MBh, 1, 12
Select a line for its word-by-word analysis.
कथं हिंसितवान् सर्पान् क्षत्रियो जनमेजयः । (१।२)
kathaṃ hiṃsitavān sarpān kṣatriyo janamejayaḥ |
सर्पा वा हिंसितास्तात किमर्थं द्विजसत्तम ॥ (१।३)
sarpā vā hiṃsitāstāta kimarthaṃ dvijasattama ||
किमर्थं मोक्षिताश्चैव पन्नगास्तेन शंस मे । (२।१)
kimarthaṃ mokṣitāścaiva pannagāstena śaṃsa me |
आस्तीकेन तद् आचक्ष्व श्रोतुम् इच्छाम्यशेषतः ॥ (२।२)
āstīkena tad ācakṣva śrotum icchāmyaśeṣataḥ ||
इत्युक्त्वान्तर्हिते योगात् तस्मिन्न् ऋषिवरे प्रभो । (३।२)
ityuktvāntarhite yogāt tasminn ṛṣivare prabho |
श्रोष्यसि त्वं रुरो सर्वम् आस्तीकचरितं महत् । (३।४)
śroṣyasi tvaṃ ruro sarvam āstīkacaritaṃ mahat |
ब्राह्मणानां कथयताम् इत्युक्त्वान्तरधीयत ॥ (३।५)
brāhmaṇānāṃ kathayatām ityuktvāntaradhīyata ||
तम् ऋषिं द्रष्टुम् अन्विच्छन् संश्रान्तो न्यपतद् भुवि । (४।३)
tam ṛṣiṃ draṣṭum anvicchan saṃśrānto nyapatad bhuvi |
तद् ऋषेर् वचनं तथ्यं चिन्तयानः पुनः पुनः ॥ (४।५)
tad ṛṣer vacanaṃ tathyaṃ cintayānaḥ punaḥ punaḥ ||
लब्धसंज्ञो रुरुश्चायात् तच्चाचख्यौ पितुस्तदा । (५।१)
labdhasaṃjño ruruścāyāt taccācakhyau pitustadā |
न्यवेदयत तत् सर्वं यथावृत्तं पितुर् द्विजः । (५।२)
nyavedayata tat sarvaṃ yathāvṛttaṃ pitur dvijaḥ |
पित्रे तु सर्वम् आख्याय डुण्डुभस्य वचो ऽर्थवत् । (५।३)
pitre tu sarvam ākhyāya ḍuṇḍubhasya vaco 'rthavat |
अपृच्छत् पितरं भूयः सो ऽस्तिकस्य वचस्तदा । (५।४)
apṛcchat pitaraṃ bhūyaḥ so 'stikasya vacastadā |
यत् तद् आख्यानम् अखिलं डुण्डुभेनाथ कीर्तितम् । (५।५)
yat tad ākhyānam akhilaṃ ḍuṇḍubhenātha kīrtitam |
तत् कीर्त्यमानं भगवञ्छ्रोतुम् इच्छामि तत्त्वतः । (५।६)
tat kīrtyamānaṃ bhagavañchrotum icchāmi tattvataḥ |
पिता चास्य तद् आख्यानं पृष्टः सर्वं न्यवेदयत् । (५।७)
pitā cāsya tad ākhyānaṃ pṛṣṭaḥ sarvaṃ nyavedayat |
सर्पसत्रेण सर्पाणां गतो ऽन्तं तद् वदस्व मे । (५।९)
sarpasatreṇa sarpāṇāṃ gato 'ntaṃ tad vadasva me |
अक्षरं यत् परिभ्रष्टं मात्राहीनं तु यद् भवेत् । (५।१३)
akṣaraṃ yat paribhraṣṭaṃ mātrāhīnaṃ tu yad bhavet |
क्षन्तुम् अर्हन्ति विद्वांसः कस्य न स्याद् व्यतिक्रमः । (५।१४)
kṣantum arhanti vidvāṃsaḥ kasya na syād vyatikramaḥ |
व्यतिक्रमं मे भगवन् क्षन्तुम् अर्हसि शंकर । (५।१७)
vyatikramaṃ me bhagavan kṣantum arhasi śaṃkara |
Data courtesy of The Digital Corpus of Sanskrit.