महाभारतMahābhārata

MBh, 12, 313

1641 of 1995 · 108 verses

Select a line for its word-by-word analysis.

1.1१.१

भीष्म उवाच । (१।१)

bhīṣma uvāca

1.2१.२

ततः स राजा जनको मन्त्रिभिः सह भारत । (१।२)

tataḥ sa rājā janako mantribhiḥ saha bhārata |

1.3१.३

पुरः पुरोहितं कृत्वा सर्वाण्यन्तःपुराणि च ॥ (१।३)

puraḥ purohitaṃ kṛtvā sarvāṇyantaḥpurāṇi ca ||

2.1२.१

आसनं च पुरस्कृत्य रत्नानि विविधानि च । (२।१)

āsanaṃ ca puraskṛtya ratnāni vividhāni ca |

2.2२.२

शिरसा चार्घ्यम् आदाय गुरुपुत्रं समभ्यगात् ॥ (२।२)

śirasā cārghyam ādāya guruputraṃ samabhyagāt ||

3.1३.१

स तद् आसनम् आदाय बहुरत्नविभूषितम् । (३।१)

sa tad āsanam ādāya bahuratnavibhūṣitam |

3.2३.२

स्पर्ध्यास्तरणसंस्तीर्णं सर्वतोभद्रम् ऋद्धिमत् ॥ (३।२)

spardhyāstaraṇasaṃstīrṇaṃ sarvatobhadram ṛddhimat ||

4.1४.१

पुरोधसा संगृहीतं हस्तेनालभ्य पार्थिवः । (४।१)

purodhasā saṃgṛhītaṃ hastenālabhya pārthivaḥ |

4.2४.२

प्रददौ गुरुपुत्राय शुकाय परमार्चितम् ॥ (४।२)

pradadau guruputrāya śukāya paramārcitam ||

5.1५.१

तत्रोपविष्टं तं कार्ष्णिं शास्त्रतः प्रत्यपूजयत् । (५।१)

tatropaviṣṭaṃ taṃ kārṣṇiṃ śāstrataḥ pratyapūjayat |

5.2५.२

पाद्यं निवेद्य प्रथमम् अर्घ्यं गां च न्यवेदयत् । (५।२)

pādyaṃ nivedya prathamam arghyaṃ gāṃ ca nyavedayat |

5.3५.३

स च तां मन्त्रवत् पूजां प्रत्यगृह्णाद् यथाविधि ॥ (५।३)

sa ca tāṃ mantravat pūjāṃ pratyagṛhṇād yathāvidhi ||

6.1६.१

प्रतिगृह्य च तां पूजां जनकाद् द्विजसत्तमः । (६।१)

pratigṛhya ca tāṃ pūjāṃ janakād dvijasattamaḥ |

6.2६.२

गां चैव समनुज्ञाय राजानम् अनुमान्य च ॥ (६।२)

gāṃ caiva samanujñāya rājānam anumānya ca ||

7.1७.१

पर्यपृच्छन्महातेजा राज्ञः कुशलम् अव्ययम् । (७।१)

paryapṛcchanmahātejā rājñaḥ kuśalam avyayam |

7.2७.२

अनामयं च राजेन्द्र शुकः सानुचरस्य ह ॥ (७।२)

anāmayaṃ ca rājendra śukaḥ sānucarasya ha ||

8.1८.१

अनुज्ञातः स तेनाथ निषसाद सहानुगः । (८।१)

anujñātaḥ sa tenātha niṣasāda sahānugaḥ |

8.2८.२

उदारसत्त्वाभिजनो भूमौ राजा कृताञ्जलिः ॥ (८।२)

udārasattvābhijano bhūmau rājā kṛtāñjaliḥ ||

9.1९.१

कुशलं चाव्ययं चैव पृष्ट्वा वैयासकिं नृपः । (९।१)

kuśalaṃ cāvyayaṃ caiva pṛṣṭvā vaiyāsakiṃ nṛpaḥ |

9.2९.२

किम् आगमनम् इत्येव पर्यपृच्छत पार्थिवः ॥ (९।२)

kim āgamanam ityeva paryapṛcchata pārthivaḥ ||

10.1१०.१

शुक उवाच । (१०।१)

śuka uvāca

10.2१०.२

पित्राहम् उक्तो भद्रं ते मोक्षधर्मार्थकोविदः । (१०।२)

pitrāham ukto bhadraṃ te mokṣadharmārthakovidaḥ |

10.3१०.३

विदेहराजो याज्यो मे जनको नाम विश्रुतः ॥ (१०।३)

videharājo yājyo me janako nāma viśrutaḥ ||

11.1११.१

तत्र गच्छस्व वै तूर्णं यदि ते हृदि संशयः । (११।१)

tatra gacchasva vai tūrṇaṃ yadi te hṛdi saṃśayaḥ |

11.2११.२

प्रवृत्तौ वा निवृत्तौ वा स ते छेत्स्यति संशयम् ॥ (११।२)

pravṛttau vā nivṛttau vā sa te chetsyati saṃśayam ||

12.1१२.१

सो ऽहं पितुर् नियोगात् त्वाम् उपप्रष्टुम् इहागतः । (१२।१)

so 'haṃ pitur niyogāt tvām upapraṣṭum ihāgataḥ |

12.2१२.२

तन्मे धर्मभृतां श्रेष्ठ यथावद् वक्तुम् अर्हसि ॥ (१२।२)

tanme dharmabhṛtāṃ śreṣṭha yathāvad vaktum arhasi ||

13.1१३.१

किं कार्यं ब्राह्मणेनेह मोक्षार्थश्च किमात्मकः । (१३।१)

kiṃ kāryaṃ brāhmaṇeneha mokṣārthaśca kimātmakaḥ |

13.2१३.२

कथं च मोक्षः कर्तव्यो ज्ञानेन तपसापि वा ॥ (१३।२)

kathaṃ ca mokṣaḥ kartavyo jñānena tapasāpi vā ||

14.1१४.१

जनक उवाच । (१४।१)

janaka uvāca

14.2१४.२

यत् कार्यं ब्राह्मणेनेह जन्मप्रभृति तच्छृणु । (१४।२)

yat kāryaṃ brāhmaṇeneha janmaprabhṛti tacchṛṇu |

14.3१४.३

कृतोपनयनस्तात भवेद् वेदपरायणः ॥ (१४।३)

kṛtopanayanastāta bhaved vedaparāyaṇaḥ ||

15.1१५.१

तपसा गुरुवृत्त्या च ब्रह्मचर्येण चाभिभो । (१५।१)

tapasā guruvṛttyā ca brahmacaryeṇa cābhibho |

15.2१५.२

देवतानां पितॄणां चाप्यनृणश्चानसूयकः ॥ (१५।२)

devatānāṃ pitṝṇāṃ cāpyanṛṇaścānasūyakaḥ ||

16.1१६.१

वेदान् अधीत्य नियतो दक्षिणाम् अपवर्ज्य च । (१६।१)

vedān adhītya niyato dakṣiṇām apavarjya ca |

16.2१६.२

अभ्यनुज्ञाम् अथ प्राप्य समावर्तेत वै द्विजः ॥ (१६।२)

abhyanujñām atha prāpya samāvarteta vai dvijaḥ ||

17.1१७.१

समावृत्तस्तु गार्हस्थ्ये सदारो नियतो वसेत् । (१७।१)

samāvṛttastu gārhasthye sadāro niyato vaset |

17.2१७.२

अनसूयुर् यथान्यायम् आहिताग्निस्तथैव च ॥ (१७।२)

anasūyur yathānyāyam āhitāgnistathaiva ca ||

18.1१८.१

उत्पाद्य पुत्रपौत्रं तु वन्याश्रमपदे वसेत् । (१८।१)

utpādya putrapautraṃ tu vanyāśramapade vaset |

18.2१८.२

तान् एवाग्नीन् यथाशास्त्रम् अर्चयन्न् अतिथिप्रियः ॥ (१८।२)

tān evāgnīn yathāśāstram arcayann atithipriyaḥ ||

19.1१९.१

स वने ऽग्नीन् यथान्यायम् आत्मन्यारोप्य धर्मवित् । (१९।१)

sa vane 'gnīn yathānyāyam ātmanyāropya dharmavit |

19.2१९.२

निर्द्वंद्वो वीतरागात्मा ब्रह्माश्रमपदे वसेत् ॥ (१९।२)

nirdvaṃdvo vītarāgātmā brahmāśramapade vaset ||

20.1२०.१

शुक उवाच । (२०।१)

śuka uvāca

20.2२०.२

उत्पन्ने ज्ञानविज्ञाने प्रत्यक्षे हृदि शाश्वते । (२०।२)

utpanne jñānavijñāne pratyakṣe hṛdi śāśvate |

20.3२०.३

किम् अवश्यं निवस्तव्यम् आश्रमेषु वनेषु च ॥ (२०।३)

kim avaśyaṃ nivastavyam āśrameṣu vaneṣu ca ||

21.1२१.१

एतद् भवन्तं पृच्छामि तद् भवान् वक्तुम् अर्हति । (२१।१)

etad bhavantaṃ pṛcchāmi tad bhavān vaktum arhati |

21.2२१.२

यथावेदार्थतत्त्वेन ब्रूहि मे त्वं जनाधिप ॥ (२१।२)

yathāvedārthatattvena brūhi me tvaṃ janādhipa ||

22.1२२.१

जनक उवाच । (२२।१)

janaka uvāca

22.2२२.२

न विना ज्ञानविज्ञानं मोक्षस्याधिगमो भवेत् । (२२।२)

na vinā jñānavijñānaṃ mokṣasyādhigamo bhavet |

22.3२२.३

न विना गुरुसंबन्धं ज्ञानस्याधिगमः स्मृतः ॥ (२२।३)

na vinā gurusaṃbandhaṃ jñānasyādhigamaḥ smṛtaḥ ||

23.1२३.१

आचार्यः प्लाविता तस्य ज्ञानं प्लव इहोच्यते । (२३।१)

ācāryaḥ plāvitā tasya jñānaṃ plava ihocyate |

23.2२३.२

विज्ञाय कृतकृत्यस्तु तीर्णस्तद् उभयं त्यजेत् ॥ (२३।२)

vijñāya kṛtakṛtyastu tīrṇastad ubhayaṃ tyajet ||

24.1२४.१

अनुच्छेदाय लोकानाम् अनुच्छेदाय कर्मणाम् । (२४।१)

anucchedāya lokānām anucchedāya karmaṇām |

24.2२४.२

पूर्वैर् आचरितो धर्मश्चातुराश्रम्यसंकथः ॥ (२४।२)

pūrvair ācarito dharmaścāturāśramyasaṃkathaḥ ||

25.1२५.१

अनेन क्रमयोगेन बहुजातिषु कर्मणा । (२५।१)

anena kramayogena bahujātiṣu karmaṇā |

25.2२५.२

कृत्वा शुभाशुभं कर्म मोक्षो नामेह लभ्यते ॥ (२५।२)

kṛtvā śubhāśubhaṃ karma mokṣo nāmeha labhyate ||

26.1२६.१

भवितैः कारणैश्चायं बहुसंसारयोनिषु । (२६।१)

bhavitaiḥ kāraṇaiścāyaṃ bahusaṃsārayoniṣu |

26.2२६.२

आसादयति शुद्धात्मा मोक्षं वै प्रथमाश्रमे ॥ (२६।२)

āsādayati śuddhātmā mokṣaṃ vai prathamāśrame ||

27.1२७.१

तम् आसाद्य तु मुक्तस्य दृष्टार्थस्य विपश्चितः । (२७।१)

tam āsādya tu muktasya dṛṣṭārthasya vipaścitaḥ |

27.2२७.२

त्रिष्वाश्रमेषु को न्वर्थो भवेत् परम् अभीप्सतः ॥ (२७।२)

triṣvāśrameṣu ko nvartho bhavet param abhīpsataḥ ||

28.1२८.१

राजसांस्तामसांश्चैव नित्यं दोषान् विवर्जयेत् । (२८।१)

rājasāṃstāmasāṃścaiva nityaṃ doṣān vivarjayet |

28.2२८.२

सात्त्विकं मार्गम् आस्थाय पश्येद् आत्मानम् आत्मना ॥ (२८।२)

sāttvikaṃ mārgam āsthāya paśyed ātmānam ātmanā ||

29.1२९.१

सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । (२९।१)

sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani |

29.2२९.२

संपश्यन्नोपलिप्येत जले वारिचरो यथा ॥ (२९।२)

saṃpaśyannopalipyeta jale vāricaro yathā ||

30.1३०.१

पक्षीव प्लवनाद् ऊर्ध्वम् अमुत्रानन्त्यम् अश्नुते । (३०।१)

pakṣīva plavanād ūrdhvam amutrānantyam aśnute |

30.2३०.२

विहाय देहं निर्मुक्तो निर्द्वंद्वः प्रशमं गतः ॥ (३०।२)

vihāya dehaṃ nirmukto nirdvaṃdvaḥ praśamaṃ gataḥ ||

31.1३१.१

अत्र गाथाः पुरा गीताः शृणु राज्ञा ययातिना । (३१।१)

atra gāthāḥ purā gītāḥ śṛṇu rājñā yayātinā |

31.2३१.२

धार्यन्ते या द्विजैस्तात मोक्षशास्त्रविशारदैः ॥ (३१।२)

dhāryante yā dvijaistāta mokṣaśāstraviśāradaiḥ ||

32.1३२.१

ज्योतिर् आत्मनि नान्यत्र रतं तत्रैव चैव तत् । (३२।१)

jyotir ātmani nānyatra rataṃ tatraiva caiva tat |

32.2३२.२

स्वयं च शक्यं तद् द्रष्टुं सुसमाहितचेतसा ॥ (३२।२)

svayaṃ ca śakyaṃ tad draṣṭuṃ susamāhitacetasā ||

33.1३३.१

न बिभेति परो यस्मान्न बिभेति पराच्च यः । (३३।१)

na bibheti paro yasmānna bibheti parācca yaḥ |

33.2३३.२

यश्च नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तदा ॥ (३३।२)

yaśca necchati na dveṣṭi brahma sampadyate tadā ||

34.1३४.१

यदा भावं न कुरुते सर्वभूतेषु पापकम् । (३४।१)

yadā bhāvaṃ na kurute sarvabhūteṣu pāpakam |

34.2३४.२

कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा ॥ (३४।२)

karmaṇā manasā vācā brahma sampadyate tadā ||

35.1३५.१

संयोज्य तपसात्मानम् ईर्ष्याम् उत्सृज्य मोहिनीम् । (३५।१)

saṃyojya tapasātmānam īrṣyām utsṛjya mohinīm |

35.2३५.२

त्यक्त्वा कामं च लोभं च ततो ब्रह्मत्वम् अश्नुते ॥ (३५।२)

tyaktvā kāmaṃ ca lobhaṃ ca tato brahmatvam aśnute ||

36.1३६.१

यदा श्रव्ये च दृश्ये च सर्वभूतेषु चाप्ययम् । (३६।१)

yadā śravye ca dṛśye ca sarvabhūteṣu cāpyayam |

36.2३६.२

समो भवति निर्द्वंद्वो ब्रह्म सम्पद्यते तदा ॥ (३६।२)

samo bhavati nirdvaṃdvo brahma sampadyate tadā ||

37.1३७.१

यदा स्तुतिं च निन्दां च समत्वेनैव पश्यति । (३७।१)

yadā stutiṃ ca nindāṃ ca samatvenaiva paśyati |

37.2३७.२

काञ्चनं चायसं चैव सुखदुःखे तथैव च ॥ (३७।२)

kāñcanaṃ cāyasaṃ caiva sukhaduḥkhe tathaiva ca ||

38.1३८.१

शीतम् उष्णं तथैवार्थम् अनर्थं प्रियम् अप्रियम् । (३८।१)

śītam uṣṇaṃ tathaivārtham anarthaṃ priyam apriyam |

38.2३८.२

जीवितं मरणं चैव ब्रह्म सम्पद्यते तदा ॥ (३८।२)

jīvitaṃ maraṇaṃ caiva brahma sampadyate tadā ||

39.1३९.१

प्रसार्येह यथाङ्गानि कूर्मः संहरते पुनः । (३९।१)

prasāryeha yathāṅgāni kūrmaḥ saṃharate punaḥ |

39.2३९.२

तथेन्द्रियाणि मनसा संयन्तव्यानि भिक्षुणा ॥ (३९।२)

tathendriyāṇi manasā saṃyantavyāni bhikṣuṇā ||

40.1४०.१

तमःपरिगतं वेश्म यथा दीपेन दृश्यते । (४०।१)

tamaḥparigataṃ veśma yathā dīpena dṛśyate |

40.2४०.२

तथा बुद्धिप्रदीपेन शक्य आत्मा निरीक्षितुम् ॥ (४०।२)

tathā buddhipradīpena śakya ātmā nirīkṣitum ||

41.1४१.१

एतत् सर्वं प्रपश्यामि त्वयि बुद्धिमतां वर । (४१।१)

etat sarvaṃ prapaśyāmi tvayi buddhimatāṃ vara |

41.2४१.२

यच्चान्यद् अपि वेत्तव्यं तत्त्वतो वेद तद् भवान् ॥ (४१।२)

yaccānyad api vettavyaṃ tattvato veda tad bhavān ||

42.1४२.१

ब्रह्मर्षे विदितश्चासि विषयान्तम् उपागतः । (४२।१)

brahmarṣe viditaścāsi viṣayāntam upāgataḥ |

42.2४२.२

गुरोस्तव प्रसादेन तव चैवोपशिक्षया ॥ (४२।२)

gurostava prasādena tava caivopaśikṣayā ||

43.1४३.१

तस्यैव च प्रसादेन प्रादुर्भूतं महामुने । (४३।१)

tasyaiva ca prasādena prādurbhūtaṃ mahāmune |

43.2४३.२

ज्ञानं दिव्यं ममापीदं तेनासि विदितो मम ॥ (४३।२)

jñānaṃ divyaṃ mamāpīdaṃ tenāsi vidito mama ||

44.1४४.१

अधिकं तव विज्ञानम् अधिका च गतिस्तव । (४४।१)

adhikaṃ tava vijñānam adhikā ca gatistava |

44.2४४.२

अधिकं च तवैश्वर्यं तच्च त्वं नावबुध्यसे ॥ (४४।२)

adhikaṃ ca tavaiśvaryaṃ tacca tvaṃ nāvabudhyase ||

45.1४५.१

बाल्याद् वा संशयाद् वापि भयाद् वाप्यविमोक्षजात् । (४५।१)

bālyād vā saṃśayād vāpi bhayād vāpyavimokṣajāt |

45.2४५.२

उत्पन्ने चापि विज्ञाने नाधिगच्छति तां गतिम् ॥ (४५।२)

utpanne cāpi vijñāne nādhigacchati tāṃ gatim ||

46.1४६.१

व्यवसायेन शुद्धेन मद्विधैश्छिन्नसंशयः । (४६।१)

vyavasāyena śuddhena madvidhaiśchinnasaṃśayaḥ |

46.2४६.२

विमुच्य हृदयग्रन्थीन् आसादयति तां गतिम् ॥ (४६।२)

vimucya hṛdayagranthīn āsādayati tāṃ gatim ||

47.1४७.१

भवांश्चोत्पन्नविज्ञानः स्थिरबुद्धिर् अलोलुपः । (४७।१)

bhavāṃścotpannavijñānaḥ sthirabuddhir alolupaḥ |

47.2४७.२

व्यवसायाद् ऋते ब्रह्मन्न् आसादयति तत्परम् ॥ (४७।२)

vyavasāyād ṛte brahmann āsādayati tatparam ||

48.1४८.१

नास्ति ते सुखदुःखेषु विशेषो नास्ति लोलुपा । (४८।१)

nāsti te sukhaduḥkheṣu viśeṣo nāsti lolupā |

48.2४८.२

नौत्सुक्यं नृत्तगीतेषु न राग उपजायते ॥ (४८।२)

nautsukyaṃ nṛttagīteṣu na rāga upajāyate ||

49.1४९.१

न बन्धुषु निबन्धस्ते न भयेष्वस्ति ते भयम् । (४९।१)

na bandhuṣu nibandhaste na bhayeṣvasti te bhayam |

49.2४९.२

पश्यामि त्वां महाभाग तुल्यलोष्टाश्मकाञ्चनम् ॥ (४९।२)

paśyāmi tvāṃ mahābhāga tulyaloṣṭāśmakāñcanam ||

50.1५०.१

अहं च त्वानुपश्यामि ये चाप्यन्ये मनीषिणः । (५०।१)

ahaṃ ca tvānupaśyāmi ye cāpyanye manīṣiṇaḥ |

50.2५०.२

आस्थितं परमं मार्गम् अक्षयं तम् अनामयम् ॥ (५०।२)

āsthitaṃ paramaṃ mārgam akṣayaṃ tam anāmayam ||

51.1५१.१

यत् फलं ब्राह्मणस्येह मोक्षार्थश्च यदात्मकः । (५१।१)

yat phalaṃ brāhmaṇasyeha mokṣārthaśca yadātmakaḥ |

51.2५१.२

तस्मिन् वै वर्तसे विप्र किम् अन्यत् परिपृच्छसि ॥ (५१।२)

tasmin vai vartase vipra kim anyat paripṛcchasi ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 12, 313

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit