महाभारतMahābhārata

MBh, 3, 214

512 of 1995 · 83 verses

Select a line for its word-by-word analysis.

1.1१.१

मार्कण्डेय उवाच । (१।१)

mārkaṇḍeya uvāca

1.2१.२

शिवा भार्या त्वङ्गिरसः शीलरूपगुणान्विता । (१।२)

śivā bhāryā tvaṅgirasaḥ śīlarūpaguṇānvitā |

1.3१.३

तस्याः सा प्रथमं रूपं कृत्वा देवी जनाधिप । (१।३)

tasyāḥ sā prathamaṃ rūpaṃ kṛtvā devī janādhipa |

1.4१.४

जगाम पावकाभ्याशं तं चोवाच वराङ्गना ॥ (१।४)

jagāma pāvakābhyāśaṃ taṃ covāca varāṅganā ||

2.1२.१

माम् अग्ने कामसंतप्तां त्वं कामयितुम् अर्हसि । (२।१)

mām agne kāmasaṃtaptāṃ tvaṃ kāmayitum arhasi |

2.2२.२

करिष्यसि न चेद् एवं मृतां माम् उपधारय ॥ (२।२)

kariṣyasi na ced evaṃ mṛtāṃ mām upadhāraya ||

3.1३.१

अहम् अङ्गिरसो भार्या शिवा नाम हुताशन । (३।१)

aham aṅgiraso bhāryā śivā nāma hutāśana |

3.2३.२

सखीभिः सहिता प्राप्ता मन्त्रयित्वा विनिश्चयम् ॥ (३।२)

sakhībhiḥ sahitā prāptā mantrayitvā viniścayam ||

4.1४.१

अग्निर् उवाच । (४।१)

agnir uvāca

4.2४.२

कथं मां त्वं विजानीषे कामार्तम् इतराः कथम् । (४।२)

kathaṃ māṃ tvaṃ vijānīṣe kāmārtam itarāḥ katham |

4.3४.३

यास् त्वया कीर्तिताः सर्वाः सप्तर्षीणां प्रियाः स्त्रियः ॥ (४।३)

yās tvayā kīrtitāḥ sarvāḥ saptarṣīṇāṃ priyāḥ striyaḥ ||

5.1५.१

शिवोवाच । (५।१)

śivovāca |

5.2५.२

अस्माकं त्वं प्रियो नित्यं बिभीमस् तु वयं तव । (५।२)

asmākaṃ tvaṃ priyo nityaṃ bibhīmas tu vayaṃ tava |

5.3५.३

त्वच्चित्तम् इङ्गितैर् ज्ञात्वा प्रेषितास्मि तवान्तिकम् ॥ (५।३)

tvaccittam iṅgitair jñātvā preṣitāsmi tavāntikam ||

6.1६.१

मैथुनायेह सम्प्राप्ता कामं प्राप्तं द्रुतं चर । (६।१)

maithunāyeha samprāptā kāmaṃ prāptaṃ drutaṃ cara |

6.2६.२

मातरो मां प्रतीक्षन्ते गमिष्यामि हुताशन ॥ (६।२)

mātaro māṃ pratīkṣante gamiṣyāmi hutāśana ||

7.1७.१

मार्कण्डेय उवाच । (७।१)

mārkaṇḍeya uvāca

7.2७.२

ततो ऽग्निर् उपयेमे तां शिवां प्रीतिमुदायुतः । (७।२)

tato 'gnir upayeme tāṃ śivāṃ prītimudāyutaḥ |

7.3७.३

प्रीत्या देवी च संयुक्ता शुक्रं जग्राह पाणिना ॥ (७।३)

prītyā devī ca saṃyuktā śukraṃ jagrāha pāṇinā ||

8.1८.१

अचिन्तयन् ममेदं ये रूपं द्रक्ष्यन्ति कानने । (८।१)

acintayan mamedaṃ ye rūpaṃ drakṣyanti kānane |

8.2८.२

ते ब्राह्मणीनाम् अनृतं दोषं वक्ष्यन्ति पावके ॥ (८।२)

te brāhmaṇīnām anṛtaṃ doṣaṃ vakṣyanti pāvake ||

9.1९.१

तस्माद् एतद् रक्ष्यमाणा गरुडी सम्भवाम्यहम् । (९।१)

tasmād etad rakṣyamāṇā garuḍī sambhavāmyaham |

9.2९.२

वनान् निर्गमनं चैव सुखं मम भविष्यति ॥ (९।२)

vanān nirgamanaṃ caiva sukhaṃ mama bhaviṣyati ||

10.1१०.१

सुपर्णी सा तदा भूत्वा निर्जगाम महावनात् । (१०।१)

suparṇī sā tadā bhūtvā nirjagāma mahāvanāt |

10.2१०.२

अपश्यत् पर्वतं श्वेतं शरस्तम्बैः सुसंवृतम् ॥ (१०।२)

apaśyat parvataṃ śvetaṃ śarastambaiḥ susaṃvṛtam ||

11.1११.१

दृष्टीविषैः सप्तशीर्षैर् गुप्तं भोगिभिर् अद्भुतैः । (११।१)

dṛṣṭīviṣaiḥ saptaśīrṣair guptaṃ bhogibhir adbhutaiḥ |

11.2११.२

रक्षोभिश् च पिशाचैश् च रौद्रैर् भूतगणैस् तथा । (११।२)

rakṣobhiś ca piśācaiś ca raudrair bhūtagaṇais tathā |

11.3११.३

राक्षसीभिश् च सम्पूर्णम् अनेकैश् च मृगद्विजैः ॥ (११।३)

rākṣasībhiś ca sampūrṇam anekaiś ca mṛgadvijaiḥ ||

12.1१२.१

सा तत्र सहसा गत्वा शैलपृष्ठं सुदुर्गमम् । (१२।१)

sā tatra sahasā gatvā śailapṛṣṭhaṃ sudurgamam |

12.2१२.२

प्राक्षिपत् काञ्चने कुण्डे शुक्रं सा त्वरिता सती ॥ (१२।२)

prākṣipat kāñcane kuṇḍe śukraṃ sā tvaritā satī ||

13.1१३.१

शिष्टानाम् अपि सा देवी सप्तर्षीणां महात्मनाम् । (१३।१)

śiṣṭānām api sā devī saptarṣīṇāṃ mahātmanām |

13.2१३.२

पत्नीसरूपतां कृत्वा कामयामास पावकम् ॥ (१३।२)

patnīsarūpatāṃ kṛtvā kāmayāmāsa pāvakam ||

14.1१४.१

दिव्यरूपम् अरुन्धत्याः कर्तुं न शकितं तया । (१४।१)

divyarūpam arundhatyāḥ kartuṃ na śakitaṃ tayā |

14.2१४.२

तस्यास् तपःप्रभावेण भर्तृशुश्रूषणेन च ॥ (१४।२)

tasyās tapaḥprabhāveṇa bhartṛśuśrūṣaṇena ca ||

15.1१५.१

षट्कृत्वस् तत् तु निक्षिप्तम् अग्ने रेतः कुरूत्तम । (१५।१)

ṣaṭkṛtvas tat tu nikṣiptam agne retaḥ kurūttama |

15.2१५.२

तस्मिन् कुण्डे प्रतिपदि कामिन्या स्वाहया तदा ॥ (१५।२)

tasmin kuṇḍe pratipadi kāminyā svāhayā tadā ||

16.1१६.१

तत् स्कन्नं तेजसा तत्र संभृतं जनयत् सुतम् । (१६।१)

tat skannaṃ tejasā tatra saṃbhṛtaṃ janayat sutam |

16.2१६.२

ऋषिभिः पूजितं स्कन्नम् अनयत् स्कन्दतां ततः ॥ (१६।२)

ṛṣibhiḥ pūjitaṃ skannam anayat skandatāṃ tataḥ ||

17.1१७.१

षट्शिरा द्विगुणश्रोत्रो द्वादशाक्षिभुजक्रमः । (१७।१)

ṣaṭśirā dviguṇaśrotro dvādaśākṣibhujakramaḥ |

17.2१७.२

एकग्रीवस् त्वेककायः कुमारः समपद्यत ॥ (१७।२)

ekagrīvas tvekakāyaḥ kumāraḥ samapadyata ||

18.1१८.१

द्वितीयायाम् अभिव्यक्तस् तृतीयायां शिशुर् बभौ । (१८।१)

dvitīyāyām abhivyaktas tṛtīyāyāṃ śiśur babhau |

18.2१८.२

अङ्गप्रत्यङ्गसम्भूतश् चतुर्थ्याम् अभवद् गुहः ॥ (१८।२)

aṅgapratyaṅgasambhūtaś caturthyām abhavad guhaḥ ||

19.1१९.१

लोहिताभ्रेण महता संवृतः सह विद्युता । (१९।१)

lohitābhreṇa mahatā saṃvṛtaḥ saha vidyutā |

19.2१९.२

लोहिताभ्रे सुमहति भाति सूर्य इवोदितः ॥ (१९।२)

lohitābhre sumahati bhāti sūrya ivoditaḥ ||

20.1२०.१

गृहीतं तु धनुस् तेन विपुलं लोमहर्षणम् । (२०।१)

gṛhītaṃ tu dhanus tena vipulaṃ lomaharṣaṇam |

20.2२०.२

न्यस्तं यत् त्रिपुरघ्नेन सुरारिविनिकृन्तनम् ॥ (२०।२)

nyastaṃ yat tripuraghnena surārivinikṛntanam ||

21.1२१.१

तद् गृहीत्वा धनुःश्रेष्ठं ननाद बलवांस् तदा । (२१।१)

tad gṛhītvā dhanuḥśreṣṭhaṃ nanāda balavāṃs tadā |

21.2२१.२

संमोहयन्न् इवेमान् स त्रींल्लोकान् सचराचरान् ॥ (२१।२)

saṃmohayann ivemān sa trīṃllokān sacarācarān ||

22.1२२.१

तस्य तं निनदं श्रुत्वा महामेघौघनिस्वनम् । (२२।१)

tasya taṃ ninadaṃ śrutvā mahāmeghaughanisvanam |

22.2२२.२

उत्पेततुर् महानागौ चित्रश् चैरावतश् च ह ॥ (२२।२)

utpetatur mahānāgau citraś cairāvataś ca ha ||

23.1२३.१

तावापतन्तौ सम्प्रेक्ष्य स बालार्कसमद्युतिः । (२३।१)

tāvāpatantau samprekṣya sa bālārkasamadyutiḥ |

23.2२३.२

द्वाभ्यां गृहीत्वा पाणिभ्यां शक्तिं चान्येन पाणिना । (२३।२)

dvābhyāṃ gṛhītvā pāṇibhyāṃ śaktiṃ cānyena pāṇinā |

23.3२३.३

अपरेणाग्निदायादस् ताम्रचूडं भुजेन सः ॥ (२३।३)

apareṇāgnidāyādas tāmracūḍaṃ bhujena saḥ ||

24.1२४.१

महाकायम् उपश्लिष्टं कुक्कुटं बलिनां वरम् । (२४।१)

mahākāyam upaśliṣṭaṃ kukkuṭaṃ balināṃ varam |

24.2२४.२

गृहीत्वा व्यनदद् भीमं चिक्रीड च महाबलः ॥ (२४।२)

gṛhītvā vyanadad bhīmaṃ cikrīḍa ca mahābalaḥ ||

25.1२५.१

द्वाभ्यां भुजाभ्यां बलवान् गृहीत्वा शङ्खम् उत्तमम् । (२५।१)

dvābhyāṃ bhujābhyāṃ balavān gṛhītvā śaṅkham uttamam |

25.2२५.२

प्राध्मापयत भूतानां त्रासनं बलिनाम् अपि ॥ (२५।२)

prādhmāpayata bhūtānāṃ trāsanaṃ balinām api ||

26.1२६.१

द्वाभ्यां भुजाभ्याम् आकाशं बहुशो निजघान सः । (२६।१)

dvābhyāṃ bhujābhyām ākāśaṃ bahuśo nijaghāna saḥ |

26.2२६.२

क्रीडन् भाति महासेनस् त्रींल्लोकान् वदनैः पिबन् । (२६।२)

krīḍan bhāti mahāsenas trīṃllokān vadanaiḥ piban |

26.3२६.३

पर्वताग्रे ऽप्रमेयात्मा रश्मिमान् उदये यथा ॥ (२६।३)

parvatāgre 'prameyātmā raśmimān udaye yathā ||

27.1२७.१

स तस्य पर्वतस्याग्रे निषण्णो ऽद्भुतविक्रमः । (२७।१)

sa tasya parvatasyāgre niṣaṇṇo 'dbhutavikramaḥ |

27.2२७.२

व्यलोकयद् अमेयात्मा मुखैर् नानाविधैर् दिशः । (२७।२)

vyalokayad ameyātmā mukhair nānāvidhair diśaḥ |

27.3२७.३

स पश्यन् विविधान् भावांश् चकार निनदं पुनः ॥ (२७।३)

sa paśyan vividhān bhāvāṃś cakāra ninadaṃ punaḥ ||

28.1२८.१

तस्य तं निनदं श्रुत्वा न्यपतन् बहुधा जनाः । (२८।१)

tasya taṃ ninadaṃ śrutvā nyapatan bahudhā janāḥ |

28.2२८.२

भीताश् चोद्विग्नमनसस् तम् एव शरणं ययुः ॥ (२८।२)

bhītāś codvignamanasas tam eva śaraṇaṃ yayuḥ ||

29.1२९.१

ये तु तं संश्रिता देवं नानावर्णास् तदा जनाः । (२९।१)

ye tu taṃ saṃśritā devaṃ nānāvarṇās tadā janāḥ |

29.2२९.२

तान् अप्याहुः पारिषदान् ब्राह्मणाः सुमहाबलान् ॥ (२९।२)

tān apyāhuḥ pāriṣadān brāhmaṇāḥ sumahābalān ||

30.1३०.१

स तूत्थाय महाबाहुर् उपसान्त्व्य च ताञ्जनान् । (३०।१)

sa tūtthāya mahābāhur upasāntvya ca tāñjanān |

30.2३०.२

धनुर् विकृष्य व्यसृजद् बाणाञ्श्वेते महागिरौ ॥ (३०।२)

dhanur vikṛṣya vyasṛjad bāṇāñśvete mahāgirau ||

31.1३१.१

बिभेद स शरैः शैलं क्रौञ्चं हिमवतः सुतम् । (३१।१)

bibheda sa śaraiḥ śailaṃ krauñcaṃ himavataḥ sutam |

31.2३१.२

तेन हंसाश् च गृध्राश् च मेरुं गच्छन्ति पर्वतम् ॥ (३१।२)

tena haṃsāś ca gṛdhrāś ca meruṃ gacchanti parvatam ||

32.1३२.१

स विशीर्णो ऽपतच्छैलो भृशम् आर्तस्वरान् रुवन् । (३२।१)

sa viśīrṇo 'patacchailo bhṛśam ārtasvarān ruvan |

32.2३२.२

तस्मिन् निपतिते त्वन्ये नेदुः शैला भृशं भयात् ॥ (३२।२)

tasmin nipatite tvanye neduḥ śailā bhṛśaṃ bhayāt ||

33.1३३.१

स तं नादं भृशार्तानां श्रुत्वापि बलिनां वरः । (३३।१)

sa taṃ nādaṃ bhṛśārtānāṃ śrutvāpi balināṃ varaḥ |

33.2३३.२

न प्राव्यथद् अमेयात्मा शक्तिम् उद्यम्य चानदत् ॥ (३३।२)

na prāvyathad ameyātmā śaktim udyamya cānadat ||

34.1३४.१

सा तदा विपुला शक्तिः क्षिप्ता तेन महात्मना । (३४।१)

sā tadā vipulā śaktiḥ kṣiptā tena mahātmanā |

34.2३४.२

बिभेद शिखरं घोरं श्वेतस्य तरसा गिरेः ॥ (३४।२)

bibheda śikharaṃ ghoraṃ śvetasya tarasā gireḥ ||

35.1३५.१

स तेनाभिहतो दीनो गिरिः श्वेतो ऽचलैः सह । (३५।१)

sa tenābhihato dīno giriḥ śveto 'calaiḥ saha |

35.2३५.२

उत्पपात महीं त्यक्त्वा भीतस् तस्मान् महात्मनः ॥ (३५।२)

utpapāta mahīṃ tyaktvā bhītas tasmān mahātmanaḥ ||

36.1३६.१

ततः प्रव्यथिता भूमिर् व्यशीर्यत समन्ततः । (३६।१)

tataḥ pravyathitā bhūmir vyaśīryata samantataḥ |

36.2३६.२

आर्ता स्कन्दं समासाद्य पुनर् बलवती बभौ ॥ (३६।२)

ārtā skandaṃ samāsādya punar balavatī babhau ||

37.1३७.१

पर्वताश् च नमस्कृत्य तम् एव पृथिवीं गताः । (३७।१)

parvatāś ca namaskṛtya tam eva pṛthivīṃ gatāḥ |

37.2३७.२

अथायम् अभजल्लोकः स्कन्दं शुक्लस्य पञ्चमीम् ॥ (३७।२)

athāyam abhajallokaḥ skandaṃ śuklasya pañcamīm ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 3, 214

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit