

काश्यपः कारयामास पाण्डोः प्रेतस्य तां क्रियाम् । (३०।७३)

kāśyapaḥ kārayāmāsa pāṇḍoḥ pretasya tāṃ kriyām |

30.74३०.७४

पुरोहितोक्तविधिना पाण्डोः पुत्रो युधिष्ठिरः । (३०।७४)

purohitoktavidhinā pāṇḍoḥ putro yudhiṣṭhiraḥ |

30.75३०.७५

तेनाग्निनादहत् पाण्डुं कृत्वा चापि क्रियास्तदा । (३०।७५)

tenāgninādahat pāṇḍuṃ kṛtvā cāpi kriyāstadā |

30.76३०.७६

रुदन् शोकाभिसंतप्तः पपात भुवि पाण्डवः । (३०।७६)

rudan śokābhisaṃtaptaḥ papāta bhuvi pāṇḍavaḥ |

30.77३०.७७

ऋषीन् पुत्रान् पृथां चैव विसृज्य च नृपात्मजान् ॥ (३०।७७)

ṛṣīn putrān pṛthāṃ caiva visṛjya ca nṛpātmajān ||

31.1३१.१

वैशंपायन उवाच । (३१।१)

vaiśaṃpāyana uvāca

31.2३१.२

इत्युक्त्वा तं चिताग्निस्थं धर्मपत्नी नरर्षभम् । (३१।२)

ityuktvā taṃ citāgnisthaṃ dharmapatnī nararṣabham |

31.3३१.३

मद्रराजात्मजा तूर्णम् अन्वारोहद् यशस्विनी । (३१।३)

madrarājātmajā tūrṇam anvārohad yaśasvinī |

31.4३१.४

आहताम्बरसंवीतो भ्रातृभिः सहितो ऽनघः । (३१।४)

āhatāmbarasaṃvīto bhrātṛbhiḥ sahito 'naghaḥ |

31.5३१.५

उदकं कृतवांस्तत्र पुरोहितमते स्थितः । (३१।५)

udakaṃ kṛtavāṃstatra purohitamate sthitaḥ |

31.6३१.६

अर्हतस्तस्य कृत्यानि शतशृङ्गनिवासिनः । (३१।६)

arhatastasya kṛtyāni śataśṛṅganivāsinaḥ |

31.7३१.७

तापसा विधिवच्चक्रुश्चारणा ऋषिभिः सह । (३१।७)

tāpasā vidhivaccakruścāraṇā ṛṣibhiḥ saha |

31.8३१.८

तापसा विधिवत् कर्म कारयामासुर् आत्मजैः ॥ (३१।८)

tāpasā vidhivat karma kārayāmāsur ātmajaiḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 1, 116

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit