MBh, 7, 62
Select a line for its word-by-word analysis.
हन्त ते सम्प्रवक्ष्यामि सर्वं प्रत्यक्षदर्शिवान् । (१।२)
hanta te sampravakṣyāmi sarvaṃ pratyakṣadarśivān |
शुश्रूषस्व स्थिरो भूत्वा तव ह्यपनयो महान् ॥ (१।३)
śuśrūṣasva sthiro bhūtvā tava hyapanayo mahān ||
मा शुचो भरतश्रेष्ठ दिष्टम् एतत् पुरातनम् ॥ (३।२)
mā śuco bharataśreṣṭha diṣṭam etat purātanam ||
यदि हि त्वं पुरा द्यूतात् कुन्तीपुत्रं युधिष्ठिरम् । (४।१)
yadi hi tvaṃ purā dyūtāt kuntīputraṃ yudhiṣṭhiram |
निवर्तयेथाः पुत्रांश्च न त्वां व्यसनम् आव्रजेत् ॥ (४।२)
nivartayethāḥ putrāṃśca na tvāṃ vyasanam āvrajet ||
निवर्तिताः स्युः संरब्धा न त्वां व्यसनम् आव्रजेत् ॥ (५।२)
nivartitāḥ syuḥ saṃrabdhā na tvāṃ vyasanam āvrajet ||
कुरून् अचोदयिष्यस् त्वं न त्वां व्यसनम् आव्रजेत् ॥ (६।२)
kurūn acodayiṣyas tvaṃ na tvāṃ vyasanam āvrajet ||
तत् ते बुद्धिव्यभीचारम् उपलप्स्यन्ति पाण्डवाः । (७।१)
tat te buddhivyabhīcāram upalapsyanti pāṇḍavāḥ |
पाञ्चाला वृष्णयः सर्वे ये चान्ये ऽपि महाजनाः ॥ (७।२)
pāñcālā vṛṣṇayaḥ sarve ye cānye 'pi mahājanāḥ ||
स कृत्वा पितृकर्म त्वं पुत्रं संस्थाप्य सत्पथे । (८।१)
sa kṛtvā pitṛkarma tvaṃ putraṃ saṃsthāpya satpathe |
वर्तेथा यदि धर्मेण न त्वां व्यसनम् आव्रजेत् ॥ (८।२)
vartethā yadi dharmeṇa na tvāṃ vyasanam āvrajet ||
त्वं तु प्राज्ञतमो लोके हित्वा धर्मं सनातनम् । (९।१)
tvaṃ tu prājñatamo loke hitvā dharmaṃ sanātanam |
तत् ते विलपितं सर्वं मया राजन्निशामितम् । (१०।१)
tat te vilapitaṃ sarvaṃ mayā rājanniśāmitam |
न तथा मन्यते कृष्णो राजानं पाण्डवं पुरा । (११।१)
na tathā manyate kṛṣṇo rājānaṃ pāṇḍavaṃ purā |
न भीष्मं नैव च द्रोणं यथा त्वां मन्यते नृप ॥ (११।२)
na bhīṣmaṃ naiva ca droṇaṃ yathā tvāṃ manyate nṛpa ||
व्यजानत यदा तु त्वां राजधर्माद् अधश्च्युतम् । (१२।१)
vyajānata yadā tu tvāṃ rājadharmād adhaścyutam |
तदा प्रभृति कृष्णस्त्वां न तथा बहु मन्यते ॥ (१२।२)
tadā prabhṛti kṛṣṇastvāṃ na tathā bahu manyate ||
परुषाण्युच्यमानांश्च यथा पार्थान् उपेक्षसे । (१३।१)
paruṣāṇyucyamānāṃśca yathā pārthān upekṣase |
तस्यानुबन्धः प्राप्तस्त्वां पुत्राणां राज्यकामुकम् ॥ (१३।२)
tasyānubandhaḥ prāptastvāṃ putrāṇāṃ rājyakāmukam ||
अथ पार्थैर् जितां कृत्स्नां पृथिवीं प्रत्यपद्यथाः ॥ (१४।२)
atha pārthair jitāṃ kṛtsnāṃ pṛthivīṃ pratyapadyathāḥ ||
पाण्डुनावर्जितं राज्यं कौरवाणां यशस्तथा । (१५।१)
pāṇḍunāvarjitaṃ rājyaṃ kauravāṇāṃ yaśastathā |
ततश्चाभ्यधिकं भूयः पाण्डवैर् धर्मचारिभिः ॥ (१५।२)
tataścābhyadhikaṃ bhūyaḥ pāṇḍavair dharmacāribhiḥ ||
तेषां तत् तादृशं कर्म त्वाम् आसाद्य सुनिष्फलम् । (१६।१)
teṣāṃ tat tādṛśaṃ karma tvām āsādya suniṣphalam |
यत् पित्र्याद् भ्रंशिता राज्यात् त्वयेहामिषगृद्धिना ॥ (१६।२)
yat pitryād bhraṃśitā rājyāt tvayehāmiṣagṛddhinā ||
यत् पुनर् युद्धकाले त्वं पुत्रान् गर्हयसे नृप । (१७।१)
yat punar yuddhakāle tvaṃ putrān garhayase nṛpa |
बहुधा व्याहरन् दोषान्न तद् अद्योपपद्यते ॥ (१७।२)
bahudhā vyāharan doṣānna tad adyopapadyate ||
न हि रक्षन्ति राजानो युध्यन्तो जीवितं रणे । (१८।१)
na hi rakṣanti rājāno yudhyanto jīvitaṃ raṇe |
चमूं विगाह्य पार्थानां युध्यन्ते क्षत्रियर्षभाः ॥ (१८।२)
camūṃ vigāhya pārthānāṃ yudhyante kṣatriyarṣabhāḥ ||
यां तु कृष्णार्जुनौ सेनां यां सात्यकिवृकोदरौ । (१९।१)
yāṃ tu kṛṣṇārjunau senāṃ yāṃ sātyakivṛkodarau |
रक्षेरन् को नु तां युध्येच्चमूम् अन्यत्र कौरवैः ॥ (१९।२)
rakṣeran ko nu tāṃ yudhyeccamūm anyatra kauravaiḥ ||
येषां योद्धा गुडाकेशो येषां मन्त्री जनार्दनः । (२०।१)
yeṣāṃ yoddhā guḍākeśo yeṣāṃ mantrī janārdanaḥ |
येषां च सात्यकिर् गोप्ता येषां गोप्ता वृकोदरः ॥ (२०।२)
yeṣāṃ ca sātyakir goptā yeṣāṃ goptā vṛkodaraḥ ||
को हि तान् विषहेद् योद्धुं मर्त्यधर्मा धनुर्धरः । (२१।१)
ko hi tān viṣahed yoddhuṃ martyadharmā dhanurdharaḥ |
अन्यत्र कौरवेयेभ्यो ये वा तेषां पदानुगाः ॥ (२१।२)
anyatra kauraveyebhyo ye vā teṣāṃ padānugāḥ ||
यावत् तु शक्यते कर्तुम् अनुरक्तैर् जनाधिपैः । (२२।१)
yāvat tu śakyate kartum anuraktair janādhipaiḥ |
क्षत्रधर्मरतैः शूरैस्तावत् कुर्वन्ति कौरवाः ॥ (२२।२)
kṣatradharmarataiḥ śūraistāvat kurvanti kauravāḥ ||
यथा तु पुरुषव्याघ्रैर् युद्धं परमसङ्कटम् । (२३।१)
yathā tu puruṣavyāghrair yuddhaṃ paramasaṅkaṭam |
कुरूणां पाण्डवैः सार्धं तत् सर्वं शृणु तत्त्वतः ॥ (२३।२)
kurūṇāṃ pāṇḍavaiḥ sārdhaṃ tat sarvaṃ śṛṇu tattvataḥ ||
Data courtesy of The Digital Corpus of Sanskrit.